"ऋग्वेदः सूक्तं १.१२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
 
{{सायणभाष्यम्|
अष्टादशेऽनुवाके षट् सूक्तानि । तत्र ‘कदित्था ' इति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते -- ‘कदित्था पञ्चोना वैश्वदेवं वा' इति । अनुवर्तमानः कक्षीवानृषिः । अनादेशपरिभाषया त्रिष्टुप् । विश्वे देवा इन्द्रो वा देवता । विनियोगो लैङ्गिकः ॥
 
 
कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।
Line ५६ ⟶ ५८:
 
प्र । यत् । आनट् । विशः । आ । हर्म्यस्य । उरु । क्रंसते । अध्वरे । यजत्रः ॥१
 
“नॄँः “पात्रं नॄन् पाता नृणां स्तुतेः नेतॄणां पुरुषाणां रक्षणशीलः इन्द्रः “तुरण्यन् गोरूपधनं प्रेरयन् “देवयतां देवं द्योतमानं दानादिगुणयुक्तं वा इन्द्रम् आत्मन इच्छताम् “अङ्गिरसाम् ऋषीणाम् अस्माकम् “इत्था इत्थं प्रयुज्यमानाः “गिरः स्तुतीः “कत् कदा कस्मिन् काले “श्रवत् शृणुयात् । “यत् यदा स इन्द्रः “हर्म्यस्य हर्म्योपलक्षितेन गृहेण युक्तस्य यजमानस्य संबन्धिनः “विशः ऋत्विग्लक्षणान् मनुष्यान् “आ आभिमुख्येन “प्र “आनट् प्राप्नोति तदानीम् “अध्वरे अस्मदीये यज्ञे “यजत्रः यष्टव्यः सन् “उरु बहुलं "क्रंसते क्रमते स्वयमेव उत्सहते इत्यर्थः ॥ कत् । कदा । अन्त्यलोपश्छान्दसः । नॄँः पात्रम् ।' नॄन्पे ' ( पा. सू. ८. ३. १० ) इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति ऋकारः सानुनासिकः । पात्रम् । ‘पा रक्षणे'। ताच्छीलिकः तृन् । व्यत्ययेन सोः अमादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावे यण् । देवयताम् । सुप आत्मनः क्यच् । ततो लटः शतृ । ‘ शतुरनुमः० ' इति विभक्तेरुदात्तत्वम् । श्रवत् । श्रु श्रवणे '। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तुरण्यन् । ‘तुरण त्वरायाम् । कण्ड्वादिः । आनट् । अश्नोतेर्लङि व्यत्ययेन परस्मैपदम् । श्नौ प्राप्ते व्यत्ययेन श्नम्विकरणः । व्रश्चादिषत्वे जश्त्वम् । आडागमः । हर्म्यस्य । हर्म्यशब्दात् अर्शआदित्वात् अच् । क्रंसते । ‘ क्रमु पादविक्षेपे'। ' वृत्तिसर्गतायनेषु क्रमः' (पा. सू. १. ३. ३८) इत्यात्मनेपदम् । लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । यजत्रः । ‘ अमिनक्षि° ' इत्यादिना यजेः अत्रन्प्रत्ययः ॥
 
 
Line ६९ ⟶ ७३:
 
अनु । स्वऽजाम् । महिषः । चक्षत । व्राम् । मेनाम् । अश्वस्य । परि । मातरम् । गोः ॥२
 
“सः इन्द्रः “द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु । तथा “गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः “ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् “द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं “धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं “वाजाय अन्नार्थं बलार्थं वा “प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः । अपि च “महिषः । महन्नामैतत् । महान् सूर्यरूपी इन्द्रः “स्वजां स्वसकाशादुत्पन्नां “व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति वा उषाः । ताम् “अनु “चक्षत । चष्टिः पश्यतिकर्मा । अनु पश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति' इत्यर्थः । अपि च इदमपरमाश्चर्यं यदयम् “अश्वस्य “मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां “गोः “मातरं जननीम् ।। परिर्वैपरीत्ये। विपरीतमकरोत् । कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते ॥ धरुणम् । ‘ धारेर्णिलुक्च इति उनप्रत्ययः । प्रुषायत् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेटि अडागमः । ‘ छन्दसि शायजपि ' इति अहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । ‘ नॄ नये । बहुलवचनात् ‘ ऋदोरप्' इति कर्तरि अप् । चक्षत । ‘चक्षिङ् व्यक्तायां वाचि'। छान्दसो लङ् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः ॥“सः इन्द्रः “द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु । तथा “गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः “ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् “द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं “धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं “वाजाय अन्नार्थं बलार्थं वा “प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः । अपि च “महिषः । महन्नामैतत् । महान् सूर्यरूपी इन्द्रः “स्वजां स्वसकाशादुत्पन्नां “व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति वा उषाः । ताम् “अनु “चक्षत । चष्टिः पश्यतिकर्मा । अनु पश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति' इत्यर्थः । अपि च इदमपरमाश्चर्यं यदयम् “अश्वस्य “मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां “गोः “मातरं जननीम् ।। परिर्वैपरीत्ये। विपरीतमकरोत् । कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते ॥ धरुणम् । ‘ धारेर्णिलुक्च इति उनप्रत्ययः । प्रुषायत् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेटि अडागमः । ‘ छन्दसि शायजपि ' इति अहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । ‘ नॄ नये । बहुलवचनात् ‘ ऋदोरप्' इति कर्तरि अप् । चक्षत । ‘चक्षिङ् व्यक्तायां वाचि'। छान्दसो लङ् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः ॥
 
 
Line ८२ ⟶ ८८:
 
तक्षत् । वज्रम् । निऽयुतम् । तस्तम्भत् । द्याम् । चतुःऽपदे । नर्याय । द्विऽपादे ॥३
 
“अरुणीः अरुणवर्णाः आरोचमानाः वा उषसः "राट् राजयन् प्रकाशयन् सूर्यात्मा इन्द्रः “पूर्व्यं पूर्वैर्ऋषिभिः प्रयुक्तं “हवम् इदानीमस्माभिः क्रियमाणमाह्वानं “नक्षत् नक्षतु शृणोतु । कीदृशः । “अनु “द्यून अनुदिवसं “विशां मनुष्याणाम् “अङ्गिरसाम् ऋषीणां स्तोतॄणां “तुरः धनस्य प्रेरयिता । अपि च स इन्द्रः “वज्रं स्वकीयमायुधं “नियुतं हन्तव्येन सह नितरां युक्तं “तक्षत् अकरोत् । तथा “द्यां द्युलोकं “तस्तम्भत् अस्तम्भयत् । यथा अधो न पतति तथा अकरोदित्यर्थः । किमर्थम् । “नर्याय नृभ्यो हिताय “चतुष्पदे गवाश्वादये “द्विपादे मनुष्याय च । एतदुभयार्थमित्यर्थः ॥ नक्षत् । नक्ष गतौ । लेटि अडागमः । पूर्व्यम् । पूर्वैः कृतमिनयौ च ' (पा. सू. ४. ४. १३३ ) इति यप्रत्ययः । राट् । ‘ राजृ दीप्तौ । अस्मादन्तर्भावितण्यर्थात् क्विप् । तुरः । ‘ तुर त्वरणे '। इगुपधलक्षणः कः । तक्षत् । ‘ तक्षू त्वक्षू तनूकरणे'। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । तस्तम्भत् । ष्टभि स्कभि गतिप्रतिबन्धे'। अस्मात् ण्यन्तात् लुङि चङि रूपम् । ‘चङयन्यतरस्याम्' इति उपोत्तमस्य उदात्तत्वम् । पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः । चतुष्पदे । चत्वारः पादाः अस्य ।' संख्यासुपूर्वस्य । vइति पादशब्दस्य अन्त्यलोपः समासान्तः । चतुर्थ्येकवचने भसंज्ञायां पादः पत्' इति पद्भावः । द्विपादे । पूर्ववत्प्रक्रिया । अयं तु विशेषः । अयस्मयादित्वेन पदत्वात् भसंज्ञाया अभावे पद्भावाभावः । ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' इत्युत्तरपदान्तोदात्तत्वम् ॥
 
 
Line ९५ ⟶ १०३:
 
यत् । ह । प्रऽसर्गे । त्रिऽककुप् । निऽवर्तत् । अप । द्रुहः । मानुषस्य । दुरः । वरिति वः ॥४
 
हे इन्द्र “अस्य सोमस्य पानेन “मदे हर्षे सति “ऋताय यज्ञार्थं “स्वर्यं स्तुत्यम् “अपीवृतं पणिभिर्गुहासु निगूढम् "उस्रियाणां गवाम् “अनीकं संघं “दाः अङ्गिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । “यद्ध यदा खलु “प्रसर्गे युद्धे “त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः “निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः “द्रुहः द्रोग्धुः “मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि “दुरः द्वाराणि गवामनिर्गमनाय पिहितानि "अप “वः अपवृणोति उद्घाटयति ॥ स्वर्यम् । ‘ स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः । अपीवृतम् । अपिपूर्वात् वृणोतेः कर्मणि निष्ठा । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः । निवर्तत् । ‘वृतु वर्तने '। लेटि अडागमः । व्यत्ययेन परस्मैपदम् । वः । वृञ् वरणे । छान्दसे लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् । गुणे हल्ड्यादिलोपः ॥ ।हे इन्द्र “अस्य सोमस्य पानेन “मदे हर्षे सति “ऋताय यज्ञार्थं “स्वर्यं स्तुत्यम् “अपीवृतं पणिभिर्गुहासु निगूढम् "उस्रियाणां गवाम् “अनीकं संघं “दाः अङ्गिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । “यद्ध यदा खलु “प्रसर्गे युद्धे “त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः “निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः “द्रुहः द्रोग्धुः “मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि “दुरः द्वाराणि गवामनिर्गमनाय पिहितानि "अप “वः अपवृणोति उद्घाटयति ॥ स्वर्यम् । ‘ स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः । अपीवृतम् । अपिपूर्वात् वृणोतेः कर्मणि निष्ठा । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः । निवर्तत् । ‘वृतु वर्तने '। लेटि अडागमः । व्यत्ययेन परस्मैपदम् । वः । वृञ् वरणे । छान्दसे लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् । गुणे हल्ड्यादिलोपः ॥
 
 
Line १०८ ⟶ ११८:
 
शुचि । यत् । ते । रेक्णः । अयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥५
 
हे इन्द्र “तुरणे क्षिप्रकारिणे "तुभ्यं "भुरण्यू कृत्स्नं जगत्पोषयन्त्यौ “पितरौ उत्पादयन्त्यौ द्यावापृथिव्यौ “यत् यदा “पयः सांनाय्यलक्षणं हविः “अनीतां गोषु अनयतां न्यधिषातामित्यर्थः । कीदृशं पयः । “राधः राधकं समृद्धिकरं “सुरेतः शोभनरेतस्कं कृत्स्नजगदुत्पादनशक्तमित्यर्थः । हविषः सकाशात् हि जगदुत्पद्यते । ‘ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' ( मनु. ३.७६ ) इति । “यत् यदा च द्यावापृथिवीभ्यां गोष्वानीतं “शुचि
शुद्धं “सबर्दुघायाः क्षीरस्य दोग्ध्र्याः “उस्रियायाः गोः “पयः "रेक्णः । धननामैतत् । धनवदतिप्रियम् । यद्वा । अतिरिक्तं प्रवृद्धम् । एवंविधं हविः तुभ्यम् “आयजन्त आभिमुख्येन यजमानाः प्रायच्छन् । तदानीं द्रुहो मानुषस्य द्वाराण्यपवृणोतीति पूर्वया संबन्धः ॥ अनीताम् । ‘ णीञ् प्रापणे '। लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । सुरेतः । ‘ सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । तुरणे । “ तुरण त्वरायाम् ' । कण्ड्वादिः । ‘ क्विप् च' इति क्विप् । अतोलोपयलोपौ । भुरण्यू ।' भुरण धारणपोषणयोः । अयमपि कण्ड्वादिः । औणादिक उप्रत्ययः ॥ ॥ २४ ॥
 
 
Line १२१ ⟶ १३४:
 
इन्दुः । येभिः । आष्ट । स्वऽइदुहव्यैः । स्रुवेण । सिञ्चन् । जरणा । अभि । धाम ॥६
 
“अध इदानीमयमिन्द्रः स्तुतिभिः प्रीयमाणः सन् “प्र “जज्ञे प्रकर्षेण प्रादुर्बभूव। सः “तरणिः शत्रूणां तारकोऽस्मान् “ममत्तु मादयतु । स च “प्र “रोचि प्रकृष्टं रोचते । तत्र दृष्टान्तः । “अस्याः अस्माभिर्दृश्यमानायाः “उषसः समीपे वर्तमानः “सूरः “न सूर्य इव । “जरणा जरणीयः स्तोतव्यः “इन्दुः सोमः “धाम आहवनीयलक्षणं स्थानम् अभिलक्ष्य “स्रुवेण “सिञ्चन् सिच्यमानः सन् 'स्वेदुहव्यैः स्वभूतसमृद्धहविष्कैः "येभिः यैरस्माभिः “आष्ट आशितः आसीत् । तानस्मान्मादयत्वित्यर्थः ॥ जज्ञे। ‘ जनी प्रादुर्भावे'। लिटि ‘ गमहन' इति उपधालोपः । ममत्तु । ‘मदी हर्षे '। ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः । रोचि । “ रुच दीप्तौ । छान्दसो वर्तमाने लुङ् । व्यत्ययेन च्ले: चिणादेशः । आष्ट । ‘अश भोजने '। कर्मणि लङि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । व्रश्चादिषत्वे ष्टुत्वम् । आडागमः । ‘ यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । स्वेदुहव्यैः। ‘इदि परमैश्वर्ये । औणादिक उप्रत्ययः । ‘अनित्यमागमशासनम्' इति नुमभावः । इदूनि प्रभूतानि च तानि हव्यानि स्वभूतानि च हव्यानि" येषाम् । यद्वा । ‘ ञिइन्धी दीप्तौ ' । स्वायत्तानि इन्दूनि इद्धानि हव्यानि येषाम् । अथवा । स्वभूतमिदं पुरोवर्ति हव्यं हविः येषां ते तथोक्ता: । पृषोदरादित्वात् अभिमतरूपसिद्धिः । सिञ्चन् । षिचिर् क्षरणे' । व्यत्ययेन कर्मणि कर्तृप्रत्ययः। ‘ शे मुचादीनाम् इति नुम् । जरणा । जरतिः स्तुतिकर्मा । अस्मात् कर्मणि ल्युट् । ‘सुपां सुलुक्' इति विभक्तेराकारः। व्यत्ययेन लित्स्वराभावः ।।
 
 
Line १३४ ⟶ १४९:
 
यत् । ह । प्रऽभासि । कृत्व्यान् । अनु । द्यून् । अनर्विशे । पशुऽइषे । तुराय ॥७
 
यदि “स्विध्मा सुदीप्तास्या “वनधितिः वने छेत्तव्ये वृक्षसमूहे निधातव्या शस्त्री “अपस्यात् अपः विशसनात्मकं स्वकीयं कर्म कर्तुमिच्छेत् तदानीं “सूरः प्रेरकः अध्वर्युः “अध्वरे यज्ञे “गोः पशोः “रोधना रोधनाय यूपे नियोजनाय "परि भवति समर्थो भवति । यद्वा । स्विध्मा सूर्यकिरणैः सुदीप्ता वनधितिः । वनमुदकमस्यां धीयते इति वनधितिर्मेघमाला । सा यत् यदा अपस्यात् अपः प्रवर्षणलक्षणं कर्म करोति तदानीं सूरः प्रेरकः इन्द्रः अध्वरे यज्ञस्य निमित्तभूते अध्वर्तव्ये अहिंसितव्ये अन्तरिक्षे वर्तमानः सन् गोः वृष्ट्युदकस्य रोधना रोधनानि आवरणानि परि परितो निवारयतीति शेषः । उत्तरार्धः प्रत्यक्षकृतः । हे इन्द्र सूर्यात्मना वर्तमानस्त्वं कृत्व्यान् । कृत्वीति कर्मनाम । कर्मसु साधून् “द्यून् दिवसाननुलक्ष्य “यद्ध यदा खलु “प्रभासि प्रकर्षेण दीप्यसे तदानीम् “अनर्विशे अनसा शकटेन इन्धनाद्याहरणाय अरण्यं प्रविशते । यद्वा । गन्तव्यं स्थलं प्रति गन्तुमशक्ताय पुरुषाय “पश्विषे पशून् प्रेरयते “तुराय त्वरमाणाय गोपालाय च सिध्येत् अभिमतमिति वाक्यशेषः ॥ स्विध्मा । शोभनमिध्मं दीप्तमास्यं दीप्तिर्वा यस्याः सा तथोक्ता। ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अपस्यात् । अपःशब्दात् ‘सुप आत्मनः क्यच्'। लेटि अडागमः। रोधना। रुधिर् आवरणे । ल्युट् च ' इति भावे ल्युट् । 'शेश्छन्दसि बहुलम् ' इति शेर्लोपः । अनर्विशे । अनसा विशति प्राप्नोतीति अनर्विट्। विशतेः क्विप् । अहरादीनां पत्यादिषूपसंख्यानम् ' ( पा. म. ८. २. ७०. १ ) इति सकारस्य रेफादेशः । यद्वा । अर्तेः कर्मणि विच् । अरं गन्तव्यं प्रति विशति प्राप्नोतीति अर्विट् । न अर्विट् अनर्विट् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत एव व्युत्पत्त्यनवधारणादनवग्रहः । पश्विषे । “ इष गतौ । अस्मादन्तर्भावितण्यर्थात् ‘ क्विप् च ' इति क्विप् ॥
 
 
 
Line १४७ ⟶ १६५:
 
हरिम् । यत् । ते । मन्दिनम् । धुक्षन् । वृधे । गोऽरभसम् । अद्रिऽभिः । वाताप्यम् ॥८
 
हे इन्द्र “महः महतः “दिवः मदकरस्य सोमस्य “अष्टा भोक्तारौ पातारौ “हरी स्वकीयौ अश्वौ “इह अस्मिन्कर्मणि “आदः पीतशेषं सोमं पायय । तथा “द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्यहे इन्द्र “महः महतः “दिवः मदकरस्य सोमस्य “अष्टा भोक्तारौ पातारौ “हरी स्वकीयौ अश्वौ “इह अस्मिन्कर्मणि “आदः पीतशेषं सोमं पायय । तथा “द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्य अभिभवितारम् "उत्सम् उत्स्रावयितारं शत्रुं "योधानः योधनशीलस्त्वम् “अभि भव। “यत् यदा “ते तव “वृधे वर्धनाय 'हरिं मनोहरं “मन्दिनं मदकरं “गोरभसम् । अत्र गोशब्दः पयसि वर्तते । पयो बलम् । तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः । “वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् “अद्रिभिः ग्रावभिः “धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति । तदानीम् अष्टा इति पूर्वत्र संबन्धः ॥ अष्टा ‘। ‘ अश भोजने' । तृच् । आगमानुशासनस्यानित्यत्वात् इडभावः । धुक्षन् । पदकालीनो भष्भावश्छान्दसः ॥अभिभवितारम् "उत्सम् उत्स्रावयितारं शत्रुं "योधानः योधनशीलस्त्वम् “अभि भव। “यत् यदा “ते तव “वृधे वर्धनाय 'हरिं मनोहरं “मन्दिनं मदकरं “गोरभसम् । अत्र गोशब्दः पयसि वर्तते । पयो बलम् । तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः । “वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् “अद्रिभिः ग्रावभिः “धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति । तदानीम् अष्टा इति पूर्वत्र संबन्धः ॥ अष्टा ‘। ‘ अश भोजने' । तृच् । आगमानुशासनस्यानित्यत्वात् इडभावः । धुक्षन् । पदकालीनो भष्भावश्छान्दसः ॥
 
 
Line १६० ⟶ १८०:
 
कुत्साय । यत्र । पुरुऽहूत । वन्वन् । शुष्णम् । अनन्तैः । परिऽयासि । वधैः ॥९
 
हे इन्द्र “त्वं “गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् “आयसम् अयोमयं वज्रं “प्रति “वर्तयः आभिमुख्येन व्यसृजः । कीदृशं वज्रम् । “दिवः द्युलोकात् “ऋभ्वा दीप्तेन त्वष्ट्रा “उपनीतम् आनीतम् “अश्मानं शीघ्रं शत्रोर्व्यापकम् । “यत्र यदा हे “पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र “कुत्साय एतत्संज्ञाय ऋषये “शुष्णं शोषकमसुरम् “अनन्तैः निरवधिकैः “वधैः हननसाधनैरायुधैः “वन्वन् हिंसन् “परियासि परितः गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः । अश्मानम् । अशू व्याप्तौ । अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ऋभ्वा ।' जसादिषु च्छन्दसि वावचनम्' इति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । 'वनु याचने' । अत्र हिंसार्थः । तथा च यास्कः -- ‘वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति' ( निरु. ५. २ ) इति । वधैः । ‘ हनश्च वधः' इति हन्तेः करणे अप् ; तत्संन्नियोगेन वधादेशश्च । स चान्तोऽन्तोदात्तः । तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् ।।हे इन्द्र “त्वं “गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् “आयसम् अयोमयं वज्रं “प्रति “वर्तयः आभिमुख्येन व्यसृजः । कीदृशं वज्रम् । “दिवः द्युलोकात् “ऋभ्वा दीप्तेन त्वष्ट्रा “उपनीतम् आनीतम् “अश्मानं शीघ्रं शत्रोर्व्यापकम् । “यत्र यदा हे “पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र “कुत्साय एतत्संज्ञाय ऋषये “शुष्णं शोषकमसुरम् “अनन्तैः निरवधिकैः “वधैः हननसाधनैरायुधैः “वन्वन् हिंसन् “परियासि परितः गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः । अश्मानम् । अशू व्याप्तौ । अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ऋभ्वा ।' जसादिषु च्छन्दसि वावचनम्' इति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । 'वनु याचने' । अत्र हिंसार्थः । तथा च यास्कः -- ‘वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति' ( निरु. ५. २ ) इति । वधैः । ‘ हनश्च वधः' इति हन्तेः करणे अप् ; तत्संन्नियोगेन वधादेशश्च । स चान्तोऽन्तोदात्तः । तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् ।।
 
 
Line १७३ ⟶ १९५:
 
शुष्णस्य । चित् । परिऽहितम् । यत् । ओजः । दिवः । परि । सुऽग्रथितम् । तत् । आ । अदरित्यदः ॥१०
 
“पुरा "यत् यदा “सूरः सूर्यः “तमसः तमोरूपस्य शुष्णस्य असुरस्य “अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे “अद्रिवः । आदृणाति अनेनेत्यद्रिर्वज्रः । तद्वन्निन्द्र “तं “फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वन्तं “हेतिं हन्तारं शुष्णमसुरम् “अस्य निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः । तथा “शुष्णस्य “चित् शोषयितुरसुरस्य च “यत् “ओजः आच्छादकं बलं “दिवस्परि द्योतमानस्य सूर्यस्योपरि “परिहितम् आच्छादितं "सुग्रथितं सुष्ठु सूर्ये सक्तं “तत् ओजस्तस्मात्सूर्यात् “आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः।। अद्रिवः । छन्दसीरः' इति मतुपो वत्वम् । “मतुवसो रुः° ' इति नकारस्य रुत्वम् । हेतिम् । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् हन्तेः कतीर क्तिन् ।' ऊतियूति' इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च । अस्य । ‘असु क्षेपणे '। लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेः' इति हेर्लुक् । दिवस्परि । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । अदः । ‘दॄ विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । गुणे हल्ङ्याब्भ्यः' इति सिलोपः ॥ ॥ २५ ॥“पुरा "यत् यदा “सूरः सूर्यः “तमसः तमोरूपस्य शुष्णस्य असुरस्य “अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे “अद्रिवः । आदृणाति अनेनेत्यद्रिर्वज्रः । तद्वन्निन्द्र “तं “फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वन्तं “हेतिं हन्तारं शुष्णमसुरम् “अस्य निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः । तथा “शुष्णस्य “चित् शोषयितुरसुरस्य च “यत् “ओजः आच्छादकं बलं “दिवस्परि द्योतमानस्य सूर्यस्योपरि “परिहितम् आच्छादितं "सुग्रथितं सुष्ठु सूर्ये सक्तं “तत् ओजस्तस्मात्सूर्यात् “आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः।। अद्रिवः । छन्दसीरः' इति मतुपो वत्वम् । “मतुवसो रुः° ' इति नकारस्य रुत्वम् । हेतिम् । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् हन्तेः कतीर क्तिन् ।' ऊतियूति' इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च । अस्य । ‘असु क्षेपणे '। लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेः' इति हेर्लुक् । दिवस्परि । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । अदः । ‘दॄ विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । गुणे हल्ङ्याब्भ्यः' इति सिलोपः ॥ ॥ २५ ॥
 
 
Line १८६ ⟶ २१०:
 
त्वम् । वृत्रम् । आऽशयानम् । सिरासु । महः । वज्रेण । सिस्वपः । वराहुम् ॥११
 
हे “इन्द्र “मही मह्यौ महत्यौ “पाजसी बलवत्यौ “अचक्रे अचङ्क्रमणे सर्वत्र व्याप्य वर्तमाने द्यावक्षामा द्यावापृथिब्यौ “कर्मन् वृत्रवधादिलक्षणे कर्मणि प्रवृत्तं त्वाम् “अनु “मदतां हृष्टमकुरुताम् अन्वमन्येतां वा । तथा च तैत्तिरीयकं -‘स आभ्यामेव प्रसूत इन्द्रो वृत्रमहन् ' (तै. सं. २. ५. २. ६) इति । तदनन्तरं “त्वम् “आशयानम् आ समन्ताद्व्याप्य वर्तमान “वराहुं वराहारं “वृत्रम् असुरं “सिरासु सरणशीलास्वप्सु “महः महता “वज्रेण “सिष्वपः अस्वापयः । वज्रेण हत्वा पातितवानित्यर्थः ॥ मही । सुपां सुलुक् ' इति विभक्तेः पूर्वसवर्णदीर्घः । पाजसी । पाजःशब्दो बलवाचको लक्षणया अत्र तद्वति वर्तते । ‘ इयाडियाजीकारणामुपसंख्यानम् ' इति विभक्तेः ईकारादेशः । द्यावाक्षामा । द्यौश्च क्षामा च । ‘ दिवो द्यावा ' इति द्यावादेशः । ‘ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुक्' इति विभक्तेर्लुक् । मदताम् । मदी हर्षे' । व्यत्ययेन शप् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । महः । महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छान्दसः । सिष्वपः । ‘ ञिष्वप् शये ' । अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ स्वापेश्चङि' (पा. सू. ६. १. १८) इति संप्रसारणं न क्रियते ॥लक्षणया अत्र तद्वति वर्तते । ‘ इयाडियाजीकारणामुपसंख्यानम् ' इति विभक्तेः ईकारादेशः । द्यावाक्षामा । द्यौश्च क्षामा च । ‘ दिवो द्यावा ' इति द्यावादेशः । ‘ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुक्' इति विभक्तेर्लुक् । मदताम् । मदी हर्षे' । व्यत्ययेन शप् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । महः । महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छान्दसः । सिष्वपः । ‘ ञिष्वप् शये ' । अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ स्वापेश्चङि' (पा. सू. ६. १. १८) इति संप्रसारणं न क्रियते ॥
 
 
Line १९९ ⟶ २२५:
 
यम् । ते । काव्यः । उशना । मन्दिनम् । दात् । वृत्रऽहनम् । पार्यम् । ततक्ष । वज्रम् ॥१२
 
हे “इन्द्र “नर्यः नृभ्यो हितः “त्वं “यान् “नॄन् नेतॄन् अश्वान् “अवः अवसि रक्षसि तान् “वातस्य तुल्यान् तद्वच्छीघ्रं गच्छतः "सुयुजः शोभनं रथेन युज्यमानान् “वहिष्ठान् अतिशयेन वोढ़ॄनश्वान् “तिष्ठ आतिष्ठ आरोहेत्यर्थः । “काव्यः कवेः पुत्रः “उशना “मन्दिनं मदकरं “यं वज्रं “ते तुभ्यं “दात् दत्तवान् तं “वज्रं “वृत्रहणं वृत्रस्यासुरस्य घातकं “पार्यं शत्रूणां पारणेऽतिक्रमणे समर्थं च “ततक्ष कृतवानसि ॥ अवः । अवतेर्लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । वहिष्ठान् । वोढ़ृशब्दात् ‘ तुश्छन्दसि ' इति इष्ठन् । ‘तुरिष्ठेमेयःसु' इति तृलोपः । पार्यम् । ‘पार तीर कर्मसमाप्तौ' । अस्मात् ण्यन्तात् “ अचो यत्' इति यत् । ततक्ष। ‘ तक्षू त्वक्षू तनूकरणे' । पुरुषव्यत्ययः ।।
 
 
Line २१२ ⟶ २४०:
 
प्रऽअस्य । पारम् । नवतिम् । नाव्यानाम् । अपि । कर्तम् । अवर्तयः । अयज्यून् ॥१३
 
हे “इन्द्र “सूरः सूर्यात्मना वर्तमानः “त्वं “हरितः हरिद्वर्णान् “नॄन् नेतॄन् अश्वान् यद्वा रसहरणशीलान् रश्मीन् “रमयः उपारमयः । “एतशो "न । एतश इति सूर्याश्वस्याख्या। तथा च श्रूयते -- ‘ एतशेन त्वा सूर्यो देवतां गमयतु ' (तै. सं. १. ६. ४. ६) इति । नशब्दश्चार्थे । एतशश्च रथस्य “चक्रं “भरत् प्रावहत् । अपि च त्वं “नाव्यानां नावा तार्याणां नदीनां “नवतिं नवतिसंख्याम् अतीत्य वर्तमानं “पारं तीरदेशम् । सप्तम्यर्थे द्वितीया । तीरदेशे “अयज्यून् अयजमाना यज्ञविहीनान् असुरादीन् “प्रास्य प्रक्षिप्य तत्र “कर्तम् “अवर्तयः कर्तव्यमपि कृत्वा तानयजमानानवर्तयः प्रापयः ।। रमयः । लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अन्येषामपि दृश्यते ' इति सांहितको दीर्घः । प्रास्य । ‘असु क्षेपणे '। अस्मात् ल्यपि रूपम् । नाव्यानाम् । नौवयोधर्म' इत्यादिना यत्। तित्स्वरितम्' इति स्वरितत्वम् ।।
 
 
Line २२५ ⟶ २५५:
 
प्र । नः । वाजान् । रथ्यः । अश्वऽबुध्यान् । इषे । यन्धि । श्रवसे । सूनृतायै ॥१४
 
हे “वज्रिवः वज्रवन् “इन्द्र “त्वं “दुर्हणायाः दुःखेन हन्तव्यायाः “अस्याः अवृत्तेर्दारिद्र्यात् “नः अस्मान् “पाहि रक्ष। तथा “दुरितात् पापात् “अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष । अपि च “नः अस्मभ्यं “रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छान्दसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनम् अश्वमूलं दासापवर्गम् । यथोक्तं -' दासप्रवर्गं रयिमश्वबुध्यम् ' ( ऋ. सं. १. ९२. ८ ) इति । एवंविधान् “वाजान् धनानि “प्र “यन्धि प्रयच्छ । किमर्थम् । “इषे अन्नार्थं “श्रवसे कीत्यर्थं "सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् तदर्थं च ।। दुर्हणायाः । ‘ ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । 'छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः० ' इति नकारस्य रुत्वम् । रथ्यः । ‘ छन्दसीवनिपौ' इति रथशब्दात् मत्वर्थीयः ईकारः । यन्धि । 'यम उपरमे '। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् ' अङितश्च ।। (पा. सू. ६. ४. १०३ ) इति हेर्धिः ॥हे “वज्रिवः वज्रवन् “इन्द्र “त्वं “दुर्हणायाः दुःखेन हन्तव्यायाः “अस्याः अवृत्तेर्दारिद्र्यात् “नः अस्मान् “पाहि रक्ष। तथा “दुरितात् पापात् “अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष । अपि च “नः अस्मभ्यं “रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छान्दसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनम् अश्वमूलं दासापवर्गम् । यथोक्तं -' दासप्रवर्गं रयिमश्वबुध्यम् ' ( ऋ. सं. १. ९२. ८ ) इति । एवंविधान् “वाजान् धनानि “प्र “यन्धि प्रयच्छ । किमर्थम् । “इषे अन्नार्थं “श्रवसे कीत्यर्थं "सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् तदर्थं च ।। दुर्हणायाः । ‘ ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । 'छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः० ' इति नकारस्य रुत्वम् । रथ्यः । ‘ छन्दसीवनिपौ' इति रथशब्दात् मत्वर्थीयः ईकारः । यन्धि । 'यम उपरमे '। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् ' अङितश्च ।। (पा. सू. ६. ४. १०३ ) इति हेर्धिः ॥
 
 
Line २३८ ⟶ २७०:
 
आ । नः । भज । मघऽवन् । गोषु । अर्यः । मंहिष्ठाः । ते । सधऽमादः । स्याम ॥१५
 
हे “वाजप्रमहः वा वाजैर्धनैः प्रमहनीयेन्द्र “ते त्वदीया “सा 'सुमतिः शोभनानुग्रहरूपा बुद्धिः “अस्मत् अस्मासु “मा “वि “दसत् मा विशुध्यतु । तथा “इषः अन्नानि अस्मान् “सम् “वरन्त संवृतान् कुर्वन्तु । हे मघवन धनवन्निन्द्र “अर्यः धनपतिः त्वं “नः अस्मान् “गोषु “आ “भज प्रापय "ते तव “मंहिष्ठाः अतिशयेन स्तुतिभिः प्रवर्धयितारो वयं “सधमादः “स्याम पुत्रपौत्रादिभिः सह माद्यन्तो भवेम ॥ अस्मत् । ‘सुपां सुलुक्° ' इति सप्तम्या लुक् । दसत् । दसु उपक्षये '। माङि लुङि पुषादित्वात् अङ्। वाजप्रमहः । वाजैर्धनैः प्रकृष्टं महस्तेजो यस्य स तथोक्तः । पादादित्वात् आष्टमिकनिघाताभावः । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । वरन्त । ‘ वृञ् वरणे'। व्यत्ययेन शप् । गोषु । ‘ सावेकाचः० ' इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्ण ' इति प्रतिषेधः । अर्यः । ‘ अर्यः स्वामिवैश्ययोः' इति निपात्यते । अर्यः स्वाम्याख्या चेत्' (फि. सू. १७ ) इत्यन्तोदात्तत्वम् । मंहिष्ठाः । “महि वृद्धौ '। इदित्त्वात् नुम् । अस्मादन्तर्भावितण्यर्थात् तृच् ।'तुश्छन्दसि' इति इष्ठन् । तुरिष्ठेमेयःसु ' इति तृलोपः। सधमादः । मद तृप्तियोगे'। चौरादिकः । सह मादयन्ते तृप्ता भवन्तीति सधमादः । ‘ क्विप् च ' इति क्विप् । जस् । सध मादस्थयोश्छन्दसि' इति सहस्य सधादेशः । ॥ २६ ॥
 
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टकेऽष्टमोऽध्यायः समाप्तः ।।
 
॥ इति प्रथमाष्टकः समाप्तः ॥
 
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२१" इत्यस्माद् प्रतिप्राप्तम्