"ऋग्वेदः सूक्तं १.११५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
{{सायणभाष्यम्|
‘ चित्रम्' इति षडृचं दशमं सूक्तं कुत्सस्यार्षं त्रैष्टुभं सूर्यदेवताकम् । तथा चानुक्रान्तं-- चित्रं षट् सौर्यम्' इति । आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्याणि सूक्तानि शंसनीयानि । तत्रेदं सूक्तं शंसनीयम् । सूत्रितं च - ‘ चित्रं देवानां नमो मित्रस्य ' ( आश्व. श्रौ. ६. ५) इति ॥ आदितस्तिस्र ऋचः सौर्यस्य पशोः वपापुरोडाशहविषां क्रमेणानुवाक्याः । ततो द्वे वपापुरोडाशयोः याज्ये । तथा च सूत्रितं - चित्रं देवानामुदगादनीकमिति पञ्च शं नो भव चक्षसा शं नो अह्ना ' ( आश्व. श्रौ. ३. ८) इति । अतिमूर्तिनाम्नि एकाहे शुनासीर्ये पर्वणि च सूर्यस्य हविषः ‘ चित्रं देवानाम् ' इत्येषा याज्या । सूत्रितं च - तरणिर्विश्वदर्शतः चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः' (आश्व. श्रौ. ९. ८) इति ।।
 
 
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
Line ३८ ⟶ ४०:
 
आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥१
 
“देवानाम् । दीव्यन्तीति देवा रश्मयः तेषाम् । देवजनानामेव वा । “अनीकं समूह रूपं “चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् “उदगात् उदयाचलं प्राप्तमासीत्। कीदृशम् । “मित्रस्य “वरुणस्य “अग्नेः च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां “चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा । उदयं प्राप्य च “द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च “अप्राः । स्वकीयेन तेजसा “आ समन्तात् अपूरयत् । ईदृग्भूतमण्डलान्तर्वर्ती “सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा “जगतः जङ्गमस्य “तस्थुषः स्थावरस्य “च आत्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम् । कारणाच्च कार्यं नातिरिच्यते । तथा च पारमर्षं सूत्र - ‘ तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४) इति । यद्वा । स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं सदुपलभ्यते । तथा च श्रूयते - योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ' ( तै. आ. १. १४. १ ) इति ।। आप्राः । ‘ प्रा पूरणे'। लडिः पुरुषव्यत्ययः । अदादित्वात् शपो लुक् । जगतः । ‘ गमेर्द्वे च ' ( पा. सू. ३. २. १७८.३) इति क्विप् द्विर्वचनम् । गमः क्वौ ' इति अनुनासिकलोपः । तस्थुषः । तिष्ठतेर्लिटः क्वसुः । द्विर्वचने० ‘ शर्पूर्वाः खयः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । अतो लोप इटि च । इति आकारलोपः । ‘ शासिवसि° ' इति षत्वम् ॥
 
 
Line ५१ ⟶ ५५:
 
यत्र । नरः । देवऽयन्तः । युगानि । विऽतन्वते । प्रति । भद्राय । भद्रम् ॥२
 
“सूर्यः "देवीं दानादिगुणयुक्तां “रोचमानां दीप्यमानाम् “उषसं “पश्चात् “अभ्येति उषसः प्रादुर्भावानन्तरं तामभिलक्ष्य गच्छति । तत्र दृष्टान्तः । “मर्यो “न “योषाम् । यथा कश्चिन्मनुष्यः शोभनावयवां गच्छन्तीं युवतिं स्त्रियं सततमनुगच्छति तद्वत् । “यत्र यस्यामुषसि जातायां “देवयन्तः देवं द्योतमानं सूर्यं यष्टुमिच्छन्तः “नरः यज्ञस्य नेतारो यजमानाः "युगानि । युगशब्दः कालवाची । तेन च तत्र कर्तव्यानि कर्माणि लक्ष्यन्ते यथा दर्शपूर्णमासौ इति । अग्निहोत्रादीनि कर्माणि “वितन्वते विस्तारयन्ति । यद्वा । देवयन्तो देवयागार्थं धनमात्मन इच्छन्तो यजमानपुरुषा युगानि हलावयवभूतानि कर्षणाय वितन्वते प्रसारयन्ति । तामुषसमनुगच्छतीत्यर्थः । एवंविधं “भद्रं कल्याणं सूर्यं “प्रति “भद्राय कल्याणरूपाय कर्मफलाय' स्तुमः इति शेषः । यद्वा । देवयन्तः देवकामा यजमाना युगानि युग्मानि भूत्वा पत्नीभिः सहिताः सन्तो भद्रं कल्याणम् अग्निहोत्रादिकं कर्म भद्राय तत्फलार्थं प्रति प्रत्येकं यस्यामुषसि प्रवृत्तायां वितन्वते विस्तारयन्ति ॥ मर्यः । ‘मृङ् प्राणत्यागे'। छन्दसि निष्टर्क्य इत्यादौ यत्प्रत्ययान्तो निपात्यते । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । युगानि । युजेः कर्मणि घञ् । युगशब्दः कालविशेषे रथाद्युपकरणे च ( का. ६. १. १६०) इति उञ्छादिषु पाठात् गुणाभावः अन्तोदात्तत्वं च । वितन्वते । ‘ तनु विस्तारे । ‘ तनादिकृञ्भ्य उः । सहेति योगविभागात तिङोपसर्गस्य समासे सति ‘ समासस्य ' इत्यन्तोदात्तत्वम् ॥
 
 
Line ६४ ⟶ ७०:
 
नमस्यन्तः । दिवः । आ । पृष्ठम् । अस्थुः । परि । द्यावापृथिवी इति । यन्ति । सद्यः ॥३
 
“भद्राः कल्याणाः । अश्वाः एतग्वाः इत्येतदुभयम् अश्वनाम। तत्रैकं क्रियापरं योजनीयम् । “अश्वाः तुरगा व्यापनशीला वा "हरितः हर्तारः “चित्राः विचित्रावयवाः “अनुमाद्यासः अनुक्रमेण सर्वे स्तुत्या मादनीया एवंभूताः “सूर्यस्य “एतग्वाः अश्वाः । यद्वा । एतं गन्तव्यं मार्गं गन्तारोऽश्वाः। एतं शबलवर्णं वा प्राप्नुवन्तोऽश्वाः । “नमस्यन्तः अस्माभिः नमस्यमानाः सन्तः “दिवः अन्तरिक्षस्य “पृष्ठम् उपरिप्रदेशं पूर्वभागलक्षणम् “आ “अस्थुः आतिष्ठन्ति प्राप्नुवन्ति। यद्वा । हरितो रसहरणशीला: रश्मयः भद्रादिलक्षणविशिष्टाः दिवः पृष्ठं नभःस्थलमातिष्ठन्ति । आस्थाय च “द्यावापृथिवी द्यावापृथिव्यौ “सद्यः तदानीमेव एकेनाह्ना “परि "यन्ति परितो गच्छन्ति व्याप्नुवन्तीत्यर्थः ॥ अश्वाः । ‘ अशू व्याप्तौ ' । ‘ अशिप्रुषि° ' इत्यादिना क्वन् । एतग्वाः । ‘ इण् गतौ । ‘ असिहसि । इत्यादिना कर्मणि तन्प्रत्ययः । गमेरौणादिको भावे ड्वप्रत्ययः । एतमेतव्यं प्रति ग्वो गमनं येषां ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अनुमाद्यासः । “मदि स्तुतौ । अस्मात् ण्यन्तात् ‘अचो यत्' । यतोऽनावः' इत्याद्युदात्तत्वम् । नमस्यन्तः । ‘ नमोवरिवः० ' इति पूजार्थे क्यच् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । अस्थुः । तिष्ठतेश्छन्दसो वर्तमाने लुङ् । गातिस्था° ' इति सिचो लुक् । ‘ आतः । इति झेः जुस् ॥
 
 
Line ७७ ⟶ ८५:
 
यदा । इत् । अयुक्त । हरितः । सधऽस्थात् । आत् । रात्री । वासः । तनुते । सिमस्मै ॥४
 
“सूर्यस्य सर्वप्रेरकस्य आदित्यस्य “तत् “देवत्वम् ईश्वरत्वम् । स्वातन्त्र्यमिति यावत्। “महित्वं महत्त्वं माहात्म्यं च “तत् एव । तच्छब्दश्रुतेः यच्छब्दाध्याहारः । यत् "कर्तोः । कर्मनामैतत् । प्रारब्धापरिसमाप्तस्य कृष्यादिलक्षणस्य कर्मणः “मध्या मध्ये अपरिसमाप्ते एव तस्मिन् कर्मणि “विततं विस्तीर्णं स्वकीयं रश्मिजालम् अस्तं गच्छन् सूर्यः “सं "जभार अस्माल्लोकात् स्वात्मन्युपसंहरति । कर्मकरश्च प्रवृत्तमपरिसमाप्तमेव विसृजति अस्तं यन्तं सूर्यं दृष्ट्वा । ईदृशं स्वातन्त्र्यं महिमा च सूर्यव्यतिरिक्तस्य कस्यास्ति । न कस्यापि । सूर्य एवेदृशं स्वातन्त्र्यं महिमानं चावगाहते। अपि च इत् इत्यवधारणे । “यदेत् यस्मिन्नेव काले “हरितः रसहरणशीलान् स्वरश्मीन् हरिद्वर्णानश्वान् वा “सधस्थात् सहस्थानात् अस्मात् पार्थिवाल्लोकादादाय “अयुक्त अन्यत्र संयुक्तान् करोति । यद्वा । युजिः केवलोऽपि विपूर्वः द्रष्टव्यः। यदैवासौ स्वरश्मीनश्वान् वा सधस्थात् सह तिष्ठन्त्यस्मिन्निति सधस्थो रथः । तस्मात् अयुक्त अमुञ्चत् । “आत् अनन्तरमेव “रात्री निशा “वासः आच्छादयितृतमः “सिमस्मै । सिमशब्दः सर्वशब्दपर्यायः। सप्तम्यर्थे चतुर्थी। सर्वस्मिन् लोके “तनुते विस्तारयति । यद्वा । वासो वासरम् अहः । तत् सर्वस्मात् अस्माल्लोकादपनीय रात्री तमस्तनुते । अत्र निरुक्तं - तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां क्रियमाणानां विततं संह्रियते यदासौ अयुक्त हरणानादित्यरश्मीन हरितोऽश्वानिति वाथ रात्री वासस्तनुते सिमस्मै वासरमहरवयुवती सर्वस्मात् ' (निरु. ४. ११) इति । महित्वम् । ‘मह पूजायाम्। औणादिक इन्प्रत्ययः । ‘ तस्य भावस्त्वतलौ ' ( पा. सू. ५. १. ११९ )। मध्या। मध्यशब्दात् सप्तम्येकवचनस्य ‘ सुपां सुलुक् । इति डादेशः । कर्तोः । करोतेरौणादिकः तुन्प्रत्ययः । विततम् । विपूर्वात्तनोतेः कर्मणि निष्ठा । उदित्त्वेन क्त्वाप्रत्यये इटो विकल्पनात् ' यस्य विभाषा ' इति इट्प्रतिषेधः । ‘ गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । जभार । ‘ हृग्रहोर्भः० ' इति भत्वम् । अयुक्त । युजेर्लुङि 'झलो झलि' इति सिचो लोपः । सधस्थात्। घञर्थे कविधानम्' इति अधिकरणे कप्रत्ययः। सध मादस्थयोश्छन्दसि' इति सधादेशः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । रात्री । ‘ रात्रेश्चाजसौ ' इति ङीप् ॥
 
 
Line ९० ⟶ १००:
 
अनन्तम् । अन्यत् । रुशत् । अस्य । पाजः । कृष्णम् । अन्यत् । हरितः । सम् । भरन्ति ॥५
 
“तत् तदानीम् उदयसमये "मित्रस्य “वरुणस्य एतदुभयोपलक्षितस्य सर्वस्य जगतः “अभिचक्षे आभिमुख्येन प्रकाशनाय “द्योः नभसः “उपस्थे उपस्थाने मध्ये “सूर्यः सर्वस्य प्रेरकः सविता “रूपं सर्वस्य निरूपकं प्रकाशकं तेजः “कृणुते करोति । अपि च “अस्य सूर्यस्य “हरितः रसहरणशीला रश्मयः हरिद्वर्णाः अश्वा वा “अनन्तम् अवसानरहितं कृत्स्नस्य जगतो व्यापकं “रुशत् दीप्यमानं श्वेतवर्णं “पाजः । बलनामैतत् । बलयुक्तम् अतिबलस्यापि नैशस्य तमसो निवारणे समर्थम् “अन्यत् तमसो विलक्षणं तेजः “सं “भरन्ति अहनि स्वकीयागमनेन निष्पादयन्ति । तथा “कृष्णं कृष्णवर्णम् “अन्यत् तमः स्वकीयापगमनेन रात्रौ । अस्य रश्मयोऽप्येवं कुर्वन्ति किमु वक्तव्यं तस्य माहात्म्यमिति सूर्यस्य स्तुतिः ॥ अभिचक्षे । संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । द्योः । ‘ ङसिङसोश्च ' ( पा. सू. ६. १. ११० ) इति पूर्वरूपता । उपस्थे । ‘ घञर्थे कविधानम्' इति कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । पाजः । पाति रक्षतीति पाजो बलम् । पातेर्बले जुट् च ' ( उ. सू. ४, ६४२) इति असुन् जुडागमश्च । छान्दसो मत्वर्थीयस्य विनो लोपः ।।
 
 
Line १०३ ⟶ ११५:
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥६
 
हे “देवाः द्योतमानाः सूर्यरश्मयः “अद्य अस्मिन्काले “सूर्यस्य आदित्यस्य “उदिता उदितौ उदये सति इतस्ततः प्रसरन्तो यूयम् अस्मान् “अंहसः पापात् “निः “पिपृत निष्कृष्य पालयत । यदिदमस्माभिरुक्तं “नः अस्मदीयं “तत् मित्रादयः षड्देवता: ममहन्तां पूजयन्तु अनुमन्यन्ताम् । रक्षन्त्विति यावत् । “मित्रः प्रमीतेस्त्रायकः अहरभिमानी देवः । “वरुणः अनिष्टानां निवारयिता रात्र्यभिमानी । “अदितिः अखण्डनीया अदीना वा देवमाता । “सिन्धुः स्यन्दनशीलोदकाभिमानिनी देवता । “पृथिवी भूलोकस्याधिष्ठात्री “द्यौः द्युलोकस्य । उतशब्दः समुच्चये ॥ अद्य । ‘ निपातस्य च ' इति संहितायां दीर्घत्वम् । उदिता । उत्पूर्वात् एतेर्भावे क्तिन् । सुपां सुलुक्° ' इति डादेशः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । पिपृत। ‘ पॄ पालनपूरणयोः पृ इत्येके'। लोटि जुहोत्यादित्वात् शपः श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । ‘ सार्वधातुकमपित्' इति तशब्दस्य ङित्त्वे सति ‘ ऋचि तुनुघ° ' इत्यादिना संहितायां दीर्घः ॥ ७ ॥ ॥ १६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११५" इत्यस्माद् प्रतिप्राप्तम्