"ऋग्वेदः सूक्तं १.१२२" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ४४:
{{सायणभाष्यम्|
ॐ
॥ श्रीगणेशाय नमः ।।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
प्रक्रिया प्रथमे काण्डे साकल्येनोपवर्णिता ।।
अत ऊर्ध्वंतनी ज्ञेया स्मर्यते च क्वचित्क्वचित् ।।
अथ द्वितीयाष्टके प्रथमोऽध्यायः आरभ्यते । शतर्चिनामाद्ये मण्डले चतुर्विंशत्यनुवाकाः । तेषु ‘ कदित्था ' इति अष्टादशानुवाके षट् सूक्तानि । तत्र ‘ प्र वः पान्तम्' इति द्वितीयं सूक्तम् । ‘ पञ्चोना' इति अनुवर्तमानात् पञ्चदशर्चम् । ‘ ऋषिश्चान्यस्मादृषेः' इति परिभाषया कक्षीवानृषिः । अनादेशपरिभाषया त्रिष्टुप् । विश्वे देवा देवता । ‘प्र वो वैश्वदेवम्' इत्यनुक्रमणिका । अस्य विशेषविनियोगो लैङ्गिकः ॥
प्र व॒ः पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वम् ।
Line ५६ ⟶ ७४:
दिवः । अस्तोषि । असुरस्य । वीरैः । इषुध्याऽइव । मरुतः । रोदस्योः ॥१
हे “रघुमन्यवः लघुक्रोधाः अक्रोधिनः ऋत्विजः “वः युष्माकं “पान्तं पालनशीलं पातव्यं वा “यज्ञं यागसाधनम् “अन्धः अन्नम् आज्यसोमादिलक्षणं “रुद्राय । रुत् दुःखं तद्धेतुभूतं दुरितं वा । तस्य द्रावयित्रे एतन्नामकाय देवाय मीळ्हुषे फलस्य वर्षित्रे तदर्थं “प्र “भरध्वं प्रकर्षेण संपादयत । अहं च “इषुध्येव इषुध्या शत्रून् यथा निरस्यति तथा “वीरैः अमित्राणां विविधमीरकैः वीर्योपेतैः वा तदनुचरैः मरुदादिभिः सह “दिवः द्युलोकसकाशात् । उपलक्षणमेतत् । लोकत्रयादपि "असुरस्य निरसितव्यानामसुराणां निरसितुः । कर्मणि षष्ठी । निरसितारं तमेव देवं “रोदस्योः निरोधनवत्योः द्यावापृथिव्योर्मध्ये वर्तमानान् “मरुतः च “अस्तोषि स्तौमि ॥ पान्तम् । पान्तमित्यत्र पातेः शतृ पिबतेर्वा औणादिको झः । मीळ्हुषे । “दाश्वान्साह्वान् °' इति क्वसुप्रत्ययान्तो निपातः । चतुर्थ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । “शासिवसि ' इत्यादिना षत्वम् । दिवः। ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । अस्तोषि । स्तौतेश्छान्दसो लुङ् । इषुध्येव । इषवो धीयन्ते अत्र इति इषुधिः । ‘ कर्मण्यधिकरणे च' इति दधातेः किः । कृत्स्वरेणान्तोदात्तः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ।।
Line ६९ ⟶ ८९:
स्तरीः । न । अत्कम् । विऽउतम् । वसाना । सूर्यस्य । श्रिया । सुऽदृशी । हिरण्यैः ॥२
“पत्नीव पत्नी यथा “पूर्वहूतिं पत्युः पूर्वाह्वानं “ववृधध्यै वर्धयितुं शीघ्रगतिर्भवति तद्वत् “उषासानक्ता अहोरात्रे देवते अपि “पुरुधा बहुप्रकारं बहुविधैः स्तोत्रैः “विदाने ज्ञायमाने सत्यौ पूर्वहूतिं ववृधध्यै अस्मदीयं पूर्वाह्वानं वर्धयितुं शीघ्रमागच्छतमिति शेषः । यद्वा । ववृधध्यै अस्मद्वर्धनाय पुरुधा बहुप्रकारं विदाने वर्धनोपायान् जानत्यौ भवतमिति शेषः ॥ उषासानक्ता । ‘ उषासोषसः ' ( पा. सू. ६. ३. ३१ ) इति पूर्वपदस्य उषासादेशः। ‘देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् ॥ अथ केवला उषा उच्यते । “स्तरीः शत्रूणां हिंसकः तेजसाच्छन्नः वा आदित्यः स इव हिरण्यैः हिरण्यवर्णैः रश्मिभिः “व्युतं विततं विशेषेण संबद्धम् “अत्कम् अक्तं संततं वा रूपं “वसाना अच्छादयन्ती धारयन्ती “सूर्यस्य “श्रिया शोभया “सुदृशी शोभनं दृश्यमाना । सूर्यस्य पुरोगामिनी रश्मिभिः खल्वेषा जगद्भासयति । तादृशी उषा अस्मत्पूर्वहूतिं पालयत्वित्यर्थः । यद्वा । हिरण्यैः हितरमणीयैः प्रकाशैः धनविशेषेर्वा सहागच्छतु । व्युतम् । व्येञो निष्ठायां वचिस्वपि' इत्यादिना संप्रसारणम् । स्तरीः । ‘ अवितॄस्तॄ' इति ईकारप्रत्ययः ॥
Line ८२ ⟶ १०४:
शिशीतम् । इन्द्रापर्वता । युवम् । नः । तत् । नः । विश्वे । वरिवस्यन्तु । देवाः ॥३
“नः अस्मान् “वसर्हा वसनार्हो गार्हपत्यादिरूपेण । यद्वा । वासकानामाच्छादकानां वृक्षादीनां हन्ता अग्निः । अथवा । वसर्हा वासार्हो वासरस्य गमयिता। “परिज्मा परितो गन्ता आदित्यः “ममत्तु मादयतु । तथा “अपां वृष्ट्युदकानां “वृषण्वान् वर्षणवान् वृष्ट्युत्पादकः “वातः वायुरस्मान् “ममत्तु । किंच हे “इन्द्रापर्वता । इन्द्रः प्रसिद्धः । पर्वतः पर्ववान् वृष्टयादिपूरणवान् पर्जन्यः । तौ “युवं युवां “नः अस्मान् अस्मद्बुद्धिं वा “शिशीतं तीक्ष्णीकुरुतं शोधयतमित्यर्थः । “तत् तस्मात् यस्मादहं सर्वान् देवान् स्तौमि तस्मात् “विश्वे सर्वेऽपि “देवाः “नः अस्माकं “वरिवस्यन्तु प्रभूतमन्नं प्रदातुमिच्छन्तु । समृद्धान्नप्रदानेन प्रीणयन्त्वित्यर्थः ।। ममत्तु। ‘मदी हर्षे' । अन्तर्भावितण्यर्थात् लोटि छान्दसो विकरणस्य श्लुः । ‘ द्विर्वचनम् । शिशीतम् । ‘ई हल्यघोः' इति ईत्वम् । ‘बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘ इन्द्रापर्वता' इत्यत्र ‘ देवताद्वन्द्वे च ' इति पूर्वपदस्य आनङादेशः ।।
Line ९५ ⟶ ११९:
प्र । वः । नपातम् । अपाम् । कृणुध्वम् । प्र । मातरा । रास्पिनस्य । आयोः ॥४
“औशिजः उशिजः पुत्रः कक्षीवानहं “मे । तादर्थ्ये चतुर्थी । मदर्थं "यशसा । यश इत्यन्नं बलं कीर्तिर्वा उच्यते । तद्वन्तौ “व्यन्ता भक्षयन्तौ चरुपुरोडाशादिकं “पान्ता पिबन्तौ अज्यसोमादिकं “त्या। तच्छब्दसमानार्थः त्यच्छब्दः । यौ स्तुत्यत्वेन प्रसिद्धौ तावश्विनौ । अत्र यद्यपि विशेषो न श्रुतः तथापि सूक्तस्य वैश्वदेवत्वात् उषःसंबन्धात् द्विवचनलिङ्गाच्चाश्विनाविति गम्यते तादृशावश्विनौ । “श्वेतनायै इति षष्ठ्यर्थे चतुर्थी । विश्वं जगत् श्वेतयन्त्याः उषसः तत्संबन्धिनि काले। उषःकालीनाह्वानाय यतेयम्। इति शेषः । हे ऋत्विजः “वः यूयम् । प्रथमार्थे द्वितीया । “अपाम् उदकानां “नपातं नपातयितारं तासां नप्तारं वा अग्निम् । अद्भ्यः ओषधिवनस्पतयः ताभ्यः अग्निः इत्यपां नप्तृत्वमग्नेः । तं देवं “प्र “कृणुध्वम् । करोतिरत्र क्रियासामान्यवाची क्रियाविशेषे स्तोत्रे पर्यवस्यति । प्रकर्षेण स्तुध्वमित्यर्थः । किंच “रास्पिनस्य । रपतेः रसतेर्वा शब्दनार्थस्य घञन्तस्य कृतसकारपकारोपजनस्य रास्प इति भवति । तदस्यास्तीति रास्पि स्तोत्रम् । तद्वान् रास्पिनः स्तोता । तस्य “आयोः तादृशस्य मनुष्यस्य मम मह्यं “मातरा मातृवद्धितकारिण्यौ अहोरात्रदेवते अपि “प्र कृणुध्वम् । अथवा रास्पिनस्य । एको मत्वर्थप्रत्ययश्छान्दसः। प्रवर्षणध्वनियुक्तस्य वृष्ट्युदकस्य गमनशीलस्य निर्मात्र्यौ अहोरात्रे प्र कृणुध्वम् ॥ व्यन्ता पान्ता । उभयत्र ‘सुपां सुलक्' इति आकारः ॥
Line १०८ ⟶ १३४:
प्र । वः । पूष्णे । दावने । आ । अच्छ । वोचेय । वसुऽतातिम् । अग्नेः ॥५
हे देवाः “औशिजः कक्षीवानहं “वः युष्माकं संबन्धिनं “रुवण्युं रवणीयं शब्दनीयं “शंसं स्तोत्रम् "आ "हुवध्यै युष्मदाह्रानाय "अच्छ ”आ “वोचेय आभिमुख्येन ब्रवीमि । यद्वा । अत्रापि अश्विनावेव उच्येते । तस्मिन् पक्षे बहुवचनं पूजार्थम् । हे अश्विनौ “वः युष्मान् “घोषव एतन्नामिका ब्रह्मवादिनीव । सा यथा “अर्जुनस्य श्वेतवर्णस्य स्वशरीरगतत्वग्रोगस्य “नंशे नाशनाय यथाश्विनोः शंसमकार्षीत् तद्वदहमपीत्यर्थः । हे देवाः युष्मत्संबन्धिने “दावने आ आभिमुख्येन फलस्य दात्रे “पूष्णे पोषकाय एतन्नामकाय देवायापि ॥ आकारस्य ‘ आङोऽनुनासिकश्छन्दसि ' इति प्रकृतिभावः ॥ अच्छ आभिमुख्यगमनेन वोचेय स्तौमि ॥ ‘ वच परिभाषणे'। लिङयाशिष्यङ् । ‘ वच उम्' इति उम् । किंच “अग्नेः “वसुतातिं तत्संबन्धि धनमपि वोचेय स्तौमि तमेवाग्निम् ॥ ॥ १ ॥
Line १२१ ⟶ १४९:
श्रोतु । नः । श्रोतुऽरातिः । सुऽश्रोतुः । सुऽक्षेत्रा । सिन्धुः । अत्ऽभिः ॥६
हे "मित्रावरुणा एतन्नामानौ अहोरात्राभिमानिदेवौ युवाम् “इमा इमानि “हवा अस्मदाह्वानानि “श्रुतं शृणुतम् । न केवलमस्मदाह्वानम् “उत अपि च “सदने यागगृहे “विश्वतः उद्गात्रादिभिः सर्वतः क्रियमाणं “सीम् एतत्स्तोत्रमपि “श्रुतं शृणुतम् । किंच “श्रोतुरातिः सर्वत्र श्रूयमाणधनः तादृशदानो वा “सुश्रोतुः अस्मदाह्वानस्य सम्यक् श्रोता “सिन्धुः जलाभिमानी देवः “सुक्षेत्रा सुक्षेत्राणि “अद्भिः वृष्टिजलैः क्लेदयन्निति शेषः । यद्वा । अस्मत्क्षेत्राणि अद्भिः सुक्षेत्राणि सस्यादिसमृद्धानि कुर्वन् “नः हवं शृणोतु । सुक्षेत्रत्वलाभाय' शृणोत्वित्यर्थः ॥ हवा इमा । उभयत्र विभक्त्या आकारः । श्रुतमित्यत्र ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
Line १३४ ⟶ १६४:
श्रुतऽरथे । प्रियऽरथे । दधानाः । सद्यः । पुष्टिम् । निऽरुन्धानासः । अग्मन् ॥७
हे “मित्र हे “वरुण देव “वां युवाम् अहं “स्तुषे स्तुवे । व्यत्ययेन मध्यमः । युवयोः संबन्धिनी “सा प्रसिद्धा “रातिः दानं “शता शतानां शतसंख्यानाम् अपरिमितानां “गवां संबन्धिनी असंख्यातगोविषया रातिः “पज्रे कक्षीवति मयि “पृक्षयामेषु । पृक्ष इत्यकारान्तोऽप्यस्ति । पृक्षाणामन्नानां नियमनं येषु स्तोत्रेषु यज्ञेषु वा तेषु निमित्तभूतेषु भवत्विति शेषः । किंच मित्रादयो देवाः “श्रुतरथे सर्वत्र प्रसिद्धरथोपेते "प्रियरथे प्रीयमाणरथयुक्ते सर्वदा रथप्रिये पज्रे च मयि एव “दधानाः प्रीतिं धारयन्तः “सद्यः आगमनानन्तरमेव “पुष्टिं गवादिपोषं निरुन्धानासः अवरुन्धानाः अस्मास्वव स्थापयन्तः । यद्वा । मयि पुष्टिं दधानाः कुर्वाणा: निरुन्धानासः कृतामेव पुष्टिं मयि स्थिरां कुर्वन्तः “अग्मन् आगच्छन्तु ।। रातिः । ‘ रा दाने'। भावे क्तिन् । मन्त्रे वृष ' इत्यादिना क्तिन उदात्तत्वम् । शता । ‘ सुपा सुलुक् ' इति षष्ठ्याः पूर्वसवर्णदीर्घत्वम् । दधानाः । जुहोत्यादित्वात् शपः श्लुः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । अग्मन् । गमेश्छान्दसे लुङि ‘ मन्त्रे घस' इत्यादिना च्लेर्लुक् ।' गमहन ' इति उपधालोपः ॥
Line १४७ ⟶ १७९:
जनः । यः । पज्रेभ्यः । वाजिनीऽवान् । अश्वऽवतः । रथिनः । मह्यम् । सूरिः ॥८
“महिमघस्य । महि महत् पूज्यं मघो धनमन्नं वा यस्य देवसंघस्य स तथोक्तः । तादृशस्य “अस्य “राधः धनं “स्तुषे स्तुवे । व्यत्ययेन मध्यमः । धनलाभाय प्रभूतधनं देवसंघं स्तौमीत्यर्थः । किंच “नहुषः । मनुष्यनामैतत् । परस्परस्नेहबन्धोपेता मनुष्या वयं कक्षीवन्तः “सुवीराः शोभनपुत्राद्युपेताः सन्तः “सचा सह परस्परैकमत्येन “सनेम त्वद्दत्तं धनं संभजेम लभेमहि । देवसंघो विशेष्यते । “यः “जनः देवजनो यश्च देवसंघः पज्रेभ्यः अङ्गिरोगोत्रोत्पन्नेभ्यः कक्षीवद्भ्यः । 'पज्रा वा अङ्गिरसः' इति श्रुतेः । तेभ्यः “वाजिनीवान् । वाजोऽन्नम् । तद्वती क्रिया वाजिनी । तया तद्वान् भवति । यद्वा । एको मत्वर्थीय प्रत्ययश्छान्दमः । अस्मभ्यं प्रदेयेन दत्तेन वा अन्नेन तद्वान् भवतीत्यर्थः । यश्च देवसंघः “अश्वावतः बहुभिः तद्दत्तैरश्वैः तद्वतः “रथिनः रथवतः “मह्यं मे “सूरिः प्रेरको भवति । अश्वानां रथानां प्रेरयितारं देवसंघं स्तुषे इत्यर्थः ।। सुवीराः । ‘ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । अश्वावतः । अश्वशब्दस्य ' मन्त्रे सोमाश्व ' इत्यादिना मतुपि दीर्घत्वम् ।
Line १६० ⟶ १९४:
स्वयम् । सः । यक्ष्मम् । हृदये । नि । धत्त । आप । यत् । ईम् । होत्राभिः । ऋतऽवा ॥९
हे “मित्रावरुणौ युष्माकं “यः “जनः अभिध्रुक् अभितो द्रोग्धा भवति अयष्टा भवतीत्यर्थः यश्च “अक्ष्णयाध्रुक् वक्रेण मार्गेण द्रुह्यति अन्यथाप्रकारेण द्रुह्यति । द्रोहप्रकार उच्यते । "वां युवाम्' “अपः सोमरसान् “न “सुनोति अभिषवं न करोति । युवाम् अतिक्रम्य अन्यदेवतार्थं सुनोतीत्यभिप्रायः
अयमेव अक्ष्णयाद्रोहः। “सः मूढो द्विविधो जनः “स्वयं “यक्ष्मं व्याधिं “हृदये स्वचित्ते 'नि “धत्ते स्थापयति । अनुष्ठातॄणां भोगान् पश्यन् व्यथितो भवतीत्यर्थः । “यत् । लिङ्गव्यत्ययः । य उक्तविलक्षणः पुमान् “ऋतावा यज्ञवान् परिगृहीतयज्ञः "होत्राभिः । वाङ्नामैतत् । स्तुतिवाग्भिः “ईम् एनं सोमरसम् "आप व्याप्नोति । स्तुवन् सोममभिषुणोति इति यावत् । स नरः पृत्सु यातीति वक्ष्यमाणेन सह संबन्धः ॥ अभिध्रुक् । द्रुहे: ‘ सत्सूद्विप ' इति क्विप् । संहितायां भष्भावश्छान्दसः। ऋतावा इत्यत्र ‘ छन्दसीवनिपौ' इति मत्वर्थीयो वनिप् । “अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् ।।
Line १७३ ⟶ २१०:
विसृष्टऽरातिः । याति । बाळ्हऽसृत्वा । विश्वासु । पृत्ऽसु । सदम् । इत् । शूरः ॥१०
हे मित्रावरुणौ युवां गतमन्त्रावसानोक्तलक्षण: युष्मत्पूजको जनः “दंसुजूतः दान्तैरश्वैः सुष्ठु प्रेरितः अत एव “नरां नराणां “शर्धस्तरः अतिशयेनाभिभविता । अथवा अतिशयेन बलवान् । नराणां स्वसमानानां मध्ये “गूर्तश्रवाः उद्गूर्णदीप्तिः प्रख्यातान्नो वा “विसृष्टरातिः अर्थिभ्यः प्रदत्तधनः एवं महानुभावः “शूरः सन् “विश्वासु “पृत्सु सर्वेषु जन्येषु संग्रामेषु व्राधतः । महन्नामैतत् । हिंसकान् महतोऽपि “नहुषः । मनुष्यनामैतत् । मनुष्यान् शत्रून् प्रति “बाळ्हसृत्वा भृशं सर्ता अशङ्कितगमनः सन् “सदमित् सदैव "याति गच्छति ॥ दंसुजूतः । दामेर्विच् ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । गूर्तश्रवाः । ‘ गुरी उद्यमने '। ‘ नसत्तनिषत्त ' इत्यादौ निपातनात् निष्ठानत्वाभावः । विसृष्टरातिः । विपूर्वात् सृजतेः कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम्' इति पृतनाशब्दस्य पृदादेशः । ‘ सावेकाचः०' इति विभक्तेरुदात्तत्वम् । बाळ्हसृत्वा । सर्तेः ‘अन्येभ्योऽपि दृश्यन्ते ' इति क्वनिप् ॥ ॥ २ ॥
Line १८६ ⟶ २२५:
नभःऽजुवः । यत् । निरवस्य । राधः । प्रऽशस्तये । महिना । रथऽवते ॥११
हे “राजानः राजमानाः सर्वस्य ईश्वर वा हे “मन्द्राः मादयितारः यूयम् “अमृतस्य अमरणस्य “सूरेः स्तोत्रादिप्रेरकस्य “नहुषः मनुष्यस्य मम “हवम् आह्वानं “श्रोत शृणुत । ‘बहुलं छन्दसि' इति शपो लुक् । अमृतस्य इत्यत्र बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । “अध अथ श्रवणानन्तरं “ग्मन्त आगच्छत । गमेश्छान्दसो लङ्' । मध्यमबहुवचनस्य व्यत्ययेन झः । ‘ बहुलं छन्दसि ' इति शपो लुक् ।' गमहन ' इत्युपधालोपः । किमर्थमागमनम्। उच्यते । “नभोजुवः नभसि व्याप्ता यूयं “यत् यस्मात् “निरवस्य निर्गतरक्षकस्य युष्मद्व्यतिरेकेण रक्षकान्तररहितस्य । अथवा । निर्गतो मुखादुच्चरितो रवः शब्दः स्तोत्ररूपो यस्य तादृशस्य “रथवते रथवतो यजमानस्य। षष्ठ्यर्थे चतुर्थी । “महिना महिम्ना माहात्म्येन। मकारलोपश्छान्दसः । तेन युक्तं “राधः समृद्धिसाधनं हविर्लक्षणं संराधकं स्तोत्रं वा “प्रशस्तये प्रशंसितुं कामयध्वे । तस्मादाह्वानं शृणुत आगच्छत चेति ॥
Line १९९ ⟶ २४०:
द्युम्नानि । येषु । वसुऽतातिः । ररन् । विश्वे । सन्वन्तु । प्रऽभृथेषु । वाजम् ॥१२
“यस्य “सूरेः हविरादिप्रेरकस्य यजमानस्य संबन्धिनः “दशतयस्य दशेन्द्रियसंवर्धकत्वेन दशावयवस्यान्नस्य “नंशे प्राप्तये वयम् आहूताः स्म तस्मै यजमानाय “एतम् इदानीं दातव्यत्वेन वर्तमानं “शर्धः परेषामभिभावकमन्नं तत्प्राप्तिहेतुं बलं वा “धाम विदधाम करवाम “इत्यवोचन् देवाः ।। धाम । दधातेर्लुङि ‘ गातिस्था' इति सिचो लुक् । वचेः अकारस्य उम् । अस्यतिवक्ति' इत्यादिना च्लेः अङ्।। “येषु देवेषु “द्युम्नानि द्योतमानान्यन्नानि “वसुतातिः वसूनां धनानां तातिः विस्तारश्च वसून्येव वा “रारन् रमन्ते भृशम् ।। तातिः । तनोतेः क्तिनि व्यत्ययेन आत्वम् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यद्वा । स्वार्थिकस्तातिल्। रारन्निति रमतेर्यङलुगन्तस्य लङि रूपम् । ते “विश्वे सर्वे देवाः “प्रभृथेषु प्रकृष्टभरणेषु यागेषु “वाजम् अन्नं “सन्वन्तु ददतु प्रयच्छन्तु ।। ‘ षणु दाने' ।। यद्वा । यस्य सूरेः स्वभूतस्य च दशतयस्य दश चमसेष्ववस्थितस्य सोमस्य प्राप्तये वयमाहूताः स्म तस्मै एतं शर्धं धाम इत्यवोचन् । यस्मादेवं तस्मात् प्रभृथेषु यागेषु वाजं तादृशं सोमलक्षणमन्नं विश्वे देवाः सन्वन्तु संभजन्ताम् ॥ ‘ वन षण संभक्तौ ' इत्यस्य व्यत्ययेन उप्रत्ययः ॥ कीदृशेषु यज्ञेषु । येषु वसुतातिः वसूनां हविर्लक्षणानां धनानां वा विस्तारयितारः ऋत्विजः । वचनव्यत्ययः । द्युम्नानि द्योतमानानि हवींषि रारन् ददति ॥ ‘रा दाने '। लेटि छान्दसः शपः श्लुः । ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् ' आतो लोप इटि च' इति आकारलोपः । अत एव ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वाभावश्च ॥
Line २१२ ⟶ २५५:
किम् । इष्टऽअश्वः । इष्टऽरश्मिः । एते । ईशानासः । तरुषः । ऋञ्जते । नॄन् ॥१३
“मन्दामहे स्तुमो वयं देवान्।। ‘मदि स्तुतौ'। इदित्त्वात् नुम् ।। किमर्थम् । “दशतयस्य “धासेः दशेन्द्रियतृप्तिसाधनत्वेन दशावयवस्य अन्नस्य “यत् यस्मात् “द्विः “पञ्च दशविधानि अन्नानि । दश चमसगृहीतत्वादन्नस्य दशविधत्वम् । एवंविधम् अन्नं “बिभ्रतः धारयन्तो दश चमसाध्वर्यवः “यन्ति होमाय गच्छन्ति अहवनीयं प्रति । यद्वा । ‘ आश्वमेधिकानि दशान्नानि जुहोति इत्याम्नातानि आज्यमध्वादीनि दशविधान्यन्नानि विश्वेभ्यो देवेभ्यो होतुं धारयन्तो यन्ति यदा तदा मन्दामहे इति । न च इष्टाश्वप्रभृतीन यष्टॄन् विहाय कस्मात् अस्मान्प्रति आगमिष्यन्तीति वाच्यम् । “तरुषः शत्रूणां तारकान् । तरतेरौणादिक उसिन् । “नॄन् नेतॄन् कर्मणाम् एवं महानुभावान् वरुणादीन् “इष्टाश्वः एतन्नामको राजा "किम् “ऋञ्जते किं प्रसाधयति । तथा “इष्टरश्मिः च किमृञ्जते । “एते इदानीं वर्तमानाः “ईशानासः पृथिव्या ईश्वरा राजानश्च किं प्रसाधयन्ति । यद्वा । येषां स्तोतॄणामस्माकमेते स्तुता देवा ईशानासः स्वामिनः किल तादृशान् तरुषः शत्रूणां तारकान् नॄन् कर्मनिर्वाहकान् अस्मान इष्टाश्वादयः किं साधयन्ति किमुपद्रवन्ति न प्रभवन्तीत्यर्थः ।।
Line २२५ ⟶ २७०:
अर्यः । गिरः । सद्यः । आ । जग्मुषीः । आ । उस्राः । चाकन्तु । उभयेषु । अस्मे इति ॥१४
“हिरण्यकर्णं हिरण्यविकारकुण्डलाद्युपेतकर्णं “मणिग्रीवं रत्नाद्युपेतकण्ठम् । एतद्द्वयं सर्वावयवस्याप्युपलक्षणम् । एवं सर्वाङ्गाभरणयुक्तम् “अर्णः अरणीयं रूपं तद्वन्तं पुत्रादिकमित्यर्थः । उक्तलक्षणमस्मदीयं रूपं वा “नः अस्माकं “विश्वे सर्वे “देवाः “वरिवस्यन्तु परिचरन्तु प्रयच्छन्त्वित्यर्थः । अर्यः अरणीयो विश्वेषां देवानां संघः “जग्मुषीः स्तोतुर्मुखान्निर्गच्छन्तीः “गिरः स्तुतीः “उस्रा:। विकारे प्रकृतिशब्दः । क्षीराज्यादीनि हवींषि च “सद्यः अस्मदागमनानन्तरमेव “चाकन्तु कामयन्ताम् ।। छान्दसः शपः श्लुः परस्मैपदं च । यद्वा । यङ्लुकि नुगभावः ।। आ चाकन्त्विति वा योज्यम् । पर्याप्तं कामयन्तामित्यर्थः । केष्विति तदुच्यते । “अस्मे अस्माकं संबन्धिषु “उभयेषु स्तोतृषु यष्टृषु च । यद्वा । अस्माकमुभयेषु ऐहिकामुष्मिकविषयेषु उभयविधेषु फलेषु ।।
Line २३८ ⟶ २८५:
रथः । वाम् । मित्रावरुणा । दीर्घऽअप्साः । स्यूमऽगभस्तिः । सूरः । न । अद्यौत् ॥१५
“मा मां कक्षीवन्तं “मशर्शारस्य। मशकीकृत्य भृशं शृणोति शारयति वा अमित्रानिति मशर्शारः । एतन्नामकस्य राज्ञः “शिश्वः शिशवः शिशुवदप्रबुद्धाः “चत्वारः पुत्राः बाधन्ते इति शेषः ॥ शिशुशब्दस्य : जसादिषु च्छन्दसि वावचनम् ' इति गुणाभावः ।। तथा “आयवसस्य सर्वतः प्राप्तान्नस्य एतन्नाम्नः “राज्ञः “जिष्णोः जयशीलस्य पुत्राः “त्रयः तेऽपि बाधन्ते इति शेषः । हे “मित्रावरुणा एतन्नामानौ देवौ “वां युवयोः संबन्धी “रथः दीर्घाप्साः । अप्स इति रूपनाम । अतिविस्तृतरूपः “स्यूमगभस्तिः । स्यूममिति सुखनाम । सुखकरदीप्तिः सन् “सूरो “न सूर्य इव “अद्यौत् द्योतताम् । उक्तानाम् अस्मद्विरोधिनां पुरतः स्फुरन् भयजनको भवत्वित्यर्थः ॥ द्युतेः ‘ छन्दसि लुङलङ्लिटः । इति लुङ् । ‘ द्युद्भ्यो लुङि' (पा. सू. १. ३. ९१ ) इति परस्मैपदम् । सिचि वृद्धिः परस्मैपदेषु ' ( पा. सू. ७, २. १ ) इति वृद्धि:। ‘ बहुलं छन्दसि ' इति इडभावे हल्ङ्यादिसंयोगान्तलोपौ । यद्वा । ‘ द्यु अभिगमने' । आदादिकः । छान्दसे लङि ‘ उतो वृद्धिर्लुकि हलि' ( पा. सू. ७. ३. ८९ ) इति वृद्धिः ॥ ।। ३ ।।
}}
|