"ऋग्वेदः सूक्तं १.१२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘ प्राता रत्नम् ' इति सप्तर्चं पञ्चमं सूक्तं काक्षीवतम् । दानस्य स्तूयमानत्वात् दानदेवत्यं ' या तेनोच्यते सा देवता ' ( अनु. २. ५ ) इति परिभाषितत्वात् । त्रैष्टुभम् । उपेत्यादिके द्वे जगत्यौ । ‘ प्राता रत्नं सप्त स्वनयस्य दानस्तुतिरुपजगत्यौ ' इत्यनुक्रमणिका ॥
 
 
प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते ।
Line ४० ⟶ ४२:
 
तेन । प्रऽजाम् । वर्धयमानः । आयुः । रायः । पोषेण । सचते । सुऽवीरः ॥१
 
अत्रेतिहासमाचक्षते । दैर्घतमसः कक्षीवान्नाम ऋषिः ब्रह्मचर्यं चरिष्यन् वेदाभ्यासाय गुरुकुले चिरकालमुषित्वा वेदान् सम्यगधीत्य व्रतानि च चरित्वा तेनानुज्ञातः पुनः स्वगृहं प्रति प्रयास्यन् मध्ये मार्गे रात्रौ विश्रान्तः । प्रभाते भावयव्यस्य पुत्रः स्वनयो नाम राजा अनुचरैः संक्रीडमानः अकस्मात् कक्षीवतः अन्तिकमाससाद । स च रभसा प्रतिबुद्धः सहसोत्तस्थौ । तं च राजा पाणिं गृहीत्वा स्वकीये आसने उपवेश्य अस्य सौन्दर्यमवगत्य स्वकन्याप्रदानमनाः पप्रच्छ भगवन् कस्य पुत्रः किंनामा त्वमिति । स च पृष्टो मातरं पितरं च स्ववृत्तान्तं च आचचक्षे। स च राजा संभाव्यः इत्यवगत्य मुदितमनाः स्वगृहं प्राप्य अस्मै मधुपर्कमारचय्य वस्त्रमाल्यादिभिः पूजयित्वा सरथा दश कन्याः शतनिष्कानश्वशतं पुंगवानां शतं गवां षष्ट्युत्तरसहस्रं पुनरेकादशरथांश्च प्रादात् । स च सर्वमनुक्रमेण प्रतिगृह्य दीर्घतमसोऽन्तिकमागत्य तस्मै प्रादर्शयत् ।। ननु कक्ष्या नाम अश्वबन्धनी रज्जुः । तद्वान् कक्षीवान् । अश्वबन्धनं च राज्ञ एवोचितम् । अतोऽस्य राजन्यत्वात् प्रतिग्रहो नोपपद्यते । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ' ( मनु. १०. ७६ ) इत्युक्तत्वात् । तस्मात् ब्राह्मणस्यैवाधिकारो न तु क्षत्रियस्येति । नैष दोषः । यद्यप्यसौ कलिङ्गाख्यस्य राज्ञः पुत्रस्तथापि तेन कलिङ्गेन स्वयं वृद्धत्वात् अपत्योत्पादनाय सामर्थ्यमलभमानेन तदुत्पादनाय याचितो दीर्घतमा ऋषिः उशिग्नामिकाम् अपत्योत्पादनाय प्रेषितया राजमहिष्या अतिजरटेन महर्षिणा सह रन्तुं लज्जमानया स्ववस्त्राभरणैरलंकृत्य स्वप्रतिनिधित्वेन प्रेषिताम् उशिग्नामिकां योषितं दासीमित्यवगत्य मन्त्रपूतेन जलेनाभिषिच्य ऋषिपुत्रीं कृत्वा तया सह रेमे । तदुत्पन्नः कक्षीवान्नाम ऋषिः । एतत्सर्वमस्माभिः पूर्वाध्याये नासत्याभ्याम् ( ऋ. सं. १. ११६ ) इत्यत्र सूक्ते विस्तरेण प्रतिपादितम् । अतः अस्य क्षत्रियसंबन्धात् कक्षीवानिति नाम उपपन्नम्। दीर्घतमसः परमर्षेः उत्पन्नत्वेन ब्राह्मणत्वात् प्रतिग्रहोऽपि उपपन्न एव । इदमादि सूक्तद्वयं स्वनयस्य राज्ञो दानप्रशंसाख्यानप्रतिपादकम् । ननु अनुक्रमण्यां ' स्वनयस्य दानस्तुतिः' इति ‘ दानतुष्टो भावयव्यं तुष्टाव ' इति चोभयत्र स्तोतव्यं भिन्नमेवानुगम्यते इत्युच्यते । उत्तरसूक्तस्य प्रथमायाम् ऋचि ‘ अधिक्षियतो भाव्यस्य ' इति दातुर्भावयव्यस्य श्रूयमाणत्वात् तत्प्राथम्यमुपजीव्य पृथगुपात्तम् । वस्तुतस्तु पितुर्नाम्ना पुत्रस्य व्यवहर्तव्यत्वात् तथा ' आ रुद्रासः' इत्यादौ बहुशः प्रयोगदर्शनात् ‘स्वनयेन दत्ता' इति तत्रैव सूक्ते स्वनयस्यापि श्रूयमाणत्वाच्च उभयत्रापि दातृप्रतिग्रहीत्रोरेकत्वेनैकमेव दानप्रशंसारूपमाख्यानमिति प्रसिद्धम् । स च कक्षीवान् आनीतं सर्वं पितुर्निवेदयन् परोक्षेणैव दानप्रकारं प्रशंसति । स्वनयो नाम राजा “प्रातरित्वा प्रातरेव आत्मनः सकाशमागतः सन् “रत्नं रमणीयं निष्कादिकं “प्रातः प्रभातकाले “दधाति अस्मत्संनिधौ स्थापयति ददाति । “तं स्थापितं सर्वं “चिकित्वान् चेतनावान् अदुष्टमित्यवगतवान् “प्रतिगृह्य स्वीकृत्य “नि “धत्ते । पितुः समीपे स्थापयति । अनन्तरं “तेन दत्तेन निष्कादिना “प्रजां पुत्रभृत्यादिरूपां “वर्धयमानः पोषयन् “आयुः जीवितं च वर्धयन् “सुवीरः शोभनैर्वीरैः पुत्रभृत्यादिभिरुपेतः सन् “रायस्पोषेण धनानां पुनःपुनर्वर्धनेन “सचते । असौ राजा संगच्छतामिति तव दातुराशिषं प्रार्थयते ॥
 
 
Line ५३ ⟶ ५७:
 
यः । त्वा । आऽयन्तम् । वसुना । प्रातःऽइत्वः । मुक्षीजयाऽइव । पदिम् । उत्ऽसिनाति ॥२
 
अत्र कक्षीवतः पिता आनीतेन धनेन संतुष्टः राजानं बहुप्रकारेण आशास्ते । असौ स्वनयो राजा "सुगुः “असत् । शोभनैर्बहुभिर्गोभिस्तद्वान् भवतु । तथा “सुहिरण्यः सुष्ठु हितरमणीयैर्धनैस्तद्वान् भवतु । तथा “स्वश्वः शोभनैरश्वैस्तद्वान् सन् । “अस्मै राज्ञे प्रदात्रे “बृहत् प्रभूतं “वयः अन्नम् “इन्द्रः परमेश्वरो धर्मदेवता "दधाति दधातु ददातु । यतः अयं राजा अस्मै गोहिरण्याश्वान्नानि बहुसंख्याकानि दत्तवान् अतस्तेषामभिवृद्धिप्रार्थना उचितैव । कस्यैवमाशीरिति स उच्यते । “यः यो राजा “प्रातरित्वः प्रातरागामिन्नतिथे पुत्र "आयन्तं गुरुकुलात् आगतं “पदिं पथिकं यदृच्छया गन्तारं “त्वा त्वां “वसुना अन्नसाधनेन गवादिधनेन “उत्सिनाति गमनतः उत्कृष्टं बध्नाति गतिं निरुणद्धीत्यर्थः । प्रतिबन्धे दृष्टान्तः उच्यते । “मुक्षीजयेव “पदिम् । मुच्यमाना सती बन्धनं जनयतीति मुक्षीजा मृगपक्ष्यादिबन्धनी रज्जुः । तया पाशको यथा पदिं गन्तारं मृगपक्ष्यादिकम् उत्सिनाति बध्नाति तथा मयाननुज्ञातमपि त्वां गमनं प्रतिबध्य गवादीष्टदानादिना यो राजा तोषयति स एवं भवत्विति । पदिरिति पदं व्याचक्षणेन यास्केन तदुदाहरणमयं मन्त्रः व्याख्यातः ‘ सुगुर्भवति ततनाच्च' ( निरु. ५, १९ ) इति ॥
 
 
Line ६६ ⟶ ७२:
 
अंशोः । सुतम् । पायय । मत्सरस्य । क्षयत्ऽवीरम् । वर्धय । सूनृताभिः ॥३
 
“प्रातः पूर्वेद्युः प्रभातकाले अयं धनं दत्तवान् तस्मिन्नेव काले “सुकृतं शोभनस्य कर्तारं त्वाम् “इच्छन् प्राप्तुमिच्छन् कदा द्रक्ष्यामीति कामयमानोऽहम् “अद्य अस्मिन् दिने इदानीम् “आयं प्राप्तोऽस्मि । अत्र यद्यपि केवलं प्रातरित्येव श्रुतं न पूर्वेद्युरिति तथापि अद्य आयम् इत्युक्तत्वादर्थात्पूर्वेद्युः प्रातः इति गम्यते । कीदृशम् । “इष्टेः इष्टस्येष्टसाधनस्य यागस्य वा “पुत्रं पुरु त्रातारम् । पुत्रः पुरु त्रायते । ( निरु. २. ११ ) इति यास्कः । कर्तारमित्यर्थः । केन साधनेनेति तदुच्यते । “वसुमता “रथेन समृद्धधनवता रथेन साधनेन । यद्वा । तेन सहितः इति सहार्थे तृतीया । किंच मदानीतेन समृद्धेन धनेन “अंशोः अंशुमतो वल्लीरूपस्य “मत्सरस्य मादनसाधनस्य सोमस्य । 'मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः ' ( निरु. २. ५) इति निरुक्तम् । तस्य “सुतम् अभिषुतं रसं “पायय आत्मानं पायय इष्टसाधनं सोमयागं कुर्वित्यर्थः । कृत्वा च “क्षयद्वीरं क्षियन्तो निवसन्तो वीराः पुत्रभृत्यादयो यस्य तं तादृशं त्वदिष्टसाधनबहुधनप्रदातारं “सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः “वर्धय समृद्धं कुरु । पुत्रभृत्यादिवीरैः यथा प्रवृद्धो भवति तथा कामयेत्यर्थः ॥
 
 
Line ७९ ⟶ ८७:
 
पृणन्तम् । च । पपुरिम् । च । श्रवस्यवः । घृतस्य । धाराः । उप । यन्ति । विश्वतः ॥४
 
पूर्वस्यामृचि आनीतेन धनेन सोमयागं कुर्वित्युक्तम् । तमेव सोमयागं फलप्रदर्शनेन स्तौति । “सिन्धवः स्यन्दनशीलाः प्रस्तुतपयोधाराः । सिन्धुः स्यन्दनात्' (निरु. ९. २६) इति यास्कः । “मयोभुवः सुखभावयित्र्य: । भय इति सुखनाम ' मयः स्यूमकम् ' ( नि. ३. ६. ७ ) इति तन्नामसु पाठात् । “धेनवः प्रीणयित्र्यो गावः “ईजानं सोमयागमनुतिष्ठन्तं तथा “यक्ष्यमाणं यक्ष्ये इति प्रणतिं कुर्वन्तं “च । न केवलमीजानं अपि तु यक्ष्ये इति अध्यवसितवन्तमपि “उप उपेत्य “क्षरन्ति स्रवन्ति प्रीणयन्तीत्यर्थः । न च पूर्वस्यामृचि सोमं पिबेत्युक्तत्वात् सर्वेषां सोमयागानाम् अग्निष्टोमात्मकज्योतिष्टोमस्य प्रकृतस्य ‘ ज्योतिष्टोमेन स्वर्गकामो यजेत' इति स्वर्ग एव फलत्वेन श्रुतः न गवादिकमिति वाच्यम्। स्वर्गवत् गवादिकामनयापि सोमयागस्य कर्तुं शक्यत्वात् । न केवलं सोमयागमनुतिष्ठतामेव महत्फलम् अपि तु सुकृतसाधनानि कर्मान्तराणि अधितिष्ठतामपि महत् फलमस्त्येवेति दर्शयति । “पृणन्तं पितॄन् प्रीणयन्तं “पपुरिं प्रीणनशीलम् इष्टदातारं प्राणिनः सर्वदा प्रीणयन्तं “च पुरुषं “श्रवस्यवः अन्नमिच्छन्त्यः अन्नसमृद्धिहेतवः “घृतस्य “धाराः। यद्वा । घृतकुल्याः। “विश्वतः सर्वतः “उप उपेत्य “यन्ति प्राप्नुवन्ति प्रीणयन्तीत्यर्थः ।।
 
 
Line ९२ ⟶ १०२:
 
तस्मै । आपः । घृतम् । अर्षन्ति । सिन्धवः । तस्मै । इयम् । दक्षिणा । पिन्वते । सदा ॥५
 
सोमयागप्रशंसाप्रसङ्गेन सामान्यतो दानम् एतदादिभिस्त्रिभिः प्रशंसति । यद्वा । सोमस्यैव स्तुतत्वात् दक्षिणाशब्दस्य यागे एव प्रसिद्धत्वाच्च आ सूक्तपरिसमाप्तेः सोमयाग एव प्रस्तूयते ।। “यः यो मर्त्यः “पृणाति हविरादिदानेन देवादीन् प्रीणाति “सः “नाकस्य । कमिति सुखनाम । तद्विरुद्धम् अकम् । न विद्यते अकं दुःखं तत्साधनं पापं वेति नाको द्युलोकः । तथा च श्रूयते - न वा अमुं लोकं जग्मुषे किं च नाकम् ' ( निरु. २. १४; का. सं. २१. २ ) इति । तस्य “पृष्ठे उन्नते उपरिदेशे “श्रितः सन् “अधि अधिकमाकल्पान्तं “तिष्ठति । यद्वा । अधि तिष्ठति । अधिष्ठाय प्रमुखो भूत्वा तिष्ठति । न केवलं स्वर्गाश्रयणं किंतु “देवेषु मध्ये “गच्छति वर्तते स्वयमेव देवो भवतीत्यर्थः । “ह इति प्रसिद्धौ । “तस्मै प्रीणयित्रे पुरुषाय “सिन्धवः स्यन्दनशीला: "आपः “घृतं तेजोवत् सारम् “अर्षन्ति गच्छन्ति रसवत्यो भवन्तीत्यर्थः । किंच “इयं भूमिरपि “दक्षिणा सस्यादिफलसंपादनदक्षा सती “सदा सर्वकालं “पिन्वते सेचयति तोषयतीत्यर्थः । दातुर्जीवनसाधकान्नोदकानि रुचिराणि समृद्धानि भवन्तीत्यर्थः ॥
 
 
Line १०५ ⟶ ११७:
 
दक्षिणाऽवन्तः । अमृतम् । भजन्ते । दक्षिणाऽवन्तः । प्र । तिरन्ते । आयुः ॥६
 
“दक्षिणावतां बहुविधगोहिरण्यादिरूपदक्षिणाप्रदातॄणाम् । इच्छब्दः एवकारार्थः । तेषामेवार्थे “इमानि भूमौ दृश्यमानानि चित्राणि चायनीयानि स्रक्चन्दनमणिमुक्तादिरूपाणि द्रव्याणि समृद्धानि भवन्तीति शेषः । किंच “दक्षिणावताम् एव “दिवि द्युलोके “सूर्यासः सूर्यसंबन्धिनो लोकाः तदनुगृहीता भोगा वा समृद्धा भवन्ति । किंच “दक्षिणावन्तः एव “अमृतं जरामरणरहितं स्थानं “भजन्ते सेवन्ते । यद्वा । दानेनापहतपाप्मानः आत्मानं विदित्वा अमृतमविनाशं मोक्षं भजन्ते प्राप्नुवन्ति । ‘ यज्ञेन दानेन ' (बृ. उ. ४. ४. २२) इति श्रुतेः । किंच “दक्षिणावन्तः एव “आयुः “प्र “तिरन्ते अतिदीर्घमेवमायुष्यं वर्धयन्ते लभन्ते । प्रपूर्वस्तिरतिर्वर्धनार्थः । इत् इति सर्वत्र संबध्यते ॥
 
 
Line ११९ ⟶ १३३:
अन्यः । तेषाम् । परिऽधिः । अस्तु । कः । चित् । अपृणन्तम् । अभि । सम् । यन्तु । शोकाः ॥७
 
अन्वयव्यतिरेकाभ्यां दानं प्रशंसितुमाह । “पृणन्तः देवादीन् हविरादिना प्रीणयन्तः सन्तः “दुरितं दुष्टं यथा भवति तथा प्राप्तं दुःखम् “एनः तत्साधनं पापं च “मा “आरन मा प्राप्नुवन् । न केवलं दातार एव अपि तु “सूरयः देवानां स्तोतारो विद्वांसः “मा “जारिषुः जरया न जीर्णा भवेयुः। तथा “सुव्रतासः शोभनकृच्छ्रचान्द्रायणादिनियमवन्तोऽपि मा जारिषुः । तर्हि एषाम् अन्यो जनः क इति स उच्यते । “तेषां दातॄणां स्तोतॄणां वा “अन्यः तेभ्योऽन्यो यः कोऽपि पुरुषः “परिधिः पापस्य परितो धारकः “अस्तु । यद्वा । अन्यो यः कश्चन पापदेवः तेषां परिधिस्थानीयो व्यवधायकोऽस्तु । यथा अग्नेः परिधिः स्वयं रक्षःप्रभृतिभिर्बाध्यमानः स्वान्तर्हितमग्निं रक्षति तद्वत् । अथवा । अन्यो धर्मविशेषः तेषां परिधिः परिधानमस्तु कवचस्थानीयोऽस्तु । तर्हि किं प्राप्नुयुरिति उच्यते । “अपृणन्तं देवादीन् अप्रीणयन्तमदातारं “शोकाः चित्तपीडाः तत्साधनाः पाप्मानः “अभि अभिमुखं “सं “यन्तु सम्यक् प्राप्नुवन्तु वयं सुखिनो भवेमेत्यर्थः ॥ ॥ १० ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२५" इत्यस्माद् प्रतिप्राप्तम्