"ऋग्वेदः सूक्तं १.१३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
== ==
{{सायणभाष्यम्|
विंशेऽनुवाके षट् सूक्तानि । तत्र ‘ आ त्वा जुवः' इति षडृचं प्रथम सूक्तं पारुच्छेपमात्यष्टम् । ‘ त्वं नो वायो' इत्यन्त्या अष्टिः चतुःषष्ट्यक्षरा। ‘ वायव्यं तु ' इत्युच्यमानत्वात् इदमुत्तरं च वायुदेवत्यम् । अत्रानुक्रमणिका - ‘ आ त्वा षड्वायव्यं त्वन्त्याष्टिः' इति । विनियोगो लैङ्गिकः ।।
 
 
आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।
 
Line ४९ ⟶ ५२:
 
नियुत्वता । रथेन । आ । याहि । दावने । वायो इति । मखस्य । दावने ॥१
 
हे “वायो “त्वा त्वां “जुवः गमनशीलाः "ररहाणाः शीघ्रगामिनो बलवन्तो वा सामर्थ्यात् नियुत्संज्ञकाः अश्वाः ॥ ‘ रहि गतौ । लिटः कानच् । छान्दसोऽनुनासिकलोपः ॥ “इह अस्मिन् यज्ञे “प्रयः चरुपुरोडाशादि हविर्लक्षणमन्नं “वहन्तु प्रापयन्तु । किमर्थम् । पूर्वपीतये° पूर्ववत्पानाय । पुनः किमर्थम् । “पूर्वपीतये इतरदेवेभ्यः पुरा पानाय । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ।। किंच हे वायो “ते तव संबन्धि “मनः “अनु “सूनृता प्रियसत्यात्मिका स्तुतिरूपा अस्मदीया वाक् “तिष्ठतु आश्रित्य सर्वदा वर्ततां हर्षयत्वित्यर्थः । सूनृतेति वाङ्नाम, ‘ सूनृता ब्रह्म इति तन्नामसु उक्तत्वात् । “ऊर्ध्वा उन्नता तथा “जानती तव गुणान् विशेषेणावगच्छन्ती । सोमपानार्थं स्तुत्यर्थं च हे “वायो “मखस्य यज्ञस्य "दावने दातव्याय हविषे तत्स्वीकाराय । पुनः किमर्थम् । “दावने अस्मभ्यमभिमतदानाय । उभयत्र ददातेः कर्मणि भावे च क्रमेण औणादिको वनिः । छान्दसः उपधालोपः ॥ “नियुत्वता “रथेन नियुद्भिर्युक्तेन रथेन “आ “याहि आगच्छ ।
 
 
Line ६९ ⟶ ७४:
सध्रीचीनाः । निऽयुतः । दावने । धियः । उप । ब्रुवते । ईम् । धियः ॥२
 
हे वायो“वायो त्वा“त्वा त्वाम् अस्मत्“अस्मत् अस्माकं संबन्धिनः इन्दवः“इन्दवः क्लेदयितारः सोमाः मन्दन्तु“मन्दन्तु मादयन्तु।।मादयन्तु । व्यत्ययेन परस्मैपदम् ।। कीदृशाः सोमाः।सोमाः । मन्दिनः“मन्दिनः मादयितारः क्राणासः“क्राणासः कुर्वाणाः स्वकार्यंस्वकार्य हर्षादिकं सुकृताः“सुकृताः अभिषवदशापवित्रशोधनग्रहणादिभिः सुष्टुसुष्ठु कृताः "अभिद्यवः अभितो द्योतयन्तः गोभिः“गोभिः वाग्भिर्मन्त्ररूपाभिः क्राणाः“क्राणाः क्रियमाणा हूयमानाः।हूयमानाः यद्वा।। यद्वा । गोभिः गन्तृभिः आहवनीयं प्रति आनेतृभिः क्राणा हूयमानाः।हूयमानाः - -करोतेः -शानच् इरध्यै। छान्दसः शपो लुक् । तथा “अभिद्यवः अभिगन्तारः । हे वायो “यत् यस्मात् कारणात् । हशब्दः प्रसिद्धौ। “दक्षम् अस्मद्यागदेशं प्रति गन्तुमुत्साहवन्तं समर्धयितारम् “ईं त्वां “नियुतः एतसंज्ञकास्तवाश्वा: “दावने दानाय हविःस्वीकारनिमित्तं “धियः कर्माणि उद्दिश्य “सचन्ते त्वां संगच्छन्ते यागदेशं वा । किमर्थम् । “इरध्यै प्रापयितुं परिचरितुं वा।वा ॥ ‘ ईर गतौ।गतौ - -तुमर्थे -कध्यैप्रत्ययः । ह्रस्वश्छान्दसः ॥ इरध्यतिः परिचरणकर्मा, इरध्यति विधेम' (नि. ३. ५. १) इति तन्नामसूक्तत्वात् । कीदृशास्ताः। क्राणाः“क्राणाः स्वव्यापारं रथवाहनादिकं कुर्वाणाः।कुर्वाणाः । ‘ क्राणाः कुर्वाणाः ' ( निरु. ४. १९) इति यास्कः।यास्कः । “ऊतयः रक्षणवत्यः प्रीतियुक्ता वा तथा “सध्रीचीनाः त्वया सह अञ्चन्त्यो गच्छन्त्यः ॥ ‘ सहस्य सध्रिः' । ‘विभाषाञ्चेः० इति स्वार्थे खः । व्यत्ययेनान्तोदात्तः ॥ किंच “धियः कर्मवन्तो बुद्धिमन्तो वा ऋत्विजो यजमाना वा “उप “ब्रुवते उपेत्य ब्रुवन्ति स्वाभिमतं विज्ञापयन्ति वा ॥
 
 
Line ९० ⟶ ९५:
प्र । चक्षय । रोदसी इति । वासय । उषसः । श्रवसे । वासय । उषसः ॥३
 
अयं “वायुः “रोहिता रोहितवर्णावश्वौ “धुरि धारणप्रदेशे रथस्याग्रभागे यद्वा भारवहने “युङ्क्ते क्वचिद्योजयति । तथा क्वचित् “अरुणा अरुणवर्णौ धुरि युङ्क्ते। तथा “अजिरा अजिरौ गमनशीलौ वर्णविशेषयुक्तौ कदाचिद्युङ्क्ते । यद्वा । एतदुभयत्र संबध्यते । किमर्थं युङ्क्ते इति तदाह । "वोळ्हवे धुरं वोढुं भारवहनाय । किंच "वहिष्ठा वहिष्ठौ अतिशयेन वोढारावश्वौ ॥ वोढृशब्दात् इष्टनि तुरिष्ठेमेयःसु' इति तृलोपः । ढत्वादिकम् असिद्धत्वान्निवर्तते । द्विवचनस्य आकारः ॥ “धुरि “वोळ्हवे महद्भारं वोढुं महति भारे वोढव्ये सति । पुनःपुनर्वायुग्रहणम् अश्वयोजनवचनं च अतिशीघ्रमागच्छतीति ज्ञापनार्थम् । इदानीं प्रत्यक्षेणाह । हे वायो “पुरंधिं बहुप्रज्ञं सामर्थ्यात् यजमानमिति गम्यते । पुरंधिर्बहुधीः " (निरु. ६. १३) इति यास्कः । तं “प्र “बोधय । रथेन शीघ्रमागत्य प्रज्ञापय हविःस्वीकारायेति भावः । तत्र दृष्टान्तः । “जारः पारदारिकः “आ “ससतीम् उपपत्यागमनध्यानेन ईषत् स्वपन्तीं पुरंधिमिव
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३४" इत्यस्माद् प्रतिप्राप्तम्