"ऋग्वेदः सूक्तं १.१३६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
{{सायणभाष्यम्|
‘ प्र सु ज्येष्ठम् ' इति सप्तर्चं तृतीयं सूक्तम् । ऋषिश्चान्यस्मात् ' इति परिभाषया परुच्छेप ऋषिः । अत्यष्टिश्छन्दः । ऊती देवानाम्' इत्यन्त्या त्रिष्टुप् । अत्र त्रिष्टुबन्तपरिभाषा नाश्रीयते ‘ सर्वमात्यष्टम्' इति विशेषपरिभाषया बाधितत्वात् । मित्रावरुणौ देवता । अन्त्ययोस्तु तन्मन्त्रलिङ्गोक्तदेवता । तथा चानुक्रान्तं - प्र सु सप्त मैत्रावरुणं त्वन्त्ये लिङ्गोक्तदेवते अन्त्या त्रिष्टुप् ' इति । तुशब्दप्रयोगात् इदमादिके द्वे सूक्ते मैत्रावरुणदेवताके । विनियोगो लैङ्गिकः ॥
 
 
प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् ।
Line ५२ ⟶ ५४:
 
अथ । एनोः । क्षत्रम् । न । कुतः । चन । आऽधृषे । देवऽत्वम् । नु । चित् । आऽधृषे ॥१
 
हे ऋत्विजः मित्रावरुणाभ्यां “ज्येष्ठं प्रशस्यं “बृहत् महदतिप्रवृद्धं “नमः नमस्कारोपलक्षितं स्तोत्रं तदुपलक्षितं हविर्लक्षणमन्नं वा “प्र “भरत संपादयत । नम इत्यन्ननाम, ‘नमः आयुः (नि. २. ७. २२) इति तन्नामसु पाठात् । किंच “हव्यं हव्यां मतिं तत्प्रदानविषयां बुद्धिं भरत । यद्वा मतिं पूज्यं हव्यं हविर्भरत । पूर्वत्र पुरोडाशाद्यदनीयमन्नं इदानीं तु सोमाज्यादिरूपं निपेयं हविः इति विवेकः । कीदृशाभ्यां ताभ्याम् । “निचिराभ्यां नितरां चिरकालाभ्यां नित्याभ्यामित्यर्थः । प्रवाहरूपेणेति भावः । किंच "मृळयद्भ्यां स्तुत्या हविःस्वीकारेण स्वयं मृडित्वा यजमानमपि सुखयद्यांचि तथा “स्वादिष्ठं स्वादुतरं मृळयद्भ्यां हविः सुखयद्यां क भक्षयद्याेणमित्यर्थः । कस्तयोर्विशेषः इति तत्राह । “ता तौ मित्रावरुणौ “सम्राजा सम्यक् राजमानौ॥ राजतेः क्विप् । ‘मो राजि समः क्वौ' इति समो मकारस्य मकारः ॥ “घृतासुती । घृतमासूयते आदीयते याभ्यां तौ तादृशौ। यद्वा । घृतमुदकं वृष्टिलक्षणं प्रसूयते सर्वत्रानुज्ञायते याभ्यां तौ । एतयोः अहोरात्राभिमानिदेवत्वात् अहोरात्रद्वारा वृष्ट्युत्पादकत्वात् ‘अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति' (तै. सं. २. १. ७. ३) इति श्रुतेर्वृष्ट्यनुज्ञाप्रदत्वं प्रसिद्धम् । किंच एतौ “यज्ञेयज्ञे सर्वेष्वपि यज्ञेषु “उपस्तुता सर्वैर्ऋत्विग्भिः स्तूयमानौ ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ “अथ अपि च “एनोः एनयोः ॥ संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ ओसि च ' ( पा. सू. ७. ३. १०४ ) इति गुणाभावे । अतो गुणे : इति पररूपत्वम् ॥ “क्षत्रं बलं “कुतश्चन कस्मादपि च शत्रोः राक्षसादेः सकाशात् कस्मादप्युपायाद्वा “न “आधृषे आधर्षितुं शक्यं न भवति ॥ ‘ कृत्यार्थे तवैकेन्' इति केन्प्रत्ययः ।। किंच तयोः देवत्वं “नू “चित् देवभावोऽपि न “आधृषे अधर्षणायोग्यः । यद्वा । पूर्वमिव इदानीमपि । “नू चिदिति निपातः पुराणनवयोः' (निरु. ४. १७ ) इति यास्केनोक्तत्वात् । आधृषे न केनाप्याधर्षणीयो भवति । एतयोर्बलं नाधृष्यं किमु तद्देवत्वमिति भावः ।।
 
 
Line ७१ ⟶ ७५:
 
अथ । दधाते इति । बृहत् । उक्थ्यम् । वयः । उपऽस्तुत्यम् । बृहत् । वयः ॥२
 
“गातुः गमनशीला “वरीयसी उरुतरा उषाः “उरवे विस्तीर्णाय यागाय गमनादिव्यापाराय अदर्शि सर्वेर्दृष्टा अभूत्। तथा “ऋतस्य गमनशीलस्यादित्यस्य “पन्थाः मार्गः आकाशलक्षणः “रश्मिभिः “समयंस्त प्रकाशैः संगतोऽभूत् । “भगस्य सर्वैर्भजनीयस्य एतन्नामकस्य देवस्य “रश्मिभिः “चक्षुः सर्वप्राणिनां लोचनं समयंस्त संगतमभूत् । सर्वे स्वस्वद्रव्यदर्शनाय समर्था अभवन्नित्यर्थः । तदेव स्पष्टीक्रियते । "मित्रस्य प्रकाशकारित्वात् सर्वजनमित्रस्य “सदनं गृहमन्तरिक्षं “द्युक्षं दीप्तानां निवासस्थानं रश्मिभिः समयंस्त संगतमभूत् । तथा “अर्यम्णः एतन्नामकस्य देवस्य ॥ उदात्तनिवृत्तिस्वरेण विभक्तेः उदात्तत्वम् ॥ द्युक्षं सदनं रश्मिभिः समयंस्त । किंच “वरुणस्य तमोनिवारकस्य एतन्नामकस्य देवस्य सदनं तथाभूत् । यद्यपि सूर्यस्य एकत्वेऽपि उपाधिभेदेन भेदात् पृथक् स्तुतिः तथा यद्यपि त्रिभिरपि प्रकाश्यमप्यन्तरिक्षमेकं तथापि प्रकाशकानां भेदात् त्रिधा स्तूयते । उदयानन्तरं कर्मानुष्ठानाय प्रकाशः अभवदित्यर्थः। “अथ अतः कारणात् उदितत्वादेव “उक्थ्यं स्तुत्यं "बृहत् प्रभूतं “वयः हविर्लक्षणमन्नं “दधाते धारयतः । किंच “उपस्तुत्यम् उपेत्य स्तोतव्यम् ॥ ‘एतिस्तुशासु' (पा. सू. ३. १. १०९) इत्यादिना क्यप् । “बृहत् स्तोमादिना महत्स्तोत्रं “वयः हविर्लक्षणमन्नं च दधाते ॥
 
 
Line ९० ⟶ ९६:
 
मित्रः । तयोः । वरुणः । यातयत्ऽजनः । अर्यमा । यातयत्ऽजनः ॥३
 
अयं यजमानः “ज्योतिष्मतीम् आहवनीयाग्नेस्तेजोयुक्ताम् “अदितिम् अदीनां संपूर्णलक्षणां “क्षितिम् अग्नेर्निवासयोग्यां भूमिम् उत्तरवेदिलक्षणां “धारयत् धारयति स्वयं कृतवानित्यर्थः। एतावती वै पृथिवी यावती वेदिः' (तै. सं २. ६, ४, १) इति श्रुतेः । तथा “स्वर्वतीं यज्ञनिष्पत्तिद्वारा स्वर्गवतीं ईदृशीं ताम् “आ “सचेते मित्रावरूणौ संगतौ भवतः । न केवलम् एतस्मिन् एव अहनि किंतु “दिवेदिवे सर्वेष्वप्यहःसु । कीदृशौ तौ । “दिवेदिवे प्रतिदिनं "जागृवांसा प्रबोधं कुर्वाणौ । यज्ञं गन्तुम् अनलसौ इत्यर्थः । किंच वेदिमागत्य “ज्योतिष्मत् आज्यादिस्वीकारेण अतिशयेन तेजोयुक्तं “क्षत्रं बलम् “आशाते अश्नुवाते प्राप्नुतः ॥ अश्नोतेश्छान्दसे लिटि ‘अनित्यमागमशासनम्' इति वचनात् नुडभावः । लटि वा छान्दसः शपः श्लुः । कीदृशौ इति तावाह। "आदित्या अदितेः पुत्रौ "दानुनस्पती दानस्य आज्यादिप्रदानस्य स्वामिनौ अभिमतदानस्य पालयितारौ वा ॥ ‘ षष्ठ्याः पतिपुत्र' इति संहितायां सत्वम् ॥ “मित्रः च “वरुणः च तावुभौ देवौ । अर्यमाख्यस्तु देवः “तयोः मित्रावरुणयोः “यातयज्जनः । तयोरेव संबन्धादुभयोर्मध्ये स्थितो यातयज्जनः स्वस्वव्यापारनियोजितसर्वजनः। मित्रावरुणौ अहोरात्रदेवौ। अर्यमा तु तयोरेव सामर्थ्यात् सर्वप्राणिनः प्रेरयतीत्यर्थः। किंच “यातयज्जनः । यातयन्ति लोकं यदीया जनाः प्रेष्याः स तादृशः । यद्वा । यात्यमाना नरके निपात्यमाना जनाः प्राणिनः अयष्टारो येन स तादृशः । कर्मसाक्षित्वात् स्वस्वकर्मानुरोधेन प्राणिनः सुकृते यातयतीत्यर्थः । तादृशः अर्यमा मित्रावरुणयोरधीनो वर्तते इति शेषः ॥
 
 
Line १०९ ⟶ ११७:
 
तथा । राजाना । करथः । यत् । ईमहे । ऋतऽवाना । यत् । ईमहे ॥४
 
“अयम् अस्माभिर्हूयमानः “सोमः “मित्राय “वरुणाय च “शंतमः पीयमानः सन् सुखतमः “भूतु भवतु ॥ छान्दसः शपो लुक् । ‘ भूसुवोस्तिङि' इति गुणाभावः ॥ “अवपानेषु अवाङ्मुखचमसपानेषु विषयेषु “आ सर्वतः “भगः भजनीयः ताभ्याम् । किंच “देवः दीप्यमानः “देवेषु मित्रावरुणानुचरेषु इतरदेवेषु तैः “आभगः आभजनीयः । यद्वा । देवेषु स्तोतृषु यजमानेषु मध्ये देवो दीप्यमानः । तथा आभगस्तैरेव आ सर्वतो भजनीयः । किंच “तं सोमं “विश्वे सर्वे “देवासः देवाः “अद्य अस्मिन्नहनि “जुषेरत सेवन्ते ॥ छान्दसो झस्य रन्नादेशाभावः। ‘ बहुलं छन्दसि ' इति रुडागमः ॥ कीदृशास्ते । “सजोषसः समानप्रीतियुक्ताः । “तथा “राजाना राजमाना मित्रावरुणौ युवां “करथः कुरुतं सेवेथे इत्यर्थः। व्यत्ययेन शप्॥ “यत् यस्मात् कारणात् “यत् “ईमहे यत् प्राप्नुमः तत् देवान् याचामहे ।। ‘ ईङ् गतौ'। दैवादिकः । छान्दसो विकरणस्य लुक् ।। तस्मात् जुषेरत । तथा “ऋतावाना ऋतवन्तौ सत्यवन्तौ यज्ञवन्तौ वा मित्रावरुणौ “ईमहे अभिमतफलं तयोः पानं वा याचामहे ॥
 
 
Line १२८ ⟶ १३८:
 
उक्थैः । यः । एनोः । परिऽभूषति । व्रतम् । स्तोमैः । आऽभूषति । व्रतम् ॥५
 
“यः “जनः यजमानः “मित्राय वरुणाय च ॥ कर्मणः संप्रदानत्वाच्चतुर्थी । मित्रं वरुणं च “अविधत् परिचरति "तं जनं युष्मत्परिचारकम् “अनर्वाणम् अद्वेषिणम् । ‘भ्रातृव्यो वा अर्वा ' (तै. सं. ६. ३. ८. ४ )इति श्रुतेः । अनल्पं वा अनन्यसेविनं “परि “पातः परितो रक्षताम्। कस्मादिति तदुच्यते । अंहसः न्यूनातिरेकजनितात् पापात् । न केवलं सामान्यं जनम् अपि तु “दाश्वांसं हविर्दत्तवन्तं "मर्तं मरणधर्माणम् “अंहसः सर्वस्मादपि पापात् । न केवलं भवन्तावेव अपि तु “अर्यमा सर्वेषां नियन्ता देव: “ऋजूयन्तं देवेष्वार्जवमाचरन्तं यजमानम् “अनु “व्रतं तदीयं कर्मानुलक्ष्य
“अभि “रक्षति अभितो रक्षति । कोऽस्य जनस्य विशेषः इति तत्राह । “यः यजमानः “उक्थैः शस्त्रैः “एनोः एनयोर्मित्रावरुणयोः “व्रतं कर्म “परिभूषति परिगृह्णाति तथा यजमानो युष्मदीयं “व्रतं कर्म “स्तोमैः स्तोत्रैर्गानयुक्तमन्त्रसाध्यैः “आभूषति सर्वतोऽलंकरोति ॥ ‘ भूष अलंकारे । भौवादिकः ॥ तम् अभिरक्षति इत्यन्वयः ॥
 
 
Line १४७ ⟶ १६०:
 
ज्योक् । जीवन्तः । प्रऽजया । सचेमहि । सोमस्य । ऊती । सचेमहि ॥६
 
“दिवे द्योतमानाय सूर्याय “नमः "वोचं नमस्कारोपलक्षितं स्तोत्रं वोचं ब्रवीमि स्तौमीत्यर्थः । कीदृशाय तस्मै । "बृहते महते ॥ ‘ बृहन्महतोरुपसंख्यानम्' इति विभक्तिरुदाता ॥ स्तुत्याय । तथा “रोदसीभ्यां द्यावापृथिवीभ्यां तदभिमानिदेवाभ्यां नमो वोचम् । तथा “मित्राय सर्वजनहिताय अहरभिमानिदेवाय नमः वोचम् । तथा “वरुणाय आवरकाय रात्र्यभिमानिदेवाय । तथा “मीळ्हुषे अभिमतफलस्य सेक्त्रे रुद्राय । कीदृशाय तस्मै । “सुमृळीकाय शोभनसुखयित्रे । पुनः स एव विशेष्यते । मीळ्हुषे सुमृळीकाय इति द्वे प्रत्येकविशेषणभूते । इदानीं यजमानः ऋत्विजं स्वात्मानं वा प्रति ब्रवीति । हे होतः हे आत्मन् वा “इन्द्रम् “अग्निं “द्युक्षं दीप्तिमन्तम् “अर्यमणं “भगं च “उप उपेत्य बुद्ध्या प्राप्य “स्तुहि स्तुतिं कुरु । युष्मदनुग्रहात् “ज्योक् चिरकालं “जीवन्तः जीवनोपेता वयं “प्रजया पुत्रभृत्यादिना “सचेमहि संगता भूयास्म । किंच “सोमस्य इन्दोः “ऊती ऊत्या "सचेमहि तमपि स्तुत्वा तत्कारितेन रक्षणेन सहिता भूयास्मेत्यर्थः ॥
 
 
Line १६० ⟶ १७५:
 
अग्निः । मित्रः । वरुणः । शर्म । यंसन् । तत् । अश्याम । मघऽवानः । वयम् । च ॥७
 
"इन्द्रवन्तः प्रीतेनेन्द्रेण तद्वन्तः वयं “देवानां देवान् ॥ कर्मणि षष्ठी ॥ "उती ऊत्या तर्पणेन हविरादिना "मंसीमहि मन्येमहि । कीदृशा वयम् । “स्वयशसः स्वायत्तकीर्तयः “मरुद्भिः स्तुत्या हृद्यैर्मरुद्देवैरनुगृहीताः । यद्वा । देवानाम् ऊत्या रक्षणेन रक्षिता मंसीमहि ज्ञातारो भवेम सामर्थ्यात् तेषामेव महत्त्वस्य । किंच अग्निमित्रवरुणाः देवाः “शर्म "यंसन् अस्माकं सुखं प्रायच्छन् तं तं वरम् । “मघवानः वयं च तैर्दत्तान्नवन्तः सन्तः “तत् सुखम् “अश्याम व्याप्नुयाम ॥ अश्नोतेराशिषि लिङि ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वात् सलोपः ॥ ॥ २६ ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे
ऋक्संहिताभाष्ये द्वितीयाष्टके प्रथमोऽध्यायः समाप्तः ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३६" इत्यस्माद् प्रतिप्राप्तम्