"ऋग्वेदः सूक्तं १.१३७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ।।
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
अथ द्वितीयाष्टके द्वितीयोऽध्याय आरभ्यते । ‘ सुषुमा यातम्' इति तृचात्मकं चतुर्थं सूक्तं पारुच्छेपम् अतिशाक्करं षट्यक्षरोपेतत्वात् । पूर्वत्र तुशब्दप्रयोगात् मैत्रावरुणम् । अत्र अत्यष्टिपरिभाषा नाश्रीयते ‘अतिशाक्वरम्' इति विशेषितत्वात् । अत्रानुक्रमणिका – सुषुम तृचमतिशाक्वरम्' इति ॥ दशरात्रस्य षष्ठेऽहनि प्रातःसवने प्रउगशस्त्रे इदं सूक्तं मित्रावरुणदेवत्यं तृतीयतृचम् । सूत्रितं च -- ‘ स्तीर्णं बर्हिरिति तृचौ सुषुमा यातमद्रिभिः' (आश्व. श्रौ. ८.१) इति । तथा अस्मिन्नेव मैत्रावरुणस्य प्रस्थितयाज्यायाः पुरस्तात् आद्या प्रक्षेपणीया । ‘ षष्ठस्य प्रातःसवने ' इति खण्डे सूत्रितं ‘ सुषुमा यातमद्रिभिः' ( आश्व. श्रौ. ८. १) इति ॥
 
 
सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे ।
 
Line ४० ⟶ ४९:
 
इमे । वाम् । मित्रावरुणा । गोऽआशिरः । सोमाः । शुक्राः । गोऽआशिरः ॥१
 
हे मित्रावरुणौ "आ "यातम् अस्मद्यज्ञं प्रति आगच्छतम् । आगमनाय किमस्तीति चेत् तत्राह। “अद्रिभिः अभिषवसाधनैर्ग्रावभिः “सुषुम सोमं सुतवन्तो वयम् ॥ सुनोतेर्लिटि रूपम् । अतः “गोश्रीताः । विकारे प्रकृतिशब्दः । पयोभिर्मिश्रिताः । तस्मान्मैत्रावरुणं पयसा श्रीणाति' (तै. सं. ६. ४. ८. १) इति हि ब्राह्मणम् । “मत्सराः तृप्तिहेतवः सोमाः ।' मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः । (निरु. २. ५) इति यास्कः । “इमे पुरतो गृहीता वर्तन्ते । अतः आ यातम् । पुनस्त एव विशेष्यन्ते । “इमे “सोमासो “मत्सराः मदहेतवो मादने मात्सर्यवन्तो वा इतरयज्ञगतसोमेभ्यः सोमाः। कीदृशौ युवाम् । “राजाना राजनशीलौ “दिविस्पृशा द्युलोकवासिनौ ॥' हृद्यु्तभ्यां ङेरुपसंख्यानम् । (पा. सू. ६. ३. ९. १) इति अलुक् ॥ ईदृशौ युवाम् “अस्मत्रा अस्मासु मध्ये अस्मत्पालकौ वा युवां “नः अस्मत्संबन्धिनं यज्ञम् “उप “गन्तम् आगच्छतम् । किंच हे “मित्रावरुणा एतन्नामानौ देवौ “वां युवयोरर्थाय “इमे “सोमाः “गवाशिरः । पूर्ववत् विकारे प्रकृतिशब्दः । गोभिः क्षीरैः आशिरो मिश्रिताः संजाताः। किंच “गवाशिरः गोभिः उदकैः मिश्रिताः संजाताः । यद्वा । गोभिः स्तुतिलक्षणैर्मन्त्रैः मिश्रिताः । अत एव “शुक्राः दीप्ताः संजाताः। 'आशिरमव नयति सशुक्रत्वाय' (तै. सं. ६. १. ६. ५) इति श्रुतेः ॥
 
 
Line ५९ ⟶ ७०:
 
सुतः । मित्राय । वरुणाय । पीतये । चारुः । ऋताय । पीतये ॥२
 
हे मित्रावरुणौ “आ "यातम् आगच्छतम् । यतो युष्मदर्थम् “इन्दवः क्लेदनसमर्थाः “सोमासः सोमाः “दध्याशिरः दध्नाश्रयणवन्तः सन्तः “इमे पुरतो ग्रहेण गृहीता वर्तन्ते अतः आ यातम् । किंच “दध्याशिरः धीयमानाशिरः सोमाः “सुतासः मन्त्रेण ग्रावभिरभिषुताः संपन्नाः । अत आ यातमिति शेषः। आदित्यग्रहे दध्यवनयसद्भावात् तदपेक्षया दध्याशिर इत्युक्तम्। "उत अपि च “वां युवयोः प्रीतये पालनाय "उषसो “बुधि उषसः संबन्धिनि बोधे सति ॥ संपदादिलक्षणो भावे क्विप्। ‘ सावेकाचः । इति विभक्तेरुदात्तत्वम् ॥ प्रकाशे संजाते सति । न केवलमुषस एव बोधे अपि तु “सूर्यस्य “रश्मिभिः “साकं सूर्यकिरणैः सह प्रकाशे हविष्प्रदानाय संजाते सति “सुतः सोमोऽभिषुतः। इदानीं वियुज्य उच्यते । “मित्राय सर्वहिताय एतन्नामकाय अहरभिमानिदेवाय तथा “वरणाय आवरकाय रात्र्यभिमानिदेवाय च तदर्थं सोमः सुतः इति शेषः । किंच “ऋताय यज्ञाय तन्निर्वाहकाय तदर्थं “पीतये पानाय । यज्ञसिद्ध्यर्थं हि देवानां सोमपानम् । यद्वा ।। कर्तरि क्तिच् ॥ पीतये पात्रे ऋत्विगादये ऋताय यज्ञाय तन्निर्वाहकाय । “चारुः चरणीयो भक्षणीयः सोमः सुतोऽभिषुतः ॥
 
 
Line ७९ ⟶ ९२:
अयम् । वाम् । मित्रावरुणा । नृऽभिः । सुतः । सोमः । आ । पीतये । सुतः ॥३
 
“वां युवयोः संबन्धिनम् “अंशुं वल्लीरूपं सोमं “दुहन्ति संपादयन्त्यध्वर्यवः । किमिव । “तां प्रसिद्धामग्निहोत्राद्यर्थां “वासरीं सर्वाङ्गाच्छादितपयस्कां बहुक्षीरामित्यर्थः । यद्वा । पयआदिनाच्छादयित्रीम् ॥ ‘वस आच्छादने'। औणादिकः अरिप्रत्ययः। ' कृतिकारादक्तिनः' इति ङीष् । यद्वा । केवलः औणादिकः अरप्रत्ययः स्वार्थिकः अण् ॥ “धेनुं “न प्रीणयित्रीं गामिव । केन साधनेनेति तदाह । “अद्रिभिः अभिषवसाधनैर्ग्रावभिः । किच "अद्रिभिः तैरेव साधनैः “सोमं युष्मदर्थमेव “दुहन्ति वल्लीरूपं सोमं युष्मदर्थमेव उदकेन आप्लाव्य रसं दुहन्ति। किंच “अर्वाञ्चा अस्मदभिमुखौ सन्तौ “सोमपीतये सोमपानाय "अस्मत्रा अस्मत्त्रातारौ युवां “नः अस्मदीयं यज्ञम् "उप “गन्तम् उपागच्छतम्। किंच “वां युष्मदर्थम् “अयं “सोमः “नृभिः नेतृभिर्यज्ञनिर्वाहकैर्ऋत्विग्भिः “सुतः अभिषुतः । किंच “आ “पीतये संपूर्णपानाय “सुतः अतः आगच्छतमित्यर्थः ॥ ॥ १ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३७" इत्यस्माद् प्रतिप्राप्तम्