"कौषीतकिब्राह्मणम्/अध्यायः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
}}
<poem><span style="font-size: 14pt; line-height: 200%">
१.१ अग्नेः शरीराणि
अस्मिन् वै लोक उभये देव मनुष्या आसुः । ते देवाः स्वर्गंल् लोकम् यन्तो अग्निम् ऊचुः । त्वम् नो अस्य लोकस्य अध्यक्ष एधि इति । तान् अग्निर् उवाच । अथ यद् वो अहम् घोर संस्पर्शतमो अस्मि । अनपचायितारो मनुष्याः । कथम् वस् तद् भविष्यति यन् मनुष्येष्व् इति । ते देवा ऊचुः । तस्य वै ते वयम् घोरास् तनूर् विनिधास्यामः । अथ या एव ते शिवा शग्मा यज्ञिया तनूः । तया इह मनुष्येभ्यो भविष्यसि इति । तस्य अप्सु पवमानाम् अदधुः । वायौ पावकाम् । आदित्ये शुचिम् । अथ या एव अस्य शिवा शग्मा यज्ञिया तनूर् आसीत् । तया इह मनुष्येभ्यो अतपत् । एता वा अग्नेस् तन्वः । तद् यद् एता देवता यजति । अत्र अग्निः साङ्गः सतनूः प्रीतो भवति । ता वै तिस्रो भवन्ति । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति । पौर्णमासम् प्रथमायै तन्त्रम् भवति । आमावास्यम् द्वितीयायै । तेन ह अस्य दर्श पूर्ण मासाव् अन्वारब्धौ भवतः । ईडितवत्यौ हव्यवाड्वत्यौ प्रथमायै सम्याज्ये । तत् सम्याज्या रूपम् । द्व्य् अग्नी द्वितीयायै । द्वौ हि अग्नी यजति । सप्तसस सामिधेनीका तृतीया । सप्तदश सामिधेनीका वा इष्टि पशु बन्धाः । तद् इष्टि पौश् बन्धान् आप्नोति । सद्वन्ताव् आज्य भागौ भवतः । असानि इति वा अग्नीन् आधत्ते । स्याम् इति कामयते । स यदि ह वा अपि स्वैषावीर इव सन्न् अग्नीन् आधत्ते । क्षिप्र एव सम्भवति । क्षिप्रे भोग्यताम् अश्नुते । यः सद्वन्तौ कुरुते । विराजौ सम्याज्ये । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । ता वै गायत्र्यो भवन्ति । गायत्रो वा अग्निर् गायत्रच् छन्दाः । स्वेन एव तच् छन्दसा अग्नीन् आधत्ते । ता वा उपांशु भवन्ति । रेतः सिक्तिर् वा अग्न्य् आध्येयम् । उपांशु वै रेतः सिच्यते । अभिरूपा भवन्ति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । द्वादश दद्यात् । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै । अश्वम् त्रयोदशम् ददाति । यस् त्रयोदशो मासस् तस्य आप्यै ।
 
१.२ अग्नेः प्रयाजानुयाजाः
देव असुरा वा एषु लोकेषु सम्यत्ता आसुः । तेभ्यो अग्निर् अपाक्रामत् । स ऋतून् प्राविशत् । ते देवा हत्वा असुरान् विजित्य अग्निम् अन्वैच्छन् । तम् यमश् च वरुणश् च अन्वपश्यताम् । तम् उपामन्त्रयन्त । तम् अज्ञपयन् । तस्मै वरम् अददुः । स ह एतम् वरम् वव्रे । प्रयाजान् मे अनुयाजांश् च केवलान् घृतम् च अपाम् पुरुषम् च ओषधीनाम् इति । तस्माद् आहुर् आग्नेयाः प्रयाज अनुयाजा आग्नेयम् आज्यम् इति । ततो वै देवा अभवन् । परा असुराः । भवत्य् आत्मना । परा अस्य द्वेष्यो य एवम् वेद ।
 
१.३ पुनराधेयकालः
तद् आहुः कस्मिन्न् ऋतौ पुनर् आदधीत इति । वर्षास्व् इति ह एक आहुः । वर्षासु वै सर्वे कामाः । सर्वेषाम् एव कामानाम् आप्त्यै । मध्या वर्षे पुनर् वसू नक्षत्रम् उदीक्ष्य पुनर् आदधीत । पुनर् मा वसु वित्तम् उपनमत्व् इति । अथो पुनः कामस्य उपाप्त्यै । तद् वै न तस्मिन् काले पूर्व पक्षे पुनर् वसुभ्याम् सम्पद्यते । या एव एषा आषाढ्या उपरिष्टाद् अमावास्या भवति । तस्याम् पुनर् आदधीत । सा पुनर् वसुभ्याम् सम्पद्यते । उपाप्तो अमावास्यायाम् कामो भवति । उपाप्तो वर्षासु । उपाप्तः पुनर् वस्वोः । तस्मात् तस्याम् पुनर् आदधीत । पञ्च कपालः पुरोडाशो भवति । पञ्च पदा पङ्क्तिः । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
 
१.४ प्रयाजानुयाजा आज्यभागाश्च
विभक्तिभिः प्रयाज अनुयाजान् यजति । ऋतवो वै प्रयाज अनुयाजाः । ऋतुभ्य एनम् तत् समाहरन्ति । अग्र आयाहि वीतये अग्निम् दूतम् वृणीमहे अग्निना अग्निः समिध्यते अग्निर् वृत्राणि जङ्घनद् अग्नेः स्तोमम् मनामहे अग्ना यो मर्त्यो दुव इत्य् एताम् ऋचाम् प्रतीकानि विभक्तयः । ता वै षड् भवन्ति । षड् वा ऋतवः । ऋतुभ्य एव एनम् तत् पुनर् समाहरति । यथा यथम् उत्तमौ प्रयाज अनुयाजौ यजति । तथा ह अस्य प्रयाज अनुयाजेभ्यो अनितम् (?) भवति । वार्त्रघ्नः पूर्व आज्य भागः पाप्मन एव वधाय । अथो ह अस्य पौर्णमासात् तन्त्राद् अनितम् भवति । अग्निम् स्तोमेन बोधय इत्य् अग्नये बुद्धिमते पूर्वम् कुर्याद् इति ह एक आहुः । स्वपिति इव वा एतस्य अग्निर् यो अग्मिम् उद्वासयते । तद् एव एनम् तत् पुनः प्रबोधयति इति । वार्त्रघ्नस् त्व् एव स्थितः । अग्न आयूंषि पवस इत्य् उत्तरस्य पुरोनुवाक्या । पवस इत् तत् सौम्यम् रूपम् । केवल आग्नेयो हि यज्ञ क्रतुः । तद् यत् पवमानस्य कीर्तयति । तथा ह अस्य सौम्याद् आज्य भागाद् अनितम् भवति । पद पङ्क्तयो याज्या पुरोनुवाक्याः । पञ्च पदा पङ्क्तिः । पाङ्क्तो वै यजो यज्ञस्य एव आप्त्यै ।
 
१.५ विभक्तयः अदितिभागश्च
व्यतिषक्ता भवन्ति । व्यतिषक्ता इव वा इमे प्राणा आत्मानम् भुञ्जन्ति इति । सा सर्वा एव ससामिधेनीक उपांशु भवत्य् आपूर्वाभ्याम् अनुयाजाभ्याम् । आ ह्य् अतो विभक्तयो अनुप्रोता भवन्ति । अथो सर्वे वै कामा विभक्तिषु । तस्माद् उपांशु भवन्ति । सर्वेषाम् एव कामानाम् आप्त्यै । उच्चैस् त्व् एव उत्तमेन अनुयाजेन यजति । उच्चैः सूक्त वाक शम्यु वाक आवाह । तद् यथा विदम् इत्य् आविर् नष्टम् कुर्यात् । एवम् तद् आविः कामान् करोत्य् आपम् इति । त्रयम् ह एक उपांशु कुर्वन्ति विभक्तीर् उत्तरम् आज्य भागम् हविर् इति । एतावद्द् ह्य् आगन्तु भवति इति । सा वा उपांशु निरुक्ता भवति । द्वयम् वा अग्ने रूपम् निरुक्तम् च अनिरुक्तम् च । तद् एव अस्य तेन आप्नोति । सर्व आग्नेयम् ह एके कुर्वन्ति । न तथा कुर्यात् । तस्यै पुनर् उत्स्यूतो जरत् संव्याहः पुनः संस्कृतः कद्रथो अनड्वान् हिरण्यम् वा दक्षिणा । पुनः कर्म ह्य् एतत् । आदित्या द्वितीया । प्रतिष्ठा वा अदितिः । प्रतिष्ठित्या एव प्रतिष्ठित्या एव ।  
 
 
१.१ अग्नेः शरीराणि
अस्मिन् वै लोक उभये देव मनुष्या आसुः ।
Line १२९ ⟶ १४५:
पाङ्क्तो वै यजो यज्ञस्य एव आप्त्यै ।
 
१.५ विभक्तयः अदितिभागश्च
व्यतिषक्ता भवन्ति ।
व्यतिषक्ता इव वा इमे प्राणा आत्मानम् भुञ्जन्ति इति ।
"https://sa.wikisource.org/wiki/कौषीतकिब्राह्मणम्/अध्यायः_०१" इत्यस्माद् प्रतिप्राप्तम्