"ऋग्वेदः सूक्तं १.१५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १५१:
भरन्ति । वाम् । मन्मना । सम्ऽयता । गिरः । अदृप्यता । मनसा । रेवत् । आशाथे इति ॥८
 
हे “ऋतावाना यज्ञवन्तौ वृष्दट्युकवन्तौ वा मित्रावरुणौ “युवां “प्रथमा प्रथमौ “यज्ञैः यजनसाधनैः "गोभिः गोविकारैः पयआदिभिः “अञ्जते व्यञ्जयन्ति यजमानाः । देवभागं यागेषु क्षीरादिभिः यजन्ते इत्यर्थः । यद्वा । गोभिः अञ्जते स्तुवन्ति तत्र दृष्टान्तः । “प्रयुक्तिषु प्रयोगेषु “मनसो “न ॥ कर्मणि षष्ठी ।। मन इव । तद्यथा प्रथमं व्यञ्जयन्ति मुख्यं कुर्वन्ति तत्पूर्वकत्वात् सर्वव्यवहारस्य । किंच "वां युवां “मन्मना मननवता “संयता युवामेव सम्यग्गच्छता चित्तेन “गिरः स्तुतीः “भरन्ति संपादयन्ति । यस्मादेवं तस्मात् “अदृप्यता अनभिभववता “मनसा प्रकृष्टेन चेतसा युक्तौ सन्तौ “रेवत् धनवत् कर्म अस्मदीयम् "आशाथे अश्नुवाथे व्याप्नुथः ददाथे इत्यर्थः । अश्नोतेर्लिटि ‘ अनित्यभागमशासनम्' इति वचनात् इडभावः ॥
 
 
पङ्क्तिः १६५:
 
न । वाम् । द्यावः । अहऽभिः । न । उत । सिन्धवः । न । देवऽत्वम् । पणयः । न । आनशुः । मघम् ॥९
 
हे मित्रावरुणौ युवां “रेवत् धनवत् “वयः अन्नं “दधाथे उभयं च धारयथः । यस्मादेवं तस्मात् “रेवत् धनवत्। सहदृष्टत्वात् वयः इति गम्यते । धनविशिष्टमन्नं हे "नरा नेतारौ युवाम् "आशाथे अश्नुवाथे अस्मभ्यं ददाथे इत्यर्थः। कीदृशम्। “मायाभिः युवयोः प्रज्ञाभिः “इतऊति इतोऽस्मदभिमुखं गमनवत् इतो रक्षणवद्वा “माहिनम् । महन्नामैतत् । अतिमहत्। ईदृशोर्युवयोः एतादृशं सामर्थ्यं कुत इस्यत आह। “वां युवयोः देवत्वम् “अहभिः अहोभिः रात्रिभिः । अत्र अहःशब्देन रात्रिरभिधीयते द्योशब्देन अहःपृथगभिधानात् । ताभिः सहिताः “द्यावः दिवसाः “न “आनशुः न प्राप्नुवन्ति। अहश्च रात्रिश्चोभे न तरतः ‘ इत्यर्थः । “उत अपि च सिन्धवः स्यन्दनशीला नद्यः “न चैव आनशुः तथा युवयोः “देवत्वं “पणयः असुरा अपि “न आनशुः । “मघं धनं च “न आनशिरे । लोकत्रये युवयोः पराभवितारो न केऽपि सन्तीत्यर्थः ॥ ॥ २१ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५१" इत्यस्माद् प्रतिप्राप्तम्