"ऋग्वेदः सूक्तं १.१५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
 
{{सायणभाष्यम्|
‘ यजामहे वाम्' इति चतुर्ऋचं चतुर्दशं सूक्तं दैर्घतमसं त्रैष्टुभं मैत्रावरुणम् । ‘ यजामहे चतुष्कम्' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ।।
 
 
यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः ।
Line ३४ ⟶ ३६:
 
घृतैः । घृतस्नू इति घृतऽस्नू । अध । यत् । वाम् । अस्मे इति । अध्वर्यवः । न । धीतिऽभिः । भरन्ति ॥१
 
हे “घृतस्नू घृतस्य स्रावयितारौ मित्रावरुणौ “महः महान्तौ “वां “यजामहे पूजयामो यजमानाः ऋत्विजश्च । कीदृशाः । “सजोषाः समानप्रीतियुक्ताः । केन साधनेनेति तदुच्यते । “हव्येभिः पुरोडाशादिभिः “नमोभिः नमस्कारोपलक्षितैः। “अध अपि च “यत् यस्मात् कारणात् “वां युवाम् “अध्वर्यवः अस्मदीया अध्वर्यवोऽपि । अत्र नशब्दोऽप्यर्थे । तेऽपि “धीतिभिः कर्मभिः स्वकीयैः “भरन्ति पोषयन्ति तस्मात् यजामहे । ।
 
 
Line ४७ ⟶ ५१:
 
अनक्ति । यत् । वाम् । विदथेषु । होता । सुम्नम् । वाम् । सूरिः । वृषणौ । इयक्षन् ॥२
 
हे मित्रावरुणौ “वां युवयोः संबन्धिनो यागस्य “प्रस्तुतिः प्रस्तावना करोमीति संकल्प एव “न “प्रयुक्तिः कृत्स्नप्रयोगो न संपन्नः । तावतैव युवयोः “धाम तेजःस्थानम् “अयामि प्राप्नोमि । “सुवृक्तिः युवयोः शोभनावर्जकश्च युष्मत्परिग्रहादस्मि । “यत् यदा तु “विदथेषु यज्ञेषु “वां युवां “होता होमनिष्पादकोऽयमध्वर्युः “अनक्ति हविषा आगच्छति होमं करोतीत्यर्थः। यद्वा । होता देवानामाह्वाता एतन्नामकः ऋत्विक् शस्त्रादिना वाम् अनक्ति व्यञ्जयति । तदा “सूरिः युष्मन्माहात्म्यवित् “इयक्षन् यागं कर्तुमिच्छन् अहं हे “वृषणौ कामानां वर्षितारौ “वां युवयोः “सुम्नं युष्मदसंबन्धि सुखं देवत्वलक्षणम् अयामीति शेषः ॥
 
 
Line ६० ⟶ ६६:
 
हिनोति । यत् । वाम् । विदथे । सपर्यन् । सः । रातऽहव्यः । मानुषः । न । होता ॥३
 
हे "मित्रावरुणा मित्रावरुणौ "ऋताय युष्मत्संबन्धियज्ञाय “हविर्दे हविषो दात्रे ।। ‘आतो मनिन्’ इति विच् । भत्वे आतो धातोः' इति आकारलोपः ॥ “जनाय यजमानाय च “धेनुः प्रीणयित्री गौः। “अदितिः अदीना बहुक्षीरा सती “पीपाय क्षीरेण पुनःपुनः आप्यायताम् ॥ प्यायतेश्छान्दसः प्रार्थनायां लिट् । ‘ लिड्यङोश्च' इति पीभावः ॥ पयस्यादिहविष्कं यज्ञं पयोव्रतादिषु यजमानं चेत्यर्थः । कस्मिन् काले इति चेत् तत्राह । “यत् यदा "सः प्रसिद्धः “रातहव्यः एतन्नामा राजा “सपर्यन् स्तुत्या पूजयन् “मानुषः “होता “न मनुष्यस्य यजमानस्य संबन्धी एतन्नामक ऋत्विगिव "विदथे यज्ञे “वां “हिनोति हविरादिना प्रीणयति । तदा पीपायेत्याह ।
 
 
Line ७३ ⟶ ८१:
 
उतो इति । नः । अस्य । पूर्व्यः । पतिः । दन् । वीतम् । पातम् । पयसः । उस्रियायाः ॥४
 
“उत अपि च हे मित्रावरुणौ “वां युवाम् “अन्धः अदनीयमन्नं पयोरूपं पुरीडाशादिरूपं वा “देवीः द्योतनशीलाः “गावः “आपश्च व्रीह्यादिप्रवर्धकान्युदकानि च “मद्यासु युष्माभिर्मदनीयासु “विक्षु प्रजासु यजमानलक्षणासु तासामभिवृद्ध्यर्थं “पीपयन्त आप्याययन्तु। “उतो अपि च “नः अस्मत्संबन्धिनः “अस्य यज्ञस्य “पूर्व्यः पूर्वकालीनः “पतिः पालकोऽग्निः “दन् दाता भवत्विति शेषः । अग्नौ हूयमानत्वात् सर्वेषामपि हविषाम् । यस्मादेवं तस्मात् हे मित्रावरुणौ "वीतं भक्षयतं पुरोडाशादिकम् । “उस्रियायाः क्षीराद्युत्स्राविण्या गोः “पयसः पयः “पातम् । यद्वा । घनीभूतं पयस्याया वीतं स्रवद्रूपं पातम् ॥ ॥ २३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५३" इत्यस्माद् प्रतिप्राप्तम्