"अनेकार्थसङ्ग्रहः/प्राक्कथनम्" इत्यस्य संस्करणे भेदः

<< अनेकार्थसङ्ग्रहः ध्यात्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१४:४४, १ जुलै २०१९ इत्यस्य संस्करणं

<< अनेकार्थसङ्ग्रहः

ध्यात्वाऽर्हतः कृतैकार्थशब्दसंदोहसंग्रहः ।
एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसङ्ग्रहम् ॥ १ ॥

अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः ।
उद्देश्यवचनं पूर्वं पश्चादर्थप्रकाशनम् ॥ २ ॥

यत्रैक एव रूढोऽर्थो यौगिकस्तत्र दर्शितः ।
अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥ ३ ॥

पदानां भङ्गतो योऽस्मिन्नेकार्थः प्रकाशते ।
प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ ४ ॥