"अनेकार्थसङ्ग्रहः/पञ्चस्वरकाण्डः" इत्यस्य संस्करणे भेदः

; पञ्चस्वरकाण्डः ; अथ पञ्चमः काण्डः ;पञ्चस्वरका... नवीन पृष्ठं निर्मीत अस्ती
 
(भेदः नास्ति)

१५:०५, १ जुलै २०१९ समयस्य संस्करणम्

पञ्चस्वरकाण्डः
अथ पञ्चमः काण्डः
पञ्चस्वरकान्ताः

स्यादाच्छुरितकं हासनखघातविशेषयोः ।
उपकारिका पिष्टभेदोपकारेशवेश्मसु ॥ १ ॥

कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ।
द्वाःस्थे षिड्गे कवौ रङ्गाजीवेऽथ कटखादकः ॥ २ ॥

खादके काचकलशे शृगालबलिपुष्टयोः ।
कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः ॥ ३ ॥

स्याद्गोजागरिकं भक्ष्यकारके मङ्गलेऽपि च ।
चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि ॥ ४ ॥

जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले ।
शङ्खे जललतायाञ्च जलनायको मत्स्यके ॥ ५ ॥

काकोच्यां राजशफरे नवफलिका नूतने ।
नवजातरजोनार्यामप्यथो नागवारिकः ॥ ६ ॥

गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे ।
चित्रमेखलके प्रोक्तः स्यादथो व्यवहारिका ॥ ७ ॥

लोकयात्रेङ्गुदीवर्धनीष्वथ व्रीहिराजिकः ।
चीनान्ने कामलिकायामप्यथो शतपर्विका ॥ ८ ॥

स्याद्वचादूर्वयोः शीतचम्पकौ दीपतर्पणे ।
सुवसन्तक इत्येष वासन्त्यां मदनोत्सवे ॥ ९ ॥

हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका ।

इति पञ्चस्वरकान्ताः ।
पञ्चस्वरखान्ताः

मलिनमुखस्तु गोलाङ्गूले प्रेतेऽनले खले ॥ १० ॥

शीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः ।
विधावात्मनि रुद्रे च सर्वतोमुखमम्बु खम् ॥ ११ ॥

इति पञ्चस्वरखान्ताः ।
पञ्चस्वरगान्ताः

कथाप्रसङ्गो वातूले विषस्य च चिकित्सके ।
नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ १२ ॥

इति पञ्चस्वरगान्ताः ।
पञ्चस्वरचान्ताः

रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ ।

इति पञ्चस्वरचान्ताः ।
पञ्चस्वरजान्ताः

ऋषभघ्वजः प्रथमजिनेन्द्रे शशिशेखरे ॥ १३ ॥

मुनिभेषजं त्वगस्तिपथ्यायां लङ्घनेऽपि च ।

इति पञ्चस्वरजान्ताः ।
पञ्चस्वरटान्ताः

दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससि ॥ १४ ॥

इति पञ्चस्वरटान्ताः ।
पञ्चस्वरणान्ताः

अवग्रहणं रीढायां रोधनेऽथाऽवतारणम् ।
वस्त्राञ्चलार्चने भूतावेशेऽथ प्रविदारणम् ॥ १५ ॥

दारणे युधि च परिभाषणं तु प्रजल्पने ।
नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः ॥ १६ ॥

प्रासादवीथीवरण्डे मत्तहस्तिन्यपाश्रये ।
मण्डूकपर्णो रलुकशोणकयोः कपीतने ॥ १७ ॥

मण्डूकपर्णी मञ्जिष्ठाव्रीह्योर्गोजिह्विकौषधौ ।
स्याद्रोमहर्षणाख्या तु रोमोद्गमे बिभीतके ॥ १८ ॥

वातरायण उन्मत्ते निष्प्रयोजनपूरुषे ।
काण्डे च करपत्रे च कूटे च शरसङ्क्रमे ॥ १९ ॥

समुद्धरणं वान्तान्ने जलस्योद्धरणे प्रहे ।

इति पञ्जस्वरणान्ताः ।
पञ्चस्वरतान्ताः

अवलोकितस्तु बुद्धेऽप्यवलोकितमीक्षिते ॥ २० ॥

स्यादपराजितो विष्णौ श्रीकण्ठे निष्पराजये ।
अपराजिता तु दुर्गाश्वेतावपि जयन्तिका ॥ २१ ॥

उपधूपित आसन्नमरणे धूपितेऽपि च ।
स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ ॥ २२ ॥

पृथवीपतिस्तु भूपे कृतान्त ऋषभौषधौ ।
मूर्घाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च ॥ २३ ॥

यादसांपतिरम्भोधौ प्रतीचीदिक्पतावपि ।
वसन्तदूतश्चूते स्यात्पिकपञ्चमरागयोः ॥ २४ ॥

वसन्तदूती पाटल्यामतिमुक्तकभूरुहि ।

इति पञ्चस्वरतान्ताः ।
पञ्चस्वरदान्ताः

सहस्रपादः कारण्डे भास्करे यज्ञपूरुषे ॥ २५ ॥

इति पञ्चस्वरदान्ताः ।
पञ्चस्वरधान्ताः

योजनगन्धा कस्तूर्यां सीतायां व्यासमातरि ।

इति पञ्चस्वरधान्ताः ।
पञ्चस्वरनान्ताः

अपवर्जनं निर्वाणे परित्यागे विहायिते ॥ २६ ॥

अभिनिष्ठानस्तु वर्णे विसर्गेऽथोऽनुवासनम् ।
स्नेहने धूपने चाऽन्तावसायी श्वपचे मुनौ ॥ २७ ॥

अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् ।
विश्राणने च हिंसायामादेशे सेवकस्य च ॥ २८ ॥

स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि ।
उपसंपन्नं पर्य्याप्ते संस्कृतप्राप्तयोर्मृते ॥ २९ ॥

कलानुनादी चटके चञ्चरीके कपिञ्जले ।
गन्धमादनः कप्यद्रिभिदोरलिनि गन्धके ॥ ३० ॥

गन्धमादनी सुरायामथ जायानुजीविनः ।
नटाश्विनबकदुःस्थाः स्याद् धूमकेतनोऽनले ॥ ३१ ॥

ग्रहभेदे च प्रतिपादने बोधनदानयोः ।
पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः ॥ ३२ ॥

पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि ।
पीतचन्दनं स्याद्धरिद्रायां काश्मीरजन्मनि ॥ ३३ ॥

महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः ।
भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे ॥ ३४ ॥

द्रोणकाकेऽप्पथ वरचन्दनं देवदारुणि ।
कालेये वरवर्णिन्यङ्गनालाक्षाप्रियङ्गुषु ॥ ३५ ॥

रोचनायां हरिद्रायामथ स्याच्छकुलादनी ।
कट्वां मांसीपिचुलिकाजलपिप्पलिकासु च ॥ ३६ ॥

शलङ्कायनशब्दः स्यादृषिभेदेऽपि नन्दिनि ।
शिवकीर्तिनशब्दस्तु भृङ्गिरीटेऽसुरद्विषि ॥ ३७ ॥

श्वेतवाहन इत्याख्या शशाङ्गे च धनञ्जये ।
स्यात्षष्टिहायनो धान्यविशेषे च मतङ्गजे ॥ ३८ ॥

सहस्रवेधी चुक्रे स्यात् सहस्रवेधि रामठे ।
हरिचन्दनमाख्यातं गोशीर्षे देवपादपे ॥ ३९ ॥

हरिवाहन इत्युक्तो भास्करामरनाथयोः ।

इति पञ्चस्वरनान्ताः ।
पञ्चस्वरपान्ताः

भवेच्चामरपुष्पस्तु केतके चूतकाशयोः ॥ ४० ॥

इति पञ्चस्वरपान्ताः ।
पञ्चस्वरबान्ताः

गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले ।
धूलीकदम्बस्तिनिमे नीपे वरुणपादपे ॥ ४१ ॥

शृगालजम्बूर्गोडुम्बे फले च बदरीतरोः ।

इति पञ्चस्वरबान्ताः ।
पञ्चस्वरमान्ताः

अभ्युपगमः समीपागमने स्वीकृतावपि ॥ ४२ ॥

नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु ।

इति पञ्चस्वरमान्ताः ।
पञ्चस्वरयान्ताः

कालानुसार्यं शैलेये कालीये शिंशपातरौ ॥ ४३ ॥

अथ स्वाद् दुग्धतालीयं दुग्धाग्रदुग्धफेनयोः ।
भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि ॥ ४४ ॥

वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियाम् ।

इति पञ्चस्वरयान्ताः ।
पञ्चस्वररान्ताः

उत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते ॥ ४५ ॥

कपिलधारा त्रिदशापगायां तीर्थभिद्यपि ।
तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ॥ ४६ ॥

तालीसपत्रं तु तामलक्यां तालीसके क्वचित् ।
पादचत्वरः करके परदोषैकभाषिणि ॥ ४७ ॥

सैकते छगलेऽश्वत्थद्रुमेऽथ पांशुचामरः ।
वर्धापके प्रशंसायां दूर्वाञ्चिततटीभुवि ॥ ४८ ॥

पुरोटोधूलिगुच्छे पीतकावेरं तु कुङ्कुमे ।
पित्तले वस्वौकसारा त्विन्द्रस्य धनदस्य च ॥ ४९ ॥

पुरीनलिन्यौ विप्रतिसारस्त्वनुशये क्रुधि ।
कौकृत्ये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः ॥ ५० ॥

निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति ।
समभिहारो भृशार्थे पौनःपुन्येऽपि कथ्यते ॥ ५१ ॥

इति पञ्चस्वररान्ताः ।
पञ्चस्वरलान्ताः

आसुतीवलशब्दस्तु जज्ञकर्तरि शौण्डिके ।
भवेदुद्दण्डपालस्तु मत्स्यसर्पप्रभेदयोः ॥ ५२ ॥

एककुण्डल इत्येष बलभद्रे धनाधिपे ।
कृपीटपालशब्दस्तु केनिपाते पयोनिधौ ॥ ५३ ॥

कूटपले गजपित्तज्वरे कुलालमारुते (?) ।
स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः ॥ ५४ ॥

मन्त्रचूर्णलमिच्छन्ति वशीकरणवादिनि ।
डाकिनीदोषमन्त्रज्ञे कुशाम्बुप्रीणनेऽपि च ॥ ५५ ॥

भवेत्सुरतताली तु दूतिकायां शिरःस्रजि ।

इति पञ्चस्वरलान्ताः ।
पञ्चस्वरवान्ताः

आशितम्भवमन्नादावाशितम्भवस्तु तर्पणे ॥ ५६ ॥

स्यादाषाढभवो भौमे नवीनजलदेऽपि च ।

इति पञ्चस्वरवान्ताः ।
पञ्चस्वरसान्ताः

स्यान्नभश्चमसश्चन्द्रे चित्रयूपेन्द्रजालयोः ॥ ५७ ॥

हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च ।
हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च ॥ ५८ ॥

इति पञ्चस्वरसान्ताः ।
इत्याचार्यहेमचनच्दरविरचितेऽनेकार्थसङ्ग्रहे पञ्चस्वरकाण्डः पञ्चमः ।