"ऋग्वेदः सूक्तं १.१५५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
{{सायणभाष्यम्|
‘प्र वः पान्तम्' इति षडृचं षोडश सूक्तं दैर्घतमसं जागतम् । पूर्वत्र वैष्णवं हि' इत्युक्तत्वात् वैष्णवम् । आद्यस्तृच इन्द्रदेवताकश्च । प्र वो जागतं त्वैन्द्रश्चाद्यस्तृचः' इत्यनुक्रमणिका। आभिप्लविकेषूक्थ्येषु स्तोमातिशंसने उक्तो विनियोगः ॥
 
 
प्र व॒ः पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत ।
Line ३९ ⟶ ४१:
या । सानुनि । पर्वतानाम् । अदाभ्या । महः । तस्थतुः । अर्वताऽइव । साधुना ॥१
 
हे अध्वर्य्वादयः “वः युष्माकं संबन्धि “पान्तं पालनस्वभावं पातव्यं वा “अन्धसः अन्धः सोमरूपमन्नं “प्र “अर्चत प्रकर्षेण संपादयत । कस्मै । “धियायते स्तुतीरिच्छते “महे महते “शूराय विक्रान्तायेन्द्राय "विष्णवे व्यापकायैतन्नामकाय देवाय “च । कस्तयोरतिशय इति उच्यते । “या यौ इन्द्राविष्णू “पर्वतानां प्रीणनवतां पूरणवतां वा । पर्वतशब्दो यास्केनैवं निरुक्तः -- ‘ पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा ' इति । उक्तलक्षणानां लोकानाँ “सानुनि समुच्छ्रितप्रदेशे । सर्वलोके इत्यर्थः । अथवा मेघानां समुच्छ्रितप्रदेशे । पर्वतशब्दः मेघनामसु उक्तत्वात् । तत्र “तस्थतुः तिष्ठतः । कीदृशौ तौ । “अदाभ्या अदम्भनीयौ परैरनभिभाव्यौ अत एव "महः महान्तौ । यद्वा । महो महसि स्वतेजसि सानुनीत्यनेन संबन्धः । तत्र दृष्टान्तः । “साधुना अभिमतदेशप्रापणसमर्थेन “अर्वता वेगवताश्वेन “इव । तेन यथा अत्युच्छ्रितं प्रदेशमारोहति तद्वदुच्चं पदमारूढौ । तस्मात्ताभ्यामर्चत ।।
 
 
सोमातिरेके तृतीयसवने एषा वैकल्पिकी याज्या। तथा च सूत्रितं - ‘ त्वेषमित्था समरणं शिमीवतोरिति वा याज्या' (आश्व. श्रौ. ६. ७) इति ॥
 
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिन्द्रा॑विष्णू सुत॒पा वा॑मुरुष्यति ।
Line ५१ ⟶ ५७:
 
या । मर्त्याय । प्रतिऽधीयमानम् । इत् । कृशानोः । अस्तुः । असनाम् । उरुष्यथः ॥२
 
हे "इन्द्राविष्णू "शिमीवतोः इष्टप्रदानादिकर्मवतोः “वां युवयोः “इत्था इत्थं “त्वेषं प्रदीप्तं “समरणं सम्यग्यागदेशगमनं "सुतपाः हुतशिष्टसोमपीतयजमानः "उरुष्यति रक्षति यागेन पूजयति । यद्वा । शिमीवतोः प्रहरणादिकर्मवतोः वां युवयोः त्वेषं दीप्तं शौर्योपेतं समरणं सम्यक्परस्परगमनोपेतं वृष्टिप्रदानाय मेघविदारणरूपं यजमान उरुष्यति रक्षति स्तौतीत्यर्थः । कस्तयोरतिशय इति उच्यते । “या यौ इन्द्राविष्णू “मर्त्याय मनुष्याय हविर्दात्रे यजमानाय "प्रतिधीयमानमित् प्रतिधातव्यं फलरूपम् “असनाम् असनं चलनशीलं प्रदानशीलमन्नादिकम् “अस्तुः अभिमतक्षेप्तुर्निरसितुर्वा शत्रूणां “कृशानोः अग्नेः सकाशात् "उरुष्यथः अविच्छेदेन प्रवर्तयथः । वह्नौ हुतं हविः स्वीकृत्य तन्मुखादेव फलमपि दास्यथ इत्यर्थः ।
 
 
Line ६४ ⟶ ७२:
 
दधाति । पुत्रः । अवरम् । परम् । पितुः । नाम । तृतीयम् । अधि । रोचने । दिवः ॥३
 
“ताः सोमरूपाः प्रसिद्धा आहुतयो यजमानेन हुताः “ईम् एतत् “अस्य इन्द्रस्य “महि महत् “पौंस्यं पुंसः कर्म वक्ष्यमाणरूपं बलं “वर्धन्ति वर्धयन्ति । ईमित्यनर्थको वा । स चेन्द्रः सोमपानजनितं सामर्थ्यं “मातरा द्यावापृथिव्यौ “नि “नयति नितरां प्रापयति । किमर्थम् । "रेतसे प्राणिनां पुत्राद्युत्पादनसामर्थ्याय “भुजे तेषां भोगाय रक्षणाय वा । कुत्रेति तदुच्यते । “दिवः द्योतमानस्यादित्यस्य “अधि अधिकं “रोचने रोचमाने मण्डले। “नाम नमनं द्यावापृथिव्योः स्थापितं सामर्थ्यं “पुत्रः पुरुत्राता सर्वो जनः “पितुः पालकाद्विष्णोरनुग्रहात् । यद्वा । पितुः स्वोत्पादकात् स्वयमुत्पन्नं सत् “अवरं निकृष्टं नाम पौत्रसंज्ञं “परं तदुत्कृष्टं पुत्र इति नाम तदुभयापेक्षया “तृतीयं पितेति नाम “दधाति धारयति । त्रीणि वाव रेतांसि पिता पुत्रः पौत्रः' (तै. सं. ५. ६. ८. ४ ) इति श्रुतेः । अस्यायमर्थः । अग्नौ हुताः सोमाहुतयः आदित्यमण्डलं प्राप्य द्वादशात्मनः सवितुर्मूर्त्यन्तरौ इन्द्राविष्णू पोषयन्ति तुष्टौ तौ मेघद्वारा वर्षतः । तया वृष्ट्या सस्यादिद्वारा प्रजाः पुत्रपौत्रादिरूपेण वर्धयत इत्येवं महानुभावौ इन्द्राविष्णू इति ॥
 
 
Line ७७ ⟶ ८७:
 
यः । पार्थिवानि । त्रिऽभिः । इत् । विगामऽभिः । उरु । क्रमिष्ट । उरुऽगायाय । जीवसे ॥४
 
“अस्य महानुभावस्य “तत्तत् “पौंस्यं पुंस्त्वं पराक्रमातिशयं “गृणीमसि गृणीमः स्तुमः । कीदृशस्यास्य । “इनस्य सर्वस्य स्वामिनः “त्रातुः पालकस्य “अवृकस्य । वृको हिंसकः शत्र्वादिः । तद्रहितस्य "मीळ्हुषः सेक्तुर्नित्यतरुणस्य । स्तुत्येषु पराक्रमेषु मध्ये एकमुदाहरति । “यः विष्णुः “पार्थिवानि पृथिव्यादीनि प्रथनवन्ति वा सामर्थ्यात् रजांसीति गम्यते । लोकत्रयस्यापि पृथिवीशब्दवाच्यत्वं पूर्वमुदाहृतम् । तानि “त्रिभिरिद्विगामभिः त्रिभिरेव विविधगमनैः "उरु विस्तीर्णं यथा भवति तथा “क्रमिष्ट क्रान्तवान् विचक्रमे इत्यर्थः । “उरुगायाय उगातव्याय “जीवसे लोकत्रयरक्षणाय । यद्वा । उरुगायाय ॥ षष्ठ्यर्थे चतुर्थी ॥ उरुगायस्य विष्णोरीदृशं पराक्रमं गृणीमसि । किमर्थम् । जीवसे जीवनाय रक्षणाय ॥
 
 
Line ९० ⟶ १०२:
 
तृतीयम् । अस्य । नकिः । आ । दधर्षति । वयः । चन । पतयन्तः । पतत्रिणः ॥५
 
“अस्य “स्वर्दृशः स्वर्गस्य सर्वस्य वा द्रष्टुर्विष्णोः “द्वे “इत् “क्रमणे द्वे एव पदे "मर्त्यः मनुष्यः “अभिख्याय सर्वभूत्यादिना प्रख्याय “भुरण्यति गच्छति भजते। भुरण्यतिः कण्ड्वादिर्गतिकर्मा, ‘भुरण्यति शवति ' (नि. २. १४. १६) इति तत्कर्मसु पाठात् । प्रसिद्धत्वात् भूलोकं वृष्ट्यागमनादन्तरिक्षं चेत्युभे क्रमणे जानाति । “अस्य विष्णोः “तृतीयं क्रमणं द्युलोकाख्यं कोऽपि मर्त्यः ”नकिः नैव “आ “दधर्षति बुद्ध्या नाभिभवति ज्ञातुं न शक्नोतीत्यर्थः । न केवलं मनुष्य एव अपि तु “वयश्चन वेतारो मरुतोऽपि । कीदृशास्ते । “पतयन्तः सर्वत्र गमनसमर्थाः तथा “पतत्रिणः पतनशीला गरुडादयो वायवो वा नकिरा दधर्षति नैव शक्नुवन्ति ॥ धृषेर्लेटि अडागमः ॥ सत्यलोकस्य अत्यन्तविप्रकृष्टत्वेन सर्वेषामविषयत्वादिति भावः ॥
 
 
Line १०३ ⟶ ११७:
 
बृहत्ऽशरीरः । विऽमिमानः । ऋक्वऽभिः । युवा । अकुमारः । प्रति । एति । आऽहवम् ॥६
 
अयमादित्यात्मा विष्णुः “चतुर्भिः “साकं सहितां "नवतिं “च । चतुर्नवतिमित्यर्थः । एतत्संख्याकान् कालावयवान् “नामभिः स्वकीयनमनप्रकारैः प्रेरणविशेषैः “वृत्तं यथा भवति तथा “व्यतीन् विविधातनस्वभावान् वृत्तं “चक्रं “न बह्वरोपेतं चक्रमिव तं यथा शत्रोरुपरि प्रक्षेपेण भ्रमयति तद्वदुक्तसंख्याकान् कालावयवान् “अवीविपत् कम्पयति भ्रमयति॥ ‘ टुवेपृ कम्पने '। ण्यन्तात् लुङि चङि रूपम् ॥ के पुनस्ते उच्यते । संवत्सर एकः । अयने द्वे। पञ्चर्तवः । द्वादश मासाः । चतुर्विंशत्यर्धमासाः । त्रिंशदहोरात्राः । अष्टौ यामाः । एकस्मिन् दिने पर्यावर्तमानानि मेषादीनि द्वादश लग्नानीति मिलित्वा चतुरधिकनवतिसंख्याकानवीविपत्। नन्वादित्यः स्वयमपि इतरवत्परिभ्रमति कथं भ्रमयति इत्युच्यते । नैष दोषः । एतेषां भ्रामकस्य धुवस्य विष्णोः मूर्त्यंन्तरत्वात्। अथवा स्वभ्रमणाधीनत्वादितरेषां परिभ्रमणस्य अतः स्वयं भ्रमयति इत्युच्यते । एवं कलात्मकः विष्णुः “बृहच्छरीरः विराडात्मना सर्वदेवमनुष्यादिशरीराणां स्वशरीरत्वात् । बृहच्छरीरत्वमेवोपपादयति । “विमिमानः विविधमात्मानं मिमानो देवतिर्यगात्मना विभज्य स्थापयन् । यद्वा । “ऋक्वभिः स्तुतिमद्भिः मन्त्रवद्भिः वा विमिमानः । यद्यपि विभुस्तथापि भक्त्याधीनत्वात् स्तुत्या मीयते । “युवा सर्वत्र मिश्रणशीलो नित्यतरुणो वा अत एव “अकुमारः अनल्पः एवंभूतो महाविष्णुः “आहवम् आह्वानं “प्रत्येति गच्छति यज्ञदेशम् ॥ ॥ २५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५५" इत्यस्माद् प्रतिप्राप्तम्