"ऋग्वेदः सूक्तं १.१५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘ भवा मित्रः' इति पञ्चर्चं सप्तदशं सूक्तं दैर्घतमसम् । ' जागतं तु ' इत्युक्तत्वादिदमपि जागतम् । 'वैष्णवं हि ' इत्युक्तत्वाद्वैष्णवम् । ‘भव पञ्च' इत्यनुक्रान्तम् ॥ उक्थ्ये तृतीयसवने अच्छावाकशस्त्रे एतत् सूक्तं विनियुक्तम् । 'उक्थ्ये तु होत्रकाणाम्' इति खण्डे सूत्रितं - भवा मित्रः सं वां कर्मणा ' ( आश्व. श्रौ. ६. १) इति । सौम्यचरोरुभयतो वृतेन यष्टव्यं तत्रोपरितने घृतयागे ‘ उरु विष्णो वि क्रमस्व' इति प्राकृता याज्या। दशमेऽहनि तु तस्याः स्थाने ' भवा मित्रः इत्येषा प्रयोक्तव्या ।' दशमेऽहनि' इति खडे सूत्रितम् -' उरु विष्णो वि क्रमस्वेति घृतयाज्यास्थाने भवा मित्रः' (आश्व. श्रौ. ८. १२ ) इति ॥
 
 
भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑ति॒र्विभू॑तद्युम्न एव॒या उ॑ स॒प्रथा॑ः ।
Line ३५ ⟶ ३७:
 
अध । ते । विष्णो इति । विदुषा । चित् । अर्ध्यः । स्तोमः । यज्ञः । च । राध्यः । हविष्मता ॥१
 
हे विष्णो “मित्रो “न । मितेर्दुःखात् त्राता सखा आदित्यो वा मित्रः। ‘प्रमीतेस्त्रायते' (निरु. १०. २१) इति निरुक्तम् । तद्वत् "शेव्यः सुखे साधुः सुखकर्ता “घृतासुतिः । घृतमुदकम् आसूयते येन स तादृशः । यद्वा । घृतमाज्यमाभिमुख्येन नीयते यस्मै स तादृशः । “विभूतद्युम्नः प्रभूतयशाः प्रभूतान्नो वा “एवयाः रक्षणस्य मिश्रयिता प्रापयिता । "सप्रथाः सर्वतः पृथुः । प्रतिविशेषणं नः “भव इति संबन्धः । द्व्यचोऽतस्तिङः ' इति दीर्घः। “उ इति पादपूरणः ॥ हे “विष्णो त्वं यस्मादीदृशो भवसि “अध अस्मात् “ते तव “स्तोमः स्तोत्रविशेषः “विदुषा त्वन्माहात्म्यवेदित्रा यजमानेन “अर्ध्यः पुनःपुनः प्रवर्धनार्हः । एकवारकरणे न संपूर्यते इत्यर्थः । तथा ते “यज्ञश्च "हविष्मता तेन यजमानेन “राध्यः समाराधनीयः। यद्वा । विदुषा होत्रा स्तोमो राध्यो हविष्मता यज्ञश्च राध्यः ॥
 
 
Line ४८ ⟶ ५२:
 
यः । जातम् । अस्य । महतः । महि । ब्रवत् । सः । इत् । ऊं इति । श्रवःऽभिः । युज्यम् । चित् । अभि । असत् ॥२
 
"यः यो मर्त्यः “पूर्व्याय पूर्वकालीनाय नित्यायेत्यर्थः । "वेधसे विविधजगत्कर्त्रे “नवीयसे नित्यनूतनाय अत्यन्तरमणीयायेत्यर्थः । स्तुत्याय वा “सुमज्जानये स्वयमेवोत्पन्नाय ॥ जनेरौणादिक इण् ॥ ‘ सुमत्स्वयमित्यर्थः' (निरु. ६. २२) इति यास्कः । यद्वा । सुतरां मादयतीति सुमत्। तादृशी जाया यस्य स तथोक्तः । तस्मै सर्वजगन्मादनशीलश्रीपतये इत्यर्थः ॥ बहुव्रीहौ ‘जायाया निङ्' (पा. सू. ५. ४. १३४ ) इति निङादेशः समासान्तः । वलि लोपः ॥ उक्तगुणकाय "विष्णवे व्यापकाय “ददाशति हविरादिकं ददाति । किंच "अस्य विष्णोः "महतः महानुभावस्य “महि महत् पूज्यं “जात जन्म उत्पतिं हिरण्यगर्भादिरूपं जन्म “ब्रवत् ब्रूयात् ॥ ब्रवीतेर्लेटि अडागमः ॥ संकीर्तयेत्। “सेदु । उशब्दोऽपिशब्दार्थः । सोऽपि दाता स्तोता च “श्रवोभिः अन्नैः कीर्तिभिर्वा युक्तः सन् “युज्यं “चित सर्वैर्गन्तव्यमेव तत्पदम् “अभि आभिमुख्येन “असत् गच्छति प्राप्नोति ॥
 
 
Line ६२ ⟶ ६८:
आ । अस्य । जानन्तः । नाम । चित् । विवक्तन । महः । ते । विष्णो इति । सुऽमतिम् । भजामहे ॥३
 
हे “स्तोतारः “तमु तमेव विष्णुं “पूर्व्यं पूर्वार्हम् अनादिसंसिद्धम् “ऋतस्य “गर्भं यज्ञस्य गर्भभूतं यज्ञात्मनोत्पन्नमित्यर्थः । यज्ञो वै विष्णुः '(श. ब्रा. १. १. २. १३) इति श्रुतेः । यद्वा । ऋतस्योदकस्य गर्भं गर्भकारणम् उदकोत्पादकमित्यर्थः । ‘ अप एव ससर्जादौ' (मनु. १.८) इति स्मृतेः । एवंभूतं विष्णुं “यथा “विद जानीथ तथा “जनुषा जन्मना स्वत एव न केनचिद्वरलाभादिना पिपर्तन स्तोत्रादिना प्रीणयत यावदस्य माहात्म्यं जानीथ तावदित्यर्थः ॥ विदेर्लटि मध्यमबहुवचनम् । ' विद ऋतस्य ' इत्यत्र संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावः ॥ किंच “अस्य महानुभावस्य विष्णोः “नाम “चित् सर्वैर्नमनीयमभिधानं सार्वात्म्यप्रतिपादकं विष्णुरित्येतन्नाम “जानन्तः पुरुषार्थप्रदमित्यधिगच्छन्तः “आ समन्तात् “विवक्तन वदत संकीर्तयत । यद्वा । नाम यज्ञात्मना नमनं विष्णोरेव सर्वेषां स्वर्गापवर्गसाधनाय इष्ट्याद्यात्मना द्रव्यदेवतात्मना वा परिणामम् आ जानन्तो यूयं विवक्तन ब्रूत स्तुत ॥ वचेर्लोटि छान्दसः शपः श्लुः । बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । पूर्ववत् तनादेशः ॥ इदानीं साक्षात्कृत्याह । हे “विष्णो सर्वात्मक देव "महः महतः "ते तव “सुमतिं सुष्टुतिं शोभात्मिकां बुद्धिं वा “भजामहे सेवामहे वयं यजमानाः ॥
 
 
अग्नीषोमप्रणयने 'तमस्य राजा ' इत्येषा प्रयोक्तव्या। ‘ अग्नीषोमौ प्रणेष्यत्सु' इति खण्डे सूत्रितं -- तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत् ' ( आश्व. श्रौ. ४. १० ) इति ।।
 
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धस॑ः ।
Line ७४ ⟶ ८४:
 
दाधार । दक्षम् । उत्ऽतमम् । अहःऽविदम् । व्रजम् । च । विष्णुः । सखिऽवान् । अपऽऊर्णुते ॥४
 
“मारुतस्य । मरुतामृत्विजां संघातः मारुतम् । तद्वतः ॥ मत्वर्थो लुप्यते ॥ मरुतां देवानां संबन्धिनो वा “वेधसः मेधाविनः “अस्य यजमानस्य “तं प्रसिद्धं “क्रतुं याग यज्ञात्मकं विष्णुम्। यज्ञो वै विष्णुः' इति श्रुतेः । “राजा राजमानः “वरुणः “सचन्त सेवते । "तम् एवं क्रतुं यागम् “अश्विना अश्विनी सचेते। अन्येऽपि देवाः सचन्ते सेवन्ते । किंच “विष्णुः सवनत्रयात्मना व्याप्तो विष्णुः “सखिवान् यजमानादिसखिभिर्युक्तः सन् “उत्तमम् उत्कृष्टतमम् “अहर्विदम् अहर्वेत्तारं स्वर्गोत्पादकमित्यर्थः। “दक्षं बलं फलप्रदानसामर्थ्यरूपं “दाधार धृतवान् । किंच "व्रजं च मेघं च । व्रज इति मेघनाम, ‘व्रजः चरुः' (नि. १. १०. ११) इति तन्नामसु पाठात् । तं वृष्ट्युदकाय “अपोर्णुते अपगतावरणं करोति । आहुतिद्वारा यज्ञस्यैव वृष्ट्युत्पादकत्वात् । यद्वा । मारुतस्य मरुत्संघातस्य देवगणस्य वेधसो विधातुः स्रष्टुर्विष्णोः क्रतुं कर्म पालनादिरूपं वरुणादयः सचन्ते । तदधीनत्वात् पालनस्य। स च सखिवान् इन्द्रमरुदादिसहायोपेतः सन् उक्तलक्षणं दक्षं वृष्ट्युत्पादनादिसामर्थ्यरूपं बलं दाधार तथा व्रजं चापोर्णुते ॥
 
 
Line ८७ ⟶ ९९:
 
वेधाः । अजिन्वत् । त्रिऽसधस्थः । आर्यम् । ऋतस्य । भागे । यजमानम् । आ । अभजत् ॥५
 
यः विष्णुः “दैव्यः दिवि भवः “सुकृत्तरः शोभनफलप्रदानां मध्ये श्रेष्ठः “आ “विवाय आगच्छति ॥ वेतेर्लिटि रूपम् । किमर्थम् । "सचथाय सचनाय यागसहायकरणाय। कस्मै । “इन्द्राय। इरां हविर्लक्षणान्नं द्रावयतीतीन्द्रो यजमानः। ‘ इन्द्र इरां दृणातीति इदंकरणादित्याग्रायणः ( निरु. १०, ८) इति यास्केनोक्तनिर्वचनस्यात्रापि सद्भावात् ॥ तस्मै उक्तरूपाय यजमानाय “सुकृते शोभनस्तुतिकर्त्रे । आगत्य च “वेधाः अभिमतफलविधाता “त्रिषधस्थः त्रिसंख्योपेतसहस्थानवान् । सवनत्रयस्थानः क्षित्यादिस्थानत्रयो वा विष्णुः । “आर्यम् आगन्तव्यं यजमानम् “अजिन्वत् प्रीणयति ॥ जिवि प्रीणनार्थः । इदित्वात् नुम् ॥ तदर्थम् “ऋतस्य यज्ञस्य “भागे हुतशेषरूपे तं “यजमानम् आभजत भजति समीपयतीत्यर्थः। यद्वा । ऋतस्य यज्ञस्य भागे फले यजमानम् आभिजत् स्वामित्वेन स्थापयति ॥ ॥ २६ ॥ ॥ २१ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५६" इत्यस्माद् प्रतिप्राप्तम्