"ऋग्वेदः सूक्तं १.१६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
 
{{सायणभाष्यम्|
‘ किमु श्रेष्ठः' इति चतुर्दशर्चं पञ्चमं सूक्तं दैर्घतमसमार्भवम् । अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । अनुक्रान्तं च - किमु श्रेष्ठः षळूनार्भवं त्रिष्टुबन्तम्' इति । व्यूळ्हे दशरात्रे षष्ठेऽहनि वैश्वदेवशस्त्रे आर्भवं निविद्धानं द्वि प्रतीकम् । तत्र 'किमु श्रेष्ठः' इत्येतदन्त्यवर्जं प्रतीकम् । ‘ व्यूळ्हश्चेत्' इति खण्डे सूत्रितं - किमु श्रेष्ठ उप नो वाजा इति त्रयोदशार्भवं चतस्रश्च' (आश्व. श्रौ. ८. ८) इति ॥
 
 
किमु॒ श्रेष्ठ॒ः किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म ।
Line ५४ ⟶ ५६:
 
न । निन्दिम । चमसम् । यः । महाऽकुलः । अग्ने । भ्रातः । द्रुणः । इत् । भूतिम् । ऊदिम ॥१
 
ऋभवो नाम सुधन्वनस्त्रयः पुत्रा ऋभुर्विभ्वा वाज इति । ते च मनुष्याः सन्तः सुकर्मणा देवत्वं प्राप्य कदाचित् कर्मकाले सोमपानाय प्रवृत्ताः । तान् प्रति देवैः प्रेरितोऽग्निः परस्परसमानरूपान् दृष्ट्वा स्वयमपि तदाकारं धृत्वा तेषु मध्ये स्वयं चतुर्थः सन् पातुं प्रवृत्तः । ते च ऋभवः आगतं तं समानरूपमवलोक्य विवेक्तुमसमर्थाः पदस्परमेवं संदिहते । अयं “किमु “श्रेष्ठः किं नु खलु अस्मत्तोऽयं प्रशस्यतमो वयसा श्रेष्ठः सोऽस्मान् “आजगन् आगमत् प्राप्तः ॥ गमेर्लङि छान्दसः शपः श्लुः । हल्ङ्यादिलोपे ' मो नो धातोः' इति नत्वम् । अजगन्निति गतिकर्मा, अगन् अजगन्' (नि. २. १४.११२) इति तन्नामसु पाठात् ।। “किं “यविष्ठः किं वा अस्माकं युवतमोऽस्मत्तः कनीयान् आजगन् प्राप्तः । “किं वा “दूत्यं दूतकर्म देवसंबन्धि “ईयते गच्छति । देवैः प्रेरितः दूतोऽस्मानागतो वा ॥ ‘ दूतस्य भागकर्मणी ' इति यत् ॥ “यदूचिम यदेतत् ब्रूमः तत् "कत् । कथं निश्चेतव्यमित्यर्थः । वयं तावत् त्रय एव इदानीं चत्वारः समानरूपा वर्तामहे तस्मादयमधिकः किमु श्रेष्ठ इति विचिकित्सा । एवं संदिह्य कथंचित् स्वतोऽन्यं निश्चित्य तं प्रति आपरोक्ष्येण ब्रुवते । हे “अग्ने "भ्रातः भ्रातृवद्भागार्ह । भ्राता यथा बलात् स्वकीयभागं स्वीकरोति तद्वत् समानरूपमाश्रित्य बलात् चमसपानाय प्रवृत्त इति भ्रातरित्युक्तम् । हे तादृशाग्ने “चमसं “न “निन्दिम । अधिकः समागत इति पानमकृत्वा चमसं न दूषयामः ॥ ‘ णिदि कुत्सायाम् । 'छन्दसि वेति वक्तव्यम्' इति द्विर्वचनाभावः ॥ अदूष्यत्वे कारणमाह । “यः चमसः महाकुलः महाकुलोत्पन्नः त्वष्ट्रा निर्मितत्वात् । वक्ष्यति च त्वष्टा ग्नास्वन्तर्न्यानजे ' ( ऋ. सं १. १६१. ४ ) इति । अतः कारणात् “द्रुणः । विकारे प्रकृतिशब्दः । ततश्च तत्स्थे तच्छब्दः । इच्छब्दोऽवधारणे । दारुविकारचमसस्य "भूतिं प्राप्तिम् "ऊदिम ब्रूमः ॥ विदेश्छान्दसे लिटि वचिस्वपि ' इति संप्रसारणम् । क्रादिनियमात् इट् ।
 
 
Line ६७ ⟶ ७१:
 
सौधन्वनाः । यदि । एव । करिष्यथ । साकम् । देवैः । यज्ञियासः । भविष्यथ ॥२
 
एवं पृष्टोऽग्निस्तान् प्रत्युवाच । हे "सौधन्वनाः सुधन्वनः पुत्राः यूयम् “एकं "चमसं त्वष्ट्रा संपादितं पूर्वमेकमेव सन्तं चमसं “चतुरः “कृणोतन चतुःसंख्याकान् कुरुत । चतुरः शसि' (पा. सू. ६. १. १६७ ) इत्यन्तोदात्तत्वम् । पूर्ववत् तनप् ।। यथा उपरितने ' ज्येष्ठ आह चमसा द्वा करेति । इत्युपक्रम्य ‘ कनिष्ठ आह चतुरस्करेति' ( ऋ. सं. ४. ३३. ५) इति चतुष्कं निर्धारितम् । न केवलमहमेव ब्रवीमि किंतु “वः युष्मान प्रति “तत् उक्तं चतुर्धाकरणरूपं कर्म उत्तरत्र वक्ष्यमाणम् अश्वरथादिकरणरूपं च कर्म “देवाः इन्द्रादयः “अब्रुवन् । देवत्वप्राप्त्युपायत्वेन “तत् तादृशं कर्म “वः युष्माकं वक्तुम् अहम् “आगमम् प्राप्तोऽस्मि । यस्मादेवं तस्माद्यूयं “यद्येवा “करिष्यथ यद्येवं मदुक्तप्रकारेण कर्तुं शक्नुथ तथा चेत् “देवैः “साकं सह “यज्ञियासो “भविष्यथ । इति तैरुक्तमित्यर्थः ।।
 
 
Line ८० ⟶ ८६:
 
धेनुः । कर्त्वा । युवशा । कर्त्वा । द्वा । तानि । भ्रातः । अनु । वः । कृत्वी । आ । इमसि ॥३
 
हे आगत देव "अग्निम् अङ्गनादिगुणविशिष्टं “दूतं दूतकर्म प्राप्तवन्तं त्वां “प्रति “यत् यत्कार्यम् "अब्रवीतन अब्रुवन् । व्यत्ययेन मध्यमः । पूर्ववत् तनप् ॥ किमिति “अश्वः "कर्त्वः ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६१" इत्यस्माद् प्रतिप्राप्तम्