"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
 
{{सायणभाष्यम्|
‘ अस्य वामस्य' इति द्विपञ्चाशदृचमष्टमं सूक्तं दैर्घतमसम् । अत्रेयमनुक्रमणिका -- अस्य द्विपञ्चाशदल्पस्तवं त्वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्र प्रायेण ज्ञानमोक्षाक्षरप्रशंसा च पञ्चपादं साकंजानां यद्गायत्रेऽयं स शिङ्क्ते सप्तार्धगर्भा गौरीरिति जगत्यः । एतदन्तं तु वैश्वदेवं तस्याः समुद्रा इति वाचः समुद्रा आपोऽक्षरं सा प्रस्तारपङ्तिःतव शकमयमिति शकधूम उक्षाणं पृश्निमिति सोमः। त्रयः केशिन इत्यग्निः सूर्यो वायुश्च केशिनश्चत्वारि वाग्वाच इन्द्रं मित्रं सौर्यों द्वादशेति संवत्सरसंस्थं कालचक्रवर्णनं यस्ते सरस्वत्यै यज्ञेन साध्येभ्यः परानुष्टुप् सौरी पर्जन्याग्निदेवता वान्त्या सरस्वते सूर्याय वा ' इति । अत्र स्तुत्याबहुत्वेन स्तुतिभागस्याल्पीयस्त्वादिदं सूक्तमल्पस्तवनम्। न सूक्तान्तरवत् बहुस्तवम्। इदमेव वैलक्षण्यं तुशब्देन द्योत्यते । अस्मिन् सूक्ते प्रायेण संशयोत्थापनादयो बहवोऽर्थाः प्रतिपाद्यन्ते । 'अचिकित्वाञ्चिकितुषः' इत्यनया संशयः उत्थाप्यते । ‘ पृच्छामि त्वा' इत्यत्र प्रश्नः प्रतीयते । इयं वेदिः' इत्यत्र प्रतिवचनम्। ‘ य ईं चकार' इत्यादिना ज्ञानप्रशंसा प्रतिपाद्यते । ‘ अपश्यं गोपाम् ' इत्यादिना ब्रह्मसाक्षात्काररूपस्य प्रशंसा । न क्षरति इत्यक्षरं ब्रह्म। ‘ द्वा सुपर्णा ' इत्यादिना तस्य प्रशंसा । ‘ पञ्चपादं पितरं ', 'साकंजानां सप्तथं ', ' यद्गायत्रे अधि', 'अयं स शिङ्क्ते', ' सप्तार्धगर्भाः', ‘ गौरीर्मियाय ' इति षड्जगत्यः । समानमेतत्' इत्यनुष्टुप् । तस्याः समुद्राः' इति प्रस्तारपङ्क्तिः । तल्लक्षणं छन्दोग्रन्थे सूत्रितं - ‘ प्रस्तारपङ्क्तिः पुरतः ' ( पि. ३. ४. १ ) इति । पुरतः पूर्वार्धे द्वादशाक्षरौ जागतौ पादौ ततो द्वावष्टाक्षरौ गायत्रौ सा प्रस्तारपङक्तिः इति सूत्रार्थः । अनुक्रमण्यामप्युक्तम्- आद्यौ चेत्प्रस्तारपङ्क्तिः ' (अनु. ८. ६) इति । शिष्टा अनादेशपरिभाषया त्रिष्टुभः । ‘गौरीर्मिमाय' इत्येतदन्तानां विश्वे देवा देवता । तस्याः समुद्राः' इत्यस्याः पूर्वार्धस्य वाग्देवता । उत्तरार्धस्य आपः। ‘ शकमयम् ' इत्यस्याः पूर्वार्धस्य शकधूमः । “उक्षाणं पृश्निम् । इत्युत्तरार्धस्य सोमो देवता । त्रयः केशिनः' इत्यस्या अग्निसूर्यवायवः । चत्वारि वाक्' इत्येषा वाग्देवताका । ‘इन्द्रं मित्रं वरुणं', 'कृष्णं नियानम्' इत्येते सूर्यदेवत्ये। द्वादश प्रधयः इत्यस्याः संवत्सरात्मा कालो देवता । यस्ते स्तनः' इत्यस्याः सरस्वती । यज्ञेन' इत्यस्याः साध्या देवता । ‘ समानमेतत्' इत्यस्याः सूर्यः पर्जन्यो वाग्नयो वा देवता । ‘दिव्यं सुपर्णम्' इत्यस्याः सरस्वान् सूर्यो वा देवता । कृत्स्नसूक्तस्य विनियोगं शौनक आह — स्तेयं कृत्वा द्विजो मोहात् त्रिरात्रोपोषितः शुचिः । सूक्तं जप्त्वास्यवामीयं क्षिप्रं मुच्येत किल्बिषात्' (ऋग्वि. १. १४४) इति ॥ महाव्रते वैश्वदेवशस्त्रे वैश्वदेवं निविद्धानं द्विप्रतीकम् । तत्र ‘अस्य वामस्य ' इत्यादिकमेकचत्वारिंशदृचं प्रथमं प्रतीकम् । पञ्चमारण्यके सूत्रितम् - अस्य वामस्य पलितस्य होतुरिति सलिलस्य दैर्घतमस एकचत्वारिंशतम् .(ऐ. आ. ५. ३. २) इति ॥
 
 
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ः ।
 
तृतीयः । भ्राता । घृतऽपृष्ठः । अस्य । अत्र । अपश्यम् । विश्पतिम् । सप्तऽपुत्रम् ॥१
 
अत्र द्वितीयपादे तच्छब्दश्रुतेः प्रथमपादे प्रतिविशेषणं योग्यक्रियार्थसंबद्धो यच्छब्दोऽध्याहार्यः । योऽयं दिवि द्योतते तस्य “अस्य “वामस्य वननीयस्य संभजनीयस्य आरोग्यार्थिभिः सर्वैः सेवनीयस्य “पलितस्य पालयितुः प्रकाशवृष्ट्यादिप्रदानेन पालकस्य तथा योऽयं दिवि द्योतते “तस्य अस्य “होतुः ह्वातव्यस्य आह्वानार्हस्यादित्यस्य “मध्यमः मध्यमस्थानः। मध्ये भवो वायुरुच्यते । आदित्याग्नी अपेक्ष्य अस्य मध्यमत्वम्। स च “अश्नः सर्वत्र व्याप्तः। न हि वायुरहितः कश्चित्प्रदेशोऽस्ति । तादृशः “भ्राता “अस्ति भ्रातृस्थानीयो भवति । यथा लोके भ्राता पितृधनस्य भागं हरति तद्वत् । मध्यस्थानम् अन्तरिक्षलोकं हरतीति वा । वृष्ट्यर्थं रश्मिभिराहृतानां भौमानां रसानां हरणाद्वा भ्रातेत्युच्यते । पित्र्येण धनेन स्वार्जितेन वा भर्तव्यः भवतीति भ्राता। मध्यमो वायुरपि वृष्ट्यर्थं रसैः भक्तव्यः भवति ।। किंच “घृतपृष्ठः घृतमाहुतिलक्षणं पृष्ठे यस्य तादृशः “भ्राता तस्य “तृतीयः अस्ति भवति । त्रयाणां पूरणस्तृतीयः । उक्तोभयापेक्षया तृतीयत्वम् । भ्रातृत्वं प्रतिपादितप्रकारेण अत्रापि द्रष्टव्यम् । रात्रौ सवितुस्तेजोभागस्य हरणात् दिवा स्वकीयतेजसो भागस्य तदर्थमेव भक्तव्यत्वात् वा भ्रातृत्वम् । “अत्र एषु भ्रातृषु मध्ये पुरोदेशे वा "विश्पतिं विशां प्रजानां पालयितारं "सप्तपुत्रं सर्पणरश्मिपुत्रोपेतम् ऐतिहासिकपक्षे ‘अदितिः पुत्रकामा ' इति प्रस्तुते मित्रावरुणादिषु अदितिपुत्रेषु अस्य आदित्यस्य सप्तमपुत्रत्वम्। ईदृशं महानुभावमादित्यम् “अपश्यम् अद्राक्षम् भावनया आत्मत्वेन साक्षात्करोमीत्यर्थः। तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इति श्रुतिः । एवं वा । अस्य वामस्य विश्वस्योद्गरितुः स्रष्टुरित्यर्थः । पलितस्य पालयितुः स्वसृष्टजगत्पालनशीलस्य होतुरादातुः स्वस्मिन् संहर्तुरित्यर्थः । परमेश्वरस्य सृष्ट्यादिकर्तृत्वं श्रुतिस्मृतिपुराणादिषु प्रसिद्धम्। तस्य तादृशस्य परमेश्वरस्य भ्राता तद्भागहारी तदंशभूतः सूत्रात्मा मध्यमः सर्वत्र मध्ये वर्तमानोऽस्ति जगद्धारकत्वेन वर्तते । स
 
 
२८,८०३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/205753" इत्यस्माद् पुनः प्राप्तिः