"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७२:
सा । कद्रीची । कम् । स्वित् । अर्धम् । परा । अगात् । क्व । स्वित् । सूते । नहि । यूथे । अन्तरिति ॥१७
 
अत्र अग्नौ हूयमानाहुतिरूपेण स्तूयते । “गौः गोरूपा गमनशीला एषा आहुतिसंघेन पोष्यं “वत्सं वत्सस्थानीयमग्निम् “अवः अवस्तात् अधोदेशे “परेण “पदा पादद्वयेन स्वावयवेन आकृष्य “बिभ्रती धारयन्ती तथा “परः परस्तात् उपरिदेशे “एना अनेन “अवरेण च पदा पादद्वयेन आकृष्य तमेव वत्सं बिभ्रती “उदस्थात् सूर्यं प्रति उत्तिष्ठति । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ' (मनु. ३. ७६ ) इति स्मृतेः । अथैवं कृतवती “सा आहुतिः “कद्रीची क्व गतेत्यनिश्चयगमना ।। आदित्यं प्राप्तवतीत्यर्थः । "कं “स्वित् कं फलभाजं पुरुषं प्रति “अर्धम् अर्धमार्गम् आगत्य। यद्वा । अर्धमृद्धम् । “परागात् परागच्छति । आगत्य च “क्व “स्वित् सूते कुत्र प्रदेशे फलमुत्पादयति । “नहि इतरगोवत् इयं “यूथे “अन्तः सजातीयगोमध्ये सूते । साधारण्येन यत्र क्वचिन्न सूते अपि तु कस्मिंश्चिदनुष्ठातरि । अतः स महान् को नु खल्विति । यद्वा । आदित्यरश्मिसमूहः एव गोरूपेण स्तूयते । गौः उक्तलक्षणा रश्मिरूपा गौः वत्सं वत्सवद्रक्षणीयं यजमानम् उक्तक्रमेण बिभ्रती उदस्थात् । अथ तथा कृत्वा सा कद्रीची अदृश्यगमना सती कं स्वित् अर्धम् ऋद्धम् अर्धस्थानभाजं वा कं स्वित् पुरुषम् आदित्यं परागात् अप्रतिनिवृत्ता गता। ‘ तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ( मु. उ. १. २. ५) इति श्रुतेः । तथा कृत्वा च क्व स्वित्सूते कस्मिन् इन्द्रादिलोके जनयति न सर्वत्र । शिष्टं समानम् ॥
 
 
पङ्क्तिः ३८६:
 
कविऽयमानः । कः । इह । प्र । वोचत् । देवम् । मनः । कुतः । अधि । प्रऽजातम् ॥१८
 
“अवः अवस्तात् स्थितम् “अस्य “पितरम् एतल्लोकपालकम् अग्निं “परेण आदित्येन सह “यः “अनुवेद अनुक्रमेण जानाति तथा “परः परस्तात् स्थितम् आदित्यम् अस्य पितरं पालकम् । सोऽपि इममेव लोकं वृष्टयादिना पालयति । तादृशमादित्यम् “एना अनेन “अवरेण अग्निना सह यः अनुवेद अग्न्यादित्यौ व्यतिहारेण उपास्ते । यद्वा । अभिभूतरजस्तमस्कौ उद्बुद्धसत्त्वौ अत एव स्वाधीनमायौ एतौ एकत्वेन वा अधिगच्छति । स तादृशः पुरुषः “कवीयमानः कविवदाचरन् क्रान्तदर्शित्वम् आत्मनः ख्यापयन् “क “इह अस्मिँल्लोके “प्र “वोचत् प्रब्रवीति । किंच “देवं द्योतमानं देवविषयम् ‘ अलौकिकं वा “मनः “कुतः कस्मात् अदृष्टविशेषात् “अधि आधिक्येन “प्रजातम् उत्पन्नम्। उभयमपि दुर्लभमित्यर्थः ॥
 
 
Line ३९९ ⟶ ४०१:
 
इन्द्रः । च । या । चक्रथुः । सोम । तानि । धुरा । न । युक्ताः । रजसः । वहन्ति ॥१९
 
“ये सूर्यसोमयोश्चक्रे वर्तमाना रश्मयो ग्रहादयश्च तत्परिभ्रमणवशेन “अर्वाञ्चः अर्वागञ्चनाः अधोमुखाः सन्ति “ताँ “उ तानेव “पराचः “आहुः पराङ्मुखाञ्चनान् ऊर्ध्वान् आहुः कालविदः ।। तथा प्रथमं “ये पराञ्चः परागञ्चनाः “ताँ “उ तानैव अर्वाचः "आहुः । हे “सोम त्वम् “इन्द्रः परमेश्वरः इरां भूमिं वृष्ट्या धारकः आदित्यः । यद्वा । द्वादशादित्यानां मध्ये इन्द्रोऽप्येकः । ‘ विवस्वदिन्द्रयुताः' इत्युक्तत्वात् अयमपीन्द्रः । सः “च युवां “या यानि मण्डलपरिभ्रमणानि “चक्रथुः कृतवन्तौ “तानि “रजसः रञ्जनात्मकस्य लोकस्य ॥ कर्मणि षष्ठी ॥ लोकं “वहन्ति निर्वहन्ति । तत्र दृष्टान्तः “धुरा' शकटादौ धुरि “युक्ताः संबद्धाः अश्वादयो यथा धुरं वहन्ति तद्वत् । यद्वा । एतत् पूर्वार्धे दृष्टान्तितम् । धुरा युक्ताः । धुरि स्थितं चक्रमपि धुर्शब्देनोच्यते । तत्र युक्ताः समर्पिताः पुरुषाः तत्परिभ्रमणवशेन अर्वाञ्चोऽपि पराञ्चः पराञ्चोऽपि अर्वाञ्चो भवन्ति तद्वत् ॥
 
 
Line ४१२ ⟶ ४१६:
 
तयोः । अन्यः । पिप्पलम् । स्वादु । अत्ति । अनश्नन् । अन्यः । अभि । चाकशीति ॥२०
 
अत्र लौकिकपक्षिद्वयदृष्टान्तेन जीवपरमात्मानौ स्तूयेते । यथा लोके द्वौ सुपर्णौ सुपतनौ शोभनगमनौ “सयुजा समानयोगौ “सखाया समानख्यानौ "समानं “वृक्षं “परि “षस्वजाते एकमेव वृक्षं परिषस्वजाते आश्रयतः “तयोः “अन्यः एकः “पिप्पलं पक्वं स्वादुतरम् “अत्ति अपरः अनश्नन् “अभि “चाकशीति अभिपश्यति तद्वत् द्वौ सुपर्णस्थानीयौ क्षेत्रज्ञपरमात्मानौ सयुजा समानयोगौ । योगो नाम संबन्धः स च तादात्म्यलक्षणः । स एवात्मा जीवात्मनः स्वरूपं यस्य परमात्मनः स तदात्मा । एवमन्यस्यापि स एवात्मा परमात्मनः स्वरूपं यस्य जीवात्मनः । एवमेकस्वरूपौ इत्यर्थः । अनेन भास्करमतानुसारिणः अतिरेकिनाम्नो जीवात्मा परमात्मनो नान्यः स च परमात्मा जीवादन्यो नानाजीवाश्रयणादिति मतं निरस्तं भवति । ननु संबन्धो द्विष्ठः स च पक्षिणोरेव भेदमपेक्षते अतः कथमैकात्म्यमिति । न । औपाधिकभेदं वास्तवाभेदं चापेक्ष्य प्रवृत्तः । अत एव सखायौ समानख्यानौ नान्यख्यानौ । ननु एकस्य यादृशं ख्यानं तादृशमेव अन्यस्य इति व्युत्पत्त्या भेदः स्फुटं प्रतिभाति कथं तादात्म्यमुच्यते इति न वक्तव्यम् । नात्र परस्परं दृष्टान्तदार्ष्टान्तिकभावः । अपि तु यस्य यादृशं ख्यानं स्फुरणं परमात्मनः तदेव ख्यानमितरस्यापि जीवात्मनः इति सखायौ इत्युच्यते । एकरूपप्रकाशावित्यर्थः । अतः उपपन्नमैकात्म्यम् । अनेन वास्तवभेदोऽपि निरस्तः । ‘ समानं वृक्षं परि षस्वजाते' इत्यत्र यथा आश्रयान्तराभावात् उभयोरेकाश्रयत्वम् अभ्युपगन्तव्यं तद्वत् सयुजा सखाया इत्युभयत्रापि एकयोगख्याने आश्रयणीये । वृश्च्यते इति वृक्षो देहः । स च उभयोः समानः एक एव । जीवस्य भोगार्थत्वात् परमात्मना सृष्टैः महाभूतैः आरब्धत्वात् तस्योपलब्धिस्थानत्वाच्च उभयोरपि समानः । तादृशं समानं वृक्षं •परि षस्वजाते परिष्वजतः आश्रयतः । न च जीवस्य वस्तुतः ईश्वरत्वे कथं जीवबुद्ध्या संसारशोकौ इति वाच्यं तयोर्मोहकृतत्वात् । तथा च आथर्वणिकाः अमुं मन्त्रम् आम्नाय अस्य सन्देहनिवर्तकमुत्तरं मन्त्रमेवमामनन्ति। ‘ समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । (मु. उ. ३. १. २ ) इति । अस्यायमर्थः । एक एव शरीरे पूर्णः पुरुषः परमात्मा निमग्नो निगूढः सन् स्वयम् अपि ईश्वरोऽपि अनीशत्वबुद्ध्या मुह्यमानो मूढः सन् शोचति । संसारे अहं कर्ता सुखी दुःखीति जननमरणे अनुभवति । यदा तु जुष्टं नित्यतृप्तमन्यं संसारशोकातीतम् ईशं परमेश्वरं पश्यति स्वानन्यतया साक्षात्करोति । तदा वीतशोको देहाद्व्यतिरिक्तः स्वस्वरूपसाक्षात्कारेण गततापत्रयः सन् अस्य महिमानमिति । निरस्तसमस्तौपाधिकस्य परमेश्वरस्य महिमानं सार्वात्म्यसर्वज्ञत्वादिमहिमानमिति एति प्राप्नोति । न च तद्भावनाप्तौ तन्महिमा प्राप्यते । अतस्तदूपो भवतीत्यर्थः । तस्मात् वस्तुतः एक एव । भेदस्तु मोहकृतः इति सिद्धम् । अनुभवशायां लौकिकबुद्ध्या भेदमभ्युपेत्य उच्यते । तयोः अन्यः जीवात्मा पिप्पलं कर्मफलं स्वादुभूतम् अत्ति भुङ्क्ते । यस्य यदुपार्जितं तत्तस्य स्वादु भवति । अन्यः परमात्मा अनश्नन् आप्तकामत्वेन अभुञ्जानः स्पृहायाः अभावात् । ‘ आप्तकामस्य का स्पृहा । ( मा. उ. का. १. ९) इति स्मृतेः। तस्मात् अवास्तवभेदमुपजीव्य तयोरन्यः इत्युक्तम् । वस्तुतस्तु ‘ अनीशया शोचति मुह्यमानः' इत्युक्तत्वात् अभेद एव । तादृशः परमात्मा स्वात्मनि अध्यस्तं जगत् साक्षित्वेन ईक्षते । अत्र ‘ द्वौ द्वौ प्रतिष्ठितौ सुकृतौ धर्मकर्तारौ ' ( निरु. १४. ३० ) इत्यादि निरुक्ते गतम् अस्य मन्त्रस्य व्याख्यानमनुसंधेयम् ॥ ॥ १७ ॥
 
 
Line ४२५ ⟶ ४३१:
 
इनः । विश्वस्य । भुवनस्य । गोपाः । सः । मा । धीरः । पाकम् । अत्र । आ । विवेश ॥२१
 
"यत्र आदित्यमण्डले “सुपर्णाः सुपतनाः शोभनगमना रश्मयः "अमृतस्य उदकस्य “भागं भजनीयम् अंशम् आदाय “अनिमेषम् अनवरतं “विदथा वेदनेन ज्ञानेन अस्माभिरेवं कर्तव्यमिति बुद्ध्या “अभिस्वरन्ति अभिप्रापयन्ति। यश्च “विश्वस्य “भुवनस्य भूतजातस्य “इनः स्वामी तथा तस्यैव “गोपाः गोपायिता रक्षिता । अयम् आदित्यः सः परमेश्वरः “धीरः धीमान् प्राण्यनुग्रहबुद्धियुक्तः सन् “मा मां “पाकं पक्तव्यम् अपक्वप्रज्ञम् “अत्र अस्मिन् स्वकीयमण्डले “आ “विवेश प्रवेशयति । अत्र अस्मदीये देहे वा नियामकतया प्रविष्टः इत्यधिदैवतपक्षे । अथाध्यात्मपक्षे । यत्र यस्मिन्नात्मनि सुपर्णाः शोभनपतनानि स्वस्वविषयग्रहणाय गमनकुशलानीन्द्रियाणि चक्षुरादीनि अमृतस्य भागम् । अत्र विषयावच्छिन्नचैतन्यम् अमृतमित्युच्यते । तस्य भागं भजनीयं स्वस्वांशम् अनिमेषं निमेषरहितम् अनारतं विदथा वेदनेन वृत्य् वच्छिन्नचैतन्येन अवरुद्धानि अभिस्वरन्ति अभिप्रयन्ति आवरणापगमनेन स्फोरयन्ति । किंच यस्तु इनः स्वामी अस्य देहस्य विश्वस्य भुवनस्य गोपा गोपायिता रक्षिता । यद्वा । विश्वस्य भुवनस्य भूतजातस्य स्वामी अस्य देहस्य गोपाः । अनेन तत्वंपदार्थयोः एकत्वं प्रतिपादितं भवति । स परमेश्वरो धीरः समाधिनिष्ठः सर्वदा अविक्रियो मा मां पाकं परिपक्वमनस्कं यागदानादिना अपगतरजस्तमस्कत्वेन दर्पणवदतिनिर्मलसत्त्वोद्रिक्तमनस्कं माम् आ विवेश । उक्तरूपे चित्ते तादृशं वस्तु स्फुरतीत्यर्थः। यद्वा । अपरिपक्वमनाः अहं पूर्वम् अज्ञानदशायां मदन्यः ईश्वरोऽस्तीति अविद्वान् ततः परमस्ति कश्चित्सर्वज्ञः सर्वेश्वरः सत्यज्ञानादिलक्षणः इति निश्चित्य पश्चात् गुरुशास्त्राभ्यां स एवं अहमस्मीति मत्वा एवं पारंपर्येण अवगत्य असंभावनाविपरीतभावने व्युदस्य भावनया साक्षात्कृत्य परिपूर्णः परमात्मा अभूवमित्यर्थः । अयमेव ‘ स मा धीरः पाकमत्रा विवेश ' इत्यनेनोच्यते । ननु अनवच्छिन्नस्य परमात्मनः सर्वत्र व्याप्तत्वात् प्राप्तिरेव नोपपद्यते । संप्रति अत्र प्राप्तिर्द्विविधा प्राप्तप्राप्तिः अप्राप्तप्राप्तिश्चेति । प्राप्तस्यापि कण्ठे चामीकरन्यायेन आवरणाज्ञानहानद्वारेण प्राप्तिः उपपद्यते । अस्य मन्त्रस्य यन्निरुक्तं यत्र सुपर्णाः सुपतना आदित्यरश्मयः' (निरु. ३. १२ ) इत्यादिकं तदत्र द्रष्टव्यम् ॥
 
 
Line ४३८ ⟶ ४४६:
 
तस्य । इत् । आहुः । पिप्पलम् । स्वादु । अग्रे । तत् । न । उत् । नशत् । यः । पितरम् । न । वेद ॥२२
 
अत्र वृक्षस्वरूपकल्पना । अधिदैवम् आदित्यम् अध्यात्मम् आत्मानं च प्रशंसति । “यस्मिन् आदित्ये “वृक्षे वृक्षवत् सर्वफलाश्रयभूते “मध्वदः । मध्वित्युदकनाम । तत् अदन्तीति मध्वदः उदकस्य अत्तारः । “सुपर्णाः सुपतना रश्मयः “निविशन्ते प्रविशन्ति रात्रौ “सुवते “च पुनरुदयकाले प्रकाश जनयन्ति च यस्मादादित्यात् । कुत्र। “अधि “विश्वे विश्वस्योपरि। “तस्य आदित्यवृक्षस्य “पिप्पलं पालकं फलं “स्वादु रसवत् “अग्रे उपरि उपासनानन्तरम् "आहुः कथयन्ति तत्त्वविदः । यद्वा । सर्वस्य अधि उपरि वर्तमानमाहुः । ईदृशं “पितरं जगतः पालयितारं “यः नरः “न “वेद नोपास्ते सः “तन्नोनशत् । नशतिर्गतिकर्मा। तत्फलं न प्राप्नोति । वेदितुस्तु” अग्रे पिप्पलमाहुरित्यर्थः । इत्यधिदैवपक्षे ।। अथाध्यात्मपक्षे । यस्मिन् परमात्मनि वृक्षे वृक्षवत् गमनादिरहिते अविक्रिये सुपर्णाः शोभनगमनानीन्द्रियाणि मध्वदो मधुनो ज्ञानस्यात्तॄणि तज्ज्ञानेन ज्ञानभाञ्जीत्यर्थः । निविशन्ते स्वापकाले स्वस्वविषयेभ्यः प्रतिनिवृतानि आत्मनिवृत्त्या लीयन्ते पुनः प्रबोधकाले अधि विश्वे विश्वस्योपरि सुवते च उद्यन्ति स्वस्वविषयान् लभन्ते इत्यर्थः । तस्य परमात्मनः पिप्पलं पालकं संसारतः उद्धारकं स्वादु आस्वादनीयम् अमृतत्वलक्षणं ज्ञानम् । यत्फलास्वादने पुनः क्षुत्तृष्णाशोकमोहजरामरणादयो न भवन्ति तद्धि स्वादुतमम् । इतरस्वर्गादिफलानि पुनर्जननाद्यापादकत्वात् आपातस्वादूनि । तत्फलम् अग्रे स्वरूपज्ञानोत्तरकालमाहुः । यः पुमान् पितरं पालकं ज्ञानफलं तत्फलाधारम् आत्मानं वा न वेद न जानाति गुरुशास्त्रात् स तत्फलं नोन्नशत् न प्राप्नोति अतः आत्मानं यो वेद स एव तत् मोक्षफलं प्राप्नोतीत्यर्थः । यद्वा । ‘चर्मवदाकाशम् ' ( श्वे, उ, ६. २०) इत्यादिश्रुतिः ज्ञानादन्योपायस्य अमृतत्वप्राप्तिं निवारयति । ब्रह्म वेद ब्रह्मैव भवति' (मु. उ. ३. २. ९ ) इत्यादिका तु ज्ञानात् प्राप्तिमाह । तस्मात् ईदृशं परमेश्वरं विदित्वा मुक्तो भूयासमित्यर्थः ॥
 
 
Line ४५१ ⟶ ४६१:
 
यत् । वा । जगत् । जगति । आऽहितम् । पदम् । ये । इत् । तत् । विदुः । ते । अमृतऽत्वम् । आनशुः ॥२३
 
“गायत्रे “अधि “गायत्रमाहितम् प्राथम्यात सर्वैः स्तुत्यत्वाच्च गायत्री भूः । तदीयं स्थानं गायत्रम् । अधि उपरि तत्र गायत्रम् आग्नेयं पदम् आहितम् । प्रथमसृष्टत्वात् गायति त्रायते च इति व्युत्पत्त्या च प्रजापतेर्मुखात् गायत्र्या सह उत्पन्नत्वात् भक्त्या अग्निरपि गायत्रः। ‘ गायत्रोऽग्निः । (तै. सं. २. २. ५, ५) इति श्रुतेः । भूम्यामग्निः स्थापितः इति “यत् अस्ति । तथा “त्रैष्टुभात् द्वितीयत्वात् वृष्टिपर्जन्यविद्युद्रूपत्रिस्तोभयुक्तात् अन्तरिक्षात् “त्रैष्टुभं स्तोभयुक्तम् ऊर्ध्वाधस्तिर्यग्लक्षणस्तोभत्रयोपेतं वायुं “निरतक्षत साधु संपादितवन्तो देवाः इति यदस्ति । “वा अथवा "जगति सर्वैर्गन्तव्ये उद्गततमे वा तृतीयभूते द्युलोके “जगत् गमनशीलम् आदित्याख्यं “पदम् “आहितम् इति “यत् अस्ति । “तत् इदं त्रिषु स्थानेषु त्रयाणामग्न्यादीनां पदाधानं “य “इत् ये एव नराः “विदुः जानन्ति “ते एव “अमृतत्वमानशुः अमरणरूपं पदमाप्नुवन्ति । इत्यधिलोकम् । अथाधियज्ञम् । गायत्रे प्रातःसवने अधि उपरि गायत्रं छन्दः पदमाहितमिति यत् । तथा त्रैष्टुभात् माध्यंदिनात् सवनात् त्रैष्टुभं छन्दो निरतक्षत तत्र आहितमिति यत् । वा किंचेत्यर्थः। जगति तृतीयसवने जगत् जागतं पदमाहितमिति यत् । तत्तादृशं सवनत्रयेषु छन्दस्त्रयसंस्थानं ये नरा विदुः यजमाना विदुः जानन्ति ते अमृतत्वं ज्ञानानुष्ठानद्वारेण" मोक्षम् आनशुः आप्नुवन्ति । अथवा गायत्रे प्रातःसवने । त्रिषु सवनेषु छन्दस्त्रयपरिमाणात् सवनान्यपि तत्तच्छन्दःशब्देनोच्यन्ते । ‘गायत्रं प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्' (तै. स. २. २. ९. ५-६ ) इति श्रुतेः । तादृशे प्रातःसवने अधि उपरि गायत्रम् अष्टाक्षरात्मकम् आहावप्रतिगररूपं गायत्रं पदमाहितम् । तद्यथा होता ‘ शोंसावोम्' इति त्र्यक्षरेण तथा ‘शंसामोदैवोम्' इति पञ्चाक्षरेण अध्वर्युः प्रतिगृणाति । तन्मिलित्वा अष्टाक्षरं संपद्यते । तच्च अष्टाक्षरं गायत्रीसदृशं तस्याः अपि पादस्य अष्टाक्षरत्वात् । इदमेकं प्रातःसवनरूपे गायत्रपदप्रतिष्ठापनम् । तथा सवनान्ते अपि शंसनानन्तरम् उक्थं वाचि' इति चतुरक्षरमाह। ‘ओमुक्थशाः' इति चतुरक्षरम् अध्वर्युः । तदष्टाक्षरं संपद्यते । एतदेकं परं गायत्रे गायत्रस्थापनम् । तथा त्रैष्टुभात् माध्यंदिनसवनात् त्रैष्टुभम् आहावप्रतिगरणरूपं पदं निरतक्षत ऋत्विजः । तद्यथा माध्यंदिनसवने होता ‘ अध्वर्यो शोंसावोम्' इति आह्वयते षडक्षरेण अध्वर्युश्च ‘शंसामोदैवोम्' इति पञ्चाक्षरेण प्रतिगृणाति । तन्मिलित्वा एकादशाक्षरं संपद्यते । इदमेकं माध्यंदिनसवनादौ त्रैष्टुभे त्रैष्टुभाधानम् । तथा सवनान्तेऽपि शंसनानन्तरम् उक्थं वाचि इन्द्राय' इति सप्ताक्षरमाह । अध्वर्युश्च ‘ओमुक्थशाः' इति चतुरक्षरेण प्रतिगृणाति । तन्मिलित्वा एकादशाक्षरं संपद्यते । इदमपरं त्रैष्टुभे त्रैष्टुभस्थापनम् । तथा तृतीयसवने होता अध्वर्यो शोंशोंसावोम्' इति सप्ताक्षरेण आह्वयते ‘शंसामोदैवोम्' इति पञ्चाक्षरेण अध्वर्युः प्रतिगृणाति । द्वादशाक्षरं भवति । तदिदं प्रथमं जागते जागतोत्पादनम् । तथा पञ्चादपि शंसनानन्तरमाह ‘उक्थं वाचि इन्द्राय देवेभ्यः इति । एतदेवैकादशाक्षरं भवति । अध्वर्युश्च ‘ ओम्' इत्येकाक्षरेण प्रतिगृणाति । तदुभयं मिलित्वा द्वादशाक्षरं भवति । तदिदमपरं जागते जागतपदस्थापनम् । एवं त्रिषु छन्दःसु त्रिषु गायत्र्यादिसवनेषु गायत्रादिच्छन्दस्त्रयपदप्रतिष्ठापनम् । एतत्सर्वम् ऐतरेयब्राहाणे ‘ देवविशः कल्पयितव्याः' (ऐ. ब्रा. ३. १२) इति खण्डे विस्पष्टमाम्नातम् । तत्तादृशं छन्दसि छन्दःस्थापनं य इत्तद्विदुः ये एव जानन्ति ते एव अमृतत्वम् आनशुः प्राप्नुवन्ति अनुष्ठानद्वारा । एवम् अजानन्तः अनुष्ठानेनापि फलं न प्राप्नुवन्तीत्यर्थः । तस्य साकल्याभावादिति भावः ॥
 
 
Line ४६४ ⟶ ४७६:
 
वाकेन । वाकम् । द्विऽपदा । चतुःऽपदा । अक्षरेण । मिमते । सप्त । वाणीः ॥२४
 
“गायत्रेण गायत्रच्छन्दसा “अर्कम् अर्चनसाधनं मन्त्रं “प्रति “मिमीते प्रत्येकं परिच्छिन्नत्ति । ‘ अर्को मन्त्रो भवति यदेनेनार्चन्ति' (निरु. ५, ४ ) इति निरुक्तम् । प्रतिमन्त्रं गायत्रेण छन्दसा उपनिबद्धं करोति । उपलक्षणमेतदन्येषां छन्दसाम् । यद्वा । इतरेषां छन्दसाम् अस्यैव चतुश्चतुरक्षराधिक्येन तत्तच्छन्दोभिः प्रतिमिमीते इत्यर्थः। यद्वा । प्रतिशब्दः सम् इत्येतस्मिन्नर्थे । छन्दोभिर्मन्त्रान् संमितं करोतीत्यर्थः । “अर्केण “साम । उक्तलक्षणेन मन्त्रेण साम गायत्ररथंतरसंज्ञकं साम प्रति मिमीते । ननु ‘ एकं साम तृचे क्रियते' इति तिसृषु एकं साम विहितम् अतः अर्कैः साम इति वक्तव्यं कथमुच्यते अर्केण इति । न । वस्तुतः एकं साम एकस्याम् ऋचि आरूढम् । पश्चादन्योन्यां तदुत्तरयोर्गायति इत्यतिदेशतः प्राप्तं तिसृषु गानम् । अतः एकवचनमविरुद्धम् । “त्रैष्टुभेन “वाकम् । अत्र त्रिष्टुबुपादानम् इतरच्छन्दःप्रदर्शनार्थम् । अथवा अनादेशे सर्वत्र त्रिष्टुभो ग्रहणात् प्राचुर्याभिप्रायेण इदमुक्तम् । त्रैष्टुभेन द्विवारत्रिवारावृत्तेन द्वृचतृचरूपं : वाकं वक्तव्यमेकैकं छन्दः प्रति मिमीते । अथवा वाकं सूक्तम् एतावद्भिस्त्रिष्टुब्भिः उपनिबद्धमिदं सूक्तमिति । तादृशेन “वाकेन “वाकं वर्गमनुवाकं वा मिमीते। कीदृशेन वाकेनेति स विशेष्यते । “द्विपदा “चतुष्पदा । पादद्धयबद्धविराडादिच्छन्दोनिबद्धमन्त्ररूपेण चतुष्पदा पादचतुष्टयोपेतेन अनु ष्टुबादिमन्त्ररूपेणेति । इयतीभिर्द्विपदाभिर्वर्ग: इयतीभिश्चतुष्पदाभिरूपेतो वर्गः । इयद्द्विपदरूपैर्वाकैः इयच्चतुष्पदरूपैर्वाकैश्च परिमितोऽनुवाक इति । सूक्तपक्षे एतावद्भिः सूक्तैः अयमनुवाकः इति । किंच “अक्षरेण अक्षरेणैव “सप्त “वाणीः वागधिष्ठितानि सप्त छन्दांसि “मिमते निर्माणं कुर्वन्ति। अष्टाक्षरा गायत्री एकादशाक्षरा त्रिष्टुप् द्वादशाक्षरा जगतीति । अक्षरैः पादाः परिमीयन्ते परिमितैः पादैश्छन्दांसि । ततः पादानां छन्दसाम् अक्षरं मूलमिति । तथा ऋग्वर्गसूक्तानुवाकादीनां च अक्षरं मूलमित्यक्षरप्रशंसा ॥
 
 
Line ४७८ ⟶ ४९२:
गायत्रस्य । सम्ऽइधः । तिस्रः । आहुः । ततः । मह्ना । प्र । रिरिचे । महिऽत्वा ॥२५
 
जगतीच्छन्दस्कायाम् ऋचि उत्पन्नं साम जगत् । तेन ब्रह्मा सृष्टिकाले “सिन्धुं स्यन्दनशीलमुदकस्य स्यन्दकं वा आदित्यं “दिवि द्युलोके “अस्तभायत् स्तम्भितवान् । ‘ जागतो वा एष य एष तपति' इति श्रुतिः । “रथंतरे एतन्नामके साम्नि स्तम्भितं सूर्यं “पर्यपश्यत् परिदृष्टवान् प्रजापतिः । तदाधारभूतायामृचि ‘स्वर्दृशम् ' ( ऋ.सं. ७. ३२. २२) इति सूर्यप्रतिपादकशब्ददर्शनात् ।' असौ वाव स्वर्दृक्' ( ऐ. ब्रा. ४. १० ) इति हि श्रुतिः । अत एव तत्र सूर्यदर्शनं विधीयते।' रथंतरे प्रस्तूयमाने संमीलयेत् स्वर्दृशं प्रति वीक्षेत ' ( तां. ब्रा. ७. ७. १५) इति सामब्राह्मणेन । “गायत्रस्य गायत्र्यामुत्पन्नस्य साम्नः “समिधः समिन्धनाः “तिस्रः विभक्तीः “आहुः पादत्रयमाहुरित्यर्थः । अथवा तिस्र ऋच आहुः । “ततः हेतोः “मह्ना बलेन "महित्वा महत्त्वेन “प्र “रिरिचे प्ररिच्यते । अन्यानि सामानि पृथक्पृथक् निर्मितवान् । यद्वा । गायत्रशब्दश्छन्दोवाची । तस्य तिस्रो मूर्तीः आहुः क्रमेण अष्टाक्षरैकादशाक्षरद्वादशाक्षरैः गायत्रीत्रिष्टुब्जगत्यात्मिकाः । यस्मादेवं ततस्तस्माद्गायत्री छन्दसां कनिष्ठा सती मह्ना बलेन महत्त्वेन प्र रिरिचे सर्वाणि छन्दांस्यतिक्रामति येनैव बलेन सोममाहृतवती तादृशेनैवं भवति ॥ ॥ १८ ॥
 
 
प्रवर्ग्ये घर्मधुगाह्वानकाले ‘ उप ह्वये ' इत्यादिके द्वे ऋचौ । “उप ह्वये सुदुघां धेनुमेतामिति द्वे ( आश्व. श्रौ. ५.७ ) इति सूत्रितत्वात् ॥
 
उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् ।
Line ४९० ⟶ ५०८:
 
श्रेष्ठम् । सवम् । सविता । साविषत् । नः । अभिऽइद्धः । घर्मः । तत् । ऊं इति । सु । प्र । वोचम् ॥२६
 
अहं होता उप "ह्वये उपेत्याह्वयामि । किम् । “एतां “धेनुम् आगच्छन्तीं क्षीरेण प्रीणयित्रीं गां प्रवर्ग्यार्थम् । पुनः कीदृशीम् । “सुदुघां सुष्ठु दोग्ध्रीम् । “उत अपि च “एनाम् उक्तलक्षणां गां “सुहस्तः शोभनहस्तो दोहनकुशलः "गोधुक् गोदोग्धा अध्वर्युः "दोहत् दोग्धि यस्मादेवं तस्मादुप ह्वये इत्यर्थः । तदर्थं “सविता सर्वस्यानुज्ञाता परमेश्वरः “नः अस्मदीयं “श्रेष्ठं प्रशस्यं “सवं सोमयागं क्षीरं वा “साविषत् अनुजानातु । कथमेवम् । तच्छब्दश्रुतेर्यच्छब्दध्याहारः । यद्यस्मात् “घर्मः प्रवर्ग्यः । ‘यद्राँार इत्यपतत्तद्घर्मस्य घर्मत्वम् ' (तै. आ. ५, १.५ ) इति तैत्तिरीयकम् । तत्तादृशः "अभीद्धः अभिदीप्तः। तदुशब्द एवकारार्थः । तस्मादेव कारणात् “सु “प्र “वोचं सुष्ठु ब्रवीमि उपह्वये इति । यद्वा । एतां पुरतः दृश्यमानां धेनुं वृष्ट्या प्रीणयित्रीं मेघलक्षणां धेनुम् उपह्वये आह्वयामि वर्षदोहाय। किंच एनां धेनुं सुहस्तः शोभनदोहनकुशलहस्तोपेतो गोधुक् गोदोग्धा आदित्यो वा वायुर्वा दोहत् दोग्धि । तदधीनत्वात् वर्षणस्य । किंच तदर्थं सविता प्रेरकः परमेश्वरोऽस्मदर्थमस्मदुपभोगादृष्टमपेक्ष्य साविषत् अनुजानातु । प्रतिबन्धं मा करोत्वित्यर्थः । किमितीदमुच्यते इति उच्यते । घर्मो ग्रीष्मः अवर्षणजनितः सस्यशोषः अभीद्धः प्रवृद्धः। तदु षु प्र वोचं तस्मादेव कारणात् ब्रवीमि ॥ ब्रवीतेर्लुङि वच्यादेशे अस्यतिवक्ति' इत्यादिना च्लेः अङ्। छान्दसः अडभावः ।।
 
 
Line ५०४ ⟶ ५२४:
दुहाम् । अश्विऽभ्याम् । पयः । अघ्न्या । इयम् । सा । वर्धताम् । महते । सौभगाय ॥२७
 
यथा आहूता गौः “हिङ्कृण्वती वत्सं प्रति हिङ्कारं कुर्वती “वसूनां “वसुपत्नी क्षीरदध्याज्यादिबहुधनानां सर्वदा पालयित्री । वृत्यवृत्तिभ्यां वसुनः पालयितृत्वं तस्यैवाधिक्यं च प्रतिपाद्यते । पुनः कीदृशी । “मनसा “वत्सम् इच्छन्ती । ईदृशी सा “अभ्यागात् अभ्यागमत् । “इयम् आगता “अघ्न्या । गोनामैतत् । अहननीया गौः “अश्विभ्यां ताभ्यामर्थाय “पयः क्षीरं “दुहां दुग्धाम् । “सा तादृशी “महते "सौभगाय प्रवृद्धाय सौभाग्याय "वर्धतां प्रवृद्धा भवतु । यद्वा । अस्मै सौभगाय क्षीरं वर्धयताम् । अत्रापि वृष्टिपरत्वेन यथायोगं योज्यम् । हिङ्कृण्वती वर्षणाय शब्दयन्ती वसूनां गोसस्यादिधनानां बहूनां वसुपत्नी तेषामेव पालयित्री वत्सं लोकं वत्सवत्पोषणीयं मनसा इच्छन्ती प्रीणयितुम् अभ्यागात् अभिगच्छति मेघरूपा । सा च अघ्न्या अहन्तव्या । प्रस्तुत्या इत्यर्थः । पयः उदकमश्विभ्यां व्याप्ताभ्यां स्थावरजङ्गमाभ्यामर्थाय । यद्वा । अश्विनौ वाय्वादिद्यौ । ताभ्यां सकाशात् दुहां दुग्धाम् । तौ हि वृष्टेर्मोचयितारौ । शिष्टमविशिष्टम् ॥
 
 
प्रवर्ग्येऽभिष्टवे दोहनसमये वत्से मातुः सकाशादपनीयमाने ‘गौरमीमेत्' इत्येषः । सूत्रितं च - गौरमीमेदनु वत्सं मिषन्तं नमसेदुप सीदत ' (आश्व. श्रौ. ४. ७) इति ॥
 
गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ ।
Line ५१६ ⟶ ५४०:
 
सृक्वाणम् । घर्मम् । अभि । वावशाना । मिमाति । मायुम् । पयते । पयःऽभिः ॥२८
 
गौः धेनुः “मिषन्तं निमीलिताक्षं "वत्सम् “अनु प्राप्य “अमीमेत् शब्दं करोति । मीमयतिः शब्दकर्मा । यद्वा । उक्तं वत्सं अन्वात्मानं प्रक्षिपति । किंच तस्य वत्सस्य “मूर्धानं "मातवै मातुं निर्मातुं लेहनेन शोधयितुम् । उशब्दोऽवधारणे । “हिङ्ङकृणोत् हिङ्कारमकरोत् करोति। किंच “सृक्वाणं वत्सस्य शब्दवदनप्रान्तं फेनस्य स्रष्टारं “घर्मं क्षीरस्य क्षरणशीलं वत्सम् “अभि अभिलक्ष्य "वावशाना भृशं कामयमाना "मायुं शब्द “मिमाति निर्माति करोति । तादृशी सती “पयोभिः प्रभूतैः क्षीरैः “पयते प्यायते आप्यायनं करोति वत्सम् । अत्रापि मेघपरतया योजनीयम् । एवमाहूता मेघरूपा गौर्धेनुः मिषन्तं वृष्टिरूपक्षीराभावेन निमीलिताक्षं लोकाख्यं पुत्रम् अनु अनुसृत्य अमीमेत् गर्जनशब्दं वर्षणचिह्नरूपं करोति । मूर्धस्थानीयां भूमिं मातवा उ निर्मातुमेव सस्यादियुक्तां कर्तुं हिङ्ङकृणोत् हिङ्काररूपं शब्दमकरोत् । प्रतिपादनभेदादपुनरुक्तिः । किंच सृक्वाणं फलस्य स्रष्टारं घर्मं दीप्तं पुत्रमभि वावशाना आभिमुख्येन कामयमाना पयोभिः उदकैः पयते प्यायते आप्यायनं करोति ॥
 
 
Line ५२९ ⟶ ५५५:
 
सा । चित्तिऽभिः । नि । हि । चकार । मर्त्यम् । विऽद्युत् । भवन्ती । प्रति । वव्रिम् । औहत ॥२९
 
“सः "अयं वत्सः “शिङ्क्ते अव्यक्तध्वनिं करोति । “येन वत्सेन “गौः माता “अभीवृता आगत्याभितो वेष्टिता भवति । किंच सा गौः "मायुं शब्दं "मिमाति निर्मिमाति । कुन्न स्थिता । “ध्वसनावधि “श्रिता ध्वसनस्थाने गवां निवासाश्रयेऽधिष्ठिता। “सा तादृशी “चित्तिभिः ज्ञानैः तत्पूर्वकैः कर्मभिर्वा “मर्त्यं “नि “चकार “हि नीचैः करोति । ज्ञानविशिष्टाः मनुष्याः यथा बालकस्य अदनस्तनपानादिस्नेहं कुर्वन्ति ततोऽप्यतिशयमियं करोतीत्यर्थः । किंच विद्युद्भवन्ती बहुक्षीरतया विद्योतमाना “वव्रिं स्वकीयं रूपम् । वव्रिरिति रूपनाम । रूपं “प्रति “औहत प्रकाशयति । यद्वा । वत्सस्नेहातिशयस्वरूपं विद्युद्भवन्ती विद्युदिव शीघ्रदर्शना औहत । अयमेकोऽर्थः। अर्थान्तरं च । शाकपूणिर्नाम निरुक्ताचार्यः सकलमन्त्रदेवता जानामीति अभिमानितवान्। दुर्ज्ञेयस्य तत्त्वस्य स्वरूपमसौ जानाति किल एनं व्यामोहयामीति मनसि कृत्वा संदिग्धोभयलिङ्गा देवता प्रादुरासीत् अथ तस्य पुरतः । स च तां न बुबुधे । बुभुत्सया च तां स्वरूपं प्रदर्शय इति पप्रच्छ । सा च ‘अयं स शिङ्क्ते इत्येषा मद्देवता तत्र प्रतीयमानं मत्स्वरूपमित्युपदिदेश (निरु. २. ८) । कथमत्रोभयलिङ्गत्वं वस्तुतः उभयलिङ्गत्वे कथं दैवतैक्यमिति । उच्यते । अत्रोभयलिङ्गत्वमुभयथा संभवति स्त्रीपुंलिङ्गद्वयेन मध्यमोत्तमलिङ्गद्वयेन च । तत्कथम् । अयं स येन ' इति पुंलिङ्गवाचिना शब्दत्रयेण मेघः प्रतीयते । ‘ अधि श्रिता सा' इत्यादिना स्त्रीलिङ्गवाचकेन माध्यमिका वाक् । अत उभयलिङ्गत्वम् । तथा विद्युद्भवन्तीत्यन्तं मध्यमलिङ्गं तत्र मेघस्तनितयोर्माध्यमिकयोः प्रतीतेः । तथा सति वव्रिमौहत' इत्यत्र वर्षेण पृथिवीं प्रच्छाद्य तस्याः रसं प्रत्यादत्ते इत्ययमर्थो विवक्षितः । स च आदित्यव्यापारः इत्युत्तमलिङ्गत्वम् । तर्हि वस्तुतः उभयलिङ्गत्वप्रतीतेः उभे अपि देवते ‘यल्लिङ्गं सा देवता' (ऋ. अनु. १. १३९) इति न्यायात् । अतः कथम् एकदेवतासिद्धिः इति । अयं स येन' इत्येतेषां व्यत्ययाश्रयणेन सर्वदेवतानाम् अधिष्ठात्मिकायाः एकत्वाश्रयणेन वा सर्वफलदात्रात्मन एकत्वाश्रयणेन वा देवतैक्योपपत्तेः । अनेन मध्यमोत्तमभेदेन उभयलिङ्गत्वपक्षेऽपि देवतैक्यमुक्तं भवति । अतः ‘एकैव वा महानात्मा देवता' इत्युक्तत्वात् वस्तुतो देवतैक्यं अधिष्ठात्रधिष्ठानभेदेन भेदश्च न विरुध्यते ॥ अयं स शिङ्क्ते । इयं सा माध्यमिकाया वाचोऽधिष्ठात्री देवता शिङ्क्ते अव्यक्तध्वनिं करोति । येन गौरभीवृता । गौरिति वाङ्नाम । माध्यमिका वाक् ययाभिवृता अभितो व्याप्ता अधिष्ठितेत्यर्थः । सेयं शिड्क्ते । अथवा ' अयं स शिङ्क्ते' इति नैव माध्यमिका वाक् निर्दिश्यते अपि तु मेघः । तस्यां वाचि शिञ्जानायां स एव शिङ्क्ते इत्युपचर्यते मञ्चाः क्रोशन्ति इतिवत् । अयं स मेघः शब्दं करोति येन माध्यमिका वाक् अभिव्याप्ता । शब्दने प्रकार एवोच्यते । मिमाति मायुं स्तनितलक्षणं शब्दं करोति । अथवा अयम् । लुप्तोपमा । मिनोति स्वतेजः सर्वत्र प्रक्षिपतीति मायुरादित्यः । तमिव अतिदीप्तं करोतीत्यर्थः । अथवा सामर्थ्यादात्मानमादित्यसदृशं निर्मिमीते । कुत्र स्थिता । ध्वसनावधि श्रिता
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्