"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५५७:
 
“सः "अयं वत्सः “शिङ्क्ते अव्यक्तध्वनिं करोति । “येन वत्सेन “गौः माता “अभीवृता आगत्याभितो वेष्टिता भवति । किंच सा गौः "मायुं शब्दं "मिमाति निर्मिमाति । कुन्न स्थिता । “ध्वसनावधि “श्रिता ध्वसनस्थाने गवां निवासाश्रयेऽधिष्ठिता। “सा तादृशी “चित्तिभिः ज्ञानैः तत्पूर्वकैः कर्मभिर्वा “मर्त्यं “नि “चकार “हि नीचैः करोति । ज्ञानविशिष्टाः मनुष्याः यथा बालकस्य अदनस्तनपानादिस्नेहं कुर्वन्ति ततोऽप्यतिशयमियं करोतीत्यर्थः । किंच विद्युद्भवन्ती बहुक्षीरतया विद्योतमाना “वव्रिं स्वकीयं रूपम् । वव्रिरिति रूपनाम । रूपं “प्रति “औहत प्रकाशयति । यद्वा । वत्सस्नेहातिशयस्वरूपं विद्युद्भवन्ती विद्युदिव शीघ्रदर्शना औहत । अयमेकोऽर्थः। अर्थान्तरं च । शाकपूणिर्नाम निरुक्ताचार्यः सकलमन्त्रदेवता जानामीति अभिमानितवान्। दुर्ज्ञेयस्य तत्त्वस्य स्वरूपमसौ जानाति किल एनं व्यामोहयामीति मनसि कृत्वा संदिग्धोभयलिङ्गा देवता प्रादुरासीत् अथ तस्य पुरतः । स च तां न बुबुधे । बुभुत्सया च तां स्वरूपं प्रदर्शय इति पप्रच्छ । सा च ‘अयं स शिङ्क्ते इत्येषा मद्देवता तत्र प्रतीयमानं मत्स्वरूपमित्युपदिदेश (निरु. २. ८) । कथमत्रोभयलिङ्गत्वं वस्तुतः उभयलिङ्गत्वे कथं दैवतैक्यमिति । उच्यते । अत्रोभयलिङ्गत्वमुभयथा संभवति स्त्रीपुंलिङ्गद्वयेन मध्यमोत्तमलिङ्गद्वयेन च । तत्कथम् । अयं स येन ' इति पुंलिङ्गवाचिना शब्दत्रयेण मेघः प्रतीयते । ‘ अधि श्रिता सा' इत्यादिना स्त्रीलिङ्गवाचकेन माध्यमिका वाक् । अत उभयलिङ्गत्वम् । तथा विद्युद्भवन्तीत्यन्तं मध्यमलिङ्गं तत्र मेघस्तनितयोर्माध्यमिकयोः प्रतीतेः । तथा सति वव्रिमौहत' इत्यत्र वर्षेण पृथिवीं प्रच्छाद्य तस्याः रसं प्रत्यादत्ते इत्ययमर्थो विवक्षितः । स च आदित्यव्यापारः इत्युत्तमलिङ्गत्वम् । तर्हि वस्तुतः उभयलिङ्गत्वप्रतीतेः उभे अपि देवते ‘यल्लिङ्गं सा देवता' (ऋ. अनु. १. १३९) इति न्यायात् । अतः कथम् एकदेवतासिद्धिः इति । अयं स येन' इत्येतेषां व्यत्ययाश्रयणेन सर्वदेवतानाम् अधिष्ठात्मिकायाः एकत्वाश्रयणेन वा सर्वफलदात्रात्मन एकत्वाश्रयणेन वा देवतैक्योपपत्तेः । अनेन मध्यमोत्तमभेदेन उभयलिङ्गत्वपक्षेऽपि देवतैक्यमुक्तं भवति । अतः ‘एकैव वा महानात्मा देवता' इत्युक्तत्वात् वस्तुतो देवतैक्यं अधिष्ठात्रधिष्ठानभेदेन भेदश्च न विरुध्यते ॥ अयं स शिङ्क्ते । इयं सा माध्यमिकाया वाचोऽधिष्ठात्री देवता शिङ्क्ते अव्यक्तध्वनिं करोति । येन गौरभीवृता । गौरिति वाङ्नाम । माध्यमिका वाक् ययाभिवृता अभितो व्याप्ता अधिष्ठितेत्यर्थः । सेयं शिड्क्ते । अथवा ' अयं स शिङ्क्ते' इति नैव माध्यमिका वाक् निर्दिश्यते अपि तु मेघः । तस्यां वाचि शिञ्जानायां स एव शिङ्क्ते इत्युपचर्यते मञ्चाः क्रोशन्ति इतिवत् । अयं स मेघः शब्दं करोति येन माध्यमिका वाक् अभिव्याप्ता । शब्दने प्रकार एवोच्यते । मिमाति मायुं स्तनितलक्षणं शब्दं करोति । अथवा अयम् । लुप्तोपमा । मिनोति स्वतेजः सर्वत्र प्रक्षिपतीति मायुरादित्यः । तमिव अतिदीप्तं करोतीत्यर्थः । अथवा सामर्थ्यादात्मानमादित्यसदृशं निर्मिमीते । कुत्र स्थिता । ध्वसनावधि श्रिता
ध्वंसने मेघेऽधिश्रिता । सा ईदृशी चित्तिभिः। कर्मनामैतत् । स्वकर्मभिः वृष्टिरूपैर्मर्त्यं मरणधर्मार्णं स्थावरजङ्गमरूपं कृत्स्नं जगत् नि हि चकार नीचैः करोति। मनुष्यान् प्रणतान् करोति । ओषध्यादिकं फलेनावनतं करोति । अथवा चित्तिभिः द्योतनलक्षणैः कर्मभिः । विद्युति विद्योतमापद्यमाना प्रति वव्रिमौहत । वविरिति रूपनाम । ऊहतिरत्र सामर्थ्यात् उपसंहारवाची । प्रत्युपसंहरति । उदकलक्षणं रूपं पुनरादत्ते । रश्मिद्वारा वृष्टमुदकं पुनर्घर्मकाले आदत्ते । एकस्यैव ज्योतिषः त्रेधाकरणाद्विद्युतः सूर्यरश्मिभावः उपपद्यते तमू अकृण्वन्त्रेधा भुवे कम्' (ऋ. सं. १०, ८८, १०) इति वक्ष्यमाणत्वात् । स्तनितस्य विद्युद्भावो मेघविद्युत्स्तनितानामभेदाभिप्रायेण ॥
 
 
इदं शरीरं जीवावस्थायाम् । अनेन देहस्य असारता जीवस्य नित्यत्वं च प्रतिपाद्यते ।
 
अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम् ।
Line ५७१ ⟶ ५७४:
जीवः । मृतस्य । चरति । स्वधाभिः । अमर्त्यः । मर्त्येन । सऽयोनिः ॥३०
 
"अनत् प्राणनं कुर्वत् "जीवं जीवनवत् "तुरगातु स्वव्यापाराय तूर्णगमनं सत् “एजत् तत् “शये शेते वर्तते । पश्चात प्राणापगमनानन्तरम् उक्तविलक्षणं सत् “ध्रुवम् अविचलितं सत् "पस्त्यानां गृहाणां "मध्ये “आ शेते च स्थाणुवत्तिष्ठति । आकारः पूरणो वा । अथ जीवस्य वैलक्षण्यमाह। "मृतस्य शरीरस्य संबन्धी “जीवः "मर्त्येन मरणधर्मकेण शरीरेण “सयोनिः पूर्वं समानोत्पत्तिस्थानः । यद्यपि जीवस्य न जन्मास्ति तथापि वपुषस्तत्सद्भावात् तत्संबन्धेनोपचर्यते । तदेवाह । "अमर्त्यः अमरणस्वभावः । जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते' (छा. उ. ६. ११.३) इति श्रुतेः । उक्तस्वभावो जीवः "स्वधाभिः "चरति पुत्रकृतैः स्वधाकारपूर्वकदत्तैः अन्नैश्चरति वर्तते इत्यर्थः॥ ॥ १९ ॥
 
 
प्रवर्ग्येऽभिष्टवे ‘अपश्यं गोपाम्' इत्येका विनियुक्ता । सूत्रितं च - ‘ अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य ' ( आश्व. श्रौ. ४. ६) इति ॥
 
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
Line ५८३ ⟶ ५९०:
 
सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥३१
 
अहं “गोपां सर्वस्य लोकस्य वृष्टिप्रकाशादिना गोपायितारम् "अनिपद्यमानं कदाचिदपि अविषण्णं तथा “पथिभिः विचित्रैर्मार्गैः अन्तरिक्षरूपैः “आ “चरन्तं "च “परा चरन्तं "च उदयप्रभृति आ मध्याह्नमागच्छन्तं मध्याह्नप्रभृति आ सायं पराङ्मुखं गच्छन्तं एवंमहानुभावमादित्यम् "अपश्यं याथात्म्येन पश्येयम् । किंच "सः आदित्यः "सध्रीचीः सहाञ्चन्तीः "विषूचीः विष्वगञ्चन्तीः रात्रावपि चन्द्रभौमादित्यानां प्रकाशयित्रीः त्विषः “वसानः आच्छादयन् "भुवनेषु भुवनैकदेशेषु लङ्कादिप्रदेशेषु “अन्तः मध्ये "आ “वरीवर्ति उदयास्तमयं कुर्वन् पुनःपुनरावर्तते । तमपश्यमित्यर्थः ।' एष वै गोपा एष हीदं सर्वं गोपायति' इत्याद्यस्मद्ब्राह्मणम् । “अपश्यं गोपामित्याह असौ वा आदित्यो गोपा स हीमाः प्रजा गोपायति (तै. आ. ५. ६. ४ ) इत्यादि तैत्तिरीयकं च द्रष्टव्यम् ।।
 
 
Line ५९६ ⟶ ६०५:
 
सः । मातुः । योना । परिऽवीतः । अन्तः । बहुऽप्रजाः । निःऽऋतिम् । आ । विवेश ॥३२
 
अत्र गर्भवासक्लेशपूर्वकजननप्रतिपादनेन तत्परिहाराय आत्मा ज्ञातव्यः इत्यर्थात् प्रतिपाद्यते। "यः पुमान् पुत्रार्थी "ईम् एनं गर्भं “चकार करोति विक्षिपति वा तत्कारणभूतस्य विक्षेपद्वारेण "न “सः पुमान् "अस्य तत्त्वं "वेद ॥ कर्मणि षष्ठी वा ॥ एनं गर्भं न जानाति । कथंभूतः कथं वा केन प्रयोजनेनेति सर्वात्मना न जानातीत्यर्थः । "यः च मातुरुदरस्थं "ददर्श उदरवृद्ध्यन्यथानुत्पत्त्या अनुमानेन वा दर्शयति "तस्मात् द्रष्टुः सकाशात् सः “हिरुगिन्नु । हिरुगित्यन्तर्हितनाम । इच्छब्दः एवकारार्थः । नु निश्चये । अत्यन्तमन्तर्हित एव खलु । यद्वा । यः संसारावस्थायाम् ईम् एनं कृषिवाणिज्यवेदाध्ययनादिकं चकार सोऽस्य एतन्न वेद लोकान्तरे जन्मान्तरे वा । तथा यः ईमेनं ददर्श गिरिनदीसमुद्रबन्ध्वादिकं ददर्श जीवनसमये तस्मात् दृष्टात् हिरुगिन्नु पृथगेव । अत्रानुभूतं सर्वं न जन्मान्तरे लोकान्तरे वा अनुभवतीत्यर्थः। "सः तादृशः "मातुः जनन्याः "योना योनौ "अन्तः “परिवीतः उल्बजरायुभ्यां परितो वेष्टितः सन् “बहुप्रजाः बहुजन्मभाक्। अथवा । उत्पन्नः सन् स्वयमपि अपत्योत्पादनेन बहुप्रजाः । एवं गर्भदुःखमनुभवन् निर्ऋत्याभिधानं प्रदुःखमनुभवति यावत् स्वरूपभूतात्मज्ञानम् । अतस्तपरिहाराय आत्मा ज्ञातव्यः इत्युक्तं भवति । एवमात्मविदामभिप्रेतोऽर्थः। नैरुक्तानां तु मते य ईं चकार मध्यस्थानो वायुर्मेघो वा एतद्वृष्ट्युदकं करोति सोऽस्य । तत्वमिति शेषः । अथवा एतत्कर्म न जानाति । तयोरचेतनत्वादिति भावः । यस्तु ईम् एतद्ददर्श पश्यति तस्मादपि हिरुक् अन्तर्हितः। प्राणिकर्मवशेन काले वर्षिता परमेश्वरः आदित्यात्मनि गूढः इत्यर्थः । य ईं हिरुगन्तर्हितम् ईम् एतद्ददर्श पश्यति स वृष्टिलक्षणः पुत्रो मातुर्निर्मातुरन्तरिक्षस्य योनौ योनिवदुत्पत्त्याधारभूतेऽन्तरिक्षे । उभयोरप्यन्तरिक्षनामत्वात् सामान्यविशेषभावो द्रष्टव्यः । अन्तरिक्षैकदेशे योन्यामन्तर्मध्ये बहुप्रजाः बहुप्रजातान्नो बहुप्राण्युपकारी । अथवा । जनिः अत्र अन्तर्भावितण्यर्थः । बहूनां धाराणां सस्यनिष्पादनद्वारेण प्राणिनां वा प्रजनयिता सन् । "निर्ऋतिं निरमणसाधनां भूमिम् “आ “विवेश प्रविशति प्राप्नोतीत्यर्थः ॥
 
 
Line ६१० ⟶ ६२१:
उत्तानयोः । चम्वोः । योनिः । अन्तः । अत्र । पिता । दुहितुः । गर्भम् । आ । अधात् ॥३३
 
दीर्घतमा ब्रवीति । “मे मम "द्यौः द्युलोकः "पिता पालकः । न केवलं पालकत्वमात्रं अपि तु “जनिता जनयितोत्पादयिता । तत्रोपपत्तिमाह । "नाभिरत्र नाभिभूतो भौमो रसोऽत्र तिष्ठतीति शेषः । ततश्चान्नं जायते अन्नाद्रेतः रेतसो मनुष्य इत्येवं पारंपर्येण जननसंबन्धिनो हेतोः रसस्यात्र सद्भावात् । अनेनैवाभिप्रायेण जनितेत्युच्यते । अत एव "बन्धुः बन्धिका । तथा “इयं “मही महती “पृथिवी "मे "माता मातृस्थानीया स्वोद्भूतौषध्यादिनिर्मात्रीत्यर्थः । किंच "उत्तानयोः ऊर्ध्वतानयोः “चम्वोः सर्वस्य अत्त्र्योः भोगसाधनयोर्द्यावापृथिव्योः “अन्तः मध्ये "योनिः सर्वभूतनिर्माणाश्रयमन्तरिक्षं वर्तते इति शेषः । "अत्र अस्मिन्नन्तरिक्षे "पिता द्युलोकः । अधिष्ठात्रधिष्ठानयोः अभेदेन आदित्यो द्यौरुच्यते। स स्वरश्मिभिः । अथवा इन्द्रः पर्जन्यो वा । "दुहितुः दूरे निहिताया भूम्याः "गर्भं सर्वोत्पादनसमर्थं वृष्ट्युदकलक्षणम् “आधात् सर्वतः करोति ।।
 
 
आश्वमेधिके मध्यमेऽहनि ब्रह्मोद्ये होत्रादयः पृच्छामि त्वा' इत्यनया यजमानं पृच्छेयुः । तथा च सूत्रितम् - ‘एकैकशो यजमानं पृच्छन्ति पृच्छामि त्वा परमन्तं पृथिव्याः' ( आश्व. श्रौ. १०, ९ ) इति ॥
 
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑ः ।
Line ६२३ ⟶ ६३८:
पृच्छामि । त्वा । वृष्णः । अश्वस्य । रेतः । पृच्छामि । वाचः । परमम् । विऽओम ॥३४
 
हे यजमान “त्वा त्वां "पृच्छामि प्रश्नं करोमि । किम् । "पृथिव्याः "परमन्तम् उत्कृष्टां काष्ठाम् । यत्र सर्वा पृथिवी समाप्यते तत्पृच्छामि । तथा त्वामन्यत् “पृच्छामि । किं तदिति उच्यते । “यत्र "भुवनस्य भूतजातस्य “नाभिः संनाहो बन्धनम् । यत्र सर्वं संनद्धं भवति तमित्यर्थः । किंच “त्वा त्वां "वृष्णः वर्षकस्य "अश्वस्य व्याप्तस्यादित्यस्य । “असौ वा आदित्यो वृषाश्वः' (तै. आ. ५. ३. ५) इति तैत्तिरीयकम् । तस्य “रेतः रेतोवत्कारणं तत्किमिति "पृच्छामि । तथा “वाचः सर्वस्य वाग्जातस्य "परमं निरतिशयं “व्योम स्थानं सर्वस्य वचसः कारणम् । एतत् प्रश्नचतुष्टयं पृच्छामि ॥
 
 
अथैवं पृष्टो यजमानः ‘इयं वेदिः' इत्यनया प्रतिब्रूयात् । इयं वेदिः परो अन्तः पृथिव्या इति प्रत्याह ' ( आश्व. श्रौ. १०. ९) इति सूत्रितत्वात् ।।
 
इ॒यं वेदि॒ः परो॒ अन्त॑ः पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑ः ।
Line ६३५ ⟶ ६५४:
 
अयम् । सोमः । वृष्णः । अश्वस्य । रेतः । ब्रह्मा । अयम् । वाचः । परमम् । विऽओम ॥३५
 
“पृथिव्याः प्रथनवत्या भूम्याः "परो "अन्तः परमन्तं पर्यवसानम् “इयं “वेदिः । न हि वेद्यतिरिक्ता भूमिरस्ति । एतावती वै पृथिवी यावती वेदिः '(तै. सं. २. ६. ४ ) इति श्रुतेः ।। तथा “अयं "यज्ञः "भुवनस्य भूतजातस्य "नाभिः संनहनम् । तत्रैव वृष्ट्यादिसर्वफलोत्पत्तेः सर्वप्राणिनां बन्धकत्वात् । अथ "वृष्णः वर्षकस्यादित्यस्य "रेतः "अयं "सोमः रसात्मकः । अग्नौ हुतः सोमरसः आदित्यं प्राप्य वृष्ट्यादिफलं जनयति । "अयं "ब्रह्मा प्रजापतिरेव “वाचः मन्त्रादिरूपायाः "परमं "व्योम उत्कृष्टं रक्षकं स्थानम् । तत्रैवोत्पत्तेस्तत्रैव पर्यवसानाच्च ॥ ॥ २० ॥
 
 
Line ६४८ ⟶ ६६९:
 
ते । धीतिऽभिः । मनसा । ते । विपःऽचितः । परिऽभुवः । परि । भवन्ति । विश्वतः ॥३६
 
“सप्त सर्पणस्वभावाः सप्तसंख्या वा रश्मयः "अर्धगर्भाः संवत्सरस्यार्धे गर्भं गर्भस्थानीयमुदकं धारयमाणाः । यद्वा । ब्रह्माण्डस्यार्धे मध्येऽन्तरिक्षे गर्भवद्वर्तमानाः । "भुवनस्य लोकस्य “रेतः सारं वृष्टिप्रदत्वेन रेतोभूताः तादृशा रश्मयः "विष्णोः व्यापकस्यादित्यस्य "विधर्मणि जगद्धारणव्यापारे “प्रदिशा प्रदेशेन "तिष्ठन्ति वर्तन्ते । किच “ते “धीतिभिः प्रज्ञाभिः "मनसा जगदुपकारः कर्तव्यः इति बुद्ध्या च "विश्वतः सर्वतः ॥ द्वितीयार्थे तसिः ॥ विश्वं "परि “भवन्ति परितो भावयन्ति कृत्स्नं जगद्व्याप्नुवन्तीत्यर्थः । यस्मादेवं तस्मात् "ते ते एव "विपश्चितः बुद्धियुक्ताः "परिभुवः सर्वत्र व्याप्ताश्च यद्वा । सप्तार्धगर्भाः । सप्त महदहंकारौ पञ्च तन्मात्राणीति मिलित्वा सप्तसंख्यानि तत्त्वानि । अर्धगर्भा अविकृतिरूपाः । विकाराश्रयाया मूलप्रकृतेः प्रकृतिविकृतेरुदासीनस्यात्मनश्चोत्पन्नत्वादर्धांशेन प्रपञ्चकारेण परिणामादर्धगर्भाः । पुरुषांशस्य अविक्रियत्वादित्यभिप्रायः । अत एव तेषां प्रकृतिविकृतित्वम् । यस्मादेवं तस्माद्भुवनस्य रेतः कारणम् । कारणभूतानि तान्येव विष्णोर्व्याप्तस्य पुरुषस्य विधर्मणि प्रदिशा प्रदेशेन तिष्ठन्ति । इतरत्समानम् ॥
 
 
Line ६६१ ⟶ ६८४:
 
यदा । मा । आ । अगन् । प्रथमऽजाः । ऋतस्य । आत् । इत् । वाचः । अश्नुवे । भागम् । अस्याः ॥३७
 
अहं "यदिवेदं यदपीदं विश्वम् "अस्मि कृत्स्नः प्रपञ्चोऽप्यहमेवास्मि । नामरूपांशम् अपरमार्थं त्यक्त्वा सर्वत्र अनुगतोऽस्ति भाति प्रियमिति योऽयं सच्चिदानन्दाकारोऽस्ति सोऽहमस्मीति "न “वि "जानामि । विविच्य नाज्ञासिषम् । परं शास्त्रजनितमिदमहमस्मीति ज्ञानं जातम्। अविवेक्यहमित्यर्थः। कार्यकारणयोरभेदात् कृत्स्नप्रपञ्चस्यापि ब्रह्मानन्यत्वेन ब्रह्मैकत्वावगमे प्रपञ्चजातमपि स्वस्वरूपमेव भवति । ‘ इदं सर्वं यदयमात्मा', ‘ ब्रह्मैवेदं सर्वं ', 'आत्मैवेदं सर्वं, ‘स ईक्षत बहु स्यां प्रजायेय' इत्यादिश्रुतिभ्यः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् । तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४ ) इत्याद्युपपत्तिभिश्च प्रपञ्चस्य ब्रह्मानन्यत्वं सिद्धम् । यद्वा । इवशब्दः उपमार्थः। यदिव यदापरोक्ष्यज्ञानं सर्वैकात्म्यरूपमानुभविकमस्ति तदिव तद्वदेवाहमस्मि। इदं सर्वमहमस्मीति ज्ञानं मे जातम् । अपि तु एतद्दार्ष्टान्तिकभूतम् । आनुभविकं सार्वात्म्यं यदस्ति तन्न वि जानामि न प्राप्तोऽस्मि । शास्त्रजनितं सार्वात्म्यं जातं न तु आनुभविकमित्यर्थः । तत्र कारणमाह । यतोऽहं "निण्यः । अन्तर्हितनामैतत् । अन्तर्हितो मूढचित्तः । चित्तप्रत्यक्प्रवणताभावेन परिच्छिन्नः इत्यर्थः । तत्रोपपत्तिमाह । "संनद्धः अविद्याकामकर्मभिः सम्यग्बद्धो वेष्टितः अत एव "मनसा युक्तो भावनासहिष्णुना बहिर्मुखेन विक्षिप्तेन चेतसा युक्तः संचरामि संसारे। अथवा मनसा संनद्धश्चरामि । इन्द्रियपरवश एव सन् संसारे दुःखमनुभवामि । न सार्वात्म्यं जानामीति परिदेवते। यास्कोऽपि इमं परिदेवनार्थत्वेनोदाजहार 'अथापि परिदेवना कस्माच्चिद्भावात् न वि जानामि यदिवेदमस्मि । ( निरु. ७. ३ ) इति । बहिर्मुखचेतसः स्वरूपापरिज्ञानजनितं दुःखमन्यत्र श्रूयते ‘पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ पश्यति नान्तरात्मन् ' (क. उ. २. ४. १ ) इति । तर्हि कदैतद्भवतीत्याह । "यदा “मागन् आगमिष्यति तदा । किं तदिति उच्यते । “ऋतस्य परमार्थस्य परस्य ब्रह्मणः “प्रथमजाः प्रथमोन्मेषः प्रथमोपन्नश्चित्तप्रत्यक्प्रवणजनितः अनुभवः । स यदा मा मां प्राप्नोति “आदित् अनन्तरमेव अव्यवधानेन "अस्याः “वाचः ऐकात्म्यप्रतिपादिकाया उपनिषद्वाचो यदिवेदमस्मीत्युक्ताया वा "भागं भजनीयं शब्दब्रह्मणा व्याप्तव्यं परं ब्रह्मपदम् “अश्नुवे प्राप्नोमि । चित्तस्य बहिर्मुखतां परित्यज्य अन्तर्मुखतैव अदुःसंपादा। सा यदा स्यात् तदानीमेव स्वरूपं द्रष्टुं सुशकं भवति पश्चाद्विलम्बाभावात् । यथा गिरिशिखरात् पतन् पाषाणोऽविलम्बेन पतति तद्वत्। चित्तप्रत्यङ्मुखत्वस्य दुःशकत्वमपि तत्रैव श्रूयते --
‘ कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्' ( क. उ. २. ४. १ ) इति ॥
 
 
Line ६७४ ⟶ ७००:
 
ता । शश्वन्ता । विषूचीना । विऽयन्ता । नि । अन्यम् । चिक्युः । न । नि । चिक्युः । अन्यम् ॥३८
 
“अमर्त्यः अमरणधर्म अयमात्मा "मर्त्येन मरणधर्मणा भूतात्मना देहेन “सयोनिः समानस्थानः । यत्र परिच्छेदको देहोऽस्ति तत्र सर्वत्र सोऽयमपि तिष्ठन्नित्यर्थः। यद्वा । समानोत्पत्तिः । सहवासेन स्वस्मिन्नपि उत्पत्तिरुपचर्यते । एवंभूतः सन् 'स्वधया अन्नोपलक्षिततद्भोगेन “गृभीतः । यद्वा । स्वधाशब्देन अन्नमयं शरीरं लक्ष्यते । तेन गृहीतः सन् "अपाङ् एति अशुक्लं कर्म कृत्वा अधो गच्छति । "प्राङेति ऊर्ध्वं स्वर्गादिलोकं प्राप्नोति । परमात्मैव सूक्ष्मशरीरोपाधिकः सन् नानाविधकर्म कृत्वा तद्भोगाय जीवसंज्ञां लब्ध्वा शरीरत्रयेण संबद्धो लोकान्तरेषु संचरति स्थूलसूक्ष्मोभयशरीरपरिग्रहेण लोके गुणत्रयान्वितः सन् परिश्रमति । तथा च श्रूयते - ‘ गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः । (श्वे. उ. ५. ७) इति । इदानीमुभयप्राधान्येनाह ।”ता तौ भूतात्मकर्त्रात्मानौ “शश्वन्ता अविभागेन सर्वदा वर्तमानौ । यद्वा । सूक्ष्मशरीरपक्षे सर्वदा सहवास उपपद्यते। स्थूलशरीरपक्षेऽपि सात्त्विकजाते: तत्कारणानां भूतसूक्ष्माणां सद्भावात् तत्र शरीरसंबन्ध उपपद्यते । "विषूचीना इह लोके सर्वत्रगमनौ “वियन्ता तत्तत्फलोपभोगाय सर्वत्र लोकान्तरेषु गच्छन्तौ वर्तेते । तत्र नराः "अन्यं भूतात्मानं “नि “चिक्युः नितरां विशेषेण पश्यन्ति जानन्ति। "अन्यम् अपरं देहवच्छायातिरिक्तं "न "नि "चिक्युः न जानन्ति । केचन पामरा देहव्यतिरिक्तं न जानन्ति । केचन विवेकिनः कर्तृत्वभोक्तृत्वोपेतो देहातिरिक्तः कश्चिदस्ति इत्यनुमिमते । न केऽपि देहत्रयव्यतिरिक्तमात्मानं जानन्ति । अतो दुर्लभमात्मज्ञानमित्यर्थः ॥
 
 
Line ६८८ ⟶ ७१६:
यः । तत् । न । वेद । किम् । ऋचा । करिष्यति । ये । इत् । तत् । विदुः । ते । इमे । सम् । आसते ॥३९
 
पूर्वमन्त्रे देहात्मजीवात्मानावुक्तौ । तयोरन्यस्य जीवात्मनः पारमार्थिकं रूपमस्ति तदत्रोच्यते । “ऋचः “अक्षरे । अत्र ऋक्शब्देन ऋक्प्रधानभूताः साङ्गापरविद्यात्मकाश्चत्वारो वेदा उच्यन्ते । ऋगादीनामपरविद्यात्वं मुण्डके श्रूयते -द्वे विद्ये वेदितव्ये' इति प्रतिज्ञाय तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदः' ( मु. उ. १. १. ५) इत्यादिना । तस्याः संबन्धिनि अक्षरे अदृश्यादिगुणके क्षरणरहितेऽनश्वरे नित्ये सर्वत्र व्याप्ते ब्रह्मणि । अक्षरशब्दस्य ब्रह्मवाचकत्वम् एतद्वै तदक्षरस्य प्रशासने गार्गि' (बृ. उ. ३. ८), ' यया तदक्षरमधिगम्यते' (मु. उ. १ १, ५ ), ‘ येनाक्षरं पुरुष वेद सत्यम्' (मु. उ. १. २. १३) इत्यादिश्रुतिषु प्रसिद्धम् । ऋगक्षरयोः प्रतिपाद्यप्रतिपादकभावः संबन्धः । सर्वैर्वेदैः खलु ब्रह्म अधिगम्यते ‘तं त्वौपनिषदं पुरुषं पृच्छामि' (बृ. उ. ३. ९. २६ ) इत्यादिश्रुतेः । ननु उपनिषद्भागानां तथास्तु । इतरेषां तु कथं ब्रह्मविषयत्वमिति उच्यते । यद्यपि इतरभागानां यागादिविषयत्वं तथापि बुद्धिशुद्ध्युत्पादनद्वारा वेदनसाधनत्वेन ब्रह्मविषयत्वं भविष्यति • वेदानुवचनेन ब्राह्मणा विविदिषन्ति' (बृ. उ. ४. ४. २२) इत्यादिश्रुतेः । तदेव विशेष्यते । "परमे उत्कृष्टे निरतिशये “व्योमन् व्योमनि व्योमसदृशे । अलेपत्वनीरूपत्वव्यापित्वादिसादृश्येन व्योमेत्युक्तम् । यद्वा । विशेषेण सर्वस्य रक्षके । निरधिष्ठा न कस्यचिदस्ति स्वाध्यस्तस्य सर्वस्याधिष्ठानत्वेन रक्षकत्वात् । तादृशे तत्त्वे सर्वम् अध्यस्तमित्यर्थः । पुनस्तदेव विशेष्यते । "यस्मिन् परमात्मनि “विश्वे सर्वे "देवाः “अधि "निषेदुः निषीदन्ति आश्रित्य तिष्ठन्ति तस्मिन् । यद्वा । उक्तलक्षणे वस्तुनि ऋगुपलक्षिताः सर्वे साङ्गा वेदाः पर्यवसिता इत्यर्थः । "यः यो मर्त्यः “तत् तादृशं देवादीनां स्वरूपलाभास्पदं कृत्स्नवेदतात्पर्यप्रतिपाद्यं यद्वस्तु “न "वेद न जानाति स मर्त्यः “ऋचा पूर्वोक्तेन ऋगादिशब्दजालेन "किं "करिष्यति । वेदनसाधनेन वेदेन वेद्यम् अविदित्वा किं साधयतीत्यर्थः । प्रयोजनाभावात् सर्वस्यापि वेदस्य नैष्फल्यात् इति भावः । अथवा योऽक्षरमविदित्वा कर्मणां कर्ता भवति यागादीननुतिष्ठति तेन किंचिदपि कर्म कृतं न भवतीत्यर्थः । "य “इत् ये एव “तत् तत्त्वं "विदुः जानन्ति “त “इमे "समासते ते एव इमे ज्ञातारः समासते सम्यक्तिष्ठन्ति । अपुनरावृत्त्या स्वरूपेऽवस्थानं समासनम् । यद्वा । ये विदुः इत् ये जानन्त्येव नानुतिष्ठन्ति । इच्छब्दोऽवधारणे । त इमे ते एव समासते। गवामयनादिसहस्रसंवत्सरसत्त्रपर्यन्तानि सहोपयन्ति । सहार्थे संशब्दः । सत्त्राधिकानां यागानामभावात् तेषामपि फलम् एतज्ज्ञानेनैव प्राप्तं भवतीत्यर्थः । कर्तॄणां बहुत्वात् बहुवचननिर्देशः ॥ अन्ये तु अन्यथा वर्णयन्ति । ऋचः । ऋक् अर्चनीयमादित्यमण्डलम् ऋगादिमयं वा । ‘ ऋग्भिः पूर्वाह्णे दिवि देवः', 'आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचः ' इत्यादिश्रुतेः । तस्य संबन्धिनि अक्षरे परमे व्योमन् इत्युक्तलक्षणे ब्रह्मणि ‘ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते' इत्यादिश्रुत्युक्तस्वरूपे यस्मिन् सर्वे देवा द्योतमाना रश्मयो निषेदुः वर्तन्ते । य एतन्न वेद सः केवलया ऋचा किं करिष्यति । ये जानन्ति भावयन्ति त एव विद्वांसः समासते । भूम्यां सुखेन रोगादिरहिता भोगिनः सन्तश्चिरकालं जीवन्ति । अपरे प्रकारान्तरेण प्रतिपादयन्ति । ऋचोऽक्षरे ऋगुपलक्षितसर्ववेदसंबन्धिनि अक्षरे प्रणवरूपे ओंकारे अविनाशिनि सर्ववेदेषु व्याप्ते वा । प्रणवस्य सर्ववेदसारत्वं ब्राह्मणे श्रूयते - तान्वेदानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरत् तदेतदोमिति ' (ऐ. ब्रा. ५. ३२ ) इति । परमे निरतिशये । न हि प्रणवादधिकं किंचिन्मन्त्रजातमस्ति त्रिकालातीतस्य ब्रह्मणः प्रतिपादकत्वात् । यच्चान्यत् त्रिकालातीतं तदप्योंकार एव' (मा. उ. १), ओमिति ब्रह्म'(तै. आ. ७. ८) इत्यादिश्रुतेः। वेदानां प्रणवस्य स्थानप्रतिनिधिभावः संबन्धः ‘य ऋचोऽधीते' इत्याद्युपक्रम्य ‘यः प्रणवमधीते स सर्वमधीते ओमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरम्' (तै. आ. २. ११. ४ ) इत्यादिश्रुतेः । यस्मिन् विश्वे सर्वे देवा अधि निषेदुः । प्रणवस्य सर्वमन्त्रात्मकत्वात् मन्त्रेषु सर्वदेवतानां निवासात् सर्वदेवनिवासत्वम् । ब्रह्माधिष्ठानत्वाद्वा ब्रह्मणि सर्वदेवानां निवासात् । शिष्टमविशिष्टम् । अयं मन्त्रो निरुक्ते (निरु. १३. १०) व्याख्यातः । अपरे तु अपरथा वर्णयन्ति । ऋचः । ऋक् अर्चनीयो जीवः । तस्य संबन्धिन्यक्षरेऽविनाशे व्याप्ते वा परमात्मनीत्यर्थः। अत एव जीवापेक्षया परमे उत्कृष्टे निरुपाधिके व्योमन् विशेषेण सर्वाधिष्ठानत्वेन रक्षके व्योमसदृशे वा । यस्मिन् परमात्मनि देवा गमनवन्तो व्यवहरन्तः वा इन्द्रियसंज्ञका विश्वे सर्वेऽपि अधि निषेदुः निषीदन्ति आश्रित्य वर्तन्ते । यस्तन्न वेद न जानाति उपाध्यंशपरित्यागे तदेव स्वरूपमिति न पश्यति स्थूलः जनः किमृचा करिष्यति । केवलेन जीवेन जीवभावेन किं फलं प्राप्स्यति । जननमरणादिक्लेशस्य अत्यागादिति भावः । ये तत्तत्त्वं विदुस्त इत्यादि सिद्धम् ॥
 
 
अग्निहोत्रार्था धेनुर्यदि कुत्सितं शब्दं कुर्यात् तदानीं ' सूयवसात्' इत्यनया यवसादिकं प्रयच्छेत् । तथा च सूत्रितं - वाश्यमानायै यवसं प्रयच्छेत् सूयवसाद्भगवती हि भूयाः' (आश्व. श्रौ. ३. ११ ) इति । प्रवर्ग्येऽभिष्टवे एषैव परिधानीया । सूत्रितं च - ‘ सूयवसाद्भगवती हि भूया इति परिदध्यात्' (आश्व. श्रौ. ४. ७) इति ॥
 
सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो॑ व॒यं भग॑वन्तः स्याम ।
Line ७०० ⟶ ७३२:
 
अद्धि । तृणम् । अघ्न्ये । विश्वऽदानीम् । पिब । शुद्धम् । उदकम् । आऽचरन्ती ॥४०
 
हे "अघ्न्ये । गोनामैतत् । अहननीये हे गौः त्वं "सूयवसात् शोभनयवसस्य तृणादिकस्य अत्त्री सती "भगवती । भग इति धननाम । सर्वैर्भजनीयप्रभूतक्षीरादिधनवती “भूयाः भव । हिः पूरणः प्रसिद्धौ वा । लोके यवसादिभक्षणेन क्षीरादिसमृद्धिः प्रसिद्धा । "अथो अनन्तरसेव “वयं यजमाना अपि "भगवन्तः प्रभूतेन धनेन तद्वन्तः "स्यामः । अथ एकवारं पूर्वमुक्तमिदानीं सर्वदा कर्तव्यमिति प्रार्थयते । "विश्वदानीं विश्वकालं सर्वदा “तृणम् "अद्धि भक्षय। “आचरन्ती सर्वतो निर्गच्छन्ती “शुद्धं निर्मलम् “उदकं "पिब । अयं मन्त्रो यास्केनैवं व्याख्यातः- ‘ सूयवसादिनी भगवती हि भवाथेदानीं वयं भगवन्तः स्यामाद्धि तृणमघ्न्ये सर्वदा पिब च शुद्धमुदकमाचरन्ती' (निरु. ११. ४४ ) इति ॥ ॥ २१ ॥
 
 
Line ७१३ ⟶ ७४७:
 
अष्टाऽपदी । नवऽपदी । बभूवुषी । सहस्रऽअक्षरा । परमे । विऽओमन् ॥४१
 
गौरीः गरणशीला. माध्यमिका वाक् ।। सुलोपाभावश्छान्दसः । "मिमाय शब्दयति । किं कुर्वती । "सलिलानि वृष्ट्युदकानि “तक्षती सम्यक्संपादयित्री। “एकपदी एकपादोपेता एकाधिष्ठाना मेघे वर्तमाना गमनसाधनेन वायुना एकपदी वा “द्विपदी मेघान्तरिक्षाख्यद्व्यधिष्ठाना । आदित्यो वा द्वितीयः । तथा "सा “चतुष्पदी पादचतुष्टयोपेता दिक्चतुष्टयाधिष्ठाना । अथ “अष्टापदी विदिगपेक्षया अष्टपादोपेता अष्टाधिष्ठाना "नवपदी उपरिदिगपेक्षया सूर्येण वा नवदिगधिष्ठाना “बभूवुषी एवंभूता। भवेश्छान्दसः क्वसुः । ततो ङीपि वसोः संप्रसारणम् ।। किमनया परिगणनया । "सहस्राक्षरा । अपरिमितवचनोऽयम् । अपरिमितव्याप्तियुक्ता बहुव्यापनशीलोदकवतीत्यर्थः । कुत्रेति तदुच्यते । "परमे “व्योमन उदकाश्रयत्वेनोत्कृष्टेऽन्तरिक्षे। केचिदेवमाहुः । गौरीर्गरणशीला शब्दब्रह्मात्मिका वाक् मिमाय माति ।। प्रसिद्धार्थे धातुः । प्रतिष्ठितानि घटादिद्रव्याणि तक्षती तत्तद्वाचकत्वेन निष्पादयन्ती एकपदी अव्याकृतत्वेन एकप्रतिष्ठाना एकरूपा वा आत्मना द्विपदी सुप्तिङ्भेदेन पादद्वयवती चतुष्पदी नामाख्यातोपसर्गनिपातभेदेन अष्टापदी आमन्त्रितसहिताष्टभेदेन अष्टपदी नवपदी बभूवुषी साव्ययैरुक्तैरष्टभिः नवपदी । अथवा सनाभिकेषु उरकण्ठादिषु नवसु पदेषु भवन्ती पश्चाद्बहुविधाभिव्यक्तिमुपेयुषी परमे व्योमन् उत्कृष्टे हृदयाकाशे मूलाधारे सहस्राक्षरा अनेकाकारेण व्याप्ता अनेकध्वनिप्रकारा भवतीत्यर्थः । अयं मन्त्रः आचार्येणैवं व्याख्यातः - गौरीर्मिमाय सलिलानि तक्षती कुर्वत्येकपदी मध्यमेन द्विपदी मध्यमेन चादित्येन च चतुष्पदी दिग्भिरष्टापदी दिग्भिश्चावान्तरदिग्भिश्च नवपदी दिग्भिश्चावान्तरदिग्भिश्चादित्येन च सहस्राक्षरा बहूदका परमे व्यवने ' ( निरु. ११. ४० ) इति ॥
 
 
Line ७२६ ⟶ ७६२:
 
ततः । क्षरति । अक्षरम् । तत् । विश्वम् । उप । जीवति ॥४२
 
“तस्याः उक्ताया गोः सकाशात् "समुद्राः वृष्ट्युदकसमुन्दनाधिकरणभूता मेघाः "अधि अधिकं प्रभूतमुदकं "वि "क्षरन्ति विविधं क्षरन्ति । "तेन उदकेन “प्रदिशश्चतस्रः । प्रशब्दो वीत्यर्थः । विदिशश्चतस्रो दिशश्च । अथवा प्रकृष्टा दिशो मुख्याश्चतस्रः । तत्स्थेषु ताच्छब्द्यम् । तत्स्थाः पुरुषाः “जीवन्ति । "ततः पश्चात् तत् "अक्षरम् उदकं “क्षरति सस्यादिकमुत्पादयतीत्यर्थः। "तत् सस्यादिकं “विश्वं जगत् “उप "जीवति । अयमपि यास्केन व्याख्यातः - तस्याः समुद्रा अधिविक्षरन्ति वर्षन्ति मेघास्तेन जीवन्ति दिगाश्रयाणि भूतानि ततः क्षरत्यक्षरमुदकं तत्सर्वाणि भूतान्युपजीवन्ति । ( निरु. ११. ४१ ) इति ॥
 
 
Line ७३९ ⟶ ७७७:
 
उक्षाणम् । पृश्निम् । अपचन्त । वीराः । तानि । धर्माणि । प्रथमानि । आसन् ॥४३
 
“शकमयं शकृन्मयं शुष्कगोमयसंभूतं “धूमम् "आरात् नातिदूरे “अपश्यम् दृष्टवानस्मि । दिवा धूमस्य दूरे दृश्यमानत्वात् स एव दर्शनविषयतया उक्तः । “विषुवता व्याप्तिमता “एना अनेन “अवरेण निकृष्टेन धूमेन "परः परस्तात् तत्कारणभूतमग्निमपश्यम् । अहं यजमान इत्यर्थः । किंच “उक्षाणं फलस्य सेक्तारं "पृश्निं शुक्लवर्णम् । प्राश्नुते तेन फलमिति स्वयं प्राश्नुत इति वा पृश्निर्वल्लीरूपः सोमः । तं “वीराः विविधैरणकुशला ऋत्विजः "अपचन्त । अत्र धात्वर्थानादरेण तिङ्प्रत्ययः करोत्यर्थः । स च क्रियासामान्यवचनः अत्र औचित्यात अभिषवेण संपादितवन्त इत्यर्थः । "तानि
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्