"ऋग्वेदः सूक्तं १.१८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३३:
</span></poem>
 
 
== ==
{{सायणभाष्यम्|
‘समिद्धो अद्य' इत्येकादशर्चं नवमं सूक्तमागस्त्यं सर्वं गायत्रम् । समिद्धाग्नितनूनपादादयः एकादश प्रत्यृचं देवताः। यास्केन ‘किंदेवताः प्रयाजाः' इत्युपक्रम्य ‘आग्नेयाः प्रयाजा ऋतुदेवताश्छन्दोदेवताः पशुदेवताः प्राणदेवताः आत्मदेवताः' इत्यादिना बहून् पक्षानुपन्यस्य ब्राह्मणानि च प्रदर्श्य आग्नेया एव इति सिद्धान्तितम् ( निरु. ८. २२ )। ‘समिद्ध अप्रियः' इत्यनुक्रान्तम् । पशौ अगस्त्यानामेकादशप्रयाजरूपम् इदमाप्रीसूक्तम् ॥
पङ्क्तिः ४९:
 
दूतः । हव्या । कविः । वह ॥१
 
हे अग्ने "देवैः व्यवहर्तृभिर्ऋत्विग्भिः "समिद्धः सम्यग्दीपितः "देवः अत एव दीप्यमानः समिद्धैः वा देवैः सहितः समिद्धः सन् "अद्य अस्मिन् यागदिने "राजसि ईशिषे । हे "सहस्रजित् सहस्रस्य धनस्य एतत्संख्याकानां शत्रूणां वा जेतः ततः "दूतः देवानां दूतः तद्यज्ञादिवार्ताहरः आह्वाता वा । ‘ अग्निर्देवानां दूत आसीत् ' (तै. सं. २. ५. ८. ५) इति श्रुतेः। "कविः क्रान्तदर्शी ईदृशस्त्वं “हव्या अस्मदीयानि हवींषि “वह देवेभ्यः प्रापय ।।
 
 
Line ६२ ⟶ ६४:
 
दधत् । सहस्रिणीः । इषः ॥२
 
"तनूनपात् यज्ञशरीरस्य नपातयिता । यद्वा । आपोऽत्र तन्व उच्यन्ते इत्युक्तत्वात् अपां नपातयिता तासां नप्ता वा । अद्भ्य ओषधयः ओषधीभ्योऽग्निरिति नप्तृत्वम् । "यज्ञः पूज्यः । यज्ञनिर्वाहकत्वाद्वा यज्ञः । ईदृशोऽग्निः “ऋतं यज्ञं "यते गच्छते अनुतिष्ठते । यजमानाय तदभिमतार्थम् । "मध्वा मधुरेणाज्यसोमादिद्रव्येण "समज्यते । किं कुर्वन् अयम् । “सहस्रिणीः एतत्संख्याकान् "इषः अन्नानि “दधत् यजमानेभ्यो धारयन् ॥
 
 
Line ७५ ⟶ ७९:
 
अग्ने । सहस्रऽसाः । असि ॥३
 
हे "अग्ने आजुह्वानः अस्माभिराहूयमानः सन् "ईड्यः अस्माभिः स्तुत्यः इण्नामकः त्वं "नः अस्मदर्थं "यज्ञियान् यज्ञभाजः "देवान “आ “वक्षि आवह । हे अग्ने त्वं "सहस्रसा “असि अपरिमितधनस्य दातासि ॥
 
 
Line ८८ ⟶ ९४:
 
यत्र । आदित्याः । विऽराजथ ॥४
 
“प्राचीनं प्रागग्रं "सहस्रवीरं सहस्रसंख्याका वीराः शत्रूणां विशेषेण ईरयितारो देवाः यस्य तत्तादृक् । यद्वा । अपरिमितवीराः पुत्रादयो येन तादृक् । “बर्हिः "ओजसा मन्त्रलक्षणबलेन उपेताः ऋत्विजः "अस्तृणन् आच्छादयन् । "यत्र यस्मिन् बर्हिषि "आदित्याः अदितेः पुत्राः यूयं "विराजथ विविधं राजध्वे तद्बर्हिः अस्तृणन् ।
 
 
Line १०१ ⟶ १०९:
 
दुरः । घृतानि । अक्षरन् ॥५
 
“विराट् । विशेषेण राजन्त इति व्यत्ययेनैकवचनम् ॥ “सम्राट् सम्यगिति पूज्यतरं राजमानाः ॥ अत्रापि व्यत्ययेनैकवचनम् ॥ “विभ्वीः विभ्व्यो विविधं भवित्र्यः "प्रभ्वीः प्रभ्व्यः प्रकर्षेण भवित्र्यः “बह्वीः बह्व्यः "भूयसीः लोकप्रसिद्धसंख्याभिः "च भूयस्यश्च “याः "दुरः यज्ञगृहद्वारः सन्ति ताः “घृतानि उदकानि प्राण्युपकारार्थम् "अक्षरन् क्षरन्ति । यद्वा । बह्वीर्भूयसीरित्येते संख्यावचने । शिष्टानि तासां नामधेयानि ॥ ॥ ८ ॥
 
 
Line ११४ ⟶ १२४:
 
उषसौ । आ । इह । सीदताम् ॥६
 
"सुरुक्मे शोभनदीप्ताभरणे प्रसिद्धे "सुपेशसा शोभनरूपे ईदृश्यौ अहोरात्रदेवते "अधि अधिकं “श्रिया सौन्दर्येण "विराजतः विशेषेण दीप्येते ।। हियोगादनिघातः । तादृश्यौ "उषसौ । एतत् रात्रेरप्युपलक्षणम् । उषःशब्दो दिवसस्योपलक्षकः । रात्रिरुषाश्च उभे “इह अस्मिन् दिने "आ "सीदताम् आगत्य तिष्ठताम् आगच्छतां वा ॥
 
 
Line १२७ ⟶ १३९:
 
यज्ञम् । नः । यक्षताम् । इमम् ॥७
 
"प्रथमा । मुख्यनामैतत् । प्रतमौ प्रकृष्टतमौ । हिः प्रसिद्धौ । "सुवाचसा प्रियवचनौ "दैव्या देवार्हौ "होतारा देवानामाह्वातारौ होमनिष्पादकौ वा "कवी मेधाविनौ एतौ "नः अस्मदीयम् “इमं "यज्ञं "यक्षतां यजतां गच्छतां वा ।।
 
 
Line १४१ ⟶ १५५:
ताः । नः । चोदयत । श्रिये ॥८
 
--स्तिस्रहे "भारति । भरतः आदित्यः । तस्य संबन्धिनी भारती । तादृशि द्युलोकदेवते हे “इळे भूदेवि हे "सरस्वति । सरः वागुदकं वा । तद्वत्यन्तरिक्षदेवते तादृशि देवि । एताः क्षित्यादिदेवताः । एतास्तिस्र आदित्यप्रभावविशेषरूपा इत्याहुः । "याः तिस्रः "सर्वाः "वः युष्मान् "उपब्रुवे उपेत्य स्तौमि “ताः यूयं "नः अस्मान् "श्रिये संपदे “चोदयत प्रेरयत ।
 
--स्तिस्र आदित्यप्रभावविशेषरूपा इत्याहुः । "याः तिस्रः "सर्वाः "वः युष्मान् "उपब्रुवे उपेत्य स्तौमि “ताः यूयं "नः अस्मान् "श्रिये संपदे “चोदयत प्रेरयत ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८८" इत्यस्माद् प्रतिप्राप्तम्