"ऋग्वेदः सूक्तं १०.१७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
‘त्यमू षु' इति तृचं सप्तविंशं सूक्तं तार्क्ष्यपुत्रस्यारिष्टनेमेरार्षं त्रैष्टुभं तार्क्ष्यदेवताकम् । तथा चानुक्रान्तं - त्यमू ष्वरिष्टनेमिस्तार्क्ष्यस्तार्क्ष्यम्' इति । अहर्गणेषु द्वितीयादिष्वहःसु निष्केवल्यसूक्तानां पुरस्तादिदं सूक्तं शंसनीयम् । सूत्रितं च -- त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यमग्रे निष्केवल्यसूक्तानाम् ' ( आश्व. श्रौ. ७. १ ) इति । विषुवति तु निष्केवल्यसूक्तानामन्त एव तत्सूक्तम् । सूत्र्यते हि - त्यमू ष्वितीह तार्क्ष्यमन्ततः' (आश्व. श्रौ. ८. ६) इति । महाव्रतेऽपि निष्केवल्य एतत् । तथैव पञ्चमारण्यके सूत्र्यते (ऐ. आ. ५. ३. १)॥
 
 
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् ।
Line ३३ ⟶ ३५:
 
अरिष्टऽनेमिम् । पृतनाजम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । हुवेम ॥१
 
“त्यमु तं प्रसिद्धमेव "तार्क्ष्यं तृक्षपुत्रं सुपर्णम् ॥ तृक्षाद्यञ् । गर्गादिः ॥ "स्वस्तये क्षेमाय "इह अस्मिन् कर्मणि "हुवेम भृशमाह्वयेमहि ॥ ' बहुलं छन्दसि ' इति ह्वयतेः संप्रसारणम्। लिङ्याशिष्यङ् । यद्वा । प्रार्थनायां लिङि व्यत्ययेन शः ॥ कीदृशम् । "वाजिनं बलवन्तमन्नवन्तं वा "देवजूतं देवैः सोमाहरणाय प्रेरितम् ॥ जु इति गत्यर्थः सौत्रो धातुः । अस्मात् कर्मणि निष्ठा ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ यद्वा । देवैः प्रीयमाणं तर्प्यमाणम् । यदाह यास्कः - ‘ जूतिर्गतिः प्रीतिर्वा देवजूतं देवगतं देवप्रीतं वा' (निरु. १०. २८) इति । "सहावानं सहस्वन्तं बलवन्तमभिभवनवन्तं वा अत एव “रथानाम् अन्यदीयानां “तरुतारं संग्रामे जेतारम् । यद्वा । रंहणशीला इमे लोका रथाः । तान् सोमाहरणसमये शीघ्रं तरीतारम् । श्रूयते हि -- एष हीमाँल्लोकान्सद्यस्तरति ' ( ऐ.ब्रा. ४, २०) इति ॥ तरतेस्तृचि ‘ग्रसितस्कभित° ' इत्यादावुडागमो निपात्यते (पा. सू. ७. २. ३४ ) ॥ “अरिष्टनेमिम् अहिंसितरथम् । यद्वा । नेमिर्नमनशीलमायुधम् । अहिंसितायुधम् । अथवा । उपचाराज्जनके जन्यशब्दः । अरिष्टनेमेर्मम जनकम् । “पृतनाजं पृतनानां शत्रुसेनानां प्राजितारं प्रगमयितारं जेतारं वा ।' अज गतिक्षेपणयोः' । अस्मात्क्विप् । ‘बलादावार्धधातुके विकल्प इष्यते' ( का. २. ४. ५६. २) इति वचनाद्वीभावाभावः । जयतेर्वा डप्रत्ययः । "आशुं शीघ्रगामिनम् ॥
 
 
Line ४६ ⟶ ५०:
 
उर्वी इति । न । पृथ्वी इति । बहुले इति । गभीरे इति । मा । वाम् । आऽइतौ । मा । पराऽइतौ । रिषाम ॥२
 
“इन्द्रस्येव तार्क्ष्यस्य "रातिं दानम् "आजोहुवानाः पुनःपुनराह्वयन्तो वयं "स्वस्तये अविनाशाय "नावमिव नौर्यथा दुरवगाहं समुद्रं तारयति तथा दुःखस्य तारयित्रीं ताम् “आ “रुहेम आरूढा भूयास्म ॥ रुहेराशीर्लिंङि लिङयाशिष्यङ् ॥ हे “उर्वी उर्व्यौ विस्तीर्णे हे “पृथ्वी पृथिवी प्रथिते विख्याते हे "बहुले अनन्ते "गभीरे गाम्भीर्योपेते ईदृश्यौ हे द्यावापृथिव्यौ। नशब्दः संप्रत्यर्थे । संप्रति "वां युवयोः संबन्धिनि “एतौ तार्क्ष्यस्यागमे “परेतौ परागमने च वयं "मा “रिषाम हिंसिता मा भूम ॥ आङ्पराभ्यामुत्तरस्येणो भावे क्तिन् ।' तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् ॥
 
 
Line ६० ⟶ ६६:
सहस्रऽसाः । शतऽसाः । अस्य । रंहिः । न । स्म । वरन्ते । युवतिम् । न । शर्याम् ॥३
 
“यः "चित् योऽपि तार्क्ष्यः "सद्यः शीघ्रं "शवसा आत्मीयेन बलेन "अपः उदकानि अमृतलक्षणानि “ततान विस्तारितवान् "सूर्यइव यथा सूर्यः सर्वस्य प्रेरक आदित्यः "ज्योतिषा आत्मीयेन तेजसा वर्षर्तौ अपो विस्तारयति तद्वत् । कृष्टयो मनुष्याः । "पञ्च "कृष्टीः पञ्चविधान् कृष्टीन् मनुष्यान् प्रति । निषादपञ्चमांश्चतुरो वर्णनित्यर्थः । "अस्य तार्क्ष्यस्य "रंहिः गतिः "सहस्रसाः सहस्रसंख्यस्य धनस्य दात्री संभक्त्री वा भवति । तथा “शतसाः शतस्य च दात्री संभक्त्री वा भवति ॥ सनतेः सनोतेर्वा 'जनसनखन' इति विट् । ‘विड्वनोरनुनासिकस्यात्' इत्यात्वम् । “न "स्म न खल्वीदृशीं तार्क्ष्यस्य ते गतिं "वरन्ते के चन वारयन्ति । तत्र दृष्टान्तः । “शर्यां शरकाण्डमयीमिषुं धनुषो मुक्तां “युवतिं "न लक्ष्येण मिश्रीभवन्तीमिव । सा यथा दुर्निवारा तथैषा कैश्चिदपि वारयितुमशक्येत्यर्थः। अत्र निरुक्तं - सद्योऽपि यः शवसा बलेन तनोत्यपः सूर्यइव ज्योतिषा पञ्च मनुष्यजातानि सहस्रसानिनी शतसानिन्यस्य सा गतिर्न स्मैनां वारयन्ति प्रयुवतीमिव शरमयीमिषुम्' (निरु. १० २९ ) इति ॥ ॥ ३६ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७८" इत्यस्माद् प्रतिप्राप्तम्