"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६६:
[http://puranastudy.onlinewebshop.net/pur_index29/sahasra.htm सहस्रोपरि वैदिकसंदर्भाः]
 
अनुमानमस्ति यत् सहस्रसंख्या सामवेदस्य, शतसंख्या यजुर्वेदस्य एवं दशसंख्या ऋग्वेदस्य प्रतीकमस्ति। शौनकीयअथर्ववेद [[अथर्ववेदः/काण्डं ४/सूक्तम् ०६|४.६.१]] अनुसारेण - ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । स सोमं प्रथमः पपौ स चकारारसं विषम् ॥ अतएव, दशशीर्षावस्थायां विषस्य अरसकरणं भवति। शतशीर्षावस्थायां ये प्राणाः रौद्राः सन्ति, तेषां शमनं भवति (शतरुद्रीयं)। ऋग्वेद ८.७८.१ अनुसारेण - पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर। शता च शूर गोनाम्॥ [[ऋग्वेदः सूक्तं ८.७८|८.०७८.०१]]। पुरोडाशः मस्तिष्कस्य प्रतीकं भवति। अत्र अन्धसः रूपान्तरणं सहस्रप्रकारस्य पुरोडाशे कथितं अस्ति।
 
सहस्राक्ष विषये, अथर्ववेदे [[अथर्ववेदः/काण्डं ५/सूक्तम् २०|४.२०.८]] कथनमस्ति - तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्।
तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥
आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः ।
अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥
दर्शय मा यातुधानान् दर्शय यातुधान्यः ।
पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥
कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।
वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥
उदग्रभं परिपाणाद्यातुधानं किमीदिनम् ।
तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥
अयं संकेतमस्ति यत् सहस्राक्ष अथवा सहस्रचक्षु - अवस्थायां स्वदोषाणां दर्शनस्य क्षमतायाः प्राप्तिर्भवति। संसारे स्वदोषाणां दर्शनं सर्वाधिकं कठिनं अस्ति। पुराणेषु अक्षाणां चतुःप्रकाराः सन्ति - कृत, त्रेता, द्वापर, कलि। महाभारत [[महाभारतम्-03-आरण्यकपर्व-070|वनपर्व ७२]] मध्ये कथनमस्ति यत् यदा नलः अक्षविद्यायां निपुणं भवति, तदा कलिः तस्य देहं विसृजति।
 
सहस्रपादस्य विषये, अथर्ववेद [[अथर्ववेदः/काण्डं ७/सूक्तम् ०४२|७.४२.२]] मध्ये कथनमस्ति - श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः ।
स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥
अस्य मन्त्रस्य सायणभाष्ये सहस्रपादस्य भाष्यं सहस्ररश्मिः कृतं अस्ति। अतएव, सहस्राक्षः भूत्वा स्वपापानां दर्शनं पर्याप्तं नास्ति। स्वज्योतिषा अन्येषां पापानां अपि अपनयनं अपेक्षितं अस्ति।
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्