"जैमिनीयं ब्राह्मणम्/काण्डम् १/०७१-०८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
 
प्रजपतिः प्रजा असृजत। सो ऽअग्निम् अपि मुखाद् असिसृक्षत। सो ऽग्निर् मुखाद् बीभत्समान ऊर्ध्व उद्द्रुत्य मस्तिष्कम् उद्धत्यासृज्यत। तं देवाश् चर्षयश् चोपसमेत्याब्रुवन् वितुन्नो ऽयं मस्तिष्को मामुया भूत् करवामेमं कस्यां चिताचितीति। ते बृहस्पतिम् अब्रुवन् सोमम् अस्मिन् गृहाणेति। स बृहस्पतिर् अब्रवीत् स वा अयं क्रूर इवापूतो ऽमेध्यो ऽशृतंकृत इति। वयं त एतं पूतं मेध्यं शृतंकृतं कुर्म इत्य् अब्रुवन्। तं वै म आहरतेति। तथेति। तम् अस्मै प्रायच्छन्। तं प्रत्यगृह्णात् देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति। देवाङ्गैर् वावैनं तत् प्रत्यगृह्णात्। तं प्रतिगृह्यापवयत्
<poem>वसवस् त्वा पुनन्तु गायत्रेण छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥
रुद्रास् त्वा पुनन्तु त्रैष्टुभेन छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥
आदित्यास् त्वा पुनन्तु जागतेन छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥</poem>
इति। छन्दोभिश् च वावैनं तद् देवताभिश् चापवयत्। तं पवयित्वा पश्चाद् अक्षं सादयति बार्हस्पत्यम् असि वानस्पत्यम् प्रजापतेर् मूर्धात्यायुपात्रम् इति। यद् आह बार्हस्पत्यम् असि इति बृहस्पतिर् ह्य् एतम् अग्रे प्रत्यगृह्णात्। यद् आह वानस्पत्यम् इति वनस्पतिभ्यो ह्य् एनम् अधिकुर्वन्ति। यद् आह प्रजापतेर् मूर्धा इति प्रजापतेर् ह्य् एष मूर्धासीत्। यद् आह अत्यायुपात्रम् इत्य् अति ह्य् एतद् अन्यानि पात्राणि पात्रम्। यद् एतद् देवपात्रं प्रथमं युज्यत उत्तमं विमुच्यते तेनैवात्य् अन्यानि पात्राणि। प्र श्रेयसः पात्रम् आप्नोति य एवं वेद। तं पश्चात् अक्षं सादयित्वा गायत्रं विश्वरूपासु गायति॥1.73॥