"काठकसंहिता (विस्वरः)/स्थानकम् ०७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११८:
अग्ने मनुष्वदङ्गिरो देवान् देवयते यज ॥ १३ ॥
 
सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि सप्त होत्रा अनुविद्वान् सप्त योनीँरापृणस्वा घृतेन या ते अग्ने पवमाना तनूः पृथिवीमन्वाविवेश याग्नौ या रथन्तरे या गायत्रे छन्दसि या त्रिवृति स्तोमे यान्ने तां त एतदवरुन्धे तस्यै स्वाहा या ते अग्ने पावका तनूरन्तरिक्षमन्वाविवेश या वाते या वामदेव्ये या त्रैष्टुभे छन्दसि या पञ्चदशे स्तोमे या पशुषु तां त एतदवरुन्धे तस्यै स्वाहा या ते अग्ने शुचिस्तनूर्दिवमन्वाविवेश या सूर्ये या बृहति या जागते छन्दसि या सप्तदशे स्तोमे याप्सु तां त एतदवरुन्धे तस्यै स्वाहा ॥ वातः प्राणस्तदयमात्मा पुरीषमसि संप्रियः पशुभिर्यच्छा तोकाय तनयाय शं योः प्रजां मे यच्छ घर्मश्शिरस्तदयमग्निः पुरीषमसि संप्रियः पशुभिस्स्वदितं नः पितुं पच पशून् मे यच्छार्कश्चक्षुस्तदसौ सूर्यः पुरीषमसि संप्रियः पशुभिर्यत् ते शुक्र शुक्रं धाम शुक्रा तनूश्शुक्रं ज्योतिरजस्रं यत् तेऽनाधृष्टं नामानाधृष्यं तेन त्वादधे वर्चो मे यच्छ येऽग्नयो दिवो येऽन्तरिक्षाद्ये पृथिव्यास्समाजग्मुरिषमूर्जं वसानास्तेऽस्मा अग्नये द्रविणानि दत्त्वा तृप्ताः प्रीताः पुनरस्तं परेत ।।।।।
कल्पेतां द्यावापृथिवी कल्पन्तामपि ओषधयः ।।
कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ।।
पङ्क्तिः १२८:
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकाँसि चक्रिरे ।। १४ ।।
 
अदितिर्वै प्रजाकामौदनमपचत् तस्योच्छिष्टमाश्नात् सा गर्भमधत्त तत आदित्या अजायन्त य एष
अदितिर्वै प्रजाकामौदनमपचत् तस्योच्छिष्टमाश्नात् सा गर्भमधत्त तत आदित्या अजायन्त य एष ओदनः पच्यत आरम्भणमेवैतत् क्रियत आक्रमणमेव प्रादेशमात्रीस्समिधो भवन्त्येतावान् ह्यात्मा प्रजापतिना संमितोऽग्नेर्वै या यज्ञिया तनूरश्वत्थे तया समगच्छतैषास्य घृत्या तनूर्यद् घृतं यद् घृतेन समिधोऽनक्ति ताभ्यामेवैनं तनूभ्याँ संगमयति निर्मार्गस्यादधात्यपगूर्त्या वै वीर्यं क्रियते यन्निर्मार्गस्यादधात्यपगूर्त्या एव संवत्सरो वै प्रजननमग्निः प्रजनयिता तत् प्रजननं यत् पुरा संवत्सरादग्नौ समिध आदधाति प्रजननादेवैनं प्रजनयिता प्रजनयत्यभक्तर्तुर्वै पुरुषो न हि तद्वेद यमृतुमभिजायते यन्नक्षत्रं यत् समिध आदधाति य एवास्यर्तुर्यन्नक्षत्रं तदाप्नोति य एष ओदनः पच्यते योनिरेवैष क्रियते यत् समिध आधीयन्ते रेतस्तद्धीयते संवत्सरे वै रेतो हितं प्रजायते यत् संवत्सरे पर्येतेऽग्निमाधत्ते प्रजातमेवैनमाधत्ते द्वादशसु रात्रीषु पुराधेयास्ता हि संवत्सरस्य प्रतिमाथो तिसृष्वथो द्वयोरथो पूर्वेद्युराधेयास्त एवाग्निमादधानेनादित्या वा इत उत्तमा अमुं लोकमायँस्ते पथिरक्षयस्त इयक्षमाणं प्रतिनुदन्त तच्छेषणभागा वा आदित्या यदुच्छिष्टेन समिधोऽनक्ति तेभ्य एव प्रावोचत तेभ्य एवं प्रोच्य स्वर्गं लोकमारोहति ।। १५ ॥
 
अ वो राजानमध्वरस्य रुद्रं होतारँ सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ।।
कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।।
परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ।।
अग्निर्होता साध्वीमकरग्न आयूँषि पवसे ।।
अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधद्रयिं मयि पोषम् ।।
यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ ।
अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ।।
महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः ।
यं पूरुभ्यो दीदिवाँसं नाग्निं ददथुर्मित्रावरुणा ततुरिम् ।।
ऋतावानं वैश्वानरं वैश्वानरस्य सुमतौ स्याम ।।
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमाग्नये ।।
तृषु यदन्ना तृषुणा ववक्ष तृषु दूतं कृणुते यह्वो अग्निः ।।
वातस्य मेडिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ।
अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य । तान्यस्मभ्यं रासते ।।
त्वामग्ने वसुपतिं वसूनामभि प्रमन्दे अध्वरेषु राजन् ।
त्वया वाजं वाजयन्तो जयेमाभिष्याम पृत्सुतीर्मर्त्यानाम् ।।
त्वं यविष्ठ दाशुषो नॄँ पाहि शृणुधी गिरः । रक्षा तोकमुत त्मना ।।
तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् ।
आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम् ।।
कृष्णा रजाँसि पत्सुतः प्रयाणे जातवेदसः । अग्निर्यद्रोधति क्षमि ।।
त्वे वसूनि पूर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः ।।
क्षामेव विश्वा भुवनानि यस्मिन् सँ सौभगानि दधिरे पावके ।
प्र वस्सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । अर्च गाय च वेधसे ।।
प्र वश्शुक्राय भानवे भरध्वँ हव्यं मतिं चाग्नये सुपूतम् ।।
यो दैव्यानि मानुषा जनूँष्यन्तर्विश्वानि विद्मना जिगाति ।।
वि ज्योतिषा वि पाजसा ।।
स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः । उरुक्षयेषु दीद्यत् ।।
तँ सुप्रतीकँ सुदृशँ स्वञ्चमविद्वाँसो विदुष्टरँ सपेम ।।
स यक्षद्विश्वा वयुनानि विद्वान् प्र हव्यमग्निरमृतेषु वोचत् ।।१६।।
 
युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव ।
नि होता पूर्व्यस्सदः ।
उत नो देव देवाँ अच्छा वोचो विदुष्टरः । श्रद्विश्वा वार्या कृधि ।।
त्वं ह यद्यविष्ठ्य सहसस्सून आहुत । ऋतावा यज्ञियो भुवः ।।
अयमग्निस्सहस्रिणः ।।
तं नेमिमृभवो यथा नमस्व सहूतिभिः । नेदीयो यज्ञमङ्गिरः ॥
कस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ।।
कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः । पणिं गोषु स्तरामहे ।।
मा नो देवानां विशः प्रस्नातीरिवोस्राः । कृशं न हासुरघ्न्याः ।
मा नस्समस्य दूढ्यः परिद्वेषसो अँहतिः ।
ऊर्मिर्न नावमा वधीत् ।।
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैरमित्रमर्दय ।।
कुवित्सु नो गइष्टयेऽग्ने संवेषिषो रयिम् । उरुकृदुरु णस्कृधि ।।
मा नो अस्मिन् महाधने परावर्भा् रभृद्यथा । संवर्गँ सं रयिं जय ।।
परस्या अधि संवत एह्यू षु ब्रवाणि ते ।। १७ ॥
 
 
इति श्रीयजुषि काठके चरकशाखायामिठिमिकायामालोभी नाम सप्तमं स्थानकं संपूर्णम् ॥ ७ ॥