"काठकसंहिता (विस्वरः)/स्थानकम् ०८" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = काठकसंहिता (विस्वरः) | author = | translator = | sec... नवीन पृष्ठं निर्मीत अस्ती)
 
| notes = दिशस्थानकम्।
}}
अथाष्टमं स्थानकम् ।
<poem><span style="font-size: 14pt; line-height:200%">
 
<poem><span style="font-size: 14pt; line-height:200%">दिशस्थानकम् ।
दिशो वै नाकल्पन्त न प्रजायन्त तत एतामग्नये प्राचीं दिशमरोचयन्यत् कृत्तिका यत् कृत्तिकास्वग्निमाधत्ते प्राच्यामेवैनं दिश्याधत्त एष वावैकः प्राङवस्यति य आहिताग्निः प्रत्यञ्चोऽन्य आग्नेयमेतन्नक्षत्रं यत् कृत्तिका यत् कृत्तिकास्वग्निमाधत्ते स्व एवैनं नक्षत्र आधत्ते प्रजापतेर्वा एतच्छिरो यत् कृत्तिका यत् कृत्तिकास्वग्निमाधत्ते शीर्षण्यो मुख्यो भवति सप्त वै कृत्तिकास्सप्त शीर्षण्याः प्राणाः प्राणा इन्द्रियाणि प्राणानेवेन्द्रियाण्याप्नोति पुष्टिमावद्भूयिष्ठमेकं नक्षत्रं पुष्टिमेव प्रजायाः पशूनां गच्छति ।। रोहिण्यामाधेयो रोहिण्यां वा एतं देवा आदधत तया रोहमरोहँस्तद्रोहिण्या रोहिणीत्वं रोहिण्यां वा एतं प्रजापतिराधत्त तया रोहमरोहत् तद्रोहिण्या रोहिणीत्वमेष वै मनुष्यस्य स्वर्गो लोको यदस्मिंल्लोके वसीयान् भवत्यृद्ध्या एव रोहिण्यामाधेयः कालकाञ्जा वै नामासुरा आसँस्त इष्टका अचिन्वत तदिन्द्र इष्टकामप्युपाधत्त तेषां मिथुनौ दिवमाक्रमेतां ततस्तामावृहत् ते ऽवाकीर्यन्त ता एतौ दिव्यौ श्वानौ यो व्यवृह्यत सोऽयमूर्णवाभिस्स्वैरान्त्रैस्संतितँसत्योजो वावैषां तद्वीर्यमाधत्तौजो वीर्यं भ्रातृव्यस्याधत्ते यच्चित्रायामग्निमाधत्ते तदेतदैन्द्रं नक्षत्रमभिभूतिमत् पूर्वासु फल्गुनीष्वादधीत यः कामयेत भगी स्यामिति भगस्य वा एतन्नक्षत्रं भगी भवत्युत्तरास्वादधीत यः कामयेत दानकामा मे प्रजास्स्युरित्यर्यम्णो वा एतन्नक्षत्रमेषोऽर्यमा यो ददाति दानामिमाः प्रजा उपजीवन्ति दानकामा अस्मै भवन्ति राजन्यस्यादध्यात् स हि दानमुपजीवति वसन्ता ब्राह्मणेनाधेयो वसन्तो वै ब्राह्मणस्यर्तुस्स्व एवैनमृता आधत्ते तेजो ब्रह्मवर्चसमुपाधत्ते ग्रीष्मे राजन्येनाधेयो ग्रीष्मो वै राजन्यस्यर्तुस्स्व एवैनमृता आधत्त ओजो वीर्यमुपाधत्ते शरदि वैश्येनाधेयश्शरद्वै वैश्यस्यर्तुस्स्व एवैनमृता आधत्त ऊर्जं पशूनुपाधत्ते । सोमेन यजा इति वा अग्निमाधत्ते यस्मिन्नेव कस्मिंश्चर्ता आदधीत सोमेन यक्ष्यमाण एतद्ध्यवर्धयत् सोमेन यजते फल्गुनीपूर्णमास आधेय एतद्वा ऋतूनां मुखमृतुमुख एवैनमाधत्ते शिशिर आधेयश्शिशिरं वा अग्नेर्जन्म प्रजातमेवैनमाधत्ते सर्वासु दिक्ष्वृध्नवानीति वा अग्निमाधत्ते सर्वासु दिक्ष्वग्निश्शिशिरे सर्वास्वेव दिक्ष्वृध्नोति यश्शिशिरेऽग्निमाधत्ते पूर्णमासे वामावस्यायां वादधीतैतद्वै पुण्याहं पुण्याह एवैनमाधत्ते तस्मादिष्ट्या वाग्रायणेन वा पशुना वा सोमेन वा पूर्णमासे वामावस्यायां वा यजेतैष वै यज्ञो यज्ञमेवैतत् प्रति यज्ञमालभते ।।१।।
यद्वा इमे व्यैतां यदमुष्यायज्ञियमासीत् तदिमामभ्युसृज्यतोषा यदूषा भवन्त्यनयोरेवैनं यज्ञिय आधत्ते प्राजापत्या वा ऊषाश्श्वश्श्वो भूयाँसो भवन्ति प्रजननायैवैते पशूनां वा एतत् प्रियं धाम यदूषा यदूषा भवान्ति पशूनामेव प्रियं धामोपाप्नोत्यलेलेद्वा इयं पृथिवी साबिभेदग्निर्मातिधक्ष्यतीत्यबिभेदग्निर्हरो मे विनेष्यतीत्यार्द्रेव हीयमासीत् तां देवाश्शर्कराभिरदृँहँस्तेजोऽग्ना अदधुर्यच्छर्करा भवन्तीमामेव दृँहति तेजोऽग्नौ दधात्यभिमृता वा इयं वृत्रेण वम्रियस्त्वै तद्विदुर्यत्रास्या जीवं यज्ञियं यद्वल्मीकवपा भवन्त्यस्या एवैनं जीवे यज्ञिय आधत्त आपो वा इदमासन् सलिलमेव स प्रजापतिर्वराहो भूत्वोपन्यमञ्जत् तस्य यावन्मुखमासीत् तावतीं मृदमुदहरत् सेयमभवद्यद्वराहविहतं भवत्यस्यामेवैनं प्रत्यक्षमाधत्ते वराहो व अस्यामन्नं पश्यति तस्मा इयं विजिहीते यद्वराहविहतं भवति तदेवान्नमवरुन्द्धे यत् तदादत्त तददितिर्यदप्रथत तत् पृथिवी यदभवत् तद्भूमिर्यद्वराहविहतं भवति प्रथत एवं प्रजया पशुभिर्नाना वै पशूनामन्नान्यन्यद्गोरन्नमयदश्वस्यान्यदव्या अन्यदजाया अन्यत् पुरुषस्यापोऽन्नं यदप उपसृजति यावदेवान्नं तदवरुन्द्धे पञ्चैते संभाराः पञ्च वै पुरुषे वीर्याणि करोत्यनया वीर्यं करोत्यनया करोत्यनेन यावदेव वीर्यं तदाप्नोति तत् स्पृणोति पञ्चैते संभाराः पाङ्क्तो यज्ञो यज्ञमेवावरुन्द्धे ।। न वा ऋत ऊर्जोऽन्नं धिनोत्यूर्गुदुम्बरो यदौदुम्बराणि भवन्त्यन्न एवोर्जं दधाति शमीमयानि भवन्ति मिथुनत्वायाग्निं वै सृष्टं प्रजापतिस्तँ शम्याग्रे समैन्द्ध यच्छमीमयानि भवन्ति स्वयैवैनँ समिधा समिन्द्धेऽश्वो वै भूत्वाग्निर्देवेभ्योऽपाक्रामत् स यत्रातिष्ठत् तदश्वत्थस्समभवत् तदश्वत्थस्याश्वत्थत्वं यदाश्वत्थानि भवन्ति यदेवास्य तत्र न्यक्तं तत् तैस्संभरत्यग्निर्वै मनुष्यैर्देवेभ्योऽपाक्रामत् तं देव अमन्यन्तायं वावेदं भविष्यतीति तस्य मरुतस्स्तनयित्नुना हृदयमच्छिन्दन् सा दिव्याश निरभवद्यद्वृक्षस्याशनिहतस्य भवति यदेवास्य तत्र न्युक्तं तत् तैस्संभरति पर्णमयानि पञ्चथानि भवन्ति पाङ्क्तत्वाय ।। २ ।।
 
अष्टासु प्रक्रमेषु ब्राह्मणेनाधेयोऽष्टाक्षरा गायत्री गायत्रच्छन्दा ब्राह्मणस्स्वस्यैवैनं छन्दसः प्रात्येनस्य आधत्ते यथा पिता पुत्रं जिन्वत्येवमेवैनं स्वं छन्दो जिन्वत्येकादशसु प्रक्रमेषु राजन्येनाधेय एकादशाक्षरा त्रिष्टुप् त्रिष्टुप् छन्दा राजन्यस्स्वस्यैवैनं छन्दसः प्रात्येनस्य आधत्ते यथा पिता पुत्रं जिन्वत्येवमेनँ स्वं छन्दो जिन्वति द्वादशसु प्रक्रमेषु वैश्येनाधेयो द्वादशाक्षरा जगती जगच्छन्दा वैश्यस्स्वस्यैवैनं छन्दसः प्रात्येनस्य आधत्ते यथा पिता पुत्रं जिन्वत्येवमेनँ स्वं छन्दो जिन्वत्यपरिमितमवरुणधा इति वा अग्निमाधत्तेऽपरिमित आधेयोऽपरिमितस्यावरुद्ध्यै यावति चक्षुषा मन्येत तावत्यादधीत सत्यं वै चक्षुस्सत्य एवैनमाधत्ते पूर्वाह्ण आधेय एतद्वै पुण्याहं पुण्याह एवैनमाधत्ते व्युष्टायां पुरा सूर्यस्योदेतोराधेय एतस्मिन् वै लोके प्रजापतिः प्रजा असृजत ताः प्राजायन्त प्रजननायैवमाधेय आग्नेयी वै रात्र्यैन्द्रमहर्यदुदिते सूर्य आदधीताग्नेयाद्वर्णादियाद्यदनुदित ऐन्द्रादनुदितेऽपर आधेय उदिते पूर्व उभा एवेन्द्राग्न्योर्वर्णा आप्नोत्यसुर्या वै रात्री वर्णेन शुक्रियमहश्शुक्रिय आधत्ते य उदिते सूर्य आधत्ते नक्तं वा अनुदितेन दिवोदितेन दिवाधत्ते य उदिते सूर्य आधत्ते ।। न वै सु विदुरिव मनुष्या नक्षत्रं मीमाँसन्त इव ह्युदितेन वाव पुण्याहं पुण्याह आधत्ते य उदिते सूर्य आधत्ते सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि सप्त होत्रा अनु विद्वान् सप्त योनीँरापृणस्वा घृतेनेति यावतीर्वा अग्नेस्तन्वो यो वा अस्य ता आदधानो वितर्षयति वि ह तृष्यत्येतावतीर्वा अग्नेस्तन्वः षोढा सप्त सप्त ता एवास्य प्रीणाति न वितृष्यति पूर्णया स्रुचा मनसा प्रजापतये जुहोति पूर्णः प्रजापतिः प्रजापतिमेवाप्नोति ।। ३ ।।
 
अङ्गिरसां त्वा देवानां व्रतेनादध इति ब्राह्मणेनाधेयो ये वै देवानामङ्गिरसस्ते ब्राह्मणस्य प्रत्येनसोऽग्निर्वायुर्वाग्बृहस्पतिस्ततो बन्धुरस्य यज्ञस्तत आयनो यतो बन्धुरेवास्य यज्ञो यत आयनस्तत एनं प्रतीच्छतीन्द्रस्य त्वा मरुत्वतो व्रतेनादध इति राजन्येनाधेयो ये वै देवानां राजानस्ते राजन्यस्य प्रत्येनस इन्द्रो वरुणो धाता त्वष्टा ततो बन्धुरस्य यज्ञस्तत आयनो यतो बन्धुरेवास्य यज्ञो यत आयनस्तत एनं प्रतीच्छति मनोस्त्वा ग्रामण्यो व्रतेनादध इति वैश्येनाधेयो मरुतो वै देवानां विशस्ते वैश्यस्य प्रत्येनसस्ततो बन्धुरस्य यज्ञस्तत आयनो यतो बन्धुरेवास्य यज्ञो यत आयनस्तत एनं प्रतीच्छतीडा वै मना आसीत् सासुरानग्निमादधानानगच्छत् त आहवनीयमग्र आदधताथ गार्हपत्यमथौदनपचनं तानब्रवीदाप्त्वा श्रियं प्रत्यवारुक्षन् पुण्या भविष्यन्ति परा तु भविष्यन्तीति सा देवानग्निमादधानानगच्छत् त ओदनपचनमग्र आदधताथ गार्हपत्यमथाहवनीयं तानब्रवीदापञ्छ्रियं वीमं लोकमच्छिन्दन् पुण्या भविष्यन्ति प्रज़ा त्वेषां न भविष्यतीति सेडैव मनोरादधात् साब्रवीत् तथा तेऽग्निमाधास्यामि यथा मनुष्या देवानुप प्रजनिष्यन्त इति सा गार्हपत्यमग्र आदधादथौदनपचनमथाहवनीयमनयोर्लोकयोर्य्चवगृहीत्यै ॥ ततो मनुष्या देवानुप प्राजायन्त प्रजननायैवमाधेयोऽथो अनयोरेव लोकयोर्व्यवगृहीत्यै प्रजापतिर्वै यदग्रे व्याहरत् स सत्यमेव व्याहरदेतद्वाव स त्रिर्व्याहरद्भूर्भुवस्स्वरित्येतद्वै वाचस्सत्यं यदेव वाचस्सत्यं तेनाधत्ते भूष्णु वै सत्यं य एवं विद्वानेतेनाधत्ते भवत्येवायं वा अपरो भूरसौ पूर्वो भुवो भूर्भुवरित्यपर आधेयस्सत्यस्याननुगत्यै भूर्भुवस्स्वरिति पूर्वस्तत् पुरस्सर्वमाप्यते वाग्वै देवतां निरवदत निरुदितदेवता हि वै वागथ तत् सर्वं न सत्यं यद्वाचा शपते यत् प्राशूर्भवति या वै तां वाग्देवतां निरवदतैषा वाव सा यदेता व्याहृतय एतद्वै वाचस्सदेवं यदेव वाचस्सदेवं तेनाधत्तेऽयं वा अपरो भूरसौ पूर्वो भुवो भूर्भुवरित्यपर आधेय उभा एवैनौ सहाधत्त एष ह्येतस्य योनिरेतस्माद्ध्येषोऽधिसृज्यतेऽयं वावाग्निर्योऽयमन्तरग्नि यो ऽसौ पूर्वोऽसा आदित्य एष योऽसा अमुष्मादधिसृज्यते यद् द्वितीयं ज्योतिस्तदेव तद्भूर्भुवस्स्वरिति पूर्व आधेय उभा एवैनौ सहाधत्त एष ह्येतस्य योनिरेतस्माद्ध्येषोऽधि प्रह्रियते योऽसा अमुष्मादधि प्रह्रियते यत् तृतीयं ज्योतिस्तदेव तेनाप्यतेऽसौ वावैष आदित्यः प्रत्यङ्ङाधीयते तस्मादेष सर्वाः प्रजाः प्रत्यङ्ङग्निना वै देवा अन्नमदन्ति प्रत्यग्वा अन्नमद्यते यत् प्रत्यङ्ङाधीयतेऽन्नाद्याय प्राचो वै देवान् प्रजापतिरसृजतापाचोऽसुरान् सोऽसुरान् ब्रह्मणापानुदताग्निर्ब्रह्म यत् प्रत्यङ्ङाधीयते भ्रातृव्यस्यापनुच्या इममर्धमाग्निना परियन्तीममर्धमुपचरन्ति देवानामेवार्धं परियन्ति देवानामर्धमुपचरन्तीमां
 
 
 
 
</span></poem>
२९,७६०

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/206568" इत्यस्माद् पुनः प्राप्तिः