"काठकसंहिता (विस्वरः)/स्थानकम् १३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
आग्नेयमजमालभेत सौम्यमृषभं यस्य पिता पितामहः पुण्यस्स्यादथ तन्न प्राप्नुयादग्निस्सर्वा देवता मुखत एव देवता आलभत इन्द्रियेण वा एष सोमपीथेन व्यृध्यते यस्य पिता पितामहः पुण्यो भवत्यथ तन्न प्राप्नोति सौम्यो ब्राह्मणो देवतयेन्द्रियमस्य सोमपीथो यत् सौम्य इन्द्रियेणैवैनँ सोमपीथेन समर्धयति द्यावापृथिव्यां धेनुं पर्यारिणीमालभेत निरुद्धो ज्योङ्निरुद्धो द्यावापृथिव्योर्वा एष निर्भक्तो यो निरुद्धो ज्योङ्निरुद्धो यद् द्यावापृथिव्या द्यावापृथिव्योरेवैनमाभजति पर्यारी वा एष यो निरुद्धो ज्योङ्निरुद्धः पर्यारिण्यस्य देवता यत् पर्यारिणी स्व एवास्य तेन पशुरेतस्यां एव वायव्यं वत्सँ श्व आलभेत वायुर्वा अनयोर्वत्सस्स इमे आप्याययति स प्रदापयति तमेव भागधेयेनोपधावति सोऽस्मा इमे प्रदापयत्यैन्द्राग्नमेतमनुसृष्टमालभेत यस्य पिता पितामहस्सोमं न पिबेदथ स पिपासेदिन्द्रियेण वा एष सोमपीथेन व्यृध्यते यस्य पिता पितामहस्सोमं न पिबत्याग्नेयो ब्राह्मणो देवतयेन्द्रियमस्य सोमपीथो यदैन्द्राग्नस्स्वयैव देवतया सोमपीथमनुसंतनोत्यनुसृष्टो वा एतस्य सोमपीथो यस्य पिता पितामहस्सोमं न पिबति यदनुसृष्टस्स्व एवास्य तेन पशुर्यदेतौ द्विवत्यस्य तद्रूपं त्वाष्ट्रँ शुण्ठमालभेत यः कामयेत सूपकाशो मे पुत्रो जायेतेति त्वष्टा वै रूपाणां विकर्ता तमेव भागधेयेनोपधावति सोऽस्मै रूपाणि विकरोत्याश्विनं कृष्णललाममालभेत भ्रातृव्यवान् देवा वा असुरानह्नोऽनुदन्त तेषां यत् स्वमासीद् यद्वित्तं यद्वेद्यं तेन रात्रीँ समवायँस्ते देवा एतमाश्विनं कृष्णललाममपश्यँस्तमालभन्त तेनैनान् रात्रीमन्ववायन् द्यावापृथिवी वा अश्विनौ तान् द्यावापृथिवीभ्यामेवावस्तान्निबाध्यादित्येन परस्ताद्रात्र्या अनुदन्त तेषां यत् स्वमासीद याद्वित्तं यद्वेद्यं तदवृञ्जत ततो देवा अभवन् परासुरा अभवन् द्यावापृथिवी वा अश्विनौ द्यावापृथिवीभ्यामेवावस्ताद् भ्रातृव्यं निबाध्यादित्येन परस्तादहोरात्रयोः प्रणुदते तस्य यत् स्वं यद्वित्तं यद्वेद्यं तद् वृङ्क्ते भवत्यात्मना परास्य भ्रातृव्यो भवति। यल्ललामोऽह्नस्तद्रूपं यत् कृष्णो रात्र्यास्तदुभयोरेवैनं वर्णयोः प्रणुदत इन्द्रो वै विलिस्तेङ्गां दानवीमकामयत सोऽसुरेष्वचरत् स्त्र्येव स्त्रीष्वभवत् पुमान् पुंसु निर्ऋतिगृहीत इवामन्यत स एतमैन्द्रानैर्ऋतं विपुँसकमपश्यद्येन रूपेणाचरत् तमालभत तस्य यदनवदानीयमासीत् तेन पूर्वेण प्राचरद्दक्षिणा परेत्य स्वकृत इरिणे जुषाणा निऋतिर्वेत्तु स्वाहेत्यथेतरं पुनरेत्यैन्द्रँ समस्थापयत् स निर्ऋतिमेव पूर्वां निरवदायाथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त ततो वै सोऽभवदैन्द्रानैर्ऋतं विपुँसकमालभेत बुभूषन् यो निर्ऋतिगृहीत इव मन्येत तस्य यदनवदानीयँ स्यात् तेन पूर्वेण प्रचरेद्दक्षिणा परेत्य स्वकृत इरिणे जुषाणा निर्ऋतिर्वेत्तु स्वाहेत्यथेतरं पुनरेत्यैन्द्रँ सँस्थापयेन्निर्ऋतिमेव पूर्वां निरवदायाथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते भवत्येवैन्द्रं विशालमृषभमालभेत संग्रामे यः कामयेतायँ संग्रामो न विजयेतेतीन्द्रो वै संग्रामस्य विनेतेन्द्रो विजापयिता तमेव भागधेयेनोपधावति स एनान् विनयति यद्विशालो वियतां तद्रूपमिन्द्राय विघनाय विशालमृषभमालभेत जनतयोस्संधौ यः कामयेतोभे जनते ऋच्छेयमित्युभे एव जनते ऋच्छति त अन्यान्यां घ्नती चरतो यद्विशाल आव्रस्कमेवैने गमयति ।।५।।
 
आग्निवारुणीमनड्वाहीमालभेतानाज्ञातयक्ष्मगृहीतोऽनाज्ञातयक्ष्मो वा एतां वित्तो या स्त्री सत्यनड्वाही तस्मादेनामनाज्ञातयक्ष्मगृहीत आलभेताग्निस्सर्वा देवता यदेवास्य देवताभिर्निषितं तदग्निना मुञ्चति यद्वरुणगृहीतं तद्वरुणेन यद्वहिनी तेनाग्नेयी यत् स्त्री सती दान्ता तेन वारुणी तस्मादाग्निवारुणी भवति त्वाष्ट्रमँसेपादमालभेत पशुकामो मिथुनो वा एष योँऽसेपात्व्दष्टा मिथुनस्य प्रजनयिता तमेव भागधेयेनोपधावति सोऽस्मा एतस्मान्मिथुनात् पशून् प्रजनयति वारुणँ श्यामशितिकण्ठमालभेत यं व्येमानं यक्ष्मो गृह्णीयाद् रुणो वा एतं गृह्णाति यं व्येमानं यक्ष्मो गृह्णाति यद् वारुणो वरुणादेवैनं मुञ्चति पाप्मनैष गृहीतो य आमयावी श्याम इव पाप्मा यच्छ्यामः पाप्मानमेवापहते यच्छितिकण्ठो वरुणपाशमेव तेन प्रमुञ्चत आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणँ सोमं पिपाययिषेदश्विनौ वै देवानामसोमपा आस्तां तौ पश्चात् सोमपीथं प्राप्नुतामश्विना एतस्य देवता यः पश्चात् सोमपस्ता एव भागधेयेनोपधावति ता एनँ सोमपीथाय परिणयतस्स्तायदिव यजेत स्तायदिव हि दुर्ब्राह्मणो ब्राह्मणो बुभूषति धूम्र इव वा एष यो दुर्ब्राह्मणो यद्धूम्रो धूम्रिमाणमेवापहते यल्ललामो मुखत एव तेन तेजो धत्ते सारस्वतीं धेनुष्टरीमालभेत यं भ्रातृव्या नीव श्वासयेरन् वाचा वा एत एतं निश्वासयन्ते वाक् सरस्वती यत् सारस्वती वाचैवैषां वाचं प्रतिशृणाति ।। धेनुर्वा एषा सती न दुहे तस्माद्धेनुष्टर्युच्यते यद्धेनुष्टरी वाचमेवैषाँ स्तरीकरोति सारस्वतीं धेनुष्टरीमालभेत यमजघ्निवाँसमभिशँसेयुरशान्ता वा एतं वागृच्छति यमजघ्निवाँसमभिशँसन्ति वाक् सरस्वती यत् सारस्वती वाचैवैषां वाचँ शमयति धेनुर्वा एषा सती न दुहे तस्माद्धेनुष्टर्युच्यते यद्धेनुष्टरी वाचमेवेषाँ स्तरीकरोति सावित्रं पुनरुत्सृष्टमालभेत यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्याद्यया वा एष देवतया पुरा पुण्यो भवति सा हि वा एतमनुसृजत्यथैष पापीयान् भवति सविता श्रियः प्रसविता तमेव भागधेयेनोपधावति स एनं पुनश्श्रिये प्रसुवति पापो वा एष पुरा भूत्वा पश्चाच्छ्रियं प्राप्नोति योऽनड्वान् भूत्वोक्षा भवति यथैव स श्रियं प्राप्नोत्येवमेनँ श्रियं प्रापयति ॥६॥
आग्निवारुणीमनड्वाहीमालभेतानाज्ञातयक्ष्मगृहीतोऽनाज्ञातयक्ष्मो वा एतां वित्तो या स्त्री सत्य
 
त्रीँल्लामानृषभान् वसन्तालभेत त्रीञ्छिातिककुदो ग्रीष्मे त्रीञ्छितिभसदश्शरदि यल्ललामा मुखत एव तेन तेजो धत्ते यच्छितिककुदो मध्यत एव तेन रुचं धत्ते यच्छितिभसद उपरिष्टादेव तेन ब्रह्मवर्चसं धत्ते संवत्सरं पर्यालभ्यन्ते वीर्यं वै संवत्सरस्संवत्सरमेव वीर्यमाप्नोति नव भवंति नव प्राणाः प्राणानेवात्मन् धत्त ऐन्द्रास्स्युर्बुभूषन् यजेतासौ वा आदित्य इन्द्रस्स एतैरभवत् स एतैस्तेजो वीर्यमात्मन्नधत्त भवत्येव तेजो वीर्यमात्मन् धत्ते य एवं विद्वानेतैर्यजते प्राजापत्यँ सर्वरूपं दशममालभेत संवत्सरे पर्येते संवत्सरस्याप्त्यै प्रजापतिर्योनिर्योना एव प्रतितिष्ठति । सर्वरूपो भवति सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै दश भवन्ति दश प्राणाः प्राणा वीर्यं वीर्य एव प्रतितिष्ठति द्यावापृथिव्ये धेनू संमातरा आलभेतान्नकामो द्यावापृथिवी वा अन्नाद्यस्येशाते अमुतो वर्षत्यस्यां प्रतितिष्ठत्येते अन्नाद्यस्य प्रदात्री ते एव भागधेयेनोपधावति ते अस्मा अन्नाद्यं प्रयच्छतस्संमातरौ भवतस्संमातरा इव हीमे एतयोरेव वायव्यं वत्सँ श्व आलभेत वायुर्वा अनयोर्वत्सस्स इमे आप्याययति स प्रदापयति तमेव भागधेयेनोपधावति सोऽस्मा इमे प्रदापयति बार्हस्पत्यँ शितिपृष्ठमालभेत ब्रह्मवर्चसकामो ब्रह्म वै बृहस्पतिर्बृहस्पतिर्ब्रह्मवर्चसस्य प्रदाता तमेव भागधयेनोपधावति सोऽस्मै ब्रह्मवर्चसं प्रयच्छति ।। पृष्ठमिव वा एष भवति यो भवति यच्छितिपृष्ठः पृष्ठमेवैनं करोत्याश्विनं कृष्णललाममालभेतानुजावरोऽश्विनौ वै देवानामानुजावरौ ता अग्रं पर्यैतामश्विना एतस्य देवता य आनुजावरस्ता एवान्वारभते ता एनमग्रं परिणयतः पाप्मनैष गृहीतो य आनुजावरः कृष्ण इव पाप्मा यत् कृष्णः पाप्मानमेवापहते यल्ललामो मुखत एव तेन तेजो धत्त आश्विनं कृष्णललाममालभेतामयाव्यश्विनौ वै देवानां भिषजा अश्विनौ एतस्य देवता य आमयावी ता एव भागधेयेनोपधावति ता एनं भिषज्यतः पाप्मनैष गृहीतो य आमयावी कृष्ण इव पाप्मा यत् कृष्णः पाप्मानमेवापहते यल्ललामो मुखत एव तेन तेजो धत्ते ॥ त्वाष्ट्रं विपुँसकमालभेत प्रजाकामो वा पशुकामो वा प्रजापतिर्वै प्रजास्सिसृक्षमाणस्स द्वितीयं मिथुनं नाविन्दत स एतद्रूपं कृत्वाङ्गुष्ठेनात्मानँ समभवत् ततः प्रजा असृजत त्वष्टा मिथुनस्य प्रजनयिता तमेव भागधेयेनोपधावति सोऽस्मा एतस्मान्मिथुनात् पशून् प्रजनयत्येतेन वै रूपेण प्रजापतिः प्रजा असृजत येनैव रूपेण प्रजापतिः प्रजा असृजत तस्मादेव रूपात प्रजया च पशुभिश्च प्रजायत ऐन्द्रं विपुँसकमालभेत यः पण्डकत्वाद्बिभीयादिन्द्रो वा एतां त्वचमेतं पाप्मानमपाहत तमेव भागधेयेनोपधावति सोऽस्मात् तां त्वचं तं पाप्मानमपहन्त्यृषभो दक्षिणा वीर्यं वा ऋषभो वीर्यमेवास्मिन् दधाति।।७।।
 
छन्दाँसि वै यज्ञमभ्यमन्यन्त स वषट्कारोऽभ्यय्य गायत्र्याश्शिरोऽच्छिनत् ततो यो रसोऽस्रवत् सा वशाभवद्यद्वशमस्रवत् तद्वशाया वशात्वं यत् प्रथममस्रवल्लोहितं वाव तदस्रवत् तद्बृहस्पतिरुपागृह्णात् सा या रोहिणी साभवत् तस्मात् सा बार्हस्पत्या यद् द्वितीयमस्रवत् तन्मित्रावरुणा उपागृह्णीताँ सा या द्विरूपा साभवत् तस्मात् सा मैत्रावरुणी यत् तृतीयमस्रवत् तद्विश्वे देवा उपागृह्णन् सा या बहुरूपा साभवत् तस्मात् सा वैश्वदेवी ।। यदुदौक्षत तद्बृहस्पतिरभ्यगृह्णात् स उक्षाभवत् तदुक्ष्ण उक्षत्वं यदत्यमुच्यत तानीमान्यन्यानि रूपाणि बार्हस्पत्यां रोहिणीमालभेत ब्रह्मवर्चसकामो रसेन वा एष व्यृध्यते योऽलं ब्रह्मवर्चसाय सन्न ब्रह्मवर्चसी भवति च्छन्दसामेष रसो ब्रह्म बृहस्पतिर्ब्रह्मणैवास्मिँस्तेजो रसं दधाति ब्रह्मवर्चसी भवति मैत्रावरुणीं द्विरूपामालभेत वृष्टिकामो ऽहोरात्रे वै मित्रावरुणा अहोरात्रे पर्जन्योऽनुवर्षति नक्तं वा हि दिवा वर्षत्येतौ वर्षस्येशाते ता एव भागधेयेनोपधावति ता अस्मै प्रीतौ वृष्टिं निनयतो मैत्रावरुणीं द्विरूपामालभेत प्रजाकामोऽहोरात्रे वै मित्रावरुणा अहोरात्रे प्रजा अनुप्रजायन्ते नक्तं वा हि दिवा वा प्रजायन्तेऽहोरात्रे एवैना अनुप्रजनयति ।। वैश्वदेवीं बहुरूपामालभेत कामेभ्यः कामा वै विश्वे देवास्तानेव भागधेयेनोपधावति तेऽस्मै स सर्वान् कामान् प्रयच्छन्ति बार्हस्पत्यमुक्षाणमालभेत बुभूषन् रसेन वा एष व्यृध्यते योऽलं भूत्यै सन्न भवति च्छन्दसामेष रसो ब्रह्म बृहस्पतिर्ब्रह्मणैवास्मिन् भूतिं रसं दधाति भवत्येव सौरीँ श्वेतामालभेत रुक्कामोऽसौ वा आदित्यो रुचः प्रदाता तमेव भागधेयेनोपधावति सोऽस्मै रुचं प्रयच्छति ब्राह्मणस्पत्यां बभ्रूमभिचरन्नालभेत ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्मणैवैनमभिप्रयुङ्क्त एतद्वै ब्रह्मणो रूपं यद्बभ्रू रूपेणैवैनत्सँश्यति ॥८॥
 
धाता रातिस्सवितेदं जुषन्तॆ प्रजापतिर्वरुणो मित्रो अग्निः ।।
त्वष्टा विष्णुः प्रजया संरराणा यजमानाय द्रविणं दधात ॥
आवर्तय निवर्तया वर्तन वर्तय नि निवर्तन वर्तय ।
इन्द्र नन्दबल भूम्याश्चतस्रस्सूक्तयस्ताभ्यस्त्वा वर्तयामसि ।।
वि ते भिनद्मि तकरिं वि योनिं वि परीणहम् ।
वि मातरं च पुत्रं च वि गर्भं च जरायु च ॥
बहिष्टे अस्तु बालिति पुरुदस्मवद् विश्वरूपमिन्दुः पवमानो गर्भमानञ्ज धीरः ।। एकपादं द्विपादं त्रिपादं चतुष्पादं भुवनानुप्रथन्ताम् ।।
गर्भो यस्ते यज्ञियो योनिर्यस्ते हिरण्ययः । अङ्गान्यह्रुता यस्य तं देवास्समचीक्लृपन्॥
मही द्यौः पृथिवी च न इमं यज्ञ मिमिक्षताम् । पिपृतां नो भरीमभिः ।।
नमो महिम्न उत चक्षुषे ते मरुतां पितरुत तद्गृणीमः ।
हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥
देवानामेष उपनाह आसीदपां पतिरोषधीनाम् ।।
सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवद्यत् तदासीत् ।।
पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।
गर्भो जरायुः प्रतिधुक् पीयूष आमिक्षा मस्तु घृतमस्य योनिः ।।
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥९॥
 
यदाष्टापद्यभूदित्यनुबुध्येत धाता रातिस्सवितेदं जुषन्तामिति स्रुवेणाहवनीये जुहुयाद्देवताभ्य एवैनान्निवेदयत्यावर्तय निवर्तयेतीन्द्रमेव दिग्भ्य आवर्तयति प्रायश्चित्यै ए वि ते भिनद्मि तकरिमिति प्रैव जनयत्यन्तरा श्रोणी निघ्नन्ति प्रजननाय पुरुदस्मवदिति पात्रमुपदधात्यस्कन्दायैकपादं द्विपादमिति प्रथयत्येव यदवद्येदवदानान्यतिरेचयेद्यन्नावद्येत् पशोरालब्धस्य नावद्येदार्तिमार्च्छेत् पुरस्तादन्यन्नाभ्या अवद्येत् पश्चादन्यत् पुरस्ताद्वै नाभ्याः प्राणः पश्चादपान एतावान् वै पशुर्यावानेव पशुस्तस्यावद्यत्यच्छम्बट्कारं यद्रसमवदानेषु व्यानयति तेनैव सर्वेषामङ्गानामवत्तं भवत्यष्टापृडँ हिरण्यं दक्षिणाष्टापदी वा एषात्मा नवमोऽष्टापृडमेतन्नेमिर्नवमः पशोराप्त्यै तृतीयेऽन्तरकोश उष्णीषेणावेष्टितं भवति विबिलानिव कोशान् कुर्यादेवमेव हि पशुर्लोम चर्म माँसमस्थि मज्जा पशुमेवाप्नोति तद्विष्णवे शिपिविष्टाय जुहोति यो वै पशूनां भूमा यदतिरिक्तं तद्विष्णोश्शिपिविष्टमतिरिक्तं वा एतदतिरिक्तँ शिपिविष्टमतिरिक्तेनैवातिरिक्तमाप्नोत्यथो अतिरिक्त एवातिरिक्तं दधाति ।। गर्भो यस्ते यज्ञिय इति यज्ञियमेवैनं करोति योनिर्यस्ते हिरण्यय इति हिरण्ययमेवैनं करोत्यङ्गान्यह्रुता यस्य तं देवास्समचीक्लृपन्निति समेवैनं कल्पयति मही द्यौः पृथिवी च न इति पशुश्रपण उपवपत्यनयोर्वा एष गर्भोऽनयोरेवैनं प्रतिष्ठापयति नमो महिम्न उत चक्षुषे त इति व्यृद्धेन वा एष पशुना चरति यस्यैतानि न क्रियन्ते यदेतानि करोति सर्वमेवैनँ सवीर्यँ सयोनिँ सतनूमृद्ध्यै संभरति ।।१०।।
 
आ वायो भूष शुचिपा उपा नस्सहस्रं ते नियुता विश्ववार ।
उपो ते अन्धो मद्यमयामि यतो देव दधिषे पूर्वपेयम् ।।
आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते चक्षुस्सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहा किक्किटा ते वाचँ सरस्वत्यै स्वाहा किक्किटा ते प्राणं वाताय स्वाहा ॥
वशासि वशिनी सकृद्यते मनसा गर्भमाशयत् ।
वशा त्वं वशिनी गच्छ देवान् सत्यास्सन्तु यजमानस्य कामाः ।।
अजासि रयिष्ठाः पृथिव्याँ सीद । ऊर्ध्वान्तरिक्षमुपतिष्ठस्व दिवि ते बृहद्भास्स्वाहा ॥ तन्तुं ततं रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्बणं वयसि जोगुवामपो मनुर्भव जनया दैव्यं जनम् ।।
तपसो हविरसि प्रजापतेर्वर्णो गात्राणां ते गात्रभाग्भूयासँ सूर्यों दिवा दिविषद्भ्यो धाता क्षत्रस्य वायुः प्रजानां बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मते ज्योतिष्मतीं जुहोतु स्वाहा ॥११॥
इम वै सहास्तां ते वायुर्व्यवात् ते गर्भमदधातां ततोऽजा वशाजायत तामग्निरग्रसत तां प्रजापतिरेतेन पुरोडाशेन निरक्रीणाद्यदाग्नेयः पुरोडाशो भवति निष्क्रीत्यै यद्वायुर्व्यवात् तसाद्वायव्या यद् द्यावापृथिवी गर्भमधातां तस्माद् द्यावापृथिव्येमे वै सहास्तां ते यथा वेणू संधाव्येते एवँ समधाव्येताँ सा या वागासीत् साजा वशाभवत् तस्मात् सारस्वती भवत्यसौ वा आदित्य इमे अभ्यक्रन्दत् ते गर्भमदधातां ततोऽजा वशाजायत तस्मात् सौरी भवति वायव्यामालभेत बुभूषन् क्षिप्रा देवताजिरं भूतिमुपैति द्यावापृथिव्यामालभेत कृषिमवस्यत् प्रतिष्ठा वा एतस्मा एष्टव्या यः कृषिमवस्यति यद् द्यावापृथिव्या द्यावापृथिव्योरेव प्रतितिष्ठति वर्षुकोऽस्मै पर्जन्यो भवति तामेतां कण्वास्सौश्रवसा विदुस्सारस्वतीमालभेत यस्माद्वागपक्रामेद्वाग्वै सरस्वती सरस्वत्येतस्मादपक्रामति यस्माद्वागपक्रामति यत् सारस्वती वाचमेवावरुन्द्धे तामेतां गर्भाः प्रावरेया विदुस्सौरीमालभेत रुक्कामोऽसौ वा आदित्यो रुचः प्रदाता सोऽस्मै रुचं प्रयच्छति तामेतां यस्का गैरिक्षिता विदुराग्नेन्द्रीमालभेत पुरोधाकाम आग्नेयो वै ब्राह्मण ऐन्द्रो राजन्यो ब्रह्म चैव क्षत्रं च सयुजौ करोति तामेतां कापेया विदुरग्नीषोमीयामालभेतान्नकामोऽग्निर्वै देवानामन्नादस्सोमोऽन्नमग्निनैवान्नमत्ति सोमेनावरुन्द्धे तामेतामारुणयो विदुरा वायो भूष शुचिपा उपा न इति य एव प्राजनयत् तस्मादेनामध्यवरुन्द्ध आकूत्यै त्वेत्याकूत्यै ह्येषालभ्यते कामाय त्वेति कामाय ह्येषालभ्यते समृधे त्वेति समृधे ह्येषालभ्यते किक्किटा ते मनः प्रजापतये स्वाहेति प्रजापतिमेवास्या मनो गमयति किक्किटा ते चक्षुस्सूर्याय स्वाहेति सूर्यमेवास्याश्चक्षुर्गमयति किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहेति द्यावापृथिवी एवास्याश्श्रोत्रं गमयति किक्किटा ते वाचँ सरस्वत्यै स्वाहेति सरस्वतीमेवास्या वाचं गमयति किक्किटा ते प्राणं वाताय स्वाहेति वातमेवास्याः प्राणं गमयति ।। किक्किटा त इति जुहोति तस्मात् किक्किटाकारं ग्राम्याः