"काठकसंहिता (विस्वरः)/स्थानकम् १३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५८:
तपसो हविरसि प्रजापतेर्वर्णो गात्राणां ते गात्रभाग्भूयासँ सूर्यों दिवा दिविषद्भ्यो धाता क्षत्रस्य वायुः प्रजानां बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मते ज्योतिष्मतीं जुहोतु स्वाहा ॥११॥
इम वै सहास्तां ते वायुर्व्यवात् ते गर्भमदधातां ततोऽजा वशाजायत तामग्निरग्रसत तां प्रजापतिरेतेन पुरोडाशेन निरक्रीणाद्यदाग्नेयः पुरोडाशो भवति निष्क्रीत्यै यद्वायुर्व्यवात् तसाद्वायव्या यद् द्यावापृथिवी गर्भमधातां तस्माद् द्यावापृथिव्येमे वै सहास्तां ते यथा वेणू संधाव्येते एवँ समधाव्येताँ सा या वागासीत् साजा वशाभवत् तस्मात् सारस्वती भवत्यसौ वा आदित्य इमे अभ्यक्रन्दत् ते गर्भमदधातां ततोऽजा वशाजायत तस्मात् सौरी भवति वायव्यामालभेत बुभूषन् क्षिप्रा देवताजिरं भूतिमुपैति द्यावापृथिव्यामालभेत कृषिमवस्यत् प्रतिष्ठा वा एतस्मा एष्टव्या यः कृषिमवस्यति यद् द्यावापृथिव्या द्यावापृथिव्योरेव प्रतितिष्ठति वर्षुकोऽस्मै पर्जन्यो भवति तामेतां कण्वास्सौश्रवसा विदुस्सारस्वतीमालभेत यस्माद्वागपक्रामेद्वाग्वै सरस्वती सरस्वत्येतस्मादपक्रामति यस्माद्वागपक्रामति यत् सारस्वती वाचमेवावरुन्द्धे तामेतां गर्भाः प्रावरेया विदुस्सौरीमालभेत रुक्कामोऽसौ वा आदित्यो रुचः प्रदाता सोऽस्मै रुचं प्रयच्छति तामेतां यस्का गैरिक्षिता विदुराग्नेन्द्रीमालभेत पुरोधाकाम आग्नेयो वै ब्राह्मण ऐन्द्रो राजन्यो ब्रह्म चैव क्षत्रं च सयुजौ करोति तामेतां कापेया विदुरग्नीषोमीयामालभेतान्नकामोऽग्निर्वै देवानामन्नादस्सोमोऽन्नमग्निनैवान्नमत्ति सोमेनावरुन्द्धे तामेतामारुणयो विदुरा वायो भूष शुचिपा उपा न इति य एव प्राजनयत् तस्मादेनामध्यवरुन्द्ध आकूत्यै त्वेत्याकूत्यै ह्येषालभ्यते कामाय त्वेति कामाय ह्येषालभ्यते समृधे त्वेति समृधे ह्येषालभ्यते किक्किटा ते मनः प्रजापतये स्वाहेति प्रजापतिमेवास्या मनो गमयति किक्किटा ते चक्षुस्सूर्याय स्वाहेति सूर्यमेवास्याश्चक्षुर्गमयति किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहेति द्यावापृथिवी एवास्याश्श्रोत्रं गमयति किक्किटा ते वाचँ सरस्वत्यै स्वाहेति सरस्वतीमेवास्या वाचं गमयति किक्किटा ते प्राणं वाताय स्वाहेति वातमेवास्याः प्राणं गमयति ।। किक्किटा त इति जुहोति तस्मात् किक्किटाकारं ग्राम्याः पशव उपतिष्ठन्ते किक्किटाकारादारण्याः प्रत्रसन्ति पञ्चैतानि जुहोति पाङ्क्ताः पशवो यावानेव पशुस्तँ स्वर्गं लोकं गमयति वशासि वशिनीत्याशिषमेवाशास्ते सकृद्यत्ते मनसा गर्भमाशयदिति प्रैव जनयत्यजासि रयिष्ठाः पृथिव्याँ सीदेतीमानेवैनांल्लोकानामयत्यूर्ध्वान्तरिक्षमुपतिष्ठस्व दिवि ते बृहद्भास्स्वाहेति स्वर्गमेवैनांल्लोकान् गमयति तन्तुं ततं रजसो भानुमन्विहीत्याशिषमेवाशास्ते ज्योतिष्मतः पथो रक्ष धिया कृतानिति रक्षसामपहत्या अनुल्बणं वयसि जोगुवामप इत्यनुल्बणमेवैनां तनुते मनुर्भव जनया दैव्यं जनमिति प्रैव जनयति तपसो हविरसि प्रजापतेर्वर्णो गात्राणां ते गात्रभाग्भूयासमित्याशिषमेवाशास्ते ॥ यदप्सु प्रवपति व्यृद्धिस्सा यदग्नौ जुहोति स्वगाकृतिस्सा यन्मेघ आलभते व्यृद्धा तेनाप्रजातैव तर्हि वीध्रसमृद्धा वः एषा वीध्र एवैतया यजेत त्रयाणां वावैषावरुद्धा संवत्सरसदो गहमेधिनस्सहस्रयाजिनस्त एवैतया यजेरन् सूर्यो देवो दिविषद्भ्यो धाता क्षत्रस्य वायुः प्रजानां बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मते ज्योतिष्मतीं जुहोतु स्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनां प्रजापतये ज्योतिष्मते ज्योतिष्मतीं जुहोति ॥१२॥
 
अग्निर्वै जातो न व्यरोचत सोऽकामयत तेजस्वी स्यामिति सोऽग्नये तेजस्विनेऽजं कृष्णग्रीवमालभत ततो वै स तेजस्व्यभवत् सोऽकामयत सर्वत्र विभवेयमिति सोऽग्नये विभुमतेऽजं कृष्णग्रीवमालभत ततो वै स सर्वत्र व्यभवत् सोऽकामयत सर्वत्रापिभागस्स्यामिति सोऽग्नये भागिनेऽजं कृष्णग्रीवमालभत ततो वै स सर्वत्रापिभागोऽभवद्यः कामयेत तेजस्वी स्याँ सर्वत्र विभवेयँ सर्वत्रापिभागस्यामिति स एतानाग्नेयानजान् कृष्णग्रीवानालभेत तेजस्व्येव भवति सर्वत्र विभवति सर्वत्रापिभागो भवति ।।१३।।
 
देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं पुनातु वाचस्पतिर्वाचमद्य स्वदाति नः ।।
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।।
यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवस्सविता धर्मँ साविषत् ।।
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तिषु ।
अश्वा भवथ वाजिनः ।।
वायुर्वा त्वा मनुर्वा त्वा गन्धर्वास्सप्तविंशतिः ।
ते अग्रे अश्वमयुञ्जँस्ते अस्मिञ्जवमादधुः ।।
अपां नपादाशुहेमन्य ऊर्मिः प्रतूर्तिः ककुद्मान् । वाजसास्तेन वाजँ सेषम् ॥
देवस्य सवितुः प्रसवे सत्यसवस्य वर्षिष्ठं नाकं रुहेयं देवस्य वयँ सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर्वाजिनो वाजजितो वाजं जेष्म ॥ वाजं वाजिनो जयताध्वनस्स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत ।।
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवस्स्वर्काः ।
जम्भयन्तोऽहिं वृकं रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ।।
वाजे वाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ।।
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाता सनिष्यवो महो ये धना समिथेषु जभ्रिरे ।।
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवासु बद्धो अपिकक्ष आसनि ।
क्रतुं दधिक्रा अनुसँसनिष्यदत् पथामङ्काँस्यन्वापनीफणत् ।।
उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वरेनुवाति प्रगर्धिनः ।
श्येनस्येव द्रवतो अङ्कसं परि दधिक्राव्णस्सहोर्जा तरित्रतः ।।१४।।
त्वमिमा ओषधीस्सोम विश्वास्त्वमपो अजनयस्त्वं गाः ।
त्वमाततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ।।
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु ।
तेभिर्नो विश्वैस्सुमना अहेडन् राजन् सोम प्रति हव्या गृभाय ।।
सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीस्संपिपृक्त ।
भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्याँ सदनं पुरुक्षोः ।।
स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक् संमिमीहि श्रवाँसि ।
विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूँरहा विश्वा सुमना दीदिही नः ।।
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ।।
सुकर्माणस्सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन् ।।
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनि ।।
शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
उभा हि वाँ सुहवा जोहवीमि ता वाजँ सद्य उशते धेष्ठा ।।
विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः । जुषन्तां युज्यं पयः ॥
ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपाँ सधस्थे ।
ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः ।।
मही द्यौर्घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे ।
सुपेशसा द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ।।
शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे ।
शतं यो नश्शरदोऽनयदिन्द्रो विश्वस्य दुरितस्य पारम् ।।
इमे चत्वारो रजसो विमाना अन्तरा द्यावापृथिवी वियन्ति पन्थानः ।
तेषामज्यानिं यतमो न आवहात् तस्मै नो देवाः परिदत्त सर्वे ॥
वसन्तो ग्रीष्मो मधुमन्ति वर्षाश्शरद्धेमन्तस्सुविते दधात ।
तेषां वयँ सुमतौ यज्ञियानां ज्योगजीता अहतास्स्याम ।।
संवत्सराय परिवत्सरायेदावत्सरायानुवत्सरायोद्वत्सराय कृणुता बृहन्नमः ।
तेषां वयँ सुमतौ यज्ञियानां निवात एषामभये स्याम ।।
इयँ स्वस्तिस्संवत्सरीया परिवत्सरायेदावत्सरीयानुवत्सरीयोद्वत्सरीया ।
सा नः पिपर्त्वहृणीयमानैनाह्नेदमहरशीय स्वाहा ।।
आ नः प्रजां जनयतु प्रजापतिर्धाता दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिश्चाक्लृपानो मयि पुष्टिं पुष्टिपतिर्दधातु ।।
अग्निः प्राश्नातु प्रथमस्स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः करोतु विश्वचर्षणिः ।।
भद्रान्नश्श्रेयस्समनैष्ट देवास्त्वयावसेन समशीमहि त्वा ।
स नः पितो मधुमाँ आविशेह शिवस्तोकाय तन्वे न एधि ।।
एतमु त्यं मधुना संयुतं यवँ सरस्वत्या अधि माना अचकृषुः ।
इन्द्र आसीत् सीरपतिश्शतक्रतुः कीनाशा आसन्मरुतस्सुदानवः ॥१५॥
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः ।।
एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ ।
संजानते मनसा संचिकित्रेऽध्वर्यवो धिषणापश्च देवीः ।।
ओषधीरिति मातरः ।।
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनै नु बभ्रूणामहँ शतं धामानि सप्त च ।।
गावो भगो गाव इन्द्रो मे अच्छान् गावस्सोमस्य प्रथमस्य भक्षः ।
इमा या गावस्स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ।।
न ता अर्वा रेणुककाटो अश्नुते न सँस्कृतत्रमुपयन्ति ता अभि ।
उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः ।।
रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः । विश्वा अधि श्रियाऽधित ।।
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः । रात्रि स्तोमं न जिग्युषी ।।
उदु त्यं चित्रं देवानाम् ।।
अन्विदनुमते त्वं मन्यासै शं च नस्कृधि ।
इषं तोकाय नो दधः प्र ण आयूंषि तारिषः ।।
यत् ते नाम सुहवँ सुप्रणीतेऽनुमते अनुमतँ सुदानु ।
तेन त्वँ सुमतिं देव्यस्मे इषं पिन्व विश्ववाराँ सुवीराम् ।।
राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नस्सुभगा बोधतु त्मना ।
सीव्यत्वपस्सूच्याच्छिद्यमानया ददातु वीरँ शतदायमुक्थ्यम् ।।
यास्ते राके सुमतयस्सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपांगहि सहस्रपोषँ सुभगे रराणा ।।
सिनीवालि पृथुष्टुके या देवानामसि स्वसा। जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ।।
या सुबाहुस्स्वङ्गुरिस्सुषूमा बहुसूवरी । तस्यै विश्पत्न्यै हविस्सिनीवाल्यै जुहोतन ॥
कुहूमहँ सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवां जोहवीमि ।
या नो ददाति श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॥
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषश्शृणोतु ।
स्वसा देवानां महयन्त्यस्मै रायस्पोषं चिकितुषे दधातु ॥
धाता दधातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णेन वावनत् ।।
प्रजापती रमयतु प्रजा इह धाता दधातु सुमनस्यमानः ।
संवत्सरं ऋतुभिश्चाक्लृपानो मयि पुष्टिं पुष्टिपतिर्दधातु ।।१६।।[ ९३८ ]
 
॥ इति श्रीयजुषि काइके चरक शाखायामिठिमिकायां पशुबन्ध नाम त्रयोदशं स्थानकं संपूर्णम् ॥१३॥