"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
उत। अमृतऽत्वस्य । ईशानः । यत् । अन्नेन । अतिऽरोहति ।। २ ॥
 
यत् “इदं वर्तमानं जगत् तत् “सर्वं “पुरुष “एव । यत् च “भूतम् अतीतं जगत् “यच्च “भव्यं भविष्यज्जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्द्रष्टव्यमित्यभिप्रायः । "उत अपि च “अमृतत्वस्य देवत्वस्य अयम् “ईशानः स्वामी । “यत् यस्मात्कारणात् “अन्नेन प्राणिनां भोग्येनान्नेन निमित्तभूतेन “अतिरोहति स्वकीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्प्राणिनां कर्मफलभोगाथकर्मफलभोगाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुत्वमित्यर्थः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्