"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।
 
सखा॑यः । स्तोम॑ऽवाहसः ॥१
 
आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत ।
 
सखायः । स्तोमऽवाहसः ॥१
 
तुशब्दः क्षिप्रार्थों निपातः । द्वाभ्यामाङ्भ्यामन्वेतुम् इतशब्दोऽभ्यसनीयः । हे "सखायः ऋत्विजः क्षिप्रमस्मिन् कर्मणि आगच्छतागच्छत । आदरार्थोऽभ्यासः । आगत्य च "नि "षीदत उपविशत । उपविश्य च "इन्द्रमभि “प्र “गायत । सर्वतः प्रकर्षेण स्तुत । कीदृशाः सखायः । "स्तोमवाहसः । त्रिवृत्पञ्चदशादिस्तोमानस्मिन् कर्मणि वहन्ति प्रार्पयन्तीति ॥ आ तु आ। निपातत्त्वादाद्युदात्ताः । इत । ‘ इण् गतौ । ‘ द्व्यचोऽतस्तिङः ' (पा. सू. ६. ३. १३५) इति संहितायां दीर्घत्वम् । नि। निपातत्वादाद्युदात्तः । सीदत । ‘ पाघ्राध्मास्थाम्नादाण्दृशि° ' (पा. सू. ७. ३. ७८ ) इत्यादिना सदेः सीदादेशः । ‘ सदिरप्रतेः ' ( पा. सू. ८. ३. ६६) इति संहितायां षत्वम् । अभि । ' उपसर्गाश्चाभिवर्जम् ' (फि. सू. ८१) इति वचनात् प्रातिपदिकान्तोदात्तत्वम् । स्तोमवाहसः । ‘ अर्तिस्तुसुहुधृक्षिक्षुभायावापदियक्षिनीभ्यो मन् ' (उ. सू. १. १३७) इति स्तौतेर्मन्प्रत्ययान्तः स्तोमशब्दो नित्त्वादाद्युदात्तः। स्तोमं वहन्तीति स्तोमवाहसः । “वहिहाधाञ्भ्यश्छन्दसि' ( उ. सू. ४. ६६०) इत्यसुन् प्रत्ययः । तत्र ‘ णित्' इत्यनुवृत्तेः ‘अत उपधायाः ' ( पा. सू. ७. २. ११६ ) इत्युपधाया वृद्धिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' (उ. सू. ४. ६६६ ) इत्यौणादिकसूत्रात् समास आद्युदात्तः ॥
पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाम् ।
 
इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥२
 
पुरुऽतमम् । पुरूणाम् । ईशानम् । वार्याणाम् ।
 
इन्द्रम् । सोमे । सचा । सुते ॥२
 
‘ सखायोऽभिप्रगायत ' इति पदद्वयमत्रानुवर्तते । हे सखायः ऋत्विजः "सचा यूयं सर्वैः सह । यद्वा। सचा परस्परसमवायेन "सुते अभिषुते "सोमे प्रवृत्ते सति "इन्द्रम् अभिप्रगायत। कीदृशमिन्द्रम्। “पुरूतमम् । पुरून् बहून् शत्रून् तमयति ग्लापयतीति पुरूतमः। “पुरूणां बहूनां "वार्याणां वरणीयानां धनानाम् "ईशानं स्वामिनम् ॥ पुरूतमम् । ‘तमु ग्लाने ' इति धातोरन्तर्भावितण्यर्थात् पचाद्यचि चित्त्वादन्तोदात्तेऽपि कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा ‘परादिश्छन्दसि बहुलम्' (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वम् । पुरूणाम्। ‘पॄ पालनपूरणयोः' इत्यस्मात् 'कुः' इत्यनुवृत्तौ ‘पॄभिदिव्यधिगृधिधृषिभ्यः ' (उ. सू. १. २३) इति कुप्रत्ययः । कित्त्वाद्गुणनिषेधे (पा. सू. १. १. ५) ‘ उदोष्ठ्यपूर्वस्य' (पा. सू. ७. १. १०२) इत्युकारः ‘उरण् रपरः' (पा. सू. १. १. ५१ )। प्रत्ययस्वरेणान्तोदात्तः पुरुशब्दः । अतो मतुपि ह्रस्वादन्तोदात्तात् पुरुशब्दात् परस्य नामो ‘नामन्यतरस्याम्' (पा. सू. ६. १. १७७) इत्यन्तोदात्तत्वम् । ईशानम् । ‘ईश ऐश्वर्ये ' इति धातोरनुदात्तेत्त्वात् परस्य शानचो लसार्वधातुकानुदात्तत्वम् । वार्याणाम् । ‘वृङ् संभक्तौ ' इत्यस्मात् ‘ऋहलोर्ण्यत् ' (पा. सू. ३. १. १२४ )। क्यब्विधौ हि वृञः एव ग्रहणं न वृङः (पा. सू. ३. १. १०९. १)। ‘ तित्स्वरितम्' (पा. सू. ६. १. १८५) इति प्रत्ययस्वरितं बाधित्वा ईडवन्दवृशंसदुहां ण्यतः ' (पा. सू. ६. १. २१४ ) इति ण्यदन्तस्याद्युदात्तत्वम् ।' यतोऽनावः' (पा. सू. ६. १. २१३ ) इत्यत्र तु ण्यतो ग्रहणं न भवति तस्य द्व्यनुबन्धकत्वात् । एकानुबन्धग्रहणे न द्व्यनुबन्धकस्येति नियमात् । सचा । ' षच समवाये । ‘ धात्वादेः षः सः' (पा. सू. ६. १. ६४ )। संपदादित्वाद्भावे क्विप् (पा. सू. ३. ३. १०८.९) इति क्विप् । तृतीयैकवचनम् । धातुस्वरेणाद्युदात्तः । सर्वे विधयश्छन्दसि विकल्प्यन्ते' (परिभा. ३५) इति न्यायेन ‘सावेकाचः' इति सूत्रं न प्रवर्तते । सचा इत्यस्य निपातत्वपक्षे स्पष्टमाद्युदात्तत्वम् ॥
सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर॑म्ऽध्याम् ।
 
गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥३
 
सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरम्ऽध्याम् ।
 
गमत् । वाजेभिः । आ । सः । नः ॥३
 
घशब्दोऽवधारणार्थो निपातः । सर्वैस्तच्छब्दैः संबध्यते । "स “घ स एवेन्द्रः पूर्वमन्त्रोक्तगुणविशिष्टः "नः अस्माकं "योगे पूर्वमप्राप्तस्य पुरुषार्थस्य संबन्धे “आ “भुवत् आभवतु । पुरुषार्थं साधयत्वित्यर्थः । "सः एव "राये धनार्थम् आ भुवत् आभवतु । "सः एव "पुरंध्यां योषिति आ भुवत् । यद्वा । बहुविधायां बुद्धौ आ भुवत् । “ पुरंधिर्बहुधीः ' ( निरु. ६. १३) इति यास्कः । "सः एव “वाजेभिः देयैरन्नैः सह "नः अस्मान् “आ "गमत् आगच्छतु ॥ घ । चादयोऽनुदात्ताः' (फि. सू. ८४ ) इत्यनुदात्तः । संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ' (पा. सू. ६. ३. १३३ ) इति दीर्घः । योगे । घजो ञित्त्वादाद्युदात्तत्वम् । भुवत् भूयात् । भवतेः आशीर्लिंङि परतः ‘लिङ्याशिष्यङ्' (पा. सू. ३. १. ८६ ) इति अङ्प्रत्ययः । तस्य ङित्त्वेन गुणाभावादुवङादेशः । ‘ किदाशिषि ' ( पा. सू. ३. ४. १०४ ) इति यासुट् न भवति अनित्यमागमशासनम् (परिभा. ९३.२) इति वचनात् । तिङ्ङतिङः' इति निघातः । ‘ ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' (पा. सू. ६. १. १७१ ) इति राये इत्येतस्य विभक्तेरुदात्तत्वम् । पुरंध्याम् । पुरंधिः पुरुधीः । पृषोदरादित्वात् (पा. सू. ६. ३. १०९ ) उकारस्य अमादेशः ईकारस्य ह्रस्वश्च । ' आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. ९१. १) इत्याद्युदात्तत्वम् । अथवा पुरं शरीरं धीयतेऽस्यामिति ‘कर्मण्यधिकरणे च' (पा. सू. ३.३.९३) इति किप्रत्ययः । अलुक् छान्दसः । ‘नब्विषयस्यानिसन्तस्य ' (फि. सू. २६) इति पुरशब्द आद्युदात्तः । दासीभारादित्वात् (पा. सू. ६. २. ४२ ) पूर्वपदप्रकृतिस्वरत्वम् । गमत् । गमेर्लेटः तिप् । ‘इतश्च लोपः परस्मैपदेषु' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘ बहुलं छन्दसि ' (पा. सू. २. ४. ७३ ) इति शपो लुक् । 'लेटोऽडाटौ ' (पा. सू. ३. ४. ९४ ) इत्यडागमः। आगमा अनुदात्ताः ' ( पा. म. ३. १. ३. ७ ) इति तस्यानुदात्तत्वे धातुस्वर एव शिष्यते । वाजेभिः । वृषादित्वादाद्युदात्तः ॥
यस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः ।
 
तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥४
 
यस्य । सम्ऽस्थे । न । वृण्वते । हरी इति । समत्ऽसु । शत्रवः ।
 
तस्मै । इन्द्राय । गायत ॥४
 
"समत्सु युद्धेषु "यस्य इन्द्रस्य "संस्थे रथे युक्तौ “हरी द्वावश्वौ "शत्रवः "न "वृण्वते न संभजन्ते रथमश्वौ च दृष्ट्वा पलायन्ते इत्यर्थः । "तस्मा "इन्द्राय तत्संतोषार्थं हे ऋत्विजः “गायत स्तुतिं कुरुत । ‘ रणः' इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु समत्सु समरणे' (नि. २. १७. २२ ) इति पठितम् ॥ संस्थे । सम्यक् तिष्ठतीति संस्थो रथः । ‘ आतश्चोपसर्गे ' ( पा. सू. ३. १. १३६ ) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृण्वते । प्रत्ययस्वरेण अकार उदात्तः । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः ( पा. सू. ६. १. १५८. ९-११ )। तिङ्ङतिङः' इति निघातो न भवति, ' यद्वृत्तान्नित्यम् ' ( पा. सू. ८. १. ६६ ) इति प्रतिषेधात् । पञ्चमीनिर्देशेऽपि ( पा. सू. १. १. ६७ ) अत्र व्यवहितेऽपि कार्यमिष्यते । हरतो रथमिति हरी अश्वौ । ‘इन् ' इत्यनुवृत्तौ ( उ. सू. ४. ५५७ ) 'हृपिषिरुहिवृतिविदिच्छिदिकीर्तिभ्यश्च '( उ. सू. ४, ५५८) इति इन्-प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । समत्सु । संपूर्वात् अत्तेः क्विप् । शत्रवः । शतिः सौत्रो धातुर्हिंसार्थः । ‘ रुशतिभ्यां क्रुन् ' ( उ. सू. ४. ५४३ ) । नित्त्वादाद्युदात्तत्वम् । तस्मै । ‘सावेकाचः ० ' ( पा. सू. ६. १। १६८ ) इति विभक्त्युदात्तस्य न गोश्वन्साववर्ण' ( पा. सू. ६. १. १८२ ) इति प्रतिषेधात् प्रातिपदिकस्वर एव ॥
सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ ।
 
सोमा॑सः । दधि॑ऽआशिरः ॥५
 
सुतऽपाव्ने । सुताः । इमे । शुचयः । यन्ति । वीतये ।
 
सोमासः । दधिऽआशिरः ॥५
 
“इमे "सोमासः अस्मिन् कर्मणि संपादिताः सोमाः "सुतपाव्ने अभिषुतस्य सोमस्य पानकर्त्रे । षष्ठ्यर्थे चतुर्थी । तस्य पातुः “वीतये भक्षणार्थं "यन्ति तमेव प्राप्नुवन्ति । कीदृशाः सोमाः । "सुता: अभिषुताः । “शुचयः दशापवित्रेण शोधितत्वात् शुद्धाः । "दध्याशिरः अवनीयमानं दधि आशीर्दोषघातकं येषां सोमानां ते दध्याशिरः ।। सुतपाव्ने । सुतं पिबतीति सुतपावा । वनिप: पित्त्वात् धातुस्वर एव शिष्यते । समासे द्वितीयापूर्वपदप्रकृतिस्वरं बाधित्वा कृदुत्तरपदप्रकृतिस्वरत्वम् । शुचयः । शुच दीप्तौ'। ‘इन्' इत्यनुवृत्तौ ‘इगुपधात्कित्' (उ. सू. ४. ५५९) इति इन् । कित्त्वाल्लघूपधगुणाभावः। नित्त्वादाद्युदात्तत्वम् । वीतये । ‘ वि गतिप्रजनकान्त्यशनखादनेषु' इत्यस्मात् ' मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ' ( पा. सू. ३, ३. ९६ ) इति क्तिन् उदात्तः । सोमासः । ‘ षुञ् अभिषवे'। ‘ अर्तिस्तुसुहुसृधृक्षि° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक्' (पा. सू. ७. १. ५० } इत्यसुगागमः । दध्याशिरः । दधाति पुष्णातीति दधि । ‘डुधाञ् धारणपोषणयोः । ‘ आदृगमहनजनः किकिनौ लिट् च ' ( पा. सू. ३. २. १७१ ) इति किन् । लिङ्वद्भावात् द्विर्भावः । कित्त्वादाकारलोपः । नित्त्वादाद्युदात्तत्वम् ।शॄ ‘हिंसायाम् ' । शृणाति हिनस्ति सोमेऽवनीयमानं सत् सोमस्य स्वाभाविकं रसम् ऋजीषत्वप्रयुक्तं नीरसं दोषं वा इत्याशीः । क्विपि ‘ ऋत इद्धातोः ' ( पा. सू. ७, १. १०० ) इति इत्वं रपरत्वं च । दध्येव आशीर्येषां सोमानां ते दध्याशिरः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।। ।। ९ ॥
त्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ ।
 
इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥६
 
त्वम् । सुतस्य । पीतये । सद्यः । वृद्धः । अजायथाः ।
 
इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥६
 
“सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे “इन्द्र "त्वं "सुतस्य अभिषुतस्य सोमस्य "पीतये पानार्थं “ज्यैष्ठ्याय देवेषु ज्येष्ठत्वार्थं च सद्यः तस्मिन्नेव क्षणे "वृद्धो "अजायथाः अभिवृद्ध्योत्साहेन युक्तोऽभूः ॥ पीतये । ‘ पा पाने ' इत्यस्मात् ' स्थागापापचो भावे ' ( पा. सू. ३. ३. ९५ ) इति क्तिन् । ‘ घुमास्था' (पा. सू. ६. ४. ६६) इत्यादिना ईत्वम् । तस्य नित्त्वेऽपि व्यत्ययेन प्रत्ययोदात्तत्वम् । उत्तरसूत्रगतमुदात्तपदमत्रापि वा योजनीयम् । सद्यः । ‘ सद्यः परुत्परारि ' ( पा. सू. ५. ३. २२ } इति सूत्रेण समानेऽहनीत्यर्थे समानस्य सभावो द्यश्च प्रत्ययो निपात्यते । प्रत्ययस्वरेणोदात्तः । वृद्धः । ‘ वृधु वृद्धौ । ‘ उदितो वा ' ( पा. सू. ७. २. ५६ ) इति क्त्वाप्रत्यये इटो विकल्पितत्वात् ' यस्य विभाषा ' ( पा. सू. ७, २. १५ ) इति निष्ठायामिट्प्रतिषेधः । प्रत्ययस्वरेणोदात्तः । ज्यैष्ठ्याय । ज्येष्ठस्य भावो ज्यैष्य्मम् । ‘ गुणवचनब्राह्मणादिभ्यः कर्मणि च' (पा. सू. ५, १, १२४) इति ष्यञ् । ञित्त्वादाद्युदात्तः ।।
आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
 
शम् । ते॒ । स॒न्तु॒ । प्रऽचे॑तसे ॥७
 
आ । त्वा । विशन्तु । आशवः । सोमासः । इन्द्र । गिर्वणः ।
 
शम् । ते । सन्तु । प्रऽचेतसे ॥७
 
हे "इन्द्र त्वां "सोमासः सोमाः “आ “विशन्तु आभिमुख्येन प्रविशन्तु । कीदृशाः सोमः । "आशवः सदनत्रये प्रकृतिविकृत्योर्वा व्याप्तिमन्तः । कीदृशेन्द्र । "गिर्वणः गीर्भिः स्तुतिभिः संभजनीय देवविशेष । ‘ गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' (निरु. ६. १४ ) इति यास्कः । तथाविध हे इन्द्र "ते तव "प्रचेतसे प्रकृष्टज्ञानाय “शं सुखरूपाः सोमाः "सन्तु ।। गिर्वणः । गृणन्तीति गिरः स्तुतयः । ‘ गॄ शब्दे ' । क्विपि ‘ ऋत इद्धातोः ' ( पा. सू. ७. १. १०० ) इति इत्वं रपरत्वं च ।। गीर्भिर्वन्यते सेव्यते इति गिर्वणाः । ‘वन षण संभक्तौ ' । संभक्तिः सेवा। ‘ सर्वधातुभ्योऽसुन्' (उ. सू. ४. ६२८ ) इत्यसुन्प्रत्ययः । प्रचेतसे । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।।
त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
 
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥८
 
त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतऽक्रतो ।
 
त्वाम् । वर्धन्तु । नः । गिरः ॥८
 
हे "शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र “त्वां "स्तोमाः सामगानां स्तोत्राणि "अवीवृधन् वर्धितवन्ति । तथा बह्वृचानाम् “उक्था शस्त्राणि “त्वाम् अवीवृधन् । यस्मात् पूर्वमेवमासीत् तस्मादिदानीमपि "नः अस्माकं "गिरः स्तुतयः “त्वां "वर्धन्तु वर्धयन्तु अतिवृद्धं कुर्वन्तु ।। स्तोमाः । मनो नित्त्वादाद्युदात्तः । अवीवृधन् । ' वृधु वृद्धौ । प्यन्तात् लुङि चङि ( पा. सू. ३. १. ४८ ) ' उर्ऋत् ' (पा. सू. ७. ४. ७) इति वृधेरुपधाया ऋकारस्य ऋकारविधानादन्तरङ्गोऽपि गुणो बाध्यते । द्विर्भाव(पा. सू. ६. १. ११) हलादिशेष-(पा. सू. ७, ४. ६०) सन्वद्भाव-(पा. सू. ७. ४. ९३) इत्व(पा. सू. ७. ४, ७९ ) दीर्घत्व-( पा. सू. ७. ४. ९४ ) अडागमाः (पा. सू. ६. ४. ७१ )। उक्था उक्थानि। ‘पातॄतुदिवचिरिचिसिचिभ्यस्थक्' (उ. सू. २. १६४) इति वचेः थक्प्रत्ययः । तस्य कित्त्वात् संप्रसारणम् । “ शेश्छन्दसि बहुलम् ' (पा. सू. ६. १. ७०) इति शिलोपो नलोपश्च । प्रत्ययस्वरेणान्तोदात्तः । असामर्थ्यादामन्त्रितपरस्यापि न पराङ्गवद्भाव इति नानुदात्तत्वम्। वर्धन्तु । अन्तर्भावितण्यर्थात् वृधेः व्यत्ययेन परस्मैपदम् ।।
अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् ।
 
यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥९
 
अक्षितऽऊतिः । सनेत् । इमम् । वाजम् । इन्द्रः । सहस्रिणम् ।
 
यस्मिन् । विश्वानि । पौंस्या ॥९
 
“इन्द्रः "इमं "वाजं सोमरूपमन्नं "सनेत् संभजेत् । कीदृश इन्द्रः। "अक्षितोतिः "अहिंसितरक्षणः । कदाचिदपि रक्षां न विमुञ्चतीत्यर्थः । कीदृशं वाजम् । "सहस्रिणं प्रकृतौ विकृतिषु च प्रवर्तमानत्वेन सहस्रसंख्यायुक्तम् । "यस्मिन् वाजे "विश्वानि सर्वाणि “पौंस्या। पौंस्यानि पुंस्त्वानि बलानि वर्तन्ते तादृशं वाजमिति पूर्वत्रान्वयः ॥ अक्षितोतिः । ननु ‘क्षि क्षये' इत्ययं धातुरकर्मकः । तस्य च कर्माभावात् अधिकरणे भावे कर्तरि वा क्तप्रत्ययेन भवितव्यम् । तदिह यदि कर्तर्यधिकरणे वा स्यात् तदा तयोरर्थयोः ण्यत्प्रत्ययस्याविधानात् ‘क्षियः' इत्यनुवृत्तौ ( पा. सू. ६. ४. ५९ ) ‘ निष्ठायामण्यदर्थे ' (पा. सू. ६. ४. ६० ) इति दीर्घेण भवितव्यम् । तथा च ‘क्षियो दीर्घात्' (पा. सू. ८. २. ४६ ) इति निष्ठानत्वे अक्षीण इति स्यात् न तु अक्षित इति । अथ ‘नपुंसके भावे क्तः ' ( पा. सू. ३. ३. ११४ ) इति भावपरः क्षितशब्दो गृह्यते । तदा तस्य ण्यदर्थत्वेन ‘ °अण्यर्थे ' इति निषेधात् दीर्घनत्वयोरभावात् क्षितमिति सिध्यति । तदा तु नञ्तत्पुरुषः प्रकृतेन नान्वेतीति न विद्यते क्षितमत्रेति बहुव्रीहिणैव भवितव्यम् । तथा च ‘नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वं स्यात् । पुनः ऊतिशब्देन बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव स्वरस्तिष्ठेदिति अभिमतमाद्युदात्तत्वं न सिध्येदिति । सत्यम् । अत एवात्र क्षिधातुरन्तर्भावितण्यर्थों गृह्यते। तेन सकर्मकत्वात् कर्मण्येषा निष्ठा । ततश्च ‘ °अण्यदर्थे ' इति निषेधात् दीर्घो निष्ठानत्वं च न भविष्यति । तथा च नञ्तत्पुरुषे न क्षिता अक्षिता अक्षयिता इत्यर्थः । तत्र चाव्ययपूर्वपदप्रकृतिस्वरत्वेन नत्र उदात्तत्वम् । पुनः ऊतिपदेन बहुव्रीहौ स एव स्वरः स्थास्यतीति न कोऽपि दोषः । ‘ रि क्षि चिरि जिरि दाश दृ जिघांसायाम्' इति क्षिणोतेर्हिँसार्थस्य वा कर्मणि निष्ठा । तथा चाहिंसितोतिरित्यर्थे उक्तक्रमेण स्वरः सिध्यतीति न दोषः । सनेत् । ‘वन षण संभक्तौ । भौवादिकः । वाजम् । वृषादित्वादाद्युदात्तः । इन्द्रः । रनो नित्त्वादाद्युदात्तः। सहस्रिणम् । सहस्रमस्यास्ति । अत इनिठनौ' (पा. सू. ५. २. ११५)। प्रत्ययस्वरः । विश्वानि । विशेः क्वनि ( उ. सू. १. १४९ ) नित्त्वादाद्युदात्तः । पुंसः कर्माणि पौंस्यनि । ब्राह्मणादेराकृतिगणत्वात् ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च' (पा. सू. ५. १. १२४ ) इति ष्यञ् । ञित्त्वादाद्युदात्तः। प्रथमाबहुवचनस्य ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यादिना डादेशः । ननु ‘स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ( पा. सू. ४. १.८७) इत्यनेन ‘ धान्यानां भवने क्षेत्रे खञ्' (पा. सू. ५. २. १ ) इत्येतत्पर्यन्तेष्वपत्याद्यर्थेषु नञ्स्नञोर्विधानात्, यथा पुंसोऽपत्यं पौंस्नः पुंस आगतः पौंस्नः इत्यादि, तद्वत् पुंसो भावः कर्म वेत्यस्मिन्नप्यर्थे ष्यञं बाधित्वा पौंस्नानि इत्येव भवितव्यम् । कथमुच्यते पौंस्यानीति। उच्यते-’ आ च त्वात् ' (पा. सू. ५. १. १२० ) इति सूत्रे त्वात् इत्यवधिनिर्देशात् ' ब्रह्मणस्त्वः' (पा. सू. ५. १. १३६ ) इत्येतत्पर्यन्तैः इमनिजादिभिः प्रत्ययैः सह त्वतलोः समावेशः । एवं तत्रैव चशब्दात् नञ्स्नञोरपि ष्यञादिभिः समावेश एव, न बाध्यबाधकभावः ॥
मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
 
ईशा॑नः । य॒व॒य॒ । व॒धम् ॥१०
 
मा । नः । मर्ताः । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वणः ।
 
ईशानः । यवय । वधम् ॥१०
 
हे "गिर्वणः “इन्द्र "मर्ताः विरोधिनो मनुष्याः "नः अस्मदीयानां "तनूनां शरीराणां "मा "अभि “द्रुहन् अभितो द्रोहं मा कुर्युः । "ईशानः समर्थस्त्वं "वधं वैरिभिः संपाद्यमानं "यवय अस्मत्तः पृथक्कुरु । ‘ मनुष्याः' इत्यादिषु पञ्चविंशतिसंख्याकेषु मनुष्यनामसु मर्ताः व्राताः' (नि. २. ३. १३ ) इति पठितम् ॥ मर्ताः । ‘ असिहसिमृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन् ' ( उ. सू. ३. ३६६ ) इति तन् । नित्त्वादाद्युदात्तः । अभि ।' एवमादीनामन्तः ' ( फि. सू. ८२ )। द्रुहन् । ‘ द्रुह जिघांसायाम् । ‘ लिङर्थे लेट् ' ( पा. सू. ३. ४. ७ ) इति प्रार्थनायां लेट् । तस्य झि । ‘ झोऽन्तः ' ( पा. सू. ७. १. ३ )। ‘ इतश्च लोपः परस्मैपदेषु ' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । शपो लुक् । “सार्वधातुकमपित् ' ( पा. सू. १. २. ४ ) इति तिङो ङित्त्वाल्लघूपधगुणाभावः ( पा. सू. १. १. ५)। तनूनाम् । असामर्थ्यान्न पराङ्गवद्भावः । इन्द्र गिर्वणः । गतम् । ईशानः । धातोरनुदात्तेत्त्वात् शपो लुकि लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यवय । यौतेर्णिचि ‘संज्ञापूर्वको विधिरनित्यः' (परिभा. ९३. १) इति वृद्धिर्न क्रियते । अथवा यौतीति यवः । पचाद्यच् ( पा. सू. ३. १. १३४ )। यवं करोतीत्यर्थे ' तत्करोति तदाचष्टे ' ( पा. सू. ३. १. २६. ५-६ ) इति णिच् । इष्टवद्भावात् टिलोपः (पा. सू. ६. ४. १५५. १ ) । तस्य स्थानिवद्भावात् (पा. सू. १. १. ५६ ) वृद्ध्यभावः । वधम् । “हनश्च वधः ' (पा. सू. ३. ३. ७६ ) इति भावे अप् । तत्संनियोगशिष्टः स्थानिवद्भावेनान्तोदात्तो वधादेशः । उदात्तनिवृत्तिस्वरेण अपः उदात्तत्वम् ॥ ॥ १० ॥
२९,८२४

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/207540" इत्यस्माद् पुनः प्राप्तिः