"ऋग्वेदः सूक्तं १.६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
यु॒ञ्जन्ति॑ । ब्र॒ध्नम् । अ॒रु॒षम् । चर॑न्तम् । परि॑ । त॒स्थुषः॑ ।
 
रोच॑न्ते । रो॒च॒ना । दि॒वि ॥१
 
युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुषः ।
 
रोचन्ते । रोचना । दिवि ॥१
 
इन्द्रो हि परमैश्वर्ययुक्तः । परमैश्वर्यं च अग्निवाय्वादित्यनक्षत्ररूपेणावस्थानादुपपद्यते । "ब्रध्नम् आदित्यरूपेणावस्थितम् "अरुषं हिंसकरहिताग्निरूपेणावस्थितं "चरन्तं वायुरूपेण सर्वतः प्रसरन्तमिन्द्रं “परि "तस्थुषः परित्तोऽवस्थिता लोकत्रयवर्तिनः प्राणिनः "युञ्जन्ति स्वकीये कर्मणि देवतात्वेन संबद्धं कुर्वन्ति । तस्यैवेन्द्रस्य मूर्तिविशेषभूतानि “रोचना रोचनानि नक्षत्राणि "दिवि द्युलोके "रोचन्ते प्रकाशन्ते। अस्य मन्त्रस्योक्तार्थपरत्वं ब्राह्मणान्तरे व्याख्यातं--- ‘ युञ्जन्ति ब्रध्नमित्याह । असौ वा आदित्यो ब्रध्नः । आदित्यमेवास्मै युनक्ति। अरुषमित्याह । अग्निर्वा अरुषः । अग्निमेवास्मै युनक्ति । चरन्तमित्याह । वायुर्वै चरन् । वायुमेवास्मै युनक्ति । परि तस्थुष इत्याह । इमे वै लोकाः परि तस्थुषः । इमानेवास्मै लोकान्युनक्ति। रोचन्ते रोचना दिवीत्याह। नक्षत्राणि वै रोचना दिवि । नक्षत्राण्येवास्मै रोचयति' ( तै. ब्रा, ३, ९. ४. १-२ ) इति । पञ्चविंशतिसंख्याकेषु महन्नामसु महः ब्रध्नः' (नि. ३. ३, २) इति पठितम् । आदित्यस्यापि महत्त्वादेव ब्रध्नत्वम् ॥ युञ्जन्ति । अन्तेः प्रत्ययस्वरेणाद्युदात्तत्वम् । व्रध्नम् । प्रातिपदिकान्तोदात्तः । अरुषम् । ‘उष रुष रिष हिंसार्थाः ' । रोषन्तीति रुषा हिंसकाः । 'इगुपधज्ञाप्रीकिरः कः ' ( पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरेणोदात्तः । न सन्ति रुषा यस्य असौ अरुषः । ‘ नञ्सुभ्याम्' (पा. सू. ६. २. १७२) इत्युत्तरपदान्तोदात्तत्वम् । ‘अमि पूर्वः' (पा, सू. ६. १, १०७ ) इति पूर्वरूपे ' एकादेश उदात्तेनोदात्तः' ( पा. सू. ८. २. ५) इत्युदात्तत्वम् । चरन्तम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । तस्थुषः । तिष्ठतेर्लिटः क्वसुरादेशः (पा, सू. ३. २. १०७ )। ‘वस्वेकाद्धसाम्' (पा. सू. ७, २. ६७) इति इटमन्तरङ्गमपि बाधित्वा 'संप्रसारणं संप्रसारणाश्रयं च बलीयः (पा. म. ६. १. १७. २) इति शसि परतो भत्वात् (पा. सू. १. ४. १८) ‘ वसोः संप्रसारणम्' (पा. सू. ६. ४. १३१) । परपूर्वत्वम् । आदेश प्रत्यययोः ' ( पा. सू. ८. ३. ५९ ) इति षत्वम् । वसोः प्रत्ययस्वरेणोदात्तत्वम् । रोचन्ते । तिङो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव । रोचना । ‘ अनुदात्तेतश्च हलादेः ' ( पा. सू. ३. २. १४९ ) इति युच् ।' युवोरनाकौ ' (पा. सू. ७. १. १ ) इत्यनादेशः । ‘ चितः ' { पा. सू. ६. १. १६३ ) इत्यन्तोदात्तत्वम् । दिवि । ‘ ऊडिदम् । (पा.सू. ६.१.१७१) इत्यादिना विभक्तेरुदात्तत्वम् ॥
पङ्क्तिः ५८:
यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या॑ । हरी॒ इति॑ । विऽप॑क्षसा । रथे॑ ।
 
शोणा॑ । धृ॒ष्णू इति॑ । नृ॒ऽवाह॑सा ॥२
 
युञ्जन्ति । अस्य । काम्या । हरी इति । विऽपक्षसा । रथे ।
 
शोणा । धृष्णू इति । नृऽवाहसा ॥२
 
“अस्य ब्रध्नादिशब्दप्रतिपाद्यस्य आदित्यादिमूर्तिभिस्तत्र तत्रावस्थितस्येन्द्रस्य “रथे “हरी एतन्नामानौ द्वावश्वौ सारथयः "युञ्जन्ति । इन्द्रसंबन्धिनोरश्वयोर्हरिनामत्वं ‘ हरी इन्द्रस्य रोहितोऽग्नेः' ( नि. १. १५. १ ) इति पठितत्वात् । कीदृशौ हरी। “काम्या कामयितव्यौ । “विपक्षसा विविधे पक्षसी रथस्य पार्श्वौ ययोरश्वयोस्तौ विपक्षसौ। रथस्य द्वयोः पार्श्वयोर्योजितावित्यर्थः । “शोणा रक्तवर्णौ “धृष्णू प्रगल्भौ “नृवाहसा नृणां पुरुषाणाम् इन्द्रतत्सारथिप्रमुखाणां वोढारौ ।। अस्य । ब्रध्नम् इत्युक्तस्य परामर्शात् ‘इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ' ( पा. सू. २. ४.३२ ) इति अश् । शित्त्वात् ( पा. सू. १, १. ५५ ) सर्वादेशोऽनुदात्तः । विभक्तिरनुदात्तैव इति सर्वानुदात्तत्वम् । काम्या । ‘ कमु कान्तौ'। ‘ कमेर्णिङ्' ( पा. सू. ३. १. ३०) । कामयतेः “ अचो यत्' ( पा. सू. ३. १. ९७ )। तित्स्वरितापवादत्वेन ‘ यतोऽनावः ' ( पा. सू. ६. १. २१३ ) इत्याद्युदात्तत्वम् । ‘सुपां सुलुक्' ' ( पा. सू. ७, १, ३९ ) इति द्विवचनस्य डादेशः । हरतो रथमिति हरी । ‘ हृपिषि ' ( उ. सू. ४. ५५८) इत्यादिना इन् । नित्त्वादाद्युदात्तः। विपक्षसा । “पचिवचिभ्यां सुट् च ' ( उ. सू. ४. ६५९ ) इति पचेः असुन सुडागमश्च । विभिन्ने पक्षसी पार्श्वौ ययोस्तौ । विशब्दो निपातत्वादुदात्तः । पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । द्विवचनस्य डादेशः । रथे । रमन्तेऽस्मिन्निति रथः । ‘ रमु क्रीडायाम् । ‘ हनिकुषिनीरमिकाशिभ्यः क्यन् ' ( उ. सू. ३. १५९ ) इति क्थन् । कित्त्वात् “ अनुदात्तोपदेश ! ( पा. सू. ६. ४. ३७ ) इत्यादिना मकारलोपः । नित्स्वरेणाद्युदात्तः । शोणा । ‘ शोणृ वर्णगत्योः' गमनकरणत्वात् करणे घञ् । ञित्त्वादाद्युदात्तः । ‘ सुपां सुलुक्' इति डादेशः । धृष्णू । ‘ ञिधृषा प्रागल्भ्ये '। ‘त्रसिगृधिधृषिक्षिपेः क्नुः' (पा. सू. ३. २. १४० ) । कित्त्वाद्गुणाभावः। प्रत्ययस्वरः । नृवाहसा। नॄन् वहतः इति वहेः “वहिहाधाञ्भ्यश्छन्दसि ' ( उ. सू. ४. ६६० ) इत्यसुन्। णित्' ( उ. सू. ४. ६५७ ) इत्यनुवृत्तेर्वृद्धिः । नित्त्वादाद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते ।।
पङ्क्तिः ७३:
के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे॑ ।
 
सम् । उ॒षत्ऽभिः॑ । अ॒जा॒य॒थाः॒ ॥३
 
केतुम् । कृण्वन् । अकेतवे । पेशः । मर्याः । अपेशसे ।
 
सम् । उषत्ऽभिः । अजायथाः ॥३
 
हे “मर्याः मनुष्या इदमाश्चर्यं पश्यतेत्यध्याहारः। किमाश्चर्यमिति तदुच्यते । आदित्यरूपोऽयमिन्द्रः “उषद्भिः दाहकैः रश्मिभिः प्रतिदिनमुषःकालैर्वा संभूय “अजायथाः उदपद्यत । अथवा सूर्यस्यैवास्तमये मरणमुपचर्य व्यत्ययेन बहुवचनं कृत्वा संबोधनं क्रियते । हे मर्य प्रतिदिनं त्वम् अजायथाः इति योज्यम् । किं कुर्वन् । “अकेतवे रात्रौ निद्राभिभूतत्वेन प्रज्ञानरहिताय “प्राणिने “केतुं “कृण्वन् प्रातः प्रज्ञानं कुर्वन् । “अपेशसे रात्रौ अन्धकारावृतत्वेन अनभिव्यक्तत्वात् रूपरहिताय पदार्थाय प्रातरन्धकारनिवारणेन “पेशः रूपमभिव्यज्यमानं कुर्वन् । ' पेश इति रूपनाम पिंशतेः' (निरु. ८. ११) इति यास्कः । ‘ अकेतवे', ‘ अपेशसे ' इति चतुर्थ्यौ षष्ठ्यर्थे द्रष्टव्यौ ।। केतुम् । प्रातिपदिकस्वरः । कृण्वन् । ‘ कृवि हिंसाकरणयोश्च' । लटः शत्रादेशः । ‘ इदितो नुम् धातोः' (पा, सू. ७. १, ५८) इति नुमागमः । कर्तरि शपि प्राप्ते ‘ धिन्विकृण्व्योर च' ( पा. सू. ३. १, ८० ) इति उप्रत्ययः । तत्संनियोगेन वकारस्य च अकारः । ‘ अतो लोपः ' ( पा. सू. ६. ४. ४८) इति अकारलोपः। तस्य स्थानिवद्भादात् पूर्वस्य लघूपधगुणो (पा. सू. ७. ३. ८६ ) न भवति । अकारस्य प्रत्ययस्वरेणोदात्तत्वम् । अकेतवे । बहुव्रीहौ ‘नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । पेशः ।। ‘ नब्विषयस्यानिसन्तस्य ' (फि. सू. २६ ) इत्याद्युदात्तः । मर्याः । छन्दसि निष्टर्क्य° ' (पा. सू. ३, १. १२३) इत्यादौ म्रियतेर्निपातः । आमन्त्रितनिघातः ( पा. सू. ८. १. १९) । असामर्थ्यात् पूर्वस्य न पराङ्गवद्भावः । अपेशसे । “नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सम् ।। निपात आद्युदात्तः। उषद्भिः । ‘ उष प्लुष दाहे' । ज्वलद्भिः रश्मिभिः । लटः शत्रादेशे शपि प्राप्ते व्यत्ययेन शः । ‘सार्वधातुकमपित्' (पा. सू. १. २. ४ ) इति तस्य ङित्त्वात् लघूपधगुणो न भवति । शस्य प्रत्ययस्वरेणोदात्तत्वम्। उपरि शतुरदुपदेशाल्लसार्वधातुकानुदात्तत्वम् । एकादेश उदात्तेनोदात्तः ' ( पा. सू. ८. २. ५ ) । अजायथाः । अजायत इत्यर्थे पुरुषव्यत्यये निघातः
पङ्क्तिः ८८:
आत् । अह॑ । स्व॒धाम् । अनु॑ । पुनः॑ । ग॒र्भ॒ऽत्वम् । आ॒ऽई॒रि॒रे ।
 
दधा॑नाः । नाम॑ । य॒ज्ञिय॑म् ॥४
 
आत् । अह । स्वधाम् । अनु । पुनः । गर्भऽत्वम् । आऽईरिरे ।
 
दधानाः । नाम । यज्ञियम् ॥४
 
अत्रास्ति विशेषविनियोगः । चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे ‘ आदह स्वधामनु' इति द्वे ऋचौ । ‘इन्द्रेण सं हि दृक्षसे' इत्येका । अयं तृचः पळहस्तोत्रियसंज्ञकः । तथा च सूत्रितं ‘ चतुर्विंशे होताजनिष्ट' इति खण्डे-’ इन्द्रेण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे च' (आश्व. श्रौ. ७.२) इति । यद्यप्येतदैन्द्रं सूक्तं तथापि ‘आदह' इत्यादिषु षट्सु मरुतो वर्ण्यन्ते। ‘प्रायेणैन्द्रे मरुतः इति अनुक्रमणिकायामुक्तत्वात् (अनु. २. २२)। आत् इत्ययम् आनन्तर्यार्थो निपातः। अह इत्यवधरणार्थः। “आदह वर्षर्तोरनन्तरमेव । “स्वधामनु। इतः परं जनिष्यमाणमन्नमुदकं वा अनुलक्ष्य मरुतो देवाः "गर्भत्वम् “एरिरे मेघमध्ये जलस्य गर्भाकारं प्रेरितवन्तः। जलस्य कर्तारं पर्जन्यं प्रेरितवन्तः । प्रतिसंवत्सरमेवं कुर्वन्तीति दर्शयितुं पुनःशब्दः प्रयुक्तः। कीदृशा मरुतः । “यज्ञियं यज्ञार्हं "नाम “दधानाः धारयन्तः । सप्तसु गणेषु मरुताम् ‘ईदृङ्चान्यादृङ्च' इत्यादीनि यज्ञयोग्यानि नामानि अन्यत्राम्नातानि । ‘ अन्धः' इत्यादिष्वष्टाविंशतिसंख्याकेष्वन्ननामसु “ ऊर्क् रसः स्वधा' (नि. २. ७. १७ ) इति पठितम् । अर्णः' इत्यादिष्वेकशतसंख्याकेषूदकनामसु ‘तेजः स्वधा अक्षरम्' (नि. १. १२. ९७) इति पठितम् ॥ आदह निपातावाद्युदात्तौ । स्वधाम् । स्वं लोकं दधाति पुष्णातीति स्वधा । आतोऽनुपसर्गे कः ' ( पा. सू. ३. २. ३ )। कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुपुनःशब्दौ निपातावाद्युदात्तौ । गर्भस्य भावो गर्भत्वम् । प्रत्ययस्वरः । एरिरे । अन्तर्भावितण्यर्थात् ‘ईर गतौ ' इत्यस्मात् अनुदात्तेतः परस्य लिटो झस्य इरेच् (पा. सू. ३. ४. ८१ )। चित्त्वादन्तोदात्तः । ‘सह सुपा' (पा. सू. २. १. ४ ) इत्यत्र सुपेति योगविभागात् आङा सह तिङः समासेऽपि ‘ समासस्य ' ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वम् । इजादेश्च गुरुमतोऽनृच्छः ' ( पा. सू. ३. १. ३६ ) इति आम् न भवति मन्त्रत्वात् । अहशब्दयोगात् निघाताभावः, ‘तुपश्यपश्यताहैः पूजयाम्' (पा. सू. ८.१.३९) इति निषेधात् । दधानाः । शानचश्चित्त्वादन्तोदात्तत्वे प्राप्ते ' अभ्यस्तानामादिः ' (पा. सू. ६.१.१८९) इत्याद्युदात्तत्वम् । यज्ञमर्हति यज्ञियम् । ‘ यज्ञर्त्विग्भ्यां घखञौ ' ( पा. सू. ५. १. ७१ ) इति घप्रत्ययः । आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ' ( पा. सू. ७. १. २ ) इति इयादेशः । प्रत्ययस्वरेण इकार उदात्तः ॥
पङ्क्तिः १०३:
वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः ।
 
अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥५
 
वीळु । चित् । आरुजत्नुऽभिः । गुहा । चित् । इन्द्र । वह्निऽभिः ।
 
अविन्दः । उस्रियाः । अनु ॥५
 
अस्ति किंचिदुपाख्यानम् । पणिभिर्देवलोकात् गावोऽपहृता अन्धकारे प्रक्षिप्ताः । ताश्चेन्द्रो मरुद्भिः सहाजयदिति । एतच्चानुक्रमणिकायां सूचितं-‘पणिभिरसुरैर्निगूळ्हा गा अन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितामयुग्भिः पणयो मित्रीयन्तः प्रोचुः' (अनु.ऋ.सं.१०.१०८) इति । मन्त्रान्तरे च दृष्टान्ततया सूचितं’ निरुद्धा आपः पणिनेव गावः' (ऋ. सं. १. ३२. ११ ) इति । तदेतदुपाख्यानमभिप्रेत्योच्यते । हे “इन्द्र “वीळु “चित् दृढमपि दुर्गमस्थानम् "आरुजत्नुभिः भञ्जद्भिः "वह्निभिः वोढृभिरन्यत्र नेतुं समर्थैर्मरुद्भिः सहितस्त्वं “गुहा “चित् गुहायामपि स्थापिता "उस्रियाः गाः “अनु “अविन्दः अन्विष्य लब्धवानसि ।' ओजः पाजः' इत्यादिष्वष्टाविंशतिसंख्याकेषु बलनामसु “ दक्षः वीळु च्यौत्नम् ' ( नि. २. ९. १४ ) इति पठितम् । नवसंख्याकेषु गोनामसु “ अघ्न्या उस्रा उस्रिया' (नि. २. ११. ३) इति पठितम् ॥ वीळु । प्रातिपदिकस्वरः । चित् । चादिरनुदात्तः । आरुजत्नुभिः । ‘रुजो भङ्गे' इति औणादिकः कत्नुच्प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । गुहा । सप्तम्या डादेशः । ‘ ग्रामादीनां च ' ( फि. सू. ३८ ) इत्याद्युदात्तः । वह्निभिः । ‘ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्' ( उ. सू. ४. ४९१ ) इति वहेः निप्रत्ययः । नित्त्वादाद्युदात्तः । अविन्दः । ‘ शे मुचादीनाम् ' ( पा. सू. ७. १. ५९ ) इति नुमागमः । ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः' ( पा. सू. ६. ४. ७१ )। वसन्तीति उस्रियाः । वसेः कर्तरि रियक्प्रत्ययः षत्वाभावश्च बाहुलकादूहनीयः । उक्तं हि-’ यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ' ( पा. सू. ३. ३. १. २ ) इति । इकारः प्रत्ययस्वरेणोदात्तः ॥ ॥ ११ ॥
पङ्क्तिः ११८:
दे॒व॒ऽयन्तः॑ । यथा॑ । म॒तिम् । अच्छ॑ । वि॒दत्ऽव॑सुम् । गिरः॑ ।
 
म॒हाम् । अ॒नू॒ष॒त॒ । श्रु॒तम् ॥६
 
देवऽयन्तः । यथा । मतिम् । अच्छ । विदत्ऽवसुम् । गिरः ।
 
महाम् । अनूषत । श्रुतम् ॥६
 
“देवयन्तः मरुसंज्ञकान् देवानिच्छन्तः “गिरः स्तोतारः ऋत्विजः “महां प्रौढं मरुद्रणम् "अच्छ प्राप्तुम् “अनूषत स्तुतवन्तः । कीदृशं मरुद्गणम् । “विदद्वसुं वेदयद्भिः स्वमहिमप्रख्यापकैर्वसुभिर्धनैर्युक्तं “श्रुतं विख्यातम् । मरुद्गणस्य दृष्टान्तः । “यथा “मतिम् । मन्तारमिन्द्रं यथा स्तुवन्ति तथेत्यर्थः ॥ देवयन्तः देवानात्मन इच्छन्तः । ‘ सुप आत्मनः क्यच् ' ( पा. सू. ३. १. ८)। ‘ क्यचि च' (पा. सू. ७. ४. ३३ ) इति ईत्वम्, ‘अकृत्सार्वधातुकयोर्दीर्घः' ( पा. सू. ७. ४. २५) इति दीर्घत्वं च न भवति ; ‘ न च्छन्दस्यपुत्रस्य' ( पा. सू. ७. ४. ३५ ) इत्यनेन क्यचि यत् प्राप्तम् ईत्वं दीर्घत्वं वा तस्य सर्वस्य प्रतिषेधात् । यद्यपि ईत्वमेव प्रकृतं तथापि व्यवहितस्यापि दीर्घत्वस्य स प्रतिषेध इति विज्ञायते ; ‘ अश्वायन्तः' इत्यादौ • अश्वाघस्यात्' (पा. सू. ७. ४. ३७) इति आत्वविधानात् इति ह्युक्तम् । क्यजन्तात् शतृप्रत्ययः । क्यचश्चित्त्वात् 'चितः' (पा. सू. ६. १. १६३) इत्यन्तोदात्तत्वम् । शपः पित्त्वेन शतुश्च लसार्वधातुकस्वरेणानुदात्तत्त्वे ' एकादेश उदात्तेनोदात्तः ' (पा. सू. ८. २. ५) इत्युदात्तः । यथा । ‘ प्रकारवचने थाल् ' (पा. सू.५, ३. २३)। ‘ लिति' ( पा. सू. ६. १. १९३ ) इति प्रत्ययात् पूर्वमुदात्तत्वम् । मतिम् । ‘मन्त्रे वृषेषपचमन (पा. सू. ३. ३. ९६) इत्यादिना क्तिन् उदात्तः । मतिशब्दो ज्ञानपरोऽप्युपचारात् ज्ञातरि इन्द्रे वर्तते । अथवा पदान्तरे विशेष्यानुपादानात् इन्द्रस्यैषा संज्ञा । ततश्च ‘ क्तिच्क्तौ च संज्ञायाम् ' (पा. सू. ३. ३. १७४) इति मन्यतेः कर्तरि क्तिच् । तस्य उपदेशेऽनुदात्तत्वात् इट्प्रतिषेधः (पा. सू. ७.२.१०)। चित्त्वादन्तोदात्तत्वम् । अच्छ । अध्याहृतगच्छत्यर्थयोगात् ' अच्छ गत्यर्थवदेषु' (पा. सू. १. ४. ६९) इति गतिसंज्ञया सह निपातसंज्ञाया अपि समावेशात् ( पा. सू. १. ४. ६० ) ‘ निपाता आद्युदात्ताः' ( फि. सू. ८०) इस्याद्युदात्तत्वम् । विदद्वसुम्। 'विद ज्ञाने' इत्यस्मादन्तर्भावितण्यर्थात् शतृप्रत्यये विदन्ति औदार्यातिशयवत्तया ज्ञापयन्ति वसूनि धनानि यं स विदद्वसुः । विदेः शतृप्रत्यये ‘ अदिप्रभृतिभ्यः शपः ' ( पा. सू. २. ४. ७२ ) इति शपो लुकि प्रत्ययस्वरेण शतुरुदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । गृणन्ति स्तुवन्तीति गिरः । गृणातेः क्विपि ‘ ऋत इद्धातोः ' ( पा. सू. ७. १. १००) इति इत्वं रपरत्वम् । धातुस्वरेणोदात्तत्वम् । महां महान्तम् । नकारतकारयोर्लोपः छान्दसः । प्रातिपदिकस्वरेणोदात्तत्वम् । अनूषत । णु स्तुतौ । व्यत्ययेनात्मनेपदम् । लुङि झस्य अदादेशः (पा. सू. ७. १. ५)। सिचि कुटादित्वेन ङित्त्वात् ( पा. सू. १. २. १) गुणाभावः । इडभाव उकारदीर्घत्वं च छान्दसम् । निघातः । श्रुतम् । प्रत्ययस्वरः ॥
पङ्क्तिः १३३:
इन्द्रे॑ण । सम् । हि । दृक्ष॑से । स॒म्ऽज॒ग्मा॒नः । अबि॑भ्युषा ।
 
म॒न्दू इति॑ । स॒मा॒नऽव॑र्चसा ॥७
 
इन्द्रेण । सम् । हि । दृक्षसे । सम्ऽजग्मानः । अबिभ्युषा ।
 
मन्दू इति । समानऽवर्चसा ॥७
 
हे मरुद्गण त्वम् "इन्द्रेण "संजग्मानः संगच्छमानः "सं "दृक्षसे "हि सम्यग्दृश्येथाः खलु। अवश्यमस्माभिर्द्रष्टव्य इत्यर्थः । कीदृशेनेन्द्रेण । “अबिभ्युषा भीतिरहितेन । कीदृशाविन्द्रमरुद्गणौ । "मन्दू नित्यप्रमुदितौ । "समानवर्चसा तुल्यदीप्ती । पुरा कदाचित् वृत्रवधदशायामिन्द्रस्य सखायः सर्वे देवा वृत्रश्वासेन अपसारिताः । तदानीमिन्द्रस्य वृत्रसंबन्धिसकलसेनाजयार्थं मरुद्भिः संगमोऽभूत् । सोऽयमर्थो ‘ वृत्रस्य त्वा श्वसथात् (ऋ. सं. ८. ९६. ७) इति मन्त्रे संगृहीतः, इन्द्रो वै वृत्रं हनिष्यन् । ( ऐ. ब्रा. ३. २० ) इति ब्राह्मणे प्रपञ्चितश्च । इन्द्रशब्दः परमैश्वर्यवन्तं मरुद्गणं वाऽभिधत्ते । तदानीमिन्द्रस्य संबोधनं बहिरेवाध्याहर्तव्यम् । तथा चेयमृक् यास्केन व्याख्याता–‘इन्द्रेण हि संदृश्यसे संगच्छमानोऽबिभ्युषा गणेन मन्दू मदिष्णू युवां स्थोऽपि वा मन्दुना तेनेति स्यात्समानवर्चसेत्येतेन व्याख्यातम् ' ( निरु. ४. १२ ) इति ॥ सं दृक्षसे संपश्येथाः । ‘ दृशेश्चेति वक्तव्यम् ' ( का. १. ३. २९.) इत्यात्मनेपदम् । दृशेः ‘लिङर्थे लेट् ' ( पा. सू. ३. ४. ७ ) इति प्रार्थनायां लेट् । थासः से' ( पा. सू. ३. ४. ८०)। ‘लेटोऽडाटौ ' ( पा. सू. ३. ४. ९४ ) इत्यडागमः । ‘ सिब्बहुलं लेटि' (पा. सू. ३. १. ३४) इति सिप् । ‘संज्ञापूर्वको विधिरनित्यः' (परिभा० ९३.१ ) इति गुणाभावः । व्रश्चादिना (पा. सू. ८. २. ३६ ) षत्वम् । षढोः कः सि' (पा. सू. ८.२.४१) इति कत्वम् ।' आदेशप्रत्यययोः' ( पा. सू. ८. ३. ५९ ) इति सिपः षत्वम् । बहुलग्रहणात् सिपः परस्तात् शबपि भवति ( पा. सू. २. ४. ७३ )। सिपा व्यवधानात् पश्यादेशो न भवति ( पा. सू. ७. ३. ७८ )। शपः पित्त्वादनुदात्तत्वम् । उत्तरस्य लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । हिशब्दयोगात् तिङ्ङतिङः' इति निघातो न भवति ‘ हि च ' ( पा. सू. ८. १. ३४ ) इति प्रतिषेधात् । संजग्मानः । गमेः संपूर्वात् छन्दसि लुड्लङ्लिटः ' ( पा. सू. ३.
पङ्क्तिः १४९:
अ॒न॒व॒द्यैः । अ॒भिद्यु॑ऽभिः । म॒खः । सह॑स्वत् । अ॒र्च॒ति॒ ।
 
ग॒णैः । इन्द्र॑स्य । काम्यैः॑ ॥८
 
अनवद्यैः । अभिद्युऽभिः । मखः । सहस्वत् । अर्चति ।
 
गणैः । इन्द्रस्य । काम्यैः ॥८
 
"मखः प्रवर्तमानोऽयं यज्ञः "अनवद्यैः दोषरहितैः "अभिद्युभिः द्युलोकमभिगतैः "काम्यैः फलप्रदत्वेन कामयितव्यैः "गणैः मरुत्समूहैः सहितम् "इन्द्रस्य इन्द्रं "सहस्वत् बलोपेतं यथा भवति तथा “अर्चति पूजयति । अयं यज्ञो मरुत इन्द्रं चातिशयेन प्रीणयतीत्यर्थः । यज्ञः' इत्यादिषु पञ्चदशसु यज्ञनामसु ‘मखः विष्णुः ' (नि. ३. १७. ११ ) इति पठितम् । चतुश्चत्वारिंशत्सु अर्चतिकर्मसु • अर्चति गायति' ( नि. ३. १४. १ ) इति पठितम् ॥ न विद्यतेऽवद्यं येषां तेऽनवद्याः । ‘ नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । अभिगता द्यौर्यैस्तेऽभिद्यवः । तैरभिद्युभिः। अभिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । मखः । प्रातिपदिकस्वरः। सहो बलमस्मिन्नर्चनकर्मण्यस्तीति सहस्वत् । तसौ मत्वर्थे ' ( पा. सू. १. ४. १९ ) इति भसंज्ञया पदसंज्ञाया बाधितत्वात् सकारस्य रुत्वाभावः । ‘ मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (पा. सू. ८. २. ९) इति मतुपो मस्य वत्वम् । सहस्शब्दो ‘नब्विषयस्यानिसन्तस्य ' (फि. सू. २६) इत्याद्युदात्तः । मतुपः पित्त्वात् स एव शिष्यते । काम्यैः। “कमेर्णिङ्' (पा. सू. ३. १. ३०)। अत उपधायाः ' ( पा. सू. ७. २. ११६ ) इति वृद्धिः । ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' (भ्वा. ग. सू.) इति अमन्तत्वेन प्राप्तस्य मित्त्वस्य ‘न कम्यमिचमाम् ' (भ्वा. ग. सू.) इति प्रतिषेधात् ‘मितां ह्रस्वः ' ( पा. सू. ६. ४. ९२ ) इति उपधाह्रस्वत्वं न भवति । ण्यन्तात् ‘ अचो यत् ' ( पा. सू. ३. १. ९७ )। णिलोपः (पा. सू. ६. ४.५१ )।' तित्स्वरितम् ' (पा. सू. ६. १. १८५) इति प्राप्ते “ यतोऽनावः ' (पा. सू. ६. १. २१३) इत्याद्युदात्तत्वम् ॥
पङ्क्तिः १६४:
अतः॑ । प॒रि॒ऽज्म॒न् । आ । ग॒हि॒ । दि॒वः । वा॒ । रो॒च॒नात् । अधि॑ ।
 
सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिरः॑ ॥९
 
अतः । परिऽज्मन् । आ । गहि । दिवः । वा । रोचनात् । अधि ।
 
सम् । अस्मिन् । ऋञ्जते । गिरः ॥९
 
हे "परिज्मन् परितो व्यापिन् मरुद्गण "अतः अस्मात् मरुद्गणस्थानादन्तरिक्षात् “आ “गहि अस्मिन् कर्मण्यागच्छ । “दिवो “वा द्युलोकाद्वा समागच्छ । "रोचनादधि दीप्यमानादादित्यमण्डलाद्वा समागच्छ। अस्मदीयकर्मकाले यत्र यत्र तिष्ठसि ततः सर्वस्मादागच्छ इत्यर्थः। किमर्थमागमनमिति तदुच्यते। "अस्मिन् कर्मणि वर्तमान ऋत्विक् "गिरः स्तुतीः "सम् "ऋञ्जते सम्यक् प्रसाधयति । ‘ ऋञ्जतिः प्रसाधनकर्मा' (निरु० ६. २१ ) इति यास्कः । एताः स्तुतीः श्रोतुमागच्छ इत्यर्थः । यद्यपि ऋत्विजा मन्त्रस्य प्रयुज्यमानत्वात् ऋञ्जतिधातोः उत्तमपुरुषेण भवितव्यं तथापि परोक्षकृतत्वेन निर्देशात् प्रथमपुरुषप्रयोगः । परोक्षकृतलक्षणं च यास्क आह-’ तास्त्रिविधा ऋचः परोक्षकृताः प्रत्यक्षकृता आध्यात्मिक्यश्च । तत्र परोक्षकृताः सर्वाभिर्नामविभक्तिभिर्युज्यन्ते प्रथमपुरुषैश्चाख्यातस्य' (निरु. ७. १ ) इति । अतः । ‘पञ्चम्यास्तसिल्' (पा. सू. ५. ३. ७)।’ ‘एतदोऽश् ' ( पा. सू. ५. ३. ५)। शित्त्वात् सर्वादेशः (पा. सू. १. १. ५५ )। लिति ' ( पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वस्योदात्तत्वम् । परिज्मन् । “ अज गतिक्षेपणयोः' । अन्येभ्योऽपि दृश्यन्ते' ( पा. सू. ३. २. ७५ ) इति मनिन् । अकारलोपः छान्दसः । आमन्त्रितनिघातः । गहि । गमेः ' बहुलं छन्दसि ' ( पा. सू. २. ४. ७३ ) इति शपो लुक् । हेर्ङित्त्वात् (पा. सू. ३. ४. ८७ ) ‘ अनुदात्तोपदेश° ' ( पा. सू. ६. ४. ३७ ) इत्यादिना मलोपः । अतो हेः ' ( पा. सू. ६. ४. १०५) इति हिलोपो न भवति, तस्मिन् कर्तव्ये “ असिद्धवदत्रा भात् ' ( पा. सू. ६. ४. २२ ) इति मलोपस्य असिद्धत्वेन अनकारान्तत्वात् । दिवः। ऊडिदम् ' (पा. सू. ६. १. १७१ ) इत्यादिना विभक्तेरुदात्तत्वम् । वा। चादयोऽनुदात्ताः ' (फि. सू. ८४) इत्यनुदात्तः । रोचनात् । “ रुच दीप्तौ ' । ‘ अनुदात्तेतश्च हलादेः ' (पा. सू. ३. २. १४९) इति युच् । “युवोरनाकौ ' (पा. सू. ७. १. १) इति अनादेशः । चिदित्यन्तोदात्तः । अधि। ‘ अधिपरी अनर्थकौ ' ( पा. सू. १. ४, ९३ ) इति कर्मप्रवचनीयत्वेन सह निपातसंज्ञायाः समावेशात् निपाता आद्युदात्ताः' (फि. सू. ८० ) इत्याद्युदात्तः । अस्मिन् । परिज्मन् इति आदिष्टस्यैव अन्वादेशात् इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ( पा. सू. २. ४. ३२ ) इति अश् अनुदात्तः । शित्त्वात् सर्वादेशः । विभक्तिः ‘ अनुदात्तौ सुप्पितौ' ( पा. सू. ३. १. ४ ) इत्यनुदात्ता इति सर्वानुदात्तत्वम् । ऋञ्जते । ‘ ऋजि भृजी भर्जने'। सम् इत्युपसर्गयोगात् प्रसाधने वर्तते । निघातः । गिरः । प्रातिपदिकस्वरः ॥
पङ्क्तिः १७९:
इ॒तः । वा॒ । सा॒तिम् । ईम॑हे । दि॒व । वा॒ । पार्थि॑वात् । अधि॑ ।
 
इन्द्र॑म् । म॒हः । वा॒ । रज॑सः ॥१०
 
इतः । वा । सातिम् । ईमहे । दिव । वा । पार्थिवात् । अधि ।
 
इन्द्रम् । महः । वा । रजसः ॥१०
 
“इन्द्रं देवं प्रति "सातिं धनदानम् "अधि "ईमहे आधिक्येन याचामहे । कस्माल्लोकादिति तदुच्यते। "इतः अस्मादभिदृश्यमानात् पार्थिवात् पृथिवीलोकाद्वा "दिवो “वा द्युलोकाद्वा "महः महतः प्रौढात् "रजसः “वा पक्ष्यादीनां रञ्जकादन्तरिक्षलोकाद्वा । अयमिन्द्रो यतः कुतश्चिदानीय अस्मभ्यं धनं प्रयच्छत्वित्यर्थः । सप्तदशसु याच्ञाकर्मसु “ ईमहे यामि' ( नि. ३. १९. १ ) इति पठितम् ।। इतः । इदंशब्दात् पञ्चम्याः तसिल् । इदम इश्' ( पा. सू. ५. ३. ३ ) इति इश् । शित्त्वात् सर्वादेशः । अत्र ‘ ऊडिदम्' ( पा. सू. ६. १. १७१ ) इत्यस्यावकाशः आभ्याम् एभिः । ‘ लिति' (पा. सू. ६. १. १९३) इत्यस्यावकाशः पचनं पाचकः। उभावपि नित्यौ। तत्र परत्वात् ‘विप्रतिषेधे परं कार्यम् ' ( पा. सू. १. ४. २ ) इति ‘ लिति ' इति इकारस्य उदात्तत्वम् । पश्चात् तसेः ‘ प्राग्दिशो विभक्तिः ' (पा. सू. ५. ३. १) इति विभक्तिसंज्ञकत्वात् “ ऊडिदम्' इत्यादिना असर्वनामस्थानविभक्तेरुच्यमानम् उदात्तत्वं भवति । सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव ' (परिभा. ४० ) इति ‘ ऊडिदम्' इत्यस्य पुनरप्रवृत्तिरेव इति चेत्, न । लक्ष्यानुरोधेन पुनः प्रसङ्गविज्ञानं चेति स्वीकारात् ( परिभा. ३९ ) । ननु एवं यतस्तत इत्यादावपि परेण लित्स्वरेण बाधितमपि “सावेकाचः० (पा. सू. ६. १. १६८ ) इति तसिलः उदात्तत्वं स्यादिति चेत्, न । यत्तच्छब्दयोः साववर्णान्तत्वे ‘ न गोश्वन्साववर्ण' ( पा. सू. ६. १. १८२ ) इति निषेधात् । न च पुनः प्रसङ्गविज्ञानं चेत्येतत् सार्वत्रिकं लक्ष्यानुरोधेन क्वचिदेव तदाश्रयणादिति । सातिम् । षणु दाने '। धात्वादेः षः सः ' ( पा. सू. ६. १. ६४ )। भावे क्तिन् । जनसनखनां सञ्झलोः ' ( पा. सू. ६. ४. ४२ ) इति नकारस्य आत्वम् । “ तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति निषेधात् इण् न भवति । नित्स्वरे प्राप्ते ‘ उदात्तः' इत्यनुवृत्तौ ' ऊतियूतिजूतिसातिहेतिकीर्तयश्च' (पा. सू. ३. ३. ९७ ) इति निपातनादन्तोदात्तत्वम् । ईमहे । ‘ ईङ् गतौ । श्यनोऽपि ‘ बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति लुक् । अस्य धातोर्ङित्त्वात् “ तास्यनुदात्तेन्ङिददुपदेशात् ' ( पा. सू. ६. १. १८६ ) इति लसार्वधातुकस्य अनुदात्तत्वे धातुस्वर एव शिष्यते । न च ‘ तिङ्ङतिङः' इति निघातः, ‘चवायोगे प्रथमा ' ( पा. सू. ८. १. ५९ ) इति निषेधात् । उत्तरवाक्ययोरपि हि वाशब्दयोगात् अन्यथा वाक्यापरिपूर्तेः तिङ्विभक्तेः अवश्यमध्याहारात् तदपेक्षया एषा प्रथमा तिङ्विभक्तिरिति । दिवः । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । पार्थिवात् । ‘ प्रथ प्रख्याने '। प्रथते इति पृथिवी । ‘ प्रथेः षिवन् संप्रसारणं च ' ( उ. सू. १. १४८) इति षिवन्प्रत्ययः । ‘ षिद्गौरादिभ्यश्च ' ( पा. सू. ४. १. ४१ ) इति ङीप् । प्रत्ययस्वरेणोदात्तः । शेषनिघातेन अनुदात्तादिः पृथिवीशब्दः । पृथिव्या विकार इत्यर्थे ' ओरञ् ' (पा. सू. ४. ३. १३९) इत्यनुवृत्तौ ' अनुदात्तादेश्च' ( पा. सू. ४. ३. १४० ) इति अञ् । “यस्येति च ' (पा. सू. ६. ४. १४८ ) इति ईकारलोपः । तद्धितेष्वचामादेः ' (पा. सू. ७. २. ११७ ) इति आदिवृद्धिः । रपरत्वम् (पा. सू. १. १. ५१) । ञ्नित्यादिर्नित्यम् । ( पा. सू. ६. १. १९७) इत्याद्युदात्तः । अधि । निपातत्वादाद्युदात्तः । इन्द्रम् । रन्प्रत्ययान्त आद्युदात्तः । महः । महतः इत्यस्य अकारतकारयोर्लोपश्छान्दसः । ‘ सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । रजसः । ‘ नब्विषयस्यानिसन्तस्य' इत्याद्युदात्तत्वम् ॥ ॥ १२ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६" इत्यस्माद् प्रतिप्राप्तम्