"ऋग्वेदः सूक्तं १.१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् ।
 
अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥१
 
अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ।
 
अस्य । यज्ञस्य । सुऽक्रतुम् ॥१
 
अग्नेर्दूतत्वम् एतन्मन्त्रव्याख्याने तैत्तिरीयब्राह्मणे समाम्नायते- अग्निर्देवानां दूत आसीदुशनाः काव्योऽसुराणाम् ' ( तै. सं. २. ५. ८. ५) इति । तादृशं देवदूतम् “अग्निम् अस्मिन् कर्मणि “वृणीमहे संभजामः । कीदृशम् । “होतारं देवानामाह्वातारं “विश्ववेदसं सर्वधनोपेतम् “अस्य प्रवर्तमानस्य “यज्ञस्य निष्पादकत्वेन “सुक्रतुं शोभनकर्माणं शोभनप्रज्ञं वा । ' मघम्' इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु वेदस् शब्दः (नि. २. १०. ४) पठितः । होतारम् । ह्वेञ् स्पर्धायां शब्दे च'। ताच्छील्यादिषु तृन् । 'बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणे परपूर्वत्वे गुणः । नित्त्वादाद्युदात्तः। विश्ववेदसम्। ‘बहुव्रीहौ विश्वं संज्ञायाम् ' ( पा. सू. ६. २. १०६ ) इति पूर्वपदान्तोदात्तत्वम् । अस्य । ‘ ऊडिदम् ' ( पा. सू. ६. १. १७१ ) इत्यादिना विभक्तेरुदात्तत्वम् । सुक्रतुम् । ‘क्रत्वादयश्च' (पा. सू. ६. २. ११८) इत्याद्युदात्तत्वम् ॥
पङ्क्तिः ६३:
अ॒ग्निम्ऽअ॑ग्निम् । हवी॑मऽभिः । सदा॑ । ह॒व॒न्त॒ । वि॒श्पति॑म् ।
 
ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽप्रि॒यम् ॥२
 
अग्निम्ऽअग्निम् । हवीमऽभिः । सदा । हवन्त । विश्पतिम् ।
 
हव्यऽवाहम् । पुरुऽप्रियम् ॥२
 
यद्यप्यग्निः स्वरूपेणैक एव तथापि प्रयोगभेदात् आहवनीयादिस्थानभेदात् पावकादिविशेषणभेदाद्वा बहुविधत्वमभिप्रेत्य ‘अग्निमग्निम्' इति वीप्सा । तं “हवीमभिः आह्वानकरणैर्मन्त्रैः “सदा “हवन्त निरन्तरमनुष्ठातार आह्वयन्ति। कीदृशम् । “विश्पतिं विशां प्रजानां होत्रादीनां पालकं “हव्यवाहं यजमानसमर्पितस्य हविषो देवान् प्रति वोढारम् । अत एव “पुरुप्रियं बहूनां प्रीत्यास्पदम् ॥ अग्निमग्निम् । नित्यवीप्सयोः' (पा. सू. ८. १. ४ ) इति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितम् ' ( पा. सू. ८. १. २ ) इत्युत्तरस्य आम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ' ( पा. सू. ८. १. ३) इत्यनुदात्तत्वम् । हवीमभिः । ‘ह्वेञ् स्पर्धायां शब्दे च । आह्वानकरणभूतेषु मन्त्रेषु स्वव्यापारस्वातन्त्र्यात् कर्तृत्वविवक्षया “ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति कर्तरि मनिन् । तस्य छान्दस ईडगमः । ‘ बहुलं छन्दसि ' ( पा. सू. ६. १. ३४) इति धातोः संप्रसारणं परपूर्वत्वं गुणावादेशौ । नित्त्वादाद्युदात्तत्वम् । सदा । सर्वैकान्य' (पा. सू. ५. ३. १५) इत्यादिना सर्वशब्दात् दाप्रत्ययः । ‘सर्वस्य सोऽन्यतरस्यां दि ' ( पा. सू. ५, ३. ६) इति सभावः । व्यत्ययेनाद्युदात्तत्वम् । हवन्त । ह्वेञो लट् । झस्य अन्तादेशः । टेः एत्वाभावश्छान्दसः । शपि ' बहुलं छन्दसि' इति संप्रसारणम् । ‘ तिङ्ङतिङः' इति निघातः । विश्पतिम् । ‘ पत्यावैश्वर्ये ' ( पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । हव्यवाहम् । “ वह प्रापणे'। ‘ वहश्च ' (पा. सू. ३. २. ६४ ) इति ण्विप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । पुरुप्रियम् । पुरूणां प्रियम् । समासान्तोदात्तत्वम् ॥
पङ्क्तिः ७८:
अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । ज॒ज्ञा॒नः । वृ॒क्तऽब॑र्हिषे ।
 
असि॑ । होता॑ । नः॒ । ईड्यः॑ ॥३
 
अग्ने । देवान् । इह । आ । वह । जज्ञानः । वृक्तऽबर्हिषे ।
 
असि । होता । नः । ईड्यः ॥३
 
हे अग्ने "जज्ञानः अरण्योरुत्पन्नस्त्वं वृक्तबर्हिषे अस्तरणार्थं छिन्नेन बर्हिषा युक्ताय तं यजमानमनुग्रहीतुम् “इह कर्मणि हविर्भुजः "देवान् “आ “वह । “नः अस्मदर्थं “होता देवानामाह्वाता त्वम् “ईड्यः स्तुत्यः “असि ॥ देवान् इत्यत्र संहितायां ' दीर्घादटि समानपादे' (पा. सू. ८. ३. ९) इति रुत्वम् । आतोऽटि नित्यम् ' ( पा. सू. ८. ३. ३) इत्यनुनासिकभावः । जज्ञानः । ‘ जनी प्रादुर्भावे । लिटः कानच् । ‘ गमहन° ' ( पा. सू. ६. ४.९८ ) इत्युपधालोपः। ‘ द्विर्वचनेऽचि' (पा. सू. १. १. ५९ ) इति तस्य स्थानिवद्भावात् द्विर्वचनम् । चित्त्वादन्तोदात्तः । वृक्तबर्हिषे । ‘ ओव्रश्चू छेदने'। 'निष्ठा' (पा. सू. ३. २. १०२ ) इति क्तप्रत्ययः । ‘ यस्य विभाषा ' ( पा. सू. ७. २. १५) इति इट्प्रतिषेधः । वृक्तं बर्हिर्यस्मै यजमानाय येन वा ऋत्विजा । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । असि । अस्तेः सिप् । अदिप्रभृतिभ्यः शपः' इति शपो लुक् । ' तासस्त्योर्लोपः ' ( पा. सू. ७. ४. ५० ) इति सकारस्य लोपः। पादादित्वात् न निघातः । होता । ह्वयतेस्ताच्छील्यादिषु तृन्। ‘ बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणम् । नित्त्वादाद्युदात्तः । ईड्यः । ‘ईड स्तुतौ । ‘ ऋहलोर्ण्यत् ' ( पा. सू. ३. १. १२४ )। तित्स्वरिते प्राप्ते ईडवन्दवृशंसदुहां ण्यतः ' ( पा. सू. ६. १. २१४ ) इत्याद्युदात्तत्वम् ।।
पङ्क्तिः ९३:
तान् । उ॒श॒तः । वि । बो॒ध॒य॒ । यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् ।
 
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥४
 
तान् । उशतः । वि । बोधय । यत् । अग्ने । यासि । दूत्यम् ।
 
देवैः । आ । सत्सि । बर्हिषि ॥४
 
हे “अग्ने यत् यस्मात् कारणात् “दूत्यं “यासि देवानां दूतकर्म प्राप्नोषि तस्मात् कारणात् "उशतः हविः कामयमानान “तान् देवान् हविःस्वीकारार्थं “वि “बोधय । विबोध्य च “बर्हिषि अस्मिन् कर्मणि तैः “देवैः सह “आ “सत्सि आसीद आगत्योपविश ॥ तान् ।' दीर्घादटि समानपादे ' इति संहितायां रुत्वम् । आतोऽटि नित्यम्' इत्यनुनासिकभावः । उशतः । ‘ वश कान्तौ । लटः शतृ । ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । ‘ ग्रहिज्या° ' (पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणम् । ‘ शतुरनुमो नद्यजादी ' (पा. सू. ६. १. १७३) इति विभक्तेरुदात्तत्वम् । यासि । ‘ यद्वृत्तान्नित्यम् ' ( पा. सू. ८. १. ६६ ) इति निघातप्रतिषेधः । दूतस्य भागः कर्म वा दूत्यम् । दूतस्य भागकर्मणी ' ( पा. सू. ४. ४. १२० ) इति यत् । तस्य तित्स्वरितापवादत्वेन यतोऽनावः ' इति प्राप्तमाद्युदात्तत्वं सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति निवर्तते । अतः ‘तित्स्वरितम् ' (पा. सू. ६. १. १८५) इत्येव भवति । शेषनिघातः । सत्सि सीदसि । षद्लृ विशरणगत्यवसादनेषु'। लटः सिपि शपो ‘बहुलं छन्दसि' इति लुक् । “न लुमताङ्गस्य ' (पा. सू. १. १. ६३) इति प्रत्ययलक्षणप्रतिषेधात् ‘पाघ्रा' (पा. सू. ७. ३. ७८ ) इत्यादिना सीदादेशो न भवति । बर्हिषि। ‘ बृह बृहि वृद्धौ'। बृंहेर्नलोपश्च' ( उ. सू. २. २६६ ) इति इसिप्रत्ययः । प्रत्ययस्वरेण इकार उदात्तः ॥
पङ्क्तिः १०८:
घृत॑ऽआहवन । दी॒दि॒ऽवः॒ । प्रति॑ । स्म॒ । रिष॑तः । द॒ह॒ ।
 
अग्ने॑ । त्वम् । र॒क्ष॒स्विनः॑ ॥५
 
घृतऽआहवन । दीदिऽवः । प्रति । स्म । रिषतः । दह ।
 
अग्ने । त्वम् । रक्षस्विनः ॥५
 
हे घृताहवन घृतेनाहूयमान “दीदिवः दीप्यमान “अग्ने “त्वं “रक्षस्विनः रक्षोयुक्तान “रिषतः हिंसकान् शत्रून् “प्रति अस्माकं प्रतिकूलान् "दह "स्म सर्वथा भस्मीकुरु ॥ घृतेनाहूयतेऽस्मिन्निति ‘ करणाधिकरणयोश्च ' ( पा. सू. ३. ३. ११७ ) इत्यधिकरणे ल्युट् । अत्र जुहोतेः अविवक्षितकर्मत्वेन अकर्मकत्वात् घृतस्य करणत्वमेव न तु कर्मत्वम् । अतो नैषा तृतीया च होश्छन्दसि ' ( पा. सू. २. ३. ३) इति कर्मणि तृतीया । किंतु ' कर्तृकरणयोस्तृतीया ' ( पा. सू. २. ३. १८) इति करणवाचिन्येव । अतः ‘ कर्तृकरणे कृता बहुलम् ' ( पा. सू. २. १. ३२ ) इति समासः । तत्र पूर्वपदप्रकृतिस्वरापवादे कृदुत्तरपदप्रकृतिस्वरे प्रातिपदिकावस्थायामेव कृते सति पश्चात् विभक्तावुत्पन्नायाम् ' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । दीदिवः । दीव्यतेर्लिटः क्वसुः । तस्य ' वस्वेकाजाद्धसाम्' ( पा. सू. ७. २. ६७ ) इति नियमात् इडभावः । द्विर्वचनम्। हलादिशेषः । उत्तरवकारस्य लोपो व्योर्वलि ' ( पा. सू. ६. १. ६६) इति लोपः । क्वसुः । कित्त्वात् गुणाभावः । ‘ तुजादीनां दीर्घोऽभ्यासस्य ' ( पा. सू. ६. १. ७ ) इति दीर्घत्वमभ्यासस्य । संबुद्धौ ‘उगिदचाम्° ' ( पा. सू. ७. १. ७० ) इति नुम् । संयोगान्तस्य लोपः ' ( पा. सू. ८. २. २३ ) इति सकारलोपे नकारस्य मतुवसो रु संबुद्धौ छन्दसि ' (पा. सू. ८. ३. १ ) इति रुत्वम् । विसर्गः । पदात् परत्वात् आमन्त्रितनिघातः । ननु पूर्वामन्त्रितस्य अविद्यमानवत्त्वात् पादादित्वेन न निघातोपपत्तिः । न च ' नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' ( पा. सू. ८. १. ७३ ) इत्यविद्यमानवत्त्वप्रतिषेधः; उभयोरग्निपदविशेषणत्वेन विशेषवचनत्वात् । अत एव परस्परमनन्वयेन असामर्थ्यात् ‘ समर्थः पदविधिः ' ( पा. सू. २. १. १ ) इति च नियमात् पूर्वस्य न पराङ्गवद्भावो येन ऐकपद्येन निघातः स्यात् । अत एव हि ‘ इडे रन्तेऽदिते सरस्वति' (तै. सं. ७. १. ६. ८) इत्यादौ पृथक् पृथक् आद्युदात्तत्वमिति । उच्यते–अत्र ' दीदिवः' इति नाग्निपदस्य विशेषणं किंतु घृताहवनपदस्यैव द्योतनार्थम् ; घृताहवन इति विशेष्यत्वेन विवक्षितत्वात् । विशिष्टस्य तु पश्चादग्निविशेषणता । तत्र दीदिवःपदं प्रति घृताहवनपदस्य विशेष्यत्वात् नामन्त्रिते समानाधिकरणे ! ( पा. सू. ८. १.७३ ) इत्यविद्यमानवत्वप्रतिषेधात् निघातोपपत्तिः । अत एव परस्परविशेषणविशेष्यभावेन सामर्थ्यात् “ सुबामन्त्रिते (पा. सू. २. १. २) इति पराङ्गवद्भावे शेषनिघातेनापि स्वरोपपत्तिरिति । इडे रन्ते' इत्यादौ तु नैवं परस्परान्वय इति वैषम्यम् । रिषतः । ‘ रुष रिष हिंसार्थाः ' इति । भौवादिकस्य लटः शत्रादेशे शपि छान्दसो गुणाभावः। तौदादिकस्य वा “ रुश रिश हिंसायाम् । इत्यस्य छान्दसं षत्वम् । विकरणस्य शस्य ङित्वाद्गुणाभावः । रक्षस्शब्दात् ' अस्मायामेधास्रजो विनिः' ( पा. सू. ५. २. १२१ ) इति मत्वर्थीयो विनिः । तस्य प्रत्ययाद्युदात्तत्वम् ॥
पङ्क्तिः १२५:
अ॒ग्निना॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । क॒विः । गृ॒हऽप॑तिः । युवा॑ ।
 
ह॒व्य॒ऽवाट् । जु॒हुऽआ॑स्यः ॥६
 
अग्निना । अग्निः । सम् । इध्यते । कविः । गृहऽपतिः । युवा ।
 
हव्यऽवाट् । जुहुऽआस्यः ॥६
 
“अग्निः आहवनीयाख्यः तस्मिन् प्रक्षिप्यमाणेन “अग्निना निर्मथ्येन प्रणीतेन वा सह “समिध्यते सम्यक् दीप्यते । कीदृशोऽग्निः । "कविः मेधावी “गृहपतिः यजमानगृहस्य पालकः “युवा नित्यतरुणः हव्यवाट् हविषो वोढा "जुह्वास्यः जुहूरूपेण मुखेन युक्तः ॥ गृहपतिः ।' पत्यावैश्वर्ये' (पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । युवा । ‘ यु मिश्रणे । ‘ कनिन्युवृषितक्षिराजधन्विद्युप्रतिदिवः ' ( उ. सू. १. १५४ ) इति कनिन् । नित्त्वादाद्युदात्तः । हव्यं वहतीति हव्यवाट् । “वहश्च (पा. सू. ३. २. ६४) इति ण्विप्रत्ययः। णित्वादुपधावृद्धिः । गतिकारकोपपदात् कृदुत्तरपदप्रकृतिस्वरत्वम् । जुह्वास्यः । हूयतेऽनयेति जुहूः । ‘ हुवः श्लुवच्च' (उ. सू. २. २१८) इति क्विप् । तत्संनियोगात् दीर्घः । श्लुवद्भावात् द्विर्भावः । चुत्वजश्त्वे । प्रातिपदिकस्वरेणान्तोदात्तः । जुहूः आस्यं यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । शेषनिघातः । यणादेशे ‘ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' ( पा. सू. ८. २. ४ ) इति आकारः स्वरितः ॥ ॥ २२ ॥
पङ्क्तिः १४०:
क॒विम् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । स॒त्यऽध॑र्माणम् । अ॒ध्व॒रे ।
 
दे॒वम् । अ॒मी॒व॒ऽचात॑नम् ॥७
 
कविम् । अग्निम् । उप । स्तुहि । सत्यऽधर्माणम् । अध्वरे ।
 
देवम् । अमीवऽचातनम् ॥७
 
हे स्तोतृसंघ “अध्वरे क्रतौ “अग्निम् “उप “स्तुहि उपेत्य स्तुतिं कुरु । कीदृशम् । “कविं मेधाविनं "सत्यधर्मार्ण सत्यवदनरूपेण धर्मेणोपेतं देवं द्योतमानम् “अमीवचातनम् अमीवानां हिंसकानां शत्रूणां रोगाणां वा घातकम् ॥ सत्यं धर्मो यस्येति सत्यधर्मा । ‘ धर्मादनिच् केवलात् ' ( पा. सू. ५. ४. १२४) इति अनिच् समासान्तः । अन्तःपदेन तस्य समासत्वाभिधानात् बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे
पङ्क्तिः १५६:
यः । त्वाम् । अ॒ग्ने॒ । ह॒विःऽप॑तिः । दू॒तम् । दे॒व॒ । स॒प॒र्यति॑ ।
 
तस्य॑ । स्म॒ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥८
 
यः । त्वाम् । अग्ने । हविःऽपतिः । दूतम् । देव । सपर्यति ।
 
तस्य । स्म । प्रऽअविता । भव ॥८
 
हे “अग्ने “देव "यः "हविष्पतिः यजमानः देवदूतं “त्वां “सपर्यति परिचरति “तस्य यजमानस्य प्राविता "भव “स्म अवश्यं रक्षको भव ॥ हूयते इति हविः । ‘ अर्चिशुचि' (उ. सू. २. २६५) इत्यादिना इसिः । प्रत्ययस्वरेण इकार उदात्तः । हविषः पतिर्ह विष्पतिः । ‘ नित्यं समासेऽनुत्तरपदस्थस्य ' (पा. सू. ८. ३. ४५) इति षत्वम् । “ पत्यावैश्वर्ये' (पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । सपरशब्दात् ‘कण्ड्वादिभ्यो यक्' ( पा. सू. ३. १. २७) इति यक् । धातुप्रकरणात् गुणप्रतिषेधाद्यर्थात् यकः कित्वाच्च सपरशब्दस्य धातुत्वात् ततो विहितस्य यकः आर्धधातुकत्वे सति अतो लोपः' (पा. सू. ६. ४. ४८) इति लोपः। ‘सनाद्यन्ता धातवः' (पा. सू. ३. १. ३२) इति धातुसंज्ञायां तिप् । कर्तरि शप् । तस्मिन् पूर्वस्य ‘ अतो गुणे' (पा. सू. ६. १. ९७) इति परपूर्वत्वम् । यकः प्रत्ययस्वरेणोदात्तत्वम् । शपा सह एकादेशरय एकादेश उदात्तेनोदात्तः' (पा. सू. ८. २. ५) इत्युदात्तत्वम् । तिङ्ङतिङः' इति निघातो न भवति । यद्वृत्तान्नित्यम्' (पा. सू. ८. १. ६६ ) इति प्रतिषेधात् ॥
पङ्क्तिः १७३:
यः । अ॒ग्निम् । दे॒वऽवी॑तये । ह॒विष्मा॑न् । आ॒ऽविवा॑सति ।
 
तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥९
 
यः । अग्निम् । देवऽवीतये । हविष्मान् । आऽविवासति ।
 
तस्मै । पावक । मृळय ॥९
 
हविष्मान् हविर्युक्तः “यः यजमानः देववीतये देवानां हविर्भक्षणहेतुयोगार्थम् “अग्निम् “आविवासति अग्नेः समीपे विशेषेणागत्य परिचर्यां करोति । हे “पावक अग्ने “तस्मै “मृळय तं यजमानं सुखय । देववीतये। ‘वी गतिप्रजनकान्त्यशनखादनेषु' इत्यस्मात् अशनार्थात् क्तिन् । देवानां वीतिर्यस्मिन् यागे स देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हविष्मान् । ‘ नब्विषयस्यानिसन्तस्य ' (फि. सू. २६) इति पर्युदासात् हविःशब्दोऽन्तोदात्तः । मतुपः सर्वानुदात्तत्वात् स एव शिष्यते । आविवासति । ‘वा गतिगन्धनयोः' । अस्मात् अन्तर्भावितण्यर्थात् आगमयितुमिच्छतीत्यर्थे सन् । आह्वानेच्छा परिचर्यायां पर्यवस्यतीति विवासतिशब्दः परिचर्यार्थे निघण्टौ (नि.३.५.१०) पठितः। द्विर्भावः । अभ्यासस्य ह्रस्वः। ‘ सन्यतः '(पा. सू. ७.४.७९) इति इत्वम् । ‘नित्यादिर्नित्यम् ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तत्वम् । तिङ्ङतिङः' इति निघातो न भवति ‘यद्वृत्तान्नित्यम् ' (पा. सू. ८, १. ६६ ) इति प्रतिषेधात् । ‘तिङि चोदात्तवति' (पा. सू. ८. १, ७१ ) इति आङो निघातः । ‘सह सुपा' (पा. सू. २. १. ४) इत्यत्र सहेति योगविभागात् आङस्तिङासह समासे समासान्तोदात्तत्वे प्राप्ते परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वम् । तस्मै । ‘ क्रियाग्रहणं कर्तव्यम्' (पा. म. १. ४. ३२. १ ) इति संप्रदाने चतुर्थी ॥
पङ्क्तिः १९०:
सः । नः॒ । पा॒व॒क॒ । दी॒दि॒ऽवः॒ । अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ।
 
उप॑ । य॒ज्ञम् । ह॒विः । च॒ । नः॒ ॥१०
 
सः । नः । पावक । दीदिऽवः । अग्ने । देवान् । इह । आ । वह ।
 
उप । यज्ञम् । हविः । च । नः ॥१०
 
हे "दीदिवः दीप्यमान “पावक शोधक “अग्ने “सः त्वं “नः अस्मदर्थम् “इह देवयजनदेशे "देवान् “आ “वह । ततः “नः अस्मदीयं यज्ञं तत्रत्यं "हविश्च “उप देवसमीपे प्रापयेति शेषः ॥ दीदिवः । ‘ दिवु क्रीडादौ । छन्दसि लुङ्लङ्लिटः ' ( पा. सू. ३. ४. ६ ) इति वर्तमाने लिट् । क्वसुः ।। द्विर्भावो हलादिशेषः । ‘ तुजादीनां दीर्घोऽभ्यासस्य ' (पा. सू. ६. १. ७) इत्यभ्यासस्य दीर्घत्वम्। ‘वस्वेकाजाद्धसाम् ' ( पा. सू. ७. २. ६७ ) इति नियमात वसोः इट्प्रतिषेधः । लोपो व्योर्वलि ' ( पा. सू. ६. १. ६६ ) इति वकारलोपः । संबुद्धौ । उगिदचां° ' ( पा. सू. ७. १. ७० ) इत्यादिना नुम् । हल्या सदिलोपः संयोगान्तलोपः । ‘ मतुवसोः' इति रुत्वम् । विसर्गः । अग्ने । पादादित्वात् न निघातः । देवाँ इहेत्यत्र ‘ दीर्घादटि समानपादे ' ( पा. सू. ८. ३. ९ ) इति रुत्वम् । अतोऽटि नित्यम्' इति आकारस्यानुनासिकः । ‘ भोभगोअघोअपूर्वस्य योऽशि ( पा. सू. ८. ३. १७ ) इति रोर्यकारः। ‘ लोपः शाकल्यस्य ' (पा. सू. ८. ३. १९ ) इति यकारलोपः । तस्यासिद्धत्वात् आद्गुणो न भवति । इह । इदमो हः' (पा. सू. ५. ३. ११ ) इति सप्तम्यन्तात् हप्रत्ययः । इदम इश्' (पा. सू. ५. ३. ३)। तद्धितान्तत्वात् प्रातिपदिकत्वे ‘सुपो धातुप्रातिपदिकयोः ' ( पा. सू. २. ४. ७१ ) इति सप्तम्या लुक् । तद्धितश्चासर्वविभक्तिः ' ( पा. सू. १. १. ३८) इत्यव्ययसंज्ञायाम् अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इत्युत्तरस्याः सप्तम्या लुक् । अकारः प्रत्ययस्वरेणोदात्तः ॥
पङ्क्तिः २०५:
सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । गा॒य॒त्रेण॑ । नवी॑यसा ।
 
र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ॥११
 
सः । नः । स्तवानः । आ । भर । गायत्रेण । नवीयसा ।
 
रयिम् । वीरऽवतीम् । इषम् ॥११
 
हे अग्ने "नवीयसा नवतरेण पूर्वकैरप्यसंपादितेन “गायत्रेण गायत्रीच्छन्दस्केनानेन सूक्तेन “स्तवानः स्तूयमानः “सः त्वं “नः अस्मदर्थं “रयिं धनं वीरवतीं शूरपुत्रप्रभृत्यपत्ययुक्ताम् “इषम् अन्नं च “आ “भर संपादय ॥ स्तवानः । ‘ष्टुञ् स्तुतौ । ‘ धात्वादेः षः सः । ‘ स्वरितञितः०' (पा. सू. १. ३.
पङ्क्तिः २२१:
अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । विश्वा॑भिः । दे॒वहू॑तिऽभिः ।
 
इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । नः॒ ॥१२
 
अग्ने । शुक्रेण । शोचिषा । विश्वाभिः । देवहूतिऽभिः ।
 
इमम् । स्तोमम् । जुषस्व । नः ॥१२
 
हे “अग्ने “शुक्रेण “शोचिषा त्वदीयश्वेतवर्णदीप्त्या “विश्वाभिर्देवहूतिभिः त्वत्कृतसर्वदेवताह्वानसाधनस्तोत्रैश्च युक्तस्त्वं “नः अस्मदीयम् “इमं “स्तोमं स्तोत्रविशेषं “जुषस्व सेवस्व ॥ विश्वशब्दो विशेः क्वनन्तो नित्त्वादाद्युदात्तः । देवहूतिभिः । देवशब्दः पचाद्यजन्तः । चित्त्वादन्तोदात्तः । देवानां हूतय आह्वानान्यासु स्तुतिष्विति देवहूतयः स्तुतयः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । स्तूयतेऽनेनेति स्तोमः। ‘ अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः ॥ ॥ २३ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२" इत्यस्माद् प्रतिप्राप्तम्