"ऋग्वेदः सूक्तं १.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६३:
प्रा॒तः॒ऽयुजा॑ । वि । बो॒ध॒य॒ । अ॒श्विनौ॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ।
 
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥१
 
प्रातःऽयुजा । वि । बोधय । अश्विनौ । आ । इह । गच्छताम् ।
 
अस्य । सोमस्य । पीतये ॥१
 
अत्र होता अध्वर्युमुद्दिश्य ब्रूते । हे अध्वर्यो “प्रातर्युजा प्रातःसवनग्रहेण संयुक्तावश्विनौ देवौ “वि "बोधय विशेषेण प्रबुद्धौ कुरु । “अश्विनौ प्रबुद्धौ चाश्विनौ देवौ “अस्य अभिषवसंस्कारयुक्तस्य “सोमस्य “पीतये पानाय "इह कर्मणि “आ “गच्छताम् । प्रातर्युञ्जाते गृह्यमाणेन ग्रहेण सहेति प्रातर्युजा । ‘सत्सूद्विष" ' इत्यादिना क्विप् । सुपां सुलुक्° ' इति आकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अस्य । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । पीतये । व्यत्ययेन क्तिन उदात्तत्वम् ॥
पङ्क्तिः ७८:
या । सु॒ऽरथा॑ । र॒थिऽत॑मा । उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ ।
 
अ॒श्विना॑ । ता । ह॒वा॒म॒हे॒ ॥२
 
या । सुऽरथा । रथिऽतमा । उभा । देवा । दिविऽस्पृशा ।
 
अश्विना । ता । हवामहे ॥२
 
"या “उभा “अश्विना "देवा यावुभावश्विनौ देवौ “सुरथा शोभनरथयुक्तौ “रथीतमा रथिनां मध्ये अतिशयेन रथिनौ “दिविस्पृशा द्युलोकनिवासिनौ “ता “हवामहे तादृशावश्विनावाह्वयामहे ॥ या इत्यादिष्वष्टसु पदेषु ‘सुपां सुलुक्' इति द्विवचनस्य आकारः । सुरथा । शोभनो रथो ययोस्तौ सुरथौ । समासान्तोदात्तत्वापवादं बहुव्रीहौ पूर्वपदप्रकृतिस्वरं बाधित्वा ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । रथीतमा । ‘अन्येषामपि दृश्यते' ( पा. सू. ६. ३. १३७ ) इति संहितायाम् इकारस्य दीर्घत्वम् । दिविस्पृशा । दिवि स्पृशतः इति दिविस्पृशौ । ‘क्विप् च ' इति क्विप् । ‘तत्पुरुषे कृति बहुलम् ' ( पा. सू. ६. ३. १४ ) इति अलुक् ।' गतिकारकोपपदात्कृत्' इति कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
पङ्क्तिः ९३:
या । वा॒म् । कशा॑ । मधु॑ऽमती । अश्वि॑ना । सू॒नृता॑ऽवती ।
 
तया॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ॥३
 
या । वाम् । कशा । मधुऽमती । अश्विना । सूनृताऽवती ।
 
तया । यज्ञम् । मिमिक्षतम् ॥३
 
“अश्विना हे अश्विनौ देवौ “वां युवयोः संबन्धिनी “या “कशा अश्वताडनी विद्यते “तया सहागत्य “यज्ञम् अस्मदीयं “मिमिक्षतं सोमरसेन सेक्तुमिच्छतम् । कशयाश्वान् दृढं ताडयित्वा सहसा समागत्य भवद्विषयां सोमरसाहुतिं निष्पादयितुमुद्युक्तौ भवतमित्यर्थः । कीदृशी कशा । “मधुमती।' अर्णः क्षोदः' इत्यादिषु एकशतसंख्याकेषु उदकनामसु ‘मधु पुरीषम्' (नि. १. १२. ११) इति पठितम् । तस्मात् उदकवतीत्युक्तं भवति । अश्वस्य शीघ्रगत्या यत् स्वेदोदकं स्रवति तेनेयं कशा क्लिन्नेत्यर्थः । "सूनृतावती प्रियसत्यवाग्युक्ता । तीव्रेण कशाताडनेन यो ध्वनिर्निष्पद्यते ताडनवेलायाम् अश्वारूढेन च य आक्रोशः क्रियते तदुभयं शीघ्रगमनहेतुत्वेन यजमानस्य प्रियम् । यद्वा । ' श्लोकः धारा' इत्यादिषु सप्तपञ्चाशद्वाङ्नामसु • कशा धिषणा ' ( नि. १. ११. ४३ ) इति पठितम् । अश्विनोर्या वाक् मधुमती माधुर्योपेता पारुष्यरहिता सूनृतावती प्रियत्वसत्यत्वोपेता फलप्रदानविषयेत्यर्थः । तया वाचा युक्तौ यज्ञं मिमिक्षतमिति योजनीयम् ॥ कशा ।' कश गतिशातनयोः '। पचाद्यच् । वृषादित्वादाद्युदात्तः । सूनृतावती। ‘ऊन परिहाणे '। सुष्ठु ऊनयति अप्रियम् इति सून् । तथाविधम् ऋतं सत्यं यस्यां वाचि सा सुनृता। ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वं बाधित्वा • परादिश्छन्दसि बहुलम्' इति ऋकार उदात्तः । सा यस्या अस्ति सा कशा सूनृतावतीति कशायाः संज्ञा । एवंनामा या कशेत्यर्थः । ‘संज्ञायाम् ' (पा. सू. ८. २. ११) इति मतुपो वत्वम् । मिमिक्षतम् । मिहेः सन् । हलन्ताच्च ' ( पा. सू. १. २. १० ) इति कित्वाद्गुणाभावः । ढत्वकत्वषत्वानि ॥
पङ्क्तिः १०८:
न॒हि । वा॒म् । अस्ति॑ । दू॒र॒के । यत्र॑ । रथे॑न । गच्छ॑थः ।
 
अश्वि॑ना । सो॒मिनः॑ । गृ॒हम् ॥४
 
नहि । वाम् । अस्ति । दूरके । यत्र । रथेन । गच्छथः ।
 
अश्विना । सोमिनः । गृहम् ॥४
 
“अश्विना हे अश्विनौ देवौ युवां “सोमिनः सोमवतो यजमानस्य “गृहं प्रति “रथेन “गच्छथः स मार्गो “वां युवयोः "दूरके दूरदेशे “नहि “अस्ति न वर्तते खलु । यद्वा । "यत्र गृहे गच्छथः तच्च गृहं दूरे न भवति ॥ नहि। ' एवमादीनामन्तः' इत्यन्तोदात्तः । अस्ति । ‘चादिलोपे विभाषा' इति निघाताभावः । अत्र हि गृहं दूरे च नास्ति युवां च रथेन गच्छथः इति समुच्चयश्चार्थो गम्यते, चशब्दो न प्रयुज्यते इति चलोपे प्रथमा तिङ्विभक्तिरस्तीति । यत्र । 'निपातस्य च ' इति संहितायां दीर्घत्वम् । गच्छथः । इयं यद्यपि न प्रथमा तथापि यत्र इति यद्वृत्तयोगात् न निघातः ॥
पङ्क्तिः १२५:
हिर॑ण्यऽपाणिम् । ऊ॒तये॑ । स॒वि॒तार॑म् । उप॑ । ह्व॒ये॒ ।
 
सः । चेत्ता॑ । दे॒वता॑ । प॒दम् ॥५
 
हिरण्यऽपाणिम् । ऊतये । सवितारम् । उप । ह्वये ।
 
सः । चेत्ता । देवता । पदम् ॥५
 
“ऊतये अस्मद्रक्षणार्थं “सवितारं देवम् "उप "हृये आह्वयामि। “सः च सविता देवः एतन्मन्त्रप्रतिपाद्यदेवता भूत्वा “पदं यजमानेन प्राप्यं स्थानं “चेत्ता ज्ञापयिता भवति । कीदृशं सवितारम् । “हिरण्यपाणिं यजमानाय दातुं हस्ते सुवर्णधारिणम् । यद्वा । देवकर्तृके यागे सविता स्वयमृत्विग्भूत्वा ब्रह्मत्वेन अवस्थितः । तदानीं कस्यांचिदिष्टौ अध्वर्यवः तस्मै सवित्रे ब्रह्मणे प्राशित्रनामकं पुरोडाशभागं दत्तवन्तः । तच्च प्राशित्रं हस्ते सवित्रा गृहीतं सत् तदीयपाणिं चिच्छेद । ततः प्राशित्रस्य दातारोऽध्वर्यवः सुवर्णमयं पाणिं निर्माय प्रक्षिप्तवन्तः । सोऽयमर्थः कौषीतकिब्राह्मणे समाम्नातः- सवित्रे प्राशित्रं प्रतिजह्रुस्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिरिति स्तुतः ' इति । हिरण्यशब्दं पाणिशब्दं च यास्क एवं निर्वक्ति - ’हिरण्यं कस्माद्ध्रियत आयम्यमानमिति वा ह्रियते जनाज्जनमिति वा हितरमणं भवतीति वा हृदयरमणं भवतीति वा हर्यतेर्वा स्थात्प्रेप्साकर्मणः' (निरु. २. १०) इति । तथा ' पाणिः पणायतेः पूजाकर्मणः ' ( नि. २. २६ ) इति ॥ हिरण्यशब्दो नञ्विषयत्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ऊतये । 'उदात्तः ' इत्यनुवृत्तौ उतियूतिजूतिसाति' इत्यादिना क्तिनन्तः अन्तोदात्तो निपातितः । सवितारम् । तृचश्चित्त्वादन्तोदात्तत्वम् । चेत्ता। ‘चिती संज्ञाने'। अस्मादन्तर्भावितण्यर्थात्ताच्छील्ये तृन् । ' अनित्यमागमशासनम् ' इति इडभावः । नित्त्वादाद्युदात्तः । देवता । देवात्तल्' (पा. सू. ५. ४.२७ ) इति स्वार्थे तल् । ‘लिति' इति प्रत्ययात्पूर्वमुदात्तत्वम् । पदशब्दः पचाद्यजन्तः । ‘चितः ' इत्यन्तोदात्तः ॥ ॥ ४ ॥
पङ्क्तिः १४०:
अ॒पाम् । नपा॑तम् । अव॑से । स॒वि॒तार॑म् । उप॑ । स्तु॒हि॒ ।
 
तस्य॑ । व्र॒तानि॑ । उ॒श्म॒सि॒ ॥६
 
अपाम् । नपातम् । अवसे । सवितारम् । उप । स्तुहि ।
 
तस्य । व्रतानि । उश्मसि ॥६
 
अत्र होता सामगमृत्विजम् अन्यं वा शस्त्रिणं ब्रूते । “अवसे अस्मान् रक्षतुं “सवितारम् “उप “स्तुहि । “तस्य सवितुः संबन्धीनि “व्रतानि कर्माणि सोमयागादिरूपाणि "उश्मसि कामयामहे । कीदृशं सवितारम् । “अपां “नपातं जलस्य न पालकम् । संतापेन शोषकमित्यर्थः ॥ अपाम् । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । नपातम् ।' पा रक्षणे ' । अस्य शत्रन्तः पाच्छब्दः । तस्य नञा समासे ‘नभ्राण्नपात्' इत्यादिना नलोपप्रतिषेध इति वृत्तिकारः । अग्निर्ह्यपो न पाति तच्छोषकत्वात् । तर्हि कथम् अपाम् इति षष्ठी ‘न लोकाव्ययनिष्ठाखलर्थ' (पा. सू. २. ३. ६९ ) इति कर्मणि षष्ठ्याः प्रतिषेधात् इति चेत्, तर्ह्येषा शेषलक्षणास्तु। अग्न्यादित्यौ अपां कारणतया संबन्धिनौ ‘अग्नेरापः' (तै. आ. ८.२ ) इति श्रुतेः । ‘आदित्याज्जायते वृष्टिः' (मनु. ३.७६) इति स्मृतेश्च । अस्मिन्पक्षे ‘उगिदचाम्' इति नुमभावोऽपि निपातनादेवेति मन्तव्यम् । पातेः क्विबन्तस्य तुग्वा निपातनात् द्रष्टव्यः । अथवा न पातयति इति नपात् । पत्लृ गतौ ' इति धातोर्यन्तात्क्विप् । अग्न्यादित्यौ ह्यपां न प्रापकौ प्रत्युत तच्छोषकौ । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अवसे । ‘तुमर्थे सेसेन्' इत्यादिना असेन् । नित्त्वादाद्युदात्तः । उश्मसि ।' वश कान्तौ' ।' अदिप्रभृतिभ्यः° ' इति शपो लुक् । 'इदन्तो मसि' इति इकारोपजनः ॥
पङ्क्तिः १५५:
वि॒ऽभ॒क्तार॑म् । ह॒वा॒म॒हे॒ । वसोः॑ । चि॒त्रस्य॑ । राध॑सः ।
 
स॒वि॒तार॑म् । नृ॒ऽचक्ष॑सम् ॥७
 
विऽभक्तारम् । हवामहे । वसोः । चित्रस्य । राधसः ।
 
सवितारम् । नृऽचक्षसम् ॥७
 
“वसोः निवासहेतोः "चित्रस्य सुवर्णरजतादिरूपेण बहुविधस्य “राधसः धनस्य “विभक्तारम् अस्य यजमानस्य एतावद्धनदानम् उचितमिति विभागकारिणं “नृचक्षसं मनुष्याणां प्रकाशकारिणं “सवितारं “हवामहे । कौषीतकिन एतस्या ऋचो व्याख्यानरूपे ब्राह्मणे सवितुर्विभागहेतुत्वम् एव समामनन्ति- ' यदेतद्वसोश्चित्रं राधस्तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजति' इति ॥ विभक्तारम् । तृचश्चित्त्वादन्तोदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । हवामहे । ह्वयतेः ‘बहुलं छन्दसि’ इति संप्रसारणम् । वसोः । वस निवासे '।' शॄस्वृस्निहि ' ( उ. सू. १. १० ) इत्यादिना उः । ‘नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । राधसः । असुनन्तः नित्त्वादाद्युदात्तः । नृचक्षसम् । नॄन् चष्टे इति नृचक्षाः तं नृचक्षसम् । ‘चक्षेर्बहुलं शिच्च' ( उ. सू. ४. ६७२) इति असुन्। शित्त्वात् अनार्धधातुकत्वेन ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
पङ्क्तिः १७०:
सखा॑यः । आ । नि । सी॒द॒त॒ । स॒वि॒ता । स्तोम्यः॑ । नु । नः॒ ।
 
दाता॑ । राधां॑सि । शु॒म्भ॒ति॒ ॥८
 
सखायः । आ । नि । सीदत । सविता । स्तोम्यः । नु । नः ।
 
दाता । राधांसि । शुम्भति ॥८
 
सखिभूता हे ऋत्विजः “आ “नि “षीदत सर्वत्रोपविशत । "नः अस्माकम् अयं “सविता "नु क्षिप्रं “स्तोम्यः स्तुतियोग्यः “राधांसि धनानि "दाता प्रदातुमुद्युक्तः एष सविता “शुम्भति शोभते ॥ समानाः सन्तः ख्यान्ति प्रकाशन्ते इति सखायः। ‘ख्या प्रकथने '। 'समाने ख्यश्चोदात्तः ' ( उ.सू. ४. ५७६ ) इति इण्प्रत्ययः; तत्संनियोगेन डित्त्वं यलोपश्च । डित्त्वात् आकारलोपः । ‘समानस्यू च्छन्दसि ' (पा. सू. ६. ३. ८४ ) इत्यादिना समानशब्दस्य सादेशः । इण्संनियोगेनोदात्तत्वम् । जसि ‘सख्युरसंबुद्धौ ' ( पा. सू. ७. १. ९२ ) इति णित्त्वात् वृद्धिः आयादेशश्च । नि षीदत । ‘सदिरप्रतेः ' ( पा. सू. ८. ३. ६६ ) इति षत्वम् । स्तोमेषु प्रतिपाद्यत्वेन भवः स्तोम्यः । ‘भवे छन्दसि ' ( पा. सू. ४. ४. ११०) इति यत् । यतोऽनावः ' ( पा. सू. ६. १. २१३ ) इत्याद्युदात्तत्वम् दाता दानशीलः । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । राधांसि । गतम् । ‘कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५) इति प्राप्तायाः षष्ठ्याः ‘न लोकव्यय° ' ( पा. सू. २. ३. ६९ ) इति प्रतिषेधः ॥
पङ्क्तिः १८७:
अग्ने॑ । पत्नीः॑ । इ॒ह । आ । व॒ह॒ । दे॒वाना॑म् । उ॒श॒तीः । उप॑ ।
 
त्वष्टा॑रम् । सोम॑ऽपीतये ॥९
 
अग्ने । पत्नीः । इह । आ । वह । देवानाम् । उशतीः । उप ।
 
त्वष्टारम् । सोमऽपीतये ॥९
 
हे अग्ने "उशतीः कामयमानाः "देवानां "पत्नीः इन्द्राण्याद्याः इह देवयजनदेशे “आ “वह । तथा “त्वष्टारं देवं "सोमपीतये सोमपानार्थम् "उप समीपे आ वह ॥ पत्नीः । डत्यन्तः पतिशब्द आद्युदात्तः । ‘पत्युर्नो यज्ञसंयोगे' ( पा. सू. ४. १. ३३ ) इति ङीप् ; तत्संनियोगेन नकारश्च । डीपः पित्त्वात् डतिस्वर एव । उशतीः । ‘वश कान्तौ । लटः शतृ । ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । शतुर्ङित्वात् ग्रहिज्यादिना संप्रसारणम् । उगितश्च ' इति ङीप् । ‘शतुरनुमः० ' इति ङीप् उदात्तः ॥
पङ्क्तिः २०२:
आ । ग्नाः । अ॒ग्ने॒ । इ॒ह । अव॑से । होत्रा॑म् । य॒वि॒ष्ठ॒ । भार॑तीम् ।
 
वरू॑त्रीम् । धि॒षणा॑म् । व॒ह॒ ॥१०
 
आ । ग्नाः । अग्ने । इह । अवसे । होत्राम् । यविष्ठ । भारतीम् ।
 
वरूत्रीम् । धिषणाम् । वह ॥१०
 
हे "अग्ने "अवसे अस्मानवितुं "ग्नाः देवपत्नीः "इह “आ “वह । तथा हे "यविष्ठ युवतमाग्ने “होत्रां होमनिष्पादकाग्निपत्नीं “भारतीं भरतनामकस्य आदित्यस्य पत्नीं “वरूत्रीं वरणीयां "धिषणां वाग्देवीं च आ वह। ‘वाग्वै धिषणा' इति वाजसनेयकम् । “भरत आदित्यः (निरु. ८. १३ ) इति यास्केन उक्तत्वात् तस्य पत्नी भारती इत्युच्यते ॥ गम्यन्त इति ग्नाः । ‘गम्लृ सृप्लृ गतौ'। औणादिको ड्नप्रत्ययः । डित्त्वात् टिलोपः । प्रत्ययस्वरः । होत्राम् । “हुयामाश्रुभसिभ्यस्त्रन् ' ( उ. सू. ४. ६०७ ) इति त्रनन्तो नित्त्वादाद्युदात्तः । अतिशयेन युवा यविष्ठः । ‘अतिशायने तमबिष्ठनौ ' ( पा. सू. ५. ३. ५५ )। ' स्थूलदूर ' ( पा. सू.. ६. ४. १५६ ) इत्यादिना यणादिपरस्य लोपः पूर्वस्य च गुणः। भारतीम् । शार्ङ्गरवादेः अवृत्कृतत्वात् ङीनन्तो नित्त्वादाद्युदात्तः । वरूत्रीम् । ‘ग्रसितस्कभित° ' (पा. सू. ७. २. ३४) इत्यादौ यद्यपि वरूतृशब्दः तृजन्त इत्युक्तं तथापि अन्ते इतिकरणस्य प्रदर्शनार्थत्वात् वरूतृशब्दः तृनन्तोऽपि द्रष्टव्यः । तेन नित्त्वादाद्युदात्तत्वम् । शेषनिघातेन ऋकारस्य अनुदात्तत्वात् “ उदात्तयणो हल्पूर्वात्' इत्यपि न ङीप उदात्तत्वम्। धिषणाम् । क्युप्रत्ययानुवृत्तौ • धृषेर्धिष च संज्ञायाम् ' ( उ. सू. २. २४० ) इति क्युः ॥ ॥ ५ ॥
पङ्क्तिः २१७:
अ॒भि । नः॒ । दे॒वीः । अव॑सा । म॒हः । शर्म॑णा । नृ॒ऽपत्नीः॑ ।
 
अच्छि॑न्नऽपत्राः । स॒च॒न्ता॒म् ॥११
 
अभि । नः । देवीः । अवसा । महः । शर्मणा । नृऽपत्नीः ।
 
अच्छिन्नऽपत्राः । सचन्ताम् ॥११
 
“देवीः देव्यः देवपत्न्यः "अवसा रक्षणेन "महः महता "शर्मणा च सुखेन च सह "नः अस्मान् “अभि "सचन्ताम् आभिमुख्येन सेवन्ताम् । कीदृश्यो देव्यः । "नृपत्नीः मनुष्याणां पालयित्र्यः “अच्छिन्नपत्राः अच्छिन्नपक्षाः । न हि पक्षिरूपाणां देवपत्नीनां पक्षाः केनचित् छिद्यन्ते ॥ देवीः । ‘पुंयोगादाख्यायाम् ' ( पा. सू. ४. १. ४८ ) इति ङीषन्तः प्रत्ययस्वरेणान्तोदात्तः । ‘दीर्घाञ्जसि च ' ( पा. सू. ६. १. १०५) इति प्रतिषेधस्य वा छन्दसि ' ( पा. सू. ६. १. १०६ ) इति पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । अवसा । अव रक्षणे ' । असुन् । नित्वादाद्युदात्तः । महः । ‘मह पूजायाम् ' । क्विप् । ‘सुपां सुपो भवन्ति ' ( पा. म. ७. १. ३९ ) इति तृतीयैकवचनस्य ङसादेशः । ‘सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । नृपत्नीः । समासान्तोदात्तत्वे प्राप्ते ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । अच्छिन्नपत्राः । न च्छिन्नानि अच्छिन्नानि ।। अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अच्छिन्नानि पत्राणि यासां ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
पङ्क्तिः २३२:
इ॒ह । इ॒न्द्रा॒णीम् । उप॑ । ह्व॒ये॒ । व॒रु॒णा॒नीम् । स्व॒स्तये॑ ।
 
अ॒ग्नायी॑म् । सोम॑ऽपीतये ॥१२
 
इह । इन्द्राणीम् । उप । ह्वये । वरुणानीम् । स्वस्तये ।
 
अग्नायीम् । सोमऽपीतये ॥१२
 
इह अस्मिन्कर्मणि "स्वस्तये अस्माकमविनाशाय "सोमपीतये सोमपानाय च इन्द्रवरुणाग्नीनां पत्नीः आह्वयामि ॥ इन्द्राणीम् । वरुणानीम् । इन्द्रवरुण ' ( पा. सू. ४. १. ४९ ) इत्यादिना पुंयोगे ङीष्प्रत्ययः आनुगागमश्च । प्रत्ययस्वरः । अग्नायीम् । ‘वृषाकप्यग्निकुसितकुसिदानामुदात्तः ' ( पा. सू. ४. १. ३७ ) इति ङीप्; तत्संनियोगेन इकारस्य ऐकार उदात्तः । सोमपीतये । असकृत् । पूर्वोक्तम् ।।
पङ्क्तिः २४८:
म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञम् । मि॒मि॒क्ष॒ता॒म् ।
 
पि॒पृ॒ताम् । नः॒ । भरी॑मऽभिः ॥१३
 
मही । द्यौः । पृथिवी । च । नः । इमम् । यज्ञम् । मिमिक्षताम् ।
 
पिपृताम् । नः । भरीमऽभिः ॥१३
 
"मही महती "द्यौः द्युलोकदेवता "पृथिवी भूमिदेवता "च "नः अस्मदीयम् "इमं "यज्ञं "मिमिक्षतां स्वकीयसारभूतेन रसेन मिमिक्षतां सेक्तुमिच्छताम् । तथा “भरीमभिः भरणैः पोषणैः "नः अस्मान् “पिपृताम् उभे देव्यौ पूरयताम् ॥ मही । महच्छब्दात् ‘ उगितश्च ' ( पा. सू. ४. १. ६) इति ङीप् । अच्छब्दलीपश्छान्दसः। ‘बृहन्महतोरुपसंख्यानम्' (पा. सू. ६. १. १७३. १ ) इति ङीप उदात्तत्वम् । द्यौः । दिव्शब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘गोतो णित् ' ( पा. सू. ७. १. ९०) इति ततः परस्य सोः णिद्वद्भावात् भवन्ती वृद्धिरपि स्थानिवद्भावेनोदात्ता । पृथिवी। ‘प्रथ प्रख्याने '। प्रथेः षिवन्संप्रसारणं च ' ( उ. सू. १. १४८ ) इति षिवन्प्रत्ययः । ‘षिद्गौरादिभ्यश्च ' ( पा. सू. ४. १. ४१ ) इति ङीष् । प्रत्ययस्वरः । मिमिक्षताम् । मिह सेचने'। सनि द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । पिपृताम् । पॄ पालनपूरणयोः ' । ह्रस्व इत्येके । शपः श्लुः । ‘अर्तिपिपर्त्योश्च' (पा. सू. ७. ४. ७७ ) इति अभ्यासस्य अकारस्य इकारः । तिङः प्रत्ययस्वरः । भरीमभिः । ‘डुभृञ् धारणपोषणयोः । ‘हुस्तॄभृधृस्वृसृभ्य ईमन् ' ( दश. पा. ६) इति ईमन् । नित्त्वादाद्युदात्तः ॥
पङ्क्तिः २६३:
तयोः॑ । इत् । घृ॒तऽव॑त् । पयः॑ । विप्राः॑ । रि॒ह॒न्ति॒ । धी॒तिऽभिः॑ ।
 
ग॒न्ध॒र्वस्य॑ । ध्रु॒वे । प॒दे ॥१४
 
तयोः । इत् । घृतऽवत् । पयः । विप्राः । रिहन्ति । धीतिऽभिः ।
 
गन्धर्वस्य । ध्रुवे । पदे ॥१४
 
गन्धर्वस्य ध्रुवं पदम् अन्तरिक्षम् । तथा च तापनीयशाखायां समाम्नायते- यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षम् ' (नृ. ता. १. २) इति । तेनान्तरिक्षेण उपलक्षिते आकाशे वर्तमानयोः “तयोरित् द्यावापृथिव्योरेव संबन्धि "पयः जलं “घृतवत् घृतसदृशं "विप्राः मेधाविनः प्राणिनः “धीतिभिः कर्मभिः "रिहन्ति लिहन्ति । यद्वा । घृतवत् घृतं सारं तेनोपेतं रिहन्ति ॥ लिहेर्व्यत्ययेन रेफः । गन्धर्वस्य । ‘धृञ् धारणे'।' गवि गन् धृञो वः' इति वप्रत्ययः; तत्संनियोगेन गोशब्दस्य च गन्नादेशः ॥
पङ्क्तिः २८०:
स्यो॒ना । पृ॒थि॒वि॒ । भ॒व॒ । अ॒नृ॒क्ष॒रा । नि॒ऽवेश॑नी ।
 
यच्छ॑ । नः॒ । शर्म॑ । स॒ऽप्रथः॑ ॥१५
 
स्योना । पृथिवि । भव । अनृक्षरा । निऽवेशनी ।
 
यच्छ । नः । शर्म । सऽप्रथः ॥१५
 
हे पृथिवि स्योनत्वादिगुणयुक्ता "भव । स्योनशब्दो विस्तीर्णवाची । तथा च वाजसनेयब्राह्मणे स्योनशब्दोपेतं कंचिन्मन्त्रमुदाहृत्य व्याख्यातम् -‘इन्द्रस्योरुमाविश स्योनः स्योनमिति विस्तीर्णो विस्तीर्णमित्येव तदाह' इति। यद्वा । स्योनशब्दः सुखवाची (नि. ३.६. १५)। तथा च यास्कवाक्यमुदाहरिष्यते । "अनृक्षरा कण्टकरहिता "निवेशनी निवेशस्थानभूता "सप्रथः विस्तारयुक्तं "शर्म शरणं "नः अस्मभ्यं "यच्छ हे पृथिवि देहि । तामेतामृचमुदाहृत्य यास्क एवं व्याचष्टे- ‘सुखा नः पृथिवि भवानृक्षरा निवेशन्यृक्षरः कण्टक ऋच्छतेः कण्टकः कन्तपो वा कृन्ततेर्वा कण्टतेर्वा स्याद्गतिकर्मण उद्गततमो भवति यच्छ नः शर्म शरणं सर्वतः पृथु ' ( निरु. ९. ३२ ) इति ॥ स्योना । ‘षिवु तन्तुसन्ताने '। • सिवेष्टेर्यो च ' ( उ. सू. ३. ३८९ ) इति नप्रत्ययः । टेश्च यो इत्यादेशः । प्रत्ययस्वरः । स्योना पृथिवि इत्यनयोः भव इत्याख्यातेनैवान्वयो न परस्परम् । अतः असामर्थ्येनैव पराङ्गवद्भावाभावात् ओकारस्य न आमन्त्रिताद्युदात्तत्वम् । अनृक्षरा । ' ऋषी गतौ । गच्छति अन्तः इति ऋक्षरः कण्टकः । ‘तन्यृषिभ्यां क्सरन् ' ( उ. सू. ३. ३५५)। ‘षढोः कः सि' (पा. सू. ८. २, ४१ ) इति कत्वम् । ‘आदेशप्रत्यययोः' इति षत्वम् । नञा बहुव्रीहिः । ‘तस्मान्नुडचि' (पा. सू. ६. ३. ७४ ) इति नुडागमः । ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । निविशन्ति अस्याम् इति निवेशनी । “करणाधिकरणयोश्च' (पा. सू. ३. ३. ११७ ) इति ल्युट् । ‘लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यच्छ ।' दाण् दाने '।' पाघ्रा' (पा. सू. ७. ३. ७८ ) इत्यादिना यच्छादेशः । द्व्यचोऽतस्तिङः' इति दीर्घः । सप्रथः । ‘प्रथ प्रख्याने '। असुन्। प्रथसा सह वर्तते इति ‘तेन सहेति तुल्ययोगे' (पा. सू. २. २. २८) इति समासः। वोपसर्जनस्य ' ( पा. सू. ६. ३. ८२) इति सभावः । कृत्स्वरः ॥ ॥ ६ ॥
पङ्क्तिः २९७:
अतः॑ । दे॒वाः । अ॒व॒न्तु॒ । नः॒ । यतः॑ । विष्णुः॑ । वि॒ऽच॒क्र॒मे ।
 
पृ॒थि॒व्याः । स॒प्त । धाम॑ऽभिः ॥१६
 
अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विऽचक्रमे ।
 
पृथिव्याः । सप्त । धामऽभिः ॥१६
 
“विष्णुः परमेश्वरः “सप्त “धामभिः सप्तभिर्गायत्र्यादिभिश्छन्दोभिः साधनभूतैः “यतः “पृथिव्याः यस्माद्भूप्रदेशात् "विचक्रमे विविधं पदक्रमणं कृतवान् , “अतः अस्मात् पृथिवीप्रदेशात् “नः अस्मान् “देवाः “अवन्तु । विष्णोः पृथिव्यादिलोकेषु च्छन्दोभिः साधनैर्जयं तैत्तिरिया आमनन्ति– विष्णुमुखा वै देवाश्छन्दोभिरिमाँल्लोकाननपजय्यमभ्यजयन् ' ( तै. सं. ५. २. १. १ ) इति । विष्णोस्त्रिविक्रमावतारे पादत्रयक्रमणस्य पृथिव्यपादानम् । पृथिवीप्रदेशाद्रक्षणं नाम भूलोके वर्तमानानां पापनिवारणम् ॥ अतः । एतच्छब्दात् ‘पञ्चम्यास्तसिल् ' ( पा. सू. ५. ३. ७ ) इति तसिल् । ‘एतदोऽश् ' ( पा. सू. ५. ३. ५) इति अशादेशः । लित्स्वरेण अकार उदात्तः । यतः । तसिलः ‘प्राग्दिशो विभक्तिः ' (पा. सू. ५. ३. १ ) इति विभक्तिसंज्ञायां त्यदाद्यत्वम् । लित्स्वरः । विष्णुः । विषेः किच्च (उ. सू. ३. ३१९) इति नुप्रत्ययः। कित्त्वात् न गुणः। नित्' इत्यनुवृत्तेः आद्युदात्तत्वम्। विचक्रमे । ‘सुप् ' इति योगविभागात् विशब्दस्य समासः । समासान्तोदात्तत्वम् । यद्वृत्तयोगात् न निघातः । सप्त । ‘सुपां सुलुक्' इति भिसो लुक् । धामभिः । दधातेः ‘आतो मनिन्' (पा. सू. ३. २. ७४ ) इति मनिन् । नित्स्वरः ॥
पङ्क्तिः ३१४:
इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् ।
 
सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥१७
 
इदम् । विष्णुः । वि । चक्रमे । त्रेधा । नि । दधे । पदम् ।
 
सम्ऽऊळ्हम् । अस्य । पांसुरे ॥१७
 
"विष्णुः त्रिविक्रमावतारधारी “इदं प्रतीयमानं सर्वं जगदुद्दिश्य "वि “चक्रमे विशेषेण क्रमणं कृतवान् । तदा “त्रेधा त्रिभिः प्रकारैः “पदं “नि “दधे स्वकीयं पादं प्रक्षिप्तवान् । “अस्य विष्णोः “पांसुरे धूलियुक्ते पादस्थाने “समूळ्हम् इदं सर्वं जगत् सम्यगन्तर्भूतम्। सेयमृक् यास्केनैवं व्याख्याता - ’विष्णुर्विशतेर्वा व्यश्नोतेर्वा यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात् पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भवन्तीति वा' (निरु. १२. १८-१९) इति ॥ त्रेधा। ‘एधाच्च' (पा. सू. ५. ३. ४६ ) इति एधाच्प्रत्ययः । चितोऽन्तोदात्तः । समूळ्हम् । ‘वह प्रापणे '। निष्ठा ' इति क्तः। ‘वचिस्वपि ' ( पा. सू. ६. १. १५ ) इत्यादिना संप्रसारणम् । ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अस्य । इदमोऽन्वादेशे ' इति अश् अनुदात्तः, प्रत्ययश्च सुप्स्वरेण । पांसुरे । 'नगपांसुपाण्डुभ्यश्चेति वक्तव्यम् ' ( का. ५. २. १०७. २ ) इति मत्वर्थीयो रः । प्रत्ययस्वरः ।
पङ्क्तिः ३३१:
त्रीणि॑ । प॒दा । वि । च॒क्र॒मे॒ । विष्णुः॑ । गो॒पाः । अदा॑भ्यः ।
 
अतः॑ । धर्मा॑णि । धा॒रय॑न् ॥१८
 
त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । अदाभ्यः ।
 
अतः । धर्माणि । धारयन् ॥१८
 
“अदाभ्यः केनापि हिंसितुमशक्यः “गोपाः सर्वस्य जगतः रक्षकः “विष्णुः पृथिव्यादिस्थानेषु “अतः एतेषु “त्रीणि पदानि “वि “चक्रमे । किं कुर्वन् । “धर्माणि अग्निहोत्रादीनि “धारयन् पोषयन् ॥ पदा । सुपां सुलुक्' इत्यादिना विभक्तेः डादेशः । तस्य स्थानिवद्भावेन अनुदात्तत्वे प्राप्ते उदात्तनिवृत्तिस्वरेणोदात्तत्वम् । गोपाः । गोपामृतस्य' (ऋ. सं. १. १. ८) इत्यत्रोक्तम् । अदाभ्यः । दभेः “ ऋहलोर्ण्यत् ' (पा. सू. ३. १. १२४) इति ण्यत् । नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । धारयन्। शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण णिच एव स्वरः शिष्यते ॥
पङ्क्तिः ३४६:
विष्णोः॑ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे ।
 
इन्द्र॑स्य । युज्यः॑ । सखा॑ ॥१९
 
विष्णोः । कर्माणि । पश्यत । यतः । व्रतानि । पस्पशे ।
 
इन्द्रस्य । युज्यः । सखा ॥१९
 
हे ऋत्विगादयः “विष्णोः “कर्माणि पालनादीनि “पश्यत । “यतः यैः कर्मभिः “व्रतानि अग्निहोत्रादीनि “पस्पशे सर्वो यजमानः स्पृष्टवान् विष्णोरनुग्रहात् अनुतिष्ठति इत्यर्थः । तादृशो विष्णुः “इन्द्रस्य “युज्यः योज्यः अनुकूलः “सखा भवति । विष्णोः इन्द्रानुकूल्यं त्वष्टा हतपुत्रः' इत्यनुवाके ‘अथ वै तर्हि विष्णुः ' ( तै. सं. २. ४. १२. २ ) इत्यादिना प्रपञ्चेन तैत्तिरीया आमनन्ति ॥ पस्पशे । ' स्पश बाधनस्पर्शनयोः । लिट् । द्विर्भावे ‘शर्पूर्वाः खयः' ( पा. सू. ७. ४. ६१ ) इति पकारः शिष्यते सकारो लुप्यते । यद्वृत्तयोगादनिघातः । युज्यः । युजेः बाहुलकात् क्यप् । कित्त्वाद्गुणाभावः । क्यपः पित्त्वादनुदात्तत्वम् । धातुस्वरः ॥
पङ्क्तिः ३६१:
तत् । विष्णोः॑ । प॒र॒मम् । प॒दम् । सदा॑ । प॒श्य॒न्ति॒ । सू॒रयः॑ ।
 
दि॒विऽइ॑व । चक्षुः॑ । आऽत॑तम् ॥२०
 
तत् । विष्णोः । परमम् । पदम् । सदा । पश्यन्ति । सूरयः ।
 
दिविऽइव । चक्षुः । आऽततम् ॥२०
 
"सूरयः विद्वांस ऋत्विगादयः “विष्णोः संबन्धि “परमम् उत्कृष्टं “तत् शास्त्रप्रसिद्धं “पदं स्वर्गस्थानं शास्त्रदृष्ट्या सर्वदा “पश्यन्ति । तत्र दृष्टान्तः । “दिवीव । आकाशे यथा “आततं सर्वतः प्रसृतं “चक्षुः निरोधाभावेन विशदं पश्यति तद्वत् ॥ सदा । ‘सर्वैकान्य ' ( पा. सू. ५. ३. १५) इति दाप्रत्ययः । सर्वस्य सोऽन्यतरस्यां दि ' ( पा. सू. ५. ३. ६ ) इति सर्वशब्दस्य सभावः । व्यत्ययेनाद्युदात्तत्वम् । दिवि । ' उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति तदेव शिष्यते । चक्षुः । ‘नब्विषयस्य° ' इत्याद्युदात्तत्वम् । आततम् । तनोतेः कर्मणि क्तः ।' यस्य विभाषा ' इति इट्प्रतिषेधः । अनुदात्तोपदेश' इत्यादिना नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिरनन्तरः' इति गतेरुदात्तत्वम् ॥
पङ्क्तिः ३७६:
तत् । विप्रा॑सः । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।
 
विष्णोः॑ । यत् । प॒र॒मम् । प॒दम् ॥२१
 
तत् । विप्रासः । विपन्यवः । जागृऽवांसः । सम् । इन्धते ।
 
विष्णोः । यत् । परमम् । पदम् ॥२१
 
पूर्वोक्तं “विष्णोः “यत् “परमं “पदम् अस्ति “तत् पदं “विप्रासः मेधाविनः “समिन्धते सम्यक् दीपयन्ति। कीदृशाः। “विपन्यवः विशेषेण स्तोतारः "जागृवांसः शब्दार्थयोः प्रमादराहित्येन जागरूकाः।। विप्रासः । ‘आज्जसेरसुक्'। विपन्यवः । स्तुत्यर्थस्य पनेः बाहुलक औणादिको युप्रत्ययः । तत्र प्रत्ययस्वरः । जागृवांसः ।' जागृ निद्राक्षये '। लिटः क्वसुः । क्रादिनियमाप्राप्तस्य इटः ‘वस्वेकाजाद्धसाम् ' ( पा. सू. ७. २. ६७ ) इति नियमात् निवृत्तिः ॥ ॥ ७ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२२" इत्यस्माद् प्रतिप्राप्तम्