"ऋग्वेदः सूक्तं १.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४८:
अ॒यम् । वा॒म् । मधु॑मत्ऽतमः । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ ।
 
तम् । अ॒श्वि॒ना॒ । पि॒ब॒त॒म् । ति॒रःऽअ॑ह्न्यम् । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥१
 
अयम् । वाम् । मधुमत्ऽतमः । सुतः । सोमः । ऋतऽवृधा ।
 
तम् । अश्विना । पिबतम् । तिरःऽअह्न्यम् । धत्तम् । रत्नानि । दाशुषे ॥१
 
हे “ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ “अश्विना अश्विनौ “वां युवयोः "अयं पुरोवर्ती सोमः सुतः अभिषुतः। कीदृशः। “मधुमत्तमः अतिशयेन माधुर्यवान्। “तिरोअह्वयं तिरोभूते पूर्वस्मिन् दिने अभिषुतं “तं सोमं “पिबतम् । “दाशुषे हविर्दत्तवते यजमानाय "रत्नानि रमणीयानि धनानि “धत्तं प्रयच्छतम् ॥ वाम् । ‘युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ ' ( पा. सू. ८.१.२० )इति षष्ठीद्विवचनस्य वामादेशः । स चानुदात्तः । मधुमत्तमः। ‘मन ज्ञाने'। मन्यते इति मधु । ‘फलिपाटिनमि' इत्यादिना उप्रत्ययः । ‘नित्' इत्यनुवृत्तेराद्युदात्तत्वम्। धकारश्चान्तादेशः । अतिशयेन मधुमान् मधुमत्तमः । मतुप्तमपोः पित्त्वादनुदात्तत्वे पदस्वर एव शिष्यते । ऋतावृधा । वृधेरन्तर्भावितण्यर्थात् ' क्विप् च ' इति क्विप् । अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घत्वम् । तिरोअह्न्यम् । अह्नि भवः अह्न्यः । “भवे छन्दसि' इति यत् । अह्नष्टखोरेव' (पा. सू. ६. ४.१४५) इति नियमात् ‘नस्तद्धिते' इति टिलोपाभावः। ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति वचनात् ‘ये चाभावकर्मणोः '( पा. सू. ६. ४. १६८ ) इति प्रकृतिभावाभावे ‘अल्लोपोऽनः' इति अकारलोपः। तिरोहितः अह्न्यः तिरोअह्न्यः । ‘तिरोऽन्तर्धौ ' (पा. सू. १. ४. ७१) इति गतित्वेन निपातत्वात् अव्ययत्वे प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। दाशुषे। दाश्वान् साह्वान्” 'इत्यादिना क्वसुप्रत्ययान्तो निपातितः । चतुर्थ्येकवचने ‘वसोः संप्रसारणम् ' इति संप्रसारणम् । ‘शासिवसिघसीनां च ' इति षत्वम् ॥
पङ्क्तिः ६३:
त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । सु॒ऽपेश॑सा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
 
कण्वा॑सः । वा॒म् । ब्रह्म॑ । कृ॒ण्व॒न्ति॒ । अ॒ध्व॒रे । तेषा॑म् । सु । शृ॒णु॒त॒म् । हव॑म् ॥२
 
त्रिऽवन्धुरेण । त्रिऽवृता । सुऽपेशसा । रथेन । आ । यातम् । अश्विना ।
 
कण्वासः । वाम् । ब्रह्म । कृण्वन्ति । अध्वरे । तेषाम् । सु । शृणुतम् । हवम् ॥२
 
हे “अश्विना “त्रिवन्धुरेण उन्नतानतरूपत्रिविधबन्धनकाष्ठयुक्तेन “त्रिवृता अप्रतिहतगतितया लोकत्रये वर्तमानेन “सुपेशसा शोभनसुवर्णयुक्तेन “रथेन “आ “यात इहागच्छतम् । “कण्वासः कण्वपुत्रा मेधाविन ऋत्विजो वा “वां युवयोः “अध्वरे यागे “ब्रह्म स्तोत्ररूपं मन्त्रं हविर्लक्षणमन्नं वा "कृण्वन्ति कुर्वन्ति । “तेषां कण्वानां “हवम् आह्वानं “सु “शृणुतं सुष्ठ्वादरेण शृणुतम् ॥ त्रिवन्धुरेण । बध्नन्तीति बन्धुराः । बन्धेः औणादिक उरन्प्रत्ययः । त्रयो बन्धुरा यस्यासौ त्रिबन्धुरः । त्रिचक्रादिषु पाठात् त्रिचक्रादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. १९९. १ ) इत्युत्तरपदान्तोदात्तत्वम् । त्रिवृता । त्रिषु लोकेषु वर्तते इति त्रिवृत् । क्विप् च ' इति क्विप् । सुपेशसा । पेश इति हिरण्यनाम । शोभनं पेशो यस्यासौ सुपेशाः । ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । शृणुतम् । ‘श्रु श्रवणे'। श्रुवः शृ च ' इति श्नुः ; तत्संनियोगेन धातोः शृभावश्च । हवम् । ह्वयतेः ‘ भावेऽनुपसर्गस्य ' ( पा. सू. ३, ३. ७५ ) इति अप् । संप्रसारणं च गुणावादेशौ । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥
पङ्क्तिः ७८:
अश्वि॑ना । मधु॑मत्ऽतमम् । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ।
 
अथ॑ । अ॒द्य । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ॥३
 
अश्विना । मधुमत्ऽतमम् । पातम् । सोमम् । ऋतऽवृधा ।
 
अथ । अद्य । दस्रा । वसु । बिभ्रता । रथे । दाश्वांसम् । उप । गच्छतम् ॥३
 
हे “ऋतावृधा यज्ञस्य वर्धकौ अश्विनौ “मधुमत्तमं “सोमं “पातं पिबतम् । हे “दस्रा अश्विनौ सोमपानार्थम् “अथ अस्मदाह्वानानन्तरम् “अद्य अस्मिन् दिने “रथे स्वकीये “वसु “बिभ्रता अस्मदुपयुक्तं धनं धारयन्तौ “दाश्वांसं हविष्प्रदं यजमानम् “उप "गच्छतं समीपे प्राप्नुतम् ॥ बिभ्रता। ‘डुभृञ् धारणपोषणयोः '। शतरि जुहोत्यादित्वात् शपः श्लुः । ‘भृञामित्' इति अभ्यासस्य इत्वम् ।। शतुर्ङित्त्वात् गुणाभावे यणादेशः ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥
पङ्क्तिः ९३:
त्रि॒ऽस॒ध॒स्थे । ब॒र्हिषि॑ । वि॒श्व॒ऽवे॒द॒सा॒ । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ।
 
कण्वा॑सः । वा॒म् । सु॒तऽसो॑माः । अ॒भिऽद्य॑वः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥४
 
त्रिऽसधस्थे । बर्हिषि । विश्वऽवेदसा । मध्वा । यज्ञम् । मिमिक्षतम् ।
 
कण्वासः । वाम् । सुतऽसोमाः । अभिऽद्यवः । युवाम् । हवन्ते । अश्विना ॥४
 
हे “विश्ववेदसा सर्वज्ञावश्विनौ “त्रिषधस्थे कक्ष्यात्रयरूपेणास्तीर्णतया त्रिषु स्थानेष्ववस्थिते “बर्हिषि दर्भे स्थित्वा “मध्वा मधुरेण रसेन “यज्ञं “मिमिक्षतं सेक्तुमिच्छतम् । हे “अश्विना “वां युष्मदर्थं "सुतसोमाः अभिषुतसोमयुक्ताः "अभिद्यवः अभिगतदीप्तयः “कण्वासः “युवाम् उभौ “हवन्ते आह्वयन्ते ॥ त्रिषधस्थे । त्रिषु स्थानेषु सह तिष्ठतीति त्रिषधस्थं बर्हिः ।' सुपि स्थः' इति कप्रत्ययः । ‘आतो लोप इटि च ' इति आकारलोपः । ‘सध मादस्थयोश्छन्दसि ' ( पा. सू. ६. ३. ९६ ) इति सहशब्दस्य सधादेशः । मध्वा । आगमानुशासनस्यानित्यत्वात् नुमभावः । ‘जसि च' इत्यत्र ‘ जसादिषु च्छन्दसि वावचनम् ' ( पा. सू. ७. ३. १०९. १ ) इति वचनात् नाभावाभावश्च । मिमिक्षतम् । मिह सेचने '। सनि ' एकाचः' इति इट्प्रतिषेधः ।' हलन्ताच्च' इति सनः कित्त्वात् लघूपधगुणाभावः । अभ्यासहलादिशेषौ । ढत्वकत्वषत्वानि । सुतसोमाः । सुतः सोमो यैः । बहुव्रीहिस्वरः । अभिद्यवः । द्युः इति अहर्नाम । तेन तत्संबन्धी प्रकाशो लक्ष्यते । अभिगता द्युम् । अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (पा. म. २. २. १८. ४) इति समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
पङ्क्तिः १०८:
याभिः॑ । कण्व॑म् । अ॒भिष्टि॑ऽभिः । प्र । आव॑तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
 
ताभिः॑ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥५
 
याभिः । कण्वम् । अभिष्टिऽभिः । प्र । आवतम् । युवम् । अश्विना ।
 
ताभिः । सु । अस्मान् । अवतम् । शुभः । पती इति । पातम् । सोमम् । ऋतऽवृधा ॥५
 
हे “अश्विना “युवं युवामुभौ “याभिः “अभिष्टिभिः अपेक्षिताभिः रक्षाभिः “कण्वं महर्षिं “प्रावतं रक्षितवन्तौ हे “शुभस्पती शोभनस्य कर्मणः पालकौ "ताभिः रक्षाभिः “अस्मान् अनुष्ठातॄन् “सु “अवतं सुष्ठु रक्षतम् । स्पष्टमन्यत् ॥ अभिष्टिभिः । आभिमुख्येनेष्यन्ते इति अभिष्टयः फलानि । ‘इषु इच्छायाम् ' । कर्मणि क्तिनि ' तितुन्न ' इत्यादिना इट्प्रतिषेधः । एमन्नादिषु च्छन्दसि पररूपं वक्तव्यम् ' (पा. सू. ६. १. ९४. ६) इति पररूपत्वम् ।' तादौ च ' इति गतेः प्रकृतिस्वरत्वम्। ‘उपसर्गाश्चाभिवर्ज्यम्' (फि. सू. ८१) इति अभिः अन्तोदात्तः । शुभस्पती । 'शुभ दीप्तौ । ‘क्विप् च ' इति क्विप् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । ‘सुबामन्त्रिते' इति षष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् ॥ ॥ १ ॥
पङ्क्तिः १२३:
सु॒ऽदासे॑ । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । पृक्षः॑ । व॒ह॒त॒म् । अ॒श्वि॒ना॒ ।
 
र॒यिम् । स॒मु॒द्रात् । उ॒त । वा॒ । दि॒वः । परि॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । पु॒रु॒ऽस्पृह॑म् ॥६
 
सुऽदासे । दस्रा । वसु । बिभ्रता । रथे । पृक्षः । वहतम् । अश्विना ।
 
रयिम् । समुद्रात् । उत । वा । दिवः । परि । अस्मे इति । धत्तम् । पुरुऽस्पृहम् ॥६
 
हे “दस्रा दर्शनीयावश्विनौ "सुदासे शोभनदानयुक्ताय राज्ञे पिजवनपुत्राय “रथे "वसु “बिभ्रता युवां “पृक्षः अन्नं “वहतं प्रापितवन्तौ । “समुद्रात् अन्तरिक्षात् । समुद्रम् इति अन्तरिक्षनाम। समुद्रः अध्वरम्' (नि. १. ३. १५) इति तन्नामसु' पाठात् । "उत वा “दिवस्परि अथवा स्वर्गात् पर्याहृत्य “पुरुस्पृहं बहुभिः स्पृहणीयं “रयिं धनम् “अस्मे “धत्तम् अस्मासु स्थापयतम् ॥ सुष्ठु ददातीति सुदाः । असुनि कृदुत्तरपदप्रकृतिस्वरत्वम् । दिवस्परि। ‘पञ्चम्याः परावध्यर्थे' (पा. सू. ८. ३. ५१) इति विसर्जनीयस्य सत्वम् । पुरुस्पृहम् ।' स्पृह ईप्सायाम् ' । चुरादिरदन्तः । पुरुभिः स्पृह्यते इति पुरुस्पृहः । कर्मणि घञ् । अतो लोपस्य स्थानिवत्त्वात् लघूपधगुणाभावः । ञित्स्वरेण उत्तरपदस्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरेण तदेव शिष्यते ॥
पङ्क्तिः १३८:
यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । तु॒र्वशे॑ ।
 
अतः॑ । रथे॑न । सु॒ऽवृता॑ । नः॒ । आ । ग॒त॒म् । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥७
 
यत् । नासत्या । पराऽवति । यत् । वा । स्थः । अधि । तुर्वशे ।
 
अतः । रथेन । सुऽवृता । नः । आ । गतम् । साकम् । सूर्यस्य । रश्मिऽभिः ॥७
 
हे “नासत्या असत्यरहितावश्विनौ “यत् यदि युवां “परावति दूरदेशे “स्थः वर्तेथे । "यद्वा अथवा “अधि “तुर्वशे अधिके समीपे स्थः । “अतः अस्माद्दूरात्समीपाद्वा "सूर्यस्य “रश्मिभिः “साकं सूर्योदयकाले “सुवृता शोभनवर्तनयुक्तेन “रथेन "नः अस्मान् प्रति “आ “गतं आगच्छतम् ॥ नासत्या। सत्सु भवौ सत्यौ । न सत्यौ असत्यौ । न असत्यौ नासत्यौ । “ नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । स्थः । ‘अस भुवि । ‘असोरल्लोपः' इति अकारलोपः । यद्वृत्तयोगादनिघातः । गतम् । गमेर्लोटि 'बहुलं छन्दसि' इति शपो लुक् । ‘अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः ॥
पङ्क्तिः १५३:
अ॒र्वाञ्चा॑ । वा॒म् । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ना । इत् । उप॑ ।
 
इष॑म् । पृ॒ञ्चन्ता॑ । सु॒ऽकृते॑ । सु॒ऽदान॑वे । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ ॥८
 
अर्वाञ्चा । वाम् । सप्तयः । अध्वरऽश्रियः । वहन्तु । सवना । इत् । उप ।
 
इषम् । पृञ्चन्ता । सुऽकृते । सुऽदानवे । आ । बर्हिः । सीदतम् । नरा ॥८
 
हे अश्विनौ “अध्वरश्रियः यागसेविनः “सप्तयः अश्वाः “सवनेदुप अस्मद्नुष्ठेयानि त्रीणि सवनान्येवोपलक्ष्य "अर्वाञ्चा अभिमुखौ "वां युवां “वहन्तु प्रापयन्तु । हे “नरा अश्विनौ "सुकृते सुष्ठु कर्मकारिणे "सुदानवे शोभनदानयुक्ताय यजमानाय “इषम् अन्नं “पृञ्चन्ता संयोजयन्तौ युवां “बर्हिः "आ “सीदतं दर्भं प्राप्नुतम् ॥ अर्वाञ्चा । सुपां सुलुक्° ' इति विभक्तेः आकारः । अध्वरश्रियः । अध्वरं श्रयन्तीति अध्वरश्रियः । क्विब्वचिप्रच्छि° ' ( उ. सू. २. २१५) इत्यादिना क्विप् दीर्घश्च । वहन्तु । • वह प्रापणे '। शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । पादादित्वात् निघाताभावः । सवना । षुञ् अभिषवे'। अभिषूयते सोम एष्विति सवनानि । अधिकरणे ल्युट्। योरनादेशः । गुणावादेशौ । ‘लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम्। ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । पृञ्चन्ता ।' पृची संपर्के । शतरि रुधादित्वात् श्नम् । असोरल्लोपः इति अकारलोपः । प्रत्ययस्वरः । सुकृते । ‘सुकर्मपाप ' (पा. सू. ३. २.८९) इत्यादिना करोतेः भूते काले क्विप् । 'हस्वस्य पिति ' (पा. सू. ६. १. ७१ ) इति तुक् । सुदानवे। शोभनं दानु दानं यस्यासौ सुदानुः । दानुशब्दो नुप्रत्ययान्त आद्युदात्तः । ‘आद्युदात्तं द्व्यच्छन्दसि' इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् । सीदतम् । ‘षद्लृ विशरणगत्यवसादनेषु' ।।
पङ्क्तिः १६८:
तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् । रथे॑न । सूर्य॑ऽत्वचा ।
 
येन॑ । शश्व॑त् । ऊ॒हथुः॑ । दा॒शुषे॑ । वसु॑ । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥९
 
तेन । नासत्या । आ । गतम् । रथेन । सूर्यऽत्वचा ।
 
येन । शश्वत् । ऊहथुः । दाशुषे । वसु । मध्वः । सोमस्य । पीतये ॥९
 
हे “नासत्या “सूर्यत्वचा सूर्यसंवृतेन सूर्यरश्मिसदृशेन वा "तेन प्रसिद्धेन “रथेन “आ "गतं आगच्छतम् । “दाशुषे हविर्दत्तवते यजमानाय "वसु धनं “शश्वत् सर्वदा "येन रथेन “ऊहथुः प्रापितवन्तौ । तेन रथेनेति पूर्वत्रान्वयः । किमर्थमागमनमिति तदुच्यते । “मध्वः मधुरस्य “सोमस्य “पीतये सोमपानार्थम् ॥ सूर्यत्वचा। ‘त्वच संवरणे' । त्वचति संवृणोतीति त्वक् रश्मिः । सूर्यस्य त्वगिव त्वग्यस्य । ‘सप्तम्युपमान ' ( पा. सू. २. २. २४. १२) इत्यादिना बहुव्रीहिः उत्तरपदलोपश्च । सूर्यशब्दः ‘ षू प्रेरणे' इत्यस्मात् क्यपि ‘राजसूयसूर्यः' इत्यादिना रुडागमसहितो निपातितः । ततः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण शिष्यते । ऊहथुः । वह प्रापणे'। लिटि ' असंयोगाल्लिट् कित् ' ( पा. सू. १. २. ५) इति लिटः कित्त्वे ‘वचिस्वपि' इत्यादिना संप्रसारणम् । अभ्यासहलादिशेषौ सवर्णदीर्घः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥
पङ्क्तिः १८३:
उ॒क्थेभिः॑ । अ॒र्वाक् । अव॑से । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । अ॒र्कैः । च॒ । नि । ह्व॒या॒म॒हे॒ ।
 
शश्व॑त् । कण्वा॑नाम् । सद॑सि । प्रि॒ये । हि । क॒म् । सोम॑म् । प॒पथुः॑ । अ॒श्वि॒ना॒ ॥१०
 
उक्थेभिः । अर्वाक् । अवसे । पुरुवसू इति पुरुऽवसू । अर्कैः । च । नि । ह्वयामहे ।
 
शश्वत् । कण्वानाम् । सदसि । प्रिये । हि । कम् । सोमम् । पपथुः । अश्विना ॥१०
 
“पुरूवसू प्रभूतधनावश्विनौ “अवसे अस्मद्रक्षणार्थम् “उक्थेभिः उक्थैः शस्त्रैः "अर्कैश्च अर्चनसाधनैः स्तोत्रैश्च "अर्वाक् अस्मदाभिमुख्येन “नि ह्वयामहे नितरामाह्वयामः । हे “अश्विना "कण्वानां कण्वपुत्राणां मेधाविनां वा “प्रिये “सदसि यज्ञस्थाने “शश्वत् सर्वदा “सोमं “पपथुः “हि “कं युवां पीतवन्तौ खलु ॥ उक्थेभिः । ‘बहुलं छन्दसि' इति भिसः ऐसादेशाभावः । बहुवचने झल्येत् । इति एत्वम् । अर्कैः । ऋच स्तुतौ ' ।“ पुंसि संज्ञायां घः प्रायेण ' इति करणे घः। चजोः कु धिष्ण्यतोः' इति कुत्वम् । नि ह्वयामहे। 'निसमुपविभ्यो ह्वः' (पा. सू. १.३.३०) इत्यात्मनेपदम्।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४७" इत्यस्माद् प्रतिप्राप्तम्