"ऋग्वेदः सूक्तं १.६७" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
 
वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ॥१
 
वने॑षु । जा॒युः । मर्ते॑षु । मि॒त्रः । वृ॒णी॒ते । श्रु॒ष्टिम् । राजा॑ऽइव । अ॒जु॒र्यम् ॥१
 
वनेषु । जायुः । मर्तेषु । मित्रः । वृणीते । श्रुष्टिम् । राजाऽइव । अजुर्यम् ॥१
 
क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ॥२
 
क्षेमः॑ । न । सा॒धुः । क्रतुः॑ । न । भ॒द्रः । भुव॑त् । सु॒ऽआ॒धीः । होता॑ । ह॒व्य॒ऽवाट् ॥२
 
क्षेमः । न । साधुः । क्रतुः । न । भद्रः । भुवत् । सुऽआधीः । होता । हव्यऽवाट् ॥२
 
“वनेषु जायुः अरण्येषु जायमानः “मर्तेषु मनुष्येषु “मित्रः सखा सोऽयमग्निः “श्रुष्टिम् । शु आशु अश्नुते कर्माणि व्याप्नोतीति श्रुष्टिर्यजमानः । क्षिप्रेण कर्मणामनुष्ठातेत्यर्थः। तथा च यास्कः-’ श्रुष्टीति क्षिप्रनामाशु अष्टीति' (निरु. ६.१२) । एवंभूतं यजमानं “वृणीते संभजते । अनेन प्रत्तं हविः स्वीकृत्य रक्षतीति भावः । तत्र दृष्टान्तः । “राजेव “अजुर्यम् । अजुर्यं जरारहितं दृढाङ्गं सर्वकार्येषु शक्तमित्यर्थः। एवंभूतं पुरुषं यथा राजा वृणीते तद्वत् । “क्षेमो “न रक्षक इव "साधुः साधयिता “क्रतुर्न । क्रतुः कर्मणां कर्ता । स इव “भद्रः भजनीयः कल्याणो वा “होता देवानामाह्वाता “हव्यवाट् हव्यवाहनो नाम देवानामग्निः । तथा चाम्नायते- 'त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणां सहरक्षा असुराणाम् । (तै. सं. २. ५.८.६) इति । एवंभूतोऽग्निः “स्वाधीः शोभनकर्मा शोभनाध्यानः वा “भुवत् भवतु ॥ जायुः । ‘ जि जये'।' कृवापाजि° ' इति उण् । अजुर्यम् । जॄष् वयोहानौ । भावे ण्यत् । वृद्धौ कृतायाम् आकारस्य व्यत्ययेन उकारः। जुर्यं जरा नास्त्यस्येति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । भुवत् । भवतेर्लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । भूसुवास्तिङि' इति गुणप्रतिषेधः ॥
हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान्धा॒द्गुहा॑ नि॒षीद॑न् ॥३
 
हस्ते॑ । दधा॑नः । नृ॒म्णा । विश्वा॑नि । अमे॑ । दे॒वान् । धा॒त् । गुहा॑ । नि॒ऽसीद॑न् ॥३
 
हस्ते । दधानः । नृम्णा । विश्वानि । अमे । देवान् । धात् । गुहा । निऽसीदन् ॥३
 
वि॒दन्ती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं॑सन् ॥४
 
वि॒दन्ति॑ । ई॒म् । अत्र॑ । नरः॑ । धि॒य॒म्ऽधाः । हृ॒दा । यत् । त॒ष्टान् । मन्त्रा॑न् । अशं॑सन् ॥४
 
विदन्ति । ईम् । अत्र । नरः । धियम्ऽधाः । हृदा । यत् । तष्टान् । मन्त्रान् । अशंसन् ॥४
“विश्वानि सर्वाणि “नृम्णा नृम्णानि हविर्लक्षणानि धनानि “हस्ते स्वकीये बाहौ “दधानः धारयन्नयमग्निः “गुहा गुहायामप्सु मध्येऽश्वत्थादौ वा संवृतप्रदेशे “निषीदन् निगूढो वर्तमानः सन् “अमे भये "देवान् “धात अस्थापयत् । अग्नौ हविर्भिः सह पलायिते सति सर्वे देवा अभैषुरित्यर्थः । “नरः नेतारः “धियंधाः कर्मणां बुद्धीनां वा धारयितारो देवाः “अत्र अस्मिन् काले “ईम् एनमग्निं “विदन्ति जानन्ति । “यत् यदा “हृदा हृदयावस्थितया बुद्ध्या “तष्टान् निर्मितान् अग्निस्तुतिपरान् “मन्त्रान् “अशंसन् अस्तुवन् अवोचन्नित्यर्थः ॥ निषीदन् । सदिरप्रतेः' इति षत्वम् । विदन्ति । ‘ विद ज्ञाने ' । अदादित्वात् शपो लुक् । प्रत्ययस्वरः । धियंधाः । अतोऽनुपसर्गे कः' इति कः । ‘ तत्पुरुषे कृति बहुलम् ' इति बहुलवचनात् द्वितीयाया अपि अलुक् । तष्टान् । ‘ तक्षू त्वक्षू तनूकरणे' । निष्ठा । “यस्य विभाषा' इति इट्प्रतिषेधः । ‘ स्कोः संयोगाद्योः० ' इति कलोपः ॥
 
“विश्वानि सर्वाणि “नृम्णा नृम्णानि हविर्लक्षणानि धनानि “हस्ते स्वकीये बाहौ “दधानः धारयन्नयमग्निः “गुहा गुहायामप्सु मध्येऽश्वत्थादौ वा संवृतप्रदेशे “निषीदन् निगूढो वर्तमानः सन् “अमे भये "देवान् “धात अस्थापयत् । अग्नौ हविर्भिः सह पलायिते सति सर्वे देवा अभैषुरित्यर्थः । “नरः नेतारः “धियंधाः कर्मणां बुद्धीनां वा धारयितारो देवाः “अत्र अस्मिन् काले “ईम् एनमग्निं “विदन्ति जानन्ति । “यत् यदा “हृदा हृदयावस्थितया बुद्ध्या “तष्टान् निर्मितान् अग्निस्तुतिपरान् “मन्त्रान् “अशंसन् अस्तुवन् अवोचन्नित्यर्थः ॥ निषीदन् । सदिरप्रतेः' इति षत्वम् । विदन्ति । ‘ विद ज्ञाने ' । अदादित्वात् शपो लुक् । प्रत्ययस्वरः । धियंधाः । अतोऽनुपसर्गे कः' इति कः । ‘ तत्पुरुषे कृति बहुलम् ' इति बहुलवचनात् द्वितीयाया अपि अलुक् । तष्टान् । ‘ तक्षू त्वक्षू तनूकरणे' । निष्ठा । “यस्य विभाषा' इति इट्प्रतिषेधः । ‘ स्कोः संयोगाद्योः० ' इति कलोपः ॥
 
विदन्ति । ईम् । अत्र । नरः । धियम्ऽधाः । हृदा । यत् । तष्टान् । मन्त्रान् । अशंसन् ॥
 
अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे॑भिः स॒त्यैः ॥५
 
अ॒जः । न । क्षाम् । दा॒धार॑ । पृ॒थि॒वीम् । त॒स्तम्भ॑ । द्याम् । मन्त्रे॑भिः । स॒त्यैः ॥५
 
अजः । न । क्षाम् । दाधार । पृथिवीम् । तस्तम्भ । द्याम् । मन्त्रेभिः । सत्यैः ॥५
 
प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ॥६
 
प्रि॒या । प॒दानि॑ । प॒श्वः । नि । पा॒हि॒ । वि॒श्वऽआ॑युः । अ॒ग्ने॒ । गु॒हा । गुह॑म् । गाः॒ ॥६
 
प्रिया । पदानि । पश्वः । नि । पाहि । विश्वऽआयुः । अग्ने । गुहा । गुहम् । गाः ॥६
 
“अजो “न । अजति गच्छतीत्यजः सूर्यः । यद्वा । न जायते इत्यजः । जन्मरहित इत्यर्थः। स इव। क्षा इति पृथिवीनाम। “क्षां भूमिं “दाधार अयमग्निः प्रकाशकत्वेन धारयति । पृथिवीत्यन्तरिक्षनाम। "पृथिवीम् अन्तरिक्षं च धारयतीत्येव । “द्यां द्युलोकं “सत्यैः अवितथार्थैः "मन्त्रेभिः मन्त्रैः “तस्तम्भ स्तभ्नाति । यथाधो न पतति उपर्येव तिष्ठति तथा करोतीत्यर्थः । मन्त्रैर्दिवो धारणं तैत्तिरीये समाम्नातं- देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपादादबिभयुः । तं छन्दोभिरदृंहन्धृत्यै ( तै. ब्रा. १. २. ४. २ ) इति। यद्वा । सव्यैर्मन्त्रैः स्तूयमानोऽग्निर्याँ तस्तम्भेति । हे "अग्ने “विश्वायुः विश्वं सर्वमायुरन्नं यस्य स त्वं “पश्वः पशोः “प्रिया प्रियाणि “पदानि शोभनतृणोदकोपेतानि स्थानानि “नि “पाहि नितरां पालय मा धाक्षीरित्यर्थः । तर्हि कुत्र निवसामीति चेत् तत्राह। "गुहा गुहाया अपि “गुहं गुहां गवां संचारायोग्यस्थानं “गाः गच्छ तत्रैव निवसेत्यर्थः ॥ पश्वः । ‘ जसादिषु च्छन्दसि वावचनम् ' इति ‘घेर्ङिति ' इति गुणाभावे यणादेशः । ‘ उदात्तयणः० ' इति विभक्तेरुदात्तत्वम् । गुहा । ‘सुपां सुलुक्° ' इति पञ्चम्या आजादेशः । चित्त्वादन्तोदात्तत्वम् । गुहम् । व्यत्ययेन ह्रस्वत्वम् । गाः । छान्दसो लुङ् । ' इणो गा लुङि' इति गादेशः ॥
य ईं॑ चि॒केत॒ गुहा॒ भव॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ॥७
 
यः । ई॒म् । चि॒केत॑ । गुहा॑ । भव॑न्तम् । आ । यः । स॒साद॑ । धारा॑म् । ऋ॒तस्य॑ ॥७
 
यः । ईम् । चिकेत । गुहा । भवन्तम् । आ । यः । ससाद । धाराम् । ऋतस्य ॥७
 
वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥८
 
वि । ये । चृ॒तन्ति॑ । ऋ॒ता । सप॑न्तः । आत् । इत् । वसू॑नि । प्र । व॒वा॒च॒ । अ॒स्मै॒ ॥८
 
वि । ये । चृतन्ति । ऋता । सपन्तः । आत् । इत् । वसूनि । प्र । ववाच । अस्मै ॥८
 
“यः पुमान् “ईम् एनं “गुहा “भवन्तं गुहायां सन्तमग्निं “चिकेत जानाति । “यः च “ऋतस्य सत्यस्य यज्ञस्य वा “धारां धारयितारमेनमग्निम् “आ “ससाद आसीदति उपास्ते इत्यर्थः । “ये च “ऋता ऋतानि सत्यानि यज्ञान् वा "सपन्तः समवयन्तः स्पृशन्तो वा पुरुषा एतमग्निं “वि “चृतन्ति अग्निमुद्दिश्य स्तुतीर्ग्रथ्नन्ति कुर्वन्तीत्यर्थः । “आदित् स्तुत्यनन्तरमेव “अस्मै सर्वस्मै स्तोतृजनाय “वसूनि धनानि “प्र “ववाच प्रकथयति ॥ चिकेत । ‘ कित ज्ञाने '। लिटि णलि लित्स्वरः । चृतन्ति । ‘चृती हिंसाग्रन्थनयोः' । तौदादिकः । लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । ववाच । लिटि ‘ब्रुवो वचिः । ‘ लिट्यभ्यासस्योभयेषाम् ' ( पा. सू. ६. १. १७ ) इति अभ्यासस्य संप्रसारणम् । ‘ संप्रसारणाच ' इति परपूर्वत्वस्य ' वा छन्दसि ' ( पा. सू. ६. १. १०६ ) इति विकल्पनात् यणादेशः ॥
वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्व॒न्तः ॥९
 
वि । यः । वी॒रुत्ऽसु॑ । रोध॑त् । म॒हि॒ऽत्वा । उ॒त । प्र॒ऽजाः । उ॒त । प्र॒ऽसूषु॑ । अ॒न्तरिति॑ ॥९
 
वि । यः । वीरुत्ऽसु । रोधत् । महिऽत्वा । उत । प्रऽजाः । उत । प्रऽसूषु । अन्तरिति ॥९
 
चित्ति॑र॒पां दमे॑ वि॒श्वायु॒ः सद्मे॑व॒ धीरा॑ः स॒म्माय॑ चक्रुः ॥१०
 
चित्तिः॑ । अ॒पाम् । दमे॑ । वि॒श्वऽआ॑युः । सद्म॑ऽइव । धीराः॑ । स॒म्ऽमाय॑ । च॒क्रुः॒ ॥१०
 
चित्तिः । अपाम् । दमे । विश्वऽआयुः । सद्मऽइव । धीराः । सम्ऽमाय । चक्रुः ॥१०
 
“यः अग्निः “वीरुत्सु ओषधीषु “महित्वा यानि महत्त्वानि सन्ति तानि “वि “रोधत् विरुणद्धि विशेषेणावृणोति नावशेषयति। "उत अपि च "प्रजाः प्रकर्षेणोत्पन्नाः पुष्पफलादिलक्षणाः “प्रसूषु उत्पादयित्रीषु मातृस्थानीयास्वोषधीषु “अन्तः मध्ये विरुणद्धीत्येव। द्वितीयः उतशब्दः पादपूरणः । तथा “चित्तिः चेतयिता ज्ञापयिता “अपां “दमे जलानां मध्यभूते गृहे "विश्वायुः सर्वान्नो योऽग्निर्वर्तते इति शेषः । तमग्निं “धीराः मेधाविनः “संमाय संमाननं पूजनं कृत्वा । स्तुतिभिः स्तुत्वेत्यर्थः । “चक्रुः कर्माणि कुर्वन्ति । तत्र दृष्टान्तः । "सद्मेव । यथा सदनं गृहं प्रथमतः संपूज्य पश्चात्तत्र कर्माण्याचरन्ति तद्वत् ॥ वीरुत्सु । विपूर्वात् रोहतेः क्विप् । न्यङ्क्वादिषु वीरुध्' (पा. सू. ७. ३.५३. ग.) इति पठितत्वादुपसर्गस्य दीर्घो धकारश्चान्तादेशः । उक्तं च । वीरुध ओषधयो भवन्ति ' ( निरु. ६. ३ )। रोधत् ।' रुधिर् आवरणे'। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः । संमाय । माङ् माने शब्दे च'। ‘ समासेऽनञ्पूर्वे क्त्वो ल्यप् ' ( पा. सू. ७. १. ३७)। ‘न ल्यपि ' ( पा. सू. ६. ४. ६९ ) इति ईत्वप्रतिषेधः ॥ ॥ ११ ॥
२९,८२४

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/207708" इत्यस्माद् पुनः प्राप्तिः