"ऋग्वेदः सूक्तं १.६९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २९:
शु॒क्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योति॑ः ॥१
 
शु॒क्रः । शु॒शु॒क्वान् । उ॒षः । न । जा॒रः । प॒प्रा । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । न । ज्योतिः॑ ॥१
 
शुक्रः । शुशुक्वान् । उषः । न । जारः । पप्रा । समीची इति सम्ऽईची । दिवः । न । ज्योतिः ॥१
 
परि॒ प्रजा॑त॒ः क्रत्वा॑ बभूथ॒ भुवो॑ दे॒वानां॑ पि॒ता पु॒त्रः सन् ॥२
 
परि॑ । प्रऽजा॑तः । क्रत्वा॑ । ब॒भू॒थ॒ । भुवः॑ । दे॒वाना॑म् । पि॒ता । पु॒त्रः । सन् ॥२
 
परि । प्रऽजातः । क्रत्वा । बभूथ । भुवः । देवानाम् । पिता । पुत्रः । सन् ॥२
 
“शुक्रः शुभ्रवर्णोऽयमग्निः “उषो “न “जारः उषसो जरयिता सूर्य इव “शुशुक्वान् शोचयिता सर्वस्य प्रकाशयिता भवति । तथा “समीची संगते द्यावापृथिव्यौ “दिवो “न “ज्योतिः योतमानस्य सूर्यस्य ज्योतिरिव "पप्रा स्वतेजसा पूरयिता । हे अग्ने अतस्त्वं “प्रजातः प्रादुर्भूतः सन् “क्रत्वा कर्मणा यद्वा ज्ञानहेतुना प्रकाशेनोक्तप्रकारेण सर्वं जगत् “परि “बभूथ परितो व्याप्नोषि । दीव्यन्तीति देवा ऋत्विजः । तेषां “पुत्रः “सन् पुन्नाम्नो नरकात् त्रायकः सन् “पिता “भुवः पालयिता भवसि । यद्वा । देवानाम् इन्द्रादीनामेव पुत्रः सन् पुत्र इव दूतो भूत्वा पिता हविर्भिः पालयिता भवसि ॥ शुशुक्वान् । ‘ शुच दीप्तौ । लिटः क्वसुः । व्यत्ययेन कुत्वम् । पप्रा । पॄ पालनपूरणयोः' इत्यस्मात् 'आदृगमहनजनः' इति किप्रत्ययः । ‘ सुपां सुलुक् ' इति सोः डादेशः । समीची । संपूर्वादञ्चतेः ‘ ऋत्विक् ' इत्यादिना क्विन् । समः समि' ( पा. सू. ६. ३.९३ ) इति सम्यादेशः । ‘ अञ्चतेश्चेति वक्तव्यम् ' इति ङीप् । अचः' इति अकोरलोपे ' चौ ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण डीप उदात्तत्वम् ।' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । यदि तु सम्ऽईची इति पदविभागः क्रियते तर्हि उद ईत् ' ( पा. सू. ६. ४. १३९ ) इति विधीयमानमीत्वं सम उत्तरस्यापि द्रष्टव्यम् । बभूथ । बभूथा ततन्थ°' (पा. सू. ७. २. ६४ ) इति निपातनात् इडभावः ॥
पङ्क्तिः ४४:
वे॒धा अदृ॑प्तो अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒ स्वाद्मा॑ पितू॒नाम् ॥३
 
वे॒धाः । अदृ॑प्तः । अ॒ग्निः । वि॒ऽजा॒नन् । ऊधः॑ । न । गोना॑म् । स्वाद्म॑ । पि॒तू॒नाम् ॥३
 
वेधाः । अदृप्तः । अग्निः । विऽजानन् । ऊधः । न । गोनाम् । स्वाद्म । पितूनाम् ॥३
 
जने॒ न शेव॑ आ॒हूर्य॒ः सन्मध्ये॒ निष॑त्तो र॒ण्वो दु॑रो॒णे ॥४
 
जने॑ । न । शेव॑ । आ॒ऽहूर्यः॑ । सन् । मध्ये॑ । निऽस॑त्तः । र॒ण्वः । दु॒रो॒णे ॥४
 
जने । न । शेव । आऽहूर्यः । सन् । मध्ये । निऽसत्तः । रण्वः । दुरोणे ॥४
 
“वेधाः । मेधाविनामैतत् । मेधावी । यद्वा । विधाता सर्वस्य कर्ता । “अदृप्तः दर्परहितः “विजानन् कर्तव्याकर्तव्यविभागं जानन् “अग्निः "गोनां गवाम् “ऊधर्न गोसंबन्धि पयस आश्रयभूतं स्थानमिव “पितूनाम् अन्नानां “स्वाद्म स्वादयिता रसयिता । यथा गोरूधः पयःप्रदानेन सर्वाण्यन्नानि स्वादूनि करोति तद्वदग्निरपि सम्यक् पाकेन सर्वाण्यन्नानि स्वादूनि करोतीत्यर्थः । अपि चैवंभूतोऽग्निः “जने “न "शेवः जनपदे लोकसुखकरः पुरुष इव “मध्ये यज्ञेषु मध्ये “आहूर्यः आह्वातव्यः “सन् “दुरोणे यज्ञगृहे “निषत्तः निषण्णः “रण्वः रमयिता स्तुत्यो वा भवति ।। गोनाम् । ‘ गोः पादान्ते । (पा. सू. ७. १.५७ ) इत्यपादान्तेऽपि नुट् । स्वाद्म। ‘ स्वाद आस्वादने । अन्तर्भावितण्यर्थात् ‘ अन्येभ्योऽपि दृश्यन्ते' इति मनिन्। ‘सुपां सुलुक्” ' इति सोर्लुक्। पितूनाम् । नामन्यतरस्याम्' इति नाम उदात्तत्वम् । आहूर्यः। आङ्पूर्वात् ह्वयतेः ‘अचो यत्' इति यत्। 'बहुलं छन्दसि ' इति संप्रसारणम् । हलः ' इति दीर्घः । रेफोपजनश्छान्दसः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् ॥
पङ्क्तिः ५९:
पु॒त्रो न जा॒तो र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता॑रीत् ॥५
 
पु॒त्रः । न । जा॒तः । र॒ण्वः । दु॒रो॒णे । वा॒जी । न । प्री॒तः । विशः॑ । वि । ता॒री॒त् ॥५
 
पुत्रः । न । जातः । रण्वः । दुरोणे । वाजी । न । प्रीतः । विशः । वि । तारीत् ॥५
 
विशो॒ यदह्वे॒ नृभि॒ः सनी॑ळा अ॒ग्निर्दे॑व॒त्वा विश्वा॑न्यश्याः ॥६
 
विशः॑ । यत् । अह्वे॑ । नृऽभिः॑ । सऽनी॑ळाः । अ॒ग्निः । दे॒व॒ऽत्वा । विश्वा॑नि । अ॒श्याः॒ ॥६
 
विशः । यत् । अह्वे । नृऽभिः । सऽनीळाः । अग्निः । देवऽत्वा । विश्वानि । अश्याः ॥६
 
“पुत्रो “न पुत्र इव "जातः प्रादुर्भूतोऽग्निः "दुरोणे गृहे “रण्वः रमयिता भवति । “वाजी “न अश्व इव “प्रीतः हर्षयुक्तः सन् “विशः संग्रामे वर्तमानाः शत्रुभूताः प्रजाः "वि “तारीत् विशेषेण तरति अतिक्रामति । अपि च “नृभिः ऋत्विग्लक्षणैर्मनुष्यैः सहितोऽहं “सनीळाः समाननिवासस्थानाः “विशः दैवीः प्रजाः “यत् यदा “अह्वे आह्वयामि तदानीमयम् “अग्निः “विश्वानि सर्वाणि “देवत्वा देवत्वानि “अश्याः अश्नुते प्राप्नोति । स्वयमेव तत्तद्देवतारूपो भवतीत्यर्थः । तथा च मन्त्रान्तरमाम्नास्यते-- ‘ त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः' (ऋ. सं. ५. ३. १) इत्यादि ॥ अश्याः । ‘ अशू व्याप्तौ । लिङि व्यत्ययेन परस्मैपदमध्यमौ । ‘बहुलं छन्दसि ' इति विकरणस्य लुक् ।।
पङ्क्तिः ७४:
नकि॑ष्ट ए॒ता व्र॒ता मि॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ॥७
 
नकिः॑ । ते॒ । ए॒ता । व्र॒ता । मि॒न॒न्ति॒ । नृऽभ्यः॑ । यत् । ए॒भ्यः । श्रु॒ष्टिम् । च॒कर्थ॑ ॥७
 
नकिः । ते । एता । व्रता । मिनन्ति । नृऽभ्यः । यत् । एभ्यः । श्रुष्टिम् । चकर्थ ॥७
 
तत्तु ते॒ दंसो॒ यदह॑न्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां॑सि ॥८
 
तत् । तु । ते॒ । दंसः॑ । यत् । अह॑न् । स॒मा॒नैः । नृऽभिः॑ । यत् । यु॒क्तः । वि॒वेः । रपां॑सि ॥८
 
तत् । तु । ते । दंसः । यत् । अहन् । समानैः । नृऽभिः । यत् । युक्तः । विवेः । रपांसि ॥८
 
हे अग्ने “ते तव संबन्धीनि “एता “व्रता एतानि परिदृश्यमानानि दर्शपूर्णमासादीनि कर्माणि “नकिः "मिनन्ति राक्षसादयो बाधका न हिंसन्ति । “यत् यस्मात् त्वम् “एभ्यः कर्मसु वर्तमानेभ्यः "नृभ्यः यज्ञस्य नेतृभ्यो यजमानेभ्यः “श्रुष्टिम् । शु आशु अश्नुते व्याप्नोतीति श्रुष्टिर्यज्ञफलरूपं सुखम् । तत् “चकर्थ कृतवानसि । सति हि तव व्रतानां बाधके एतन्नोपपद्यते । अतोऽवगम्यते तव व्रतानां हिंसका न सन्तीति । हे अग्ने “ते त्वदीयं “तत्तु "दंसः तदेव कर्म “यत् यदि राक्षसादिः "अहन् हन्ति नाशयति तदानीं “समानैः सप्तगणरूपेण सदृशैः “नृभिः नेतृभिर्मरुद्भिः "युक्तः त्वं “रपांसि बाधकानि राक्षसादीनि “यत् यस्मात् त्वम् "विवेः गमयसि पलायनं प्रापयसि । तस्मात् तव व्रतानि न हिंसन्तीति योज्यम् ॥ मिनन्ति । ' मी हिंसायाम् । क्रैयादिकः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वस्वम् । विवेः । ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ्। वी गत्यादिषु । सिपि अदादित्वात् शपो लुकि प्राप्ते ‘ बहुलं छन्दसि' इति शपः श्लुः ॥
पङ्क्तिः ८९:
उ॒षो न जा॒रो वि॒भावो॒स्रः संज्ञा॑तरूप॒श्चिके॑तदस्मै ॥९
 
उ॒षः । न । जा॒रः । वि॒भाऽवा॑ । उ॒स्रः । सञ्ज्ञा॑तऽरूपः । चिके॑तत् । अ॒स्मै॒ ॥९
 
उषः । न । जारः । विभाऽवा । उस्रः । सञ्ज्ञातऽरूपः । चिकेतत् । अस्मै ॥९
 
त्मना॒ वह॑न्तो॒ दुरो॒ व्यृ॑ण्व॒न्नव॑न्त॒ विश्वे॒ स्व१॒॑र्दृशी॑के ॥१०
 
त्मना॑ । वह॑न्तः । दुरः॑ । वि । ऋ॒ण्व॒न् । नव॑न्त । विश्वे॑ । स्वः॑ । दृशी॑के ॥१०
 
त्मना । वहन्तः । दुरः । वि । ऋण्वन् । नवन्त । विश्वे । स्वः । दृशीके ॥१०
 
"उषो “न “जारः उषसो जरयिता आदित्य इव “विभावा विशिष्टप्रकाशयुक्तः “उस्रः निवासयिता “संज्ञातरूपः सर्वैः प्राणिभिरवगतस्वरूपः । देवतान्तरवदप्रत्यक्षो न भवतीत्यर्थः । एवंभूतोऽग्निः “अस्मै यजमानाय “चिकेतत् जानातु । अभिमतफलं ददात्वित्यर्थः । यद्वा । विभक्तिव्यत्ययः । अस्मै इदं सूक्तरूपं स्तोत्रं चिकेतत् जानातु । तथा अस्य रश्मयः "त्मना आत्मनैव स्वयमेव “वहन्तः हविर्वहनं कुर्वन्तः "दुरः यज्ञगृहद्वाराणि “व्यृण्वन् विशेषेण गच्छन्ति । व्याप्नुवन्तीत्यर्थः । तदनन्तरं “दृशीके दर्शनीये "स्वः नभसि “विश्वे सर्वे ते रश्मयः “नवन्त गच्छन्ति । नवतिर्गतिकर्मा । देवान् प्राप्नुवन्तीत्यर्थः ॥ उस्रः । वस निवासे । ‘ स्फायितञ्चि° ' इत्यादिना रक् । यजादित्वात् संप्रसारणम् । चिकेतत् । ‘कित ज्ञाने'। जौहोत्यादिकः । लेटि अडागमः । ‘बहुलं छन्दसीति वक्तव्यम्' (का. ७. ३. ८७. १ ) इति वचनात् ' नाभ्यस्तस्याचि पिति° ' इति लघूपधगुणप्रतिषेधाभावः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ऋण्वन्। इवि रिवि रवि धवि गत्यर्थाः' । इदित्त्वात् नुम् । छान्दसो लङ् । व्यत्ययेन रेफस्य संप्रसारणम् । यद्वा । ‘ ऋणु गतौ । तनोत्यादिः ॥ ॥ १३ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६९" इत्यस्माद् प्रतिप्राप्तम्