"ऋग्वेदः सूक्तं १.८९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
आ । नः॒ । भ॒द्राः । क्रत॑वः । य॒न्तु॒ । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रिऽइतासः । उ॒त्ऽभिदः॑ ।
 
दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्र॑ऽआयुवः । र॒क्षि॒तारः॑ । दि॒वेऽदि॑वे ॥१
 
आ । नः । भद्राः । क्रतवः । यन्तु । विश्वतः । अदब्धासः । अपरिऽइतासः । उत्ऽभिदः ।
 
देवाः । नः । यथा । सदम् । इत् । वृधे । असन् । अप्रऽआयुवः । रक्षितारः । दिवेऽदिवे ॥१
 
“नः अस्मान् “क्रतवः अग्निष्टोमादयो महायज्ञाः “विश्वतः सर्वस्मादपि दिग्भागात् "आ “यन्तु आगच्छन्तु । कीदृशाः क्रतवः । “भद्राः समीचीनफलसाधनत्वेन कल्याणाः भजनीया वा “अदब्धासः असुरैरहिंसिताः “अपरीतासः शत्रुभिरपरिगताः अप्रतिरुद्धा इत्यर्थः । “उद्भिदः शत्रूणामुद्भेतारः । ईदृशाः क्रतवः अस्मांस्तथा आगच्छन्तु । "अप्रायुवः अप्रगच्छन्तः स्वकीयं रक्षितव्यमपरित्यजन्तः अत एव “दिवेदिवे प्रतिदिवसं “रक्षितारः रक्षां कुर्वन्तः एवंगुणविशिष्टाः सर्वे “देवाः “नः अस्माकं "सदमित् सदैव “वृधे वर्धनाय "यथा “असन् भवेयुस्तथा आगच्छन्तु इति संबन्धः ॥ अदब्धासः । ‘ दम्भु दम्भे'। दम्भो हिंसा । निष्ठायां ‘ यस्य विभाषा' इति इट्प्रतिषेधः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपरीतासः । ‘ इण् गतौ । पूर्ववत् कर्मणि निष्ठा । उभयत्र ‘ आज्जसेरसुक् । वृधे । ‘ वृध वृद्धौ '। संपदादिलक्षणो भावे क्विप् । सावेकाचः' इति विभक्तेरुदात्तत्वम् । असन् । ‘ अस भुवि '। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । तस्य अङित्त्वात् ‘ असोरल्लोपः' इति अकारलोपाभावः । अप्रायुवः । ‘ इण् गतौ । अस्मात् प्रपूर्वात् छन्दसीणः' इति उण्प्रत्ययः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । जसि जसादिषु च्छन्दसि वावचनम् ' इति गुणस्य विकल्पितत्वादभावे तन्वादित्वात् उवङ् ॥
पङ्क्तिः ५६:
दे॒वाना॑म् । भ॒द्रा । सु॒ऽम॒तिः । ऋ॒जु॒ऽय॒ताम् । दे॒वाना॑म् । रा॒तिः । अ॒भि । नः॒ । नि । व॒र्त॒ता॒म् ।
 
दे॒वाना॑म् । स॒ख्यम् । उप॑ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः॑ । प्र । ति॒र॒न्तु॒ । जी॒वसे॑ ॥२
 
देवानाम् । भद्रा । सुऽमतिः । ऋजुऽयताम् । देवानाम् । रातिः । अभि । नः । नि । वर्तताम् ।
 
देवानाम् । सख्यम् । उप । सेदिम । वयम् । देवाः । नः । आयुः । प्र । तिरन्तु । जीवसे ॥२
 
“भद्रा सुखयित्री भजनीया वा “देवानां “सुमतिः शोभना मतिरनुग्रहात्मिका बुद्धिरस्माकमस्त्विति शेषः । कीदृशानाम्। “ऋजूयताम् ऋजुमार्जवयुक्तं सम्यगनुष्ठातारं यजमानमात्मन इच्छताम्। तथा “देवानां “रातिः दानं “नः अस्मानाभिमुख्येन नितरां “वर्तताम् । तदभिमतफलप्रदानमप्यस्माकं भवत्वित्यर्थः। “वयं च तेषां “देवानां “सख्यं सखित्वं सख्युः कर्म वा “उप “सेदिम प्राप्नुवाम। तादृशाः “देवाः “नः अस्माकम् “आयुः “जीवसे जीवितुं “प्र “तिरन्तु वर्धयन्तु ॥ भद्रा । ‘ भदि कल्याणे सुखे च' । 'ऋजेन्द्राग्र' (उ. सू. २. १८६ ) इत्यादौ रन्प्रत्ययान्तो निपातितः । ऋजूयताम् । ऋजुमात्मन इच्छति ऋजूयति । ‘ सुप आत्मनः क्यच् । तदन्तात् लटः शतृ। ‘शतुरनुमः० इति अजादिविभक्तेरुदात्तत्वम् । रातिः । ‘रा दाने'। ‘ मन्त्रे वृष° ' इति क्तिन उदात्तत्वम् । सख्यम् । 'सख्युर्यः' इति भावे कर्मणि वा यप्रत्ययः । सेदिम । ‘षद्लृ विशरणगत्यवसादनेषु । ‘ छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लिट् । सत्वस्यानैमित्तिकत्वेन लिटि परत आदेशादित्वाभावात् “ अत एकहल्मध्ये ' इति एत्वाभ्यासलोपौ । ‘ अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् । प्र तिरन्तु । प्रपूर्वस्तिरतिर्वर्धनार्थः। तथा च यास्को व्यचख्यौ-’ देवानां सख्यमुपसीदेम वयं देवा न आयुः प्रवर्धयन्तु चिरं जीवनाय' (निरु. १२. ३९ ) इति ।
पङ्क्तिः ७१:
तान् । पूर्व॑या । नि॒ऽविदा॑ । हू॒म॒हे॒ । व॒यम् । भग॑म् । मि॒त्रम् । अदि॑तिम् । दक्ष॑म् । अ॒स्रिध॑म् ।
 
अ॒र्य॒मण॑म् । वरु॑णम् । सोम॑म् । अ॒श्विना॑ । सर॑स्वती । नः॒ । सु॒ऽभगा॑ । मयः॑ । क॒र॒त् ॥३
 
तान् । पूर्वया । निऽविदा । हूमहे । वयम् । भगम् । मित्रम् । अदितिम् । दक्षम् । अस्रिधम् ।
 
अर्यमणम् । वरुणम् । सोमम् । अश्विना । सरस्वती । नः । सुऽभगा । मयः । करत् ॥३
 
“तान् विश्वान् देवान् “पूर्वया पूर्वकालीनया नित्यया “निविदा वेदात्मिकया वाचा । निविदिति वाङ्नाम । यद्वा निविदा ' विश्वे देवाः सोमस्य मत्सन् ' इत्यादिकया वैश्वदेव्या निविदा “वयं “हूमहे आह्वयामः । देवानिति यत्सामान्येनोक्तं तदेव विव्रियते । “भगं भजनीयं द्वादशानामादित्यानामन्यतमं “मित्रं प्रमीतेस्त्रायकमहरभिमानिनं देवम् । ' मैत्रं वा अहः' (तै. ब्रा. १. ७. १०. १) इति श्रुतेः । "अदितिम् अखण्डनीयामदीनां वा देवमातरं “दक्षं सर्वस्य जगतो निर्माणे समर्थं प्रजापतिम् । यद्वा । प्राणरूपेण सर्वेषु प्राणिषु व्याप्य वर्तमानं हिरण्यगर्भम् । ‘प्राणो वै दक्षः' ( तै. सं. २. ५. २. ४) इति श्रुतेः । “अस्रिधं शोषणरहितं सर्वदैकरूपेण वर्तमानं मरुद्गणम् । “अर्यमणम् । अरीन् मन्देहादीनसुरान् यच्छति नियच्छतीति अर्यमा सूर्यः। ‘असौ वा आदित्योऽर्यमा'(तै. सं. २. ३.४. १) इति श्रुतेः । तम्। “वरुणम्। वृणोति पापकृतः स्वकीयैः पाशैरावृणोतीति रात्र्यभिमानिदेवो वरुणः । श्रूयते च- वारुणी रात्रिः ' (तै. ब्रा. १. ७. १०.१) इति । “सोमं द्वेधा' आत्मानं विभज्य पृथिव्यां लतारूपेण दिवि च चन्द्रात्मना देवतारूपेण वर्तमानम् । “अश्विना अश्ववन्तौ । यद्वा सर्वं व्याप्नुवन्तौ । तथा च याकः- अश्विनौ यद्व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्योऽश्वैरश्विनावित्यौर्णवाभस्तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः (निरु. १२. १ ) इति । एवंभूतान् सर्वान् देवान् अस्मद्रक्षणार्थमाह्वयामः इति पूर्वत्र संबन्धः । अस्माभिराहूता “सुभगा शोभनधनोपेता “सरस्वती "नः अस्मभ्यं “मयः सुखं “करत् करोतु ॥ हूमहे । ह्वेञो लटि ‘ह्वः' इत्यनुवृत्तौ ‘बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वे ‘हलः ' इति दीर्घत्वम् । बहुलं छन्दसि ' इति शपो लुक् । अस्रिधम् । ‘ स्त्रिधु शोषणे'। संपदादिलक्षणोभावे क्विप् । बहुव्रीहौ ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । मयस्करत् । करोतेर्लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । अतः कृकमि'' इति विसर्जनीयस्य' सत्वम् ॥
पङ्क्तिः ८६:
तत् । नः॒ । वातः॑ । म॒यः॒ऽभु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः ।
 
तत् । ग्रावा॑णः । सो॒म॒ऽसुतः॑ । म॒यः॒ऽभुवः॑ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥४
 
तत् । नः । वातः । मयःऽभु । वातु । भेषजम् । तत् । माता । पृथिवी । तत् । पिता । द्यौः ।
 
तत् । ग्रावाणः । सोमऽसुतः । मयःऽभुवः । तत् । अश्विना । शृणुतम् । धिष्ण्या । युवम् ॥४
 
“वातः वायुः “तत् “भेषजम् औषधं “नः अस्मान् “वातु प्रापयतु । यद्भेषजं “मयोभु मयसः सुखस्य भावयितृ । “माता सर्वेषां जननी “पृथिवी भूमिरपि “तत् भेषजम् अस्मान् प्रापयतु । “पिता वृष्टिप्रदानेन सर्वेषां रक्षिता “द्यौः द्युलोकोऽपि “तत् भेषजम् अस्मान् प्रापयतु । “सोमसुतः सोमाभिषवं कृतवन्तः “मयोभुवः मयसः यागफलभूतस्य सुखस्य भावयितारः “ग्रावाणः अभिषवसाधनाः पाषाणाश्च “तत् भेषजम् अस्मान प्रापयन्तु । हे “धिष्ण्या । धिषणा बुद्धिः । तदर्हावश्विनौ “युवं युवां तत् भेषजं “शृणुतं आकर्णयतम् । यद्भेषजमस्माभिर्वाय्वादिषु प्रार्थ्यते तद्भेषजं देवानां भिषजौ युवामस्माकमनुकूलं यथा भवति तथा जानीतमित्यर्थः ॥ मयोभु । ‘ ह्रस्वो नपुंसके प्रातिपदिकस्य ' ( पा. सू. १. २. ४७ ) इति ह्रस्वत्वम् । वातु ।' वा गतिगन्धनयोः । अन्तर्भावितण्यर्थात् प्रार्थनायां लोट् । सोमसुतः । ‘ सोमे सुञः ' ( पा. सू. ३. २. ९० ) इति भूते क्विप् । धिष्ण्या । धिषणाशब्दात् अह्वार्थे ' छन्दसि च' इति यः । वर्णलोपश्छान्दसः । ‘ सुपां सुलुक्' इति आकारः ॥
पङ्क्तिः १०१:
तम् । ईशा॑नम् । जग॑तः । त॒स्थुषः॑ । पति॑म् । धि॒य॒म्ऽजि॒न्वम् । अव॑से । हू॒म॒हे॒ । व॒यम् ।
 
पू॒षा । नः॒ । यथा॑ । वेद॑साम् । अस॑त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद॑ब्धः । स्व॒स्तये॑ ॥५
 
तम् । ईशानम् । जगतः । तस्थुषः । पतिम् । धियम्ऽजिन्वम् । अवसे । हूमहे । वयम् ।
 
पूषा । नः । यथा । वेदसाम् । असत् । वृधे । रक्षिता । पायुः । अदब्धः । स्वस्तये ॥५
 
पूर्वार्धेनेन्द्रः स्तूयते अपरार्धेन पूषा । “ईशानम् ऐश्वर्यवन्तं अत एव “जगतः जङ्गमस्य प्राणिजातस्य “तस्थुषः स्थावरस्य च “पतिं स्वामिनं “धियंजिन्वं धीभिः कर्मभिः प्रीणयितव्यं एवंभूतं "तम् इन्द्रम् “अवसे रक्षणाय वयं "हूमहे आह्वयामः । “पूषा "नः अस्माकं वेदसां धनानां “वृधे वर्धनाय "रक्षिता "यथा असत् येन प्रकारेण भवति तेनैव प्रकारेण “अदब्धः केनाप्यहिंसितः पूषा “स्वस्तये अस्माकमविनाशाय "पायुः रक्षिता भवतु ॥ तस्थुषः । तिष्ठतेर्लिटः क्वसुः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । ‘शासिवसिघसीनां च ' इति षत्वम् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । धियंजिन्वम् । जिविः प्रीणनार्थः । ‘ कृत्यल्युटो बहलम् ' इति बहुलवचनात् खच् । ‘इच एकाचोऽम् प्रत्ययवच्च ' ( पा. सू. ६. ३. ६८ ) इति अमागमः । असत् । अस भुवि '। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । पायुः । ‘ पा रक्षणे '। ‘कृवापाजि' इति उण् । स्वस्तये । सुपूर्वात् अस्तेः भावे क्तिन् । 'छन्दस्युभयथा' इति तस्य सार्वधातुकत्वात् “ अस्तेर्भूः' (पा. सू. २. ४. ५२) इति भूभावाभावः' इति वृत्तावुक्तम्॥१५॥
पङ्क्तिः ११६:
स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः ।
 
स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥६
 
स्वस्ति । नः । इन्द्रः । वृद्धऽश्रवाः । स्वस्ति । नः । पूषा । विश्वऽवेदाः ।
 
स्वस्ति । नः । तार्क्ष्यः । अरिष्टऽनेमिः । स्वस्ति । नः । बृहस्पतिः । दधातु ॥६
 
"वृद्धश्रवाः वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य तादृशः “इन्द्रः "नः अस्माकम् । ‘स्वस्तीत्स्यविनाशनाम ' ( निरु. ३. २१)। “स्वस्ति अविनाशं “दधातु विदधातु करोतु । “विश्ववेदाः। विश्वानि वेत्तीति विश्ववेदाः । यद्वा विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य । तादृशः “पूषा पोषको देवः “नः अस्माकं “स्वस्ति विदधातु । “अरिष्टनेमिः । नेमिः इति आयुधनाम । अरिष्टोऽहिंसितो नेमिर्यस्य । यद्वा रथचक्रस्य धारा नेमिः । यत्संबन्धिनो रथस्य नेमिर्न हिंस्यते सोऽरिष्टनेमिः। एवंभूतः “तार्क्ष्यः तृक्षस्य पुत्रो गरुत्मान् नः अस्माकं "स्वस्ति अविनाशं विदधातु । तथा “बृहस्पतिः बृहतां देवानां पालयिता “नः अस्माकं “स्वस्ति अविनाशं विदधातु ॥ वृद्धश्रवाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विश्ववेदाः । ‘ विद ज्ञाने', ‘ विद्लृ लाभे'। आभ्यामसुन्प्रत्ययान्तो वेदशब्दः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । तार्क्ष्यः । तृक्षस्यापत्यम् । गर्गादिभ्यो यञ्' (पा. सू. ४. १. १०५ )। ञित्वादाद्युदात्तत्वम् । अरिष्टनेमिः । न रिष्टा अरिष्टा । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अरिष्टा नेमिर्यस्य स तथोक्तः । बृहस्पतिः । ‘ तद्बृहतोः करपत्योः०' (पा. सू. ६. १. १५७. ग. ) इति सुट्तलोपौ ।' उभे वनस्पत्यादिषु । इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
पङ्क्तिः १३१:
पृष॑त्ऽअश्वाः । म॒रुतः॑ । पृश्नि॑ऽमातरः । शु॒भ॒म्ऽयावा॑नः । वि॒दथे॑षु । जग्म॑यः ।
 
अ॒ग्नि॒ऽजि॒ह्वाः । मन॑वः । सूर॑ऽचक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न् । इ॒ह ॥७
 
पृषत्ऽअश्वाः । मरुतः । पृश्निऽमातरः । शुभम्ऽयावानः । विदथेषु । जग्मयः ।
 
अग्निऽजिह्वाः । मनवः । सूरऽचक्षसः । विश्वे । नः । देवाः । अवसा । आ । गमन् । इह ॥७
 
“पृषदश्वः । पृषद्भिः श्वेतबिन्दुभिर्युक्ता अश्वा येषां ते तथोक्ताः । “पृश्निमातरः । पृश्निर्नानावर्णा गौर्माता येषाम्। “शुभंयावानः । शुभं शोभनं यान्ति गच्छन्तीति शुभंयावानः। शोभनगतय इत्यर्थः । “विदथेषु यज्ञेषु “जग्मयः गन्तारः “अग्निजिह्वाः अग्नेर्जिह्वायां वर्तमानाः । सर्वे हि देवा हविःस्वीकरणायाग्नेर्जिह्वायां वर्तन्ते । तात्स्थ्यात् ताच्छब्द्यम् । “मनवः सर्वस्य मन्तारः “सूरचक्षसः सूर्यप्रकाश इव चक्षः प्रकाशो येषां ते एवंभूताः “मरुतः मरुत्संज्ञकाः विश्वे देवाः सर्वे देवाः “नः अस्मान् “इह अस्मिन्काले “अवसा रक्षणेन सह “आ “गमन् आगच्छन्तु ॥ शुभंयावानः । ‘ या प्रापणे '। ‘ आतो मनिन्' इति वनिप् । तत्पुरुषे कृति बहुलम्' इति बहुलवचनात् द्वितीयाया आप अलुक् । गमन् । गमेः प्रार्थनायां लेटि अडागमः । इतश्च लोपः° ' इति इकारलोपः । ‘ बहुलं छन्दसि ' इति शपो लुक् ॥
पङ्क्तिः १४८:
भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ ।
 
स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥८
 
भद्रम् । कर्णेभिः । शृणुयाम । देवाः । भद्रम् । पश्येम । अक्षऽभिः । यजत्राः ।
 
स्थिरैः । अङ्गैः । तुस्तुऽवांसः । तनूभिः । वि । अशेम । देवऽहितम् । यत् । आयुः ॥८
 
हे “देवाः दानादिगुणयुक्ताः सर्वे देवाः “कर्णेभिः अस्मदीयैः श्रोत्रैः "भद्रं भजनीयं कल्याणं वचनं “शृणुयाम युष्मत्प्रसादाच्छ्रोतुं समर्थाः स्याम । अस्माकं बाधिर्यं कदाचिदपि मा भूत् । हे “यजत्राः योगेषु चरुपुरोडाशादिभिर्यष्टव्या देवाः "अक्षभिः अक्षिभिरात्मीयैश्चक्षुर्भिः भद्रं शोभनं “पश्येम द्रष्टुं समर्थाः स्याम । अस्माकं दृष्टिप्रतिघातोऽपि मा भूत् ( ' इत्यस्यानन्तरं ‘ श्रोत्रचक्षुषोः भद्राभद्रविषयश्रवणदर्शने प्रतिनियते । अतो नित्यं भद्रविषयश्रवणदर्शने स्यातामिति प्रार्थ्यते ' इत्यधिकम् )। “स्थिरैः दृढैः “अङ्गैः हस्तपादादिभिरवयवैः “तनूभिः शरीरैश्च युक्ता वयं “तुष्टुवांसः युष्मान् स्तुवन्तः “यत् "आयुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा “देवहितं देवेन प्रजापतिना स्थापितं तत् “व्यशेम प्राप्नुयाम ॥ कर्णेभिः ‘ बहुलं छन्दसि ' इति भिसः ऐसभावः । अक्षभिः । छन्दस्यपि दृश्यते ' इति अनङ् स च उदात्तः । यजत्राः । ‘ अमिनक्षि° ' इत्यादिना यजे: अत्रन्प्रत्ययः । तुष्टुवांसः । ‘ ष्टुञ् स्तुतौ । लिटः क्वसुः । ‘ शर्पूर्वाः खयः' इति तकारः शिष्यते । अशेम । “अशू व्याप्तौ ' । लिङ्याशिष्यङ्'। यदि तु तत्र परिगणनमन्यव्यावृत्त्यर्थं तदानीं लिङि व्यत्ययेन शप् । देवहितम् ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
पङ्क्तिः १६३:
श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् ।
 
पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥९
 
शतम् । इत् । नु । शरदः । अन्ति । देवाः । यत्र । नः । चक्र । जरसम् । तनूनाम् ।
 
पुत्रासः । यत्र । पितरः । भवन्ति । मा । नः । मध्या । रिरिषत । आयुः । गन्तोः ॥९
 
हे "देवाः "अन्ति अन्तिके मनुष्याणां समीपे आयुष्ट्वेन भवद्भिः कल्पिताः “शरदः संवत्सराः “शतम् "इत् "नु शतं खलु । यस्मात् सृष्टिकाले मनुष्याणां शतं संवत्सरा आयुरिति युष्माभिः परिकल्पितं तस्मात् "नः अस्मान् "आयुर्गन्तोः क्लृप्तस्यायुषो गमनात्पूर्वं "मध्या मध्ये "मा “रीरिषत मा हिंसिष्ट । कीदृशान् । "नः अस्माकं तनूनां शरीराणां “जरसं जरां "यत्र यस्यामवस्थायां “चक्र कृतवन्तो यूयं "यत्र च "पुत्रासः पुत्राः "पितरः अस्माकं रक्षितारः ”भवन्ति(यद्वा । यत्र यस्यामवस्थायां पुत्रासः अस्माकं पुत्राः स्वपुत्राणां पितरो भवन्ति । अस्माकं यदा पौत्रा भवन्ति')। ईदृग्दशापन्नानित्यर्थः ॥ अन्ति । अन्तिकशब्दस्य - कादिलोपो बहुलमिति वक्तव्यम्' इति कलोपः। यत्र । ‘ ऋचि तुनुघमक्षुतङ्कुत्र' इति संहितायां दीर्घः । चक्र। लिटि मध्यमबहुवचनस्य कित्त्वात् गुणाभावे यणादेशः । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम्। जरसम्। जराया जरसन्यतरस्याम्' (पा. सू. ७. २. १०१ ) इति जरसादेशः । मध्या । 'सुपां सुलुक्' इति सप्तम्या डादेशः । रीरिषत ।' रिष रुष हिंसायाम् । अस्मात् ण्यन्तात् माङि लुङि मध्यमबहुवचने च्लेः चङि णिलोपोपधाह्रस्वद्विर्वचनहलादिशेषसन्वद्भावेत्वदीर्घाः(पाठभेदः --णिलोपोपधाहस्वचर्त्वद्विवचनहलादिशेषसन्वद्भावेत्वदीर्घाः )। छान्दसः पदकालीनो ह्रस्वः । गन्तोः । ‘ भावलक्षणे स्थेण्° ' ( पा. सू. ३. ४. १६ ) इति गमेः तोसुन्प्रत्ययः ।।
पङ्क्तिः १८०:
अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः ।
 
विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑ऽत्वम् ॥१०
 
अदितिः । द्यौः । अदितिः । अन्तरिक्षम् । अदितिः । माता । सः । पिता । सः । पुत्रः ।
 
विश्वे । देवाः । अदितिः । पञ्च । जनाः । अदितिः । जातम् । अदितिः । जनिऽत्वम् ॥१०
 
“अदितिः अदीना अखण्डनीया वा पृथिवी देवमाता वा सैव "द्यौः द्योतनशीलो नाकः । सैव “अन्तरिक्षम् अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योम । सैव "माता निर्मात्री जगतो जननी। सैव "पिता उत्पादकः । ततश्च "सः "पुत्रः मातापित्रौर्जातः पुत्रोऽपि सैव । "विश्वे "देवाः सर्वेऽपि देवाः “अदितिः एव। “पञ्च "जनाः निषादपञ्चमाश्चत्वारो वर्णाः । यद्वा गन्धर्वाः पितरो देवा असुरा रक्षांसि। तदुक्तं यास्केन- गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवः । ( निरु. ३. ८) इति । ब्राह्मणे त्वेवमाम्नातं-’ सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां च ' ( ऐ. ब्रा. ३. ३१ ) इति । तत्र गन्धर्वाप्सरसामैक्यात्पञ्चजनत्वम् । एवंविधाः पञ्च जना अपि "अदितिः एव ।"जातं जननं प्रजानामुत्पत्तिः सा अपि "अदितिः एव । "जनित्वं जन्माधिकरणं तदपि "अदितिः एव । एवं सकलजगदात्मनादितिः स्तूयते । उक्तं यास्केन-' इत्यदितेर्विभूतिमाचष्टे ' ( निरु. ४. २३) इति ॥ अदितिः । दो अवखण्डने ' । अस्मात् कर्मणि क्तिनि ' द्यतिस्यतिमास्थाम् ' ( पा. सू. ७. ४. ४० ) इति इत्वम् । यास्कपक्षे तु • दीङ् क्षये ' इत्यस्मात् क्तिनि व्यत्ययेन ह्रस्वत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । स पिता । निर्दिश्यमानप्रतिनिर्दिश्यमानयोरेकतामापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गतामुपाददते इत्युद्देश्यलिङ्गतया पुंलिङ्गत्वम् । जनित्वम् । जनेरौणादिकः त्वन्प्रत्ययः ॥ ॥ १६ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८९" इत्यस्माद् प्रतिप्राप्तम्