"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
च॒न्द्रमा॑ अ॒प्स्व१॒॑न्तरा सु॑प॒र्णो धा॑वते दि॒वि ।
 
न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१
 
च॒न्द्रमाः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒ऽप॒र्णः । धा॒व॒ते॒ । दि॒वि ।
 
न । वः॒ । हि॒र॒ण्य॒ऽने॒म॒यः॒ । प॒दम् । वि॒न्द॒न्ति॒ । वि॒ऽद्यु॒तः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१
 
चन्द्रमाः । अप्ऽसु । अन्तः । आ । सुऽपर्णः । धावते । दिवि ।।
Line ६५ ⟶ ६९:
अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति॑म् ।
 
तु॒ञ्जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥२
 
अर्थ॑म् । इत् । वै । ऊं॒ इति॑ । अ॒र्थिनः॑ । आ । जा॒या । यु॒व॒ते॒ । पति॑म् ।
 
तु॒ञ्जाते॒ इति॑ । वृष्ण्य॑म् । पयः॑ । प॒रि॒ऽदाय॑ । रस॑म् । दु॒हे॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥२
 
अर्थम् । इत् । वै । ऊँ इति । अर्थिनः । आ । जाया । युवते । पतिम् ।।
Line ७६ ⟶ ८४:
मो षु दे॑वा अ॒दः स्व१॒॑रव॑ पादि दि॒वस्परि॑ ।
 
मा सो॒म्यस्य॑ श॒म्भुव॒ः शूने॑ भूम॒ कदा॑ च॒न वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥३
 
मो इति॑ । सु । दे॒वाः॒ । अ॒दः । स्वः॑ । अव॑ । पा॒दि॒ । दि॒वः । परि॑ ।
 
मा । सो॒म्यस्य॑ । श॒म्ऽभुवः॑ । शूने॑ । भू॒म॒ । कदा॑ । च॒न । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥३
 
मो इति । सु । देवाः । अदः । स्वः । अव । पादि । दिवः । परि ।
Line ८७ ⟶ ९९:
य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो॑चति ।
 
क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥४
 
य॒ज्ञम् । पृ॒च्छा॒मि॒ । अ॒व॒मम् । सः । तत् । दू॒तः । वि । वो॒च॒ति॒ ।
 
क्व॑ । ऋ॒तम् । पू॒र्व्यम् । ग॒तम् । कः । तत् । बि॒भ॒र्ति॒ । नूत॑नः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥४
 
यज्ञम् । पृच्छामि । अवमम् । सः । तत् । दूतः । वि । वोचति ।।
Line ९८ ⟶ ११४:
अ॒मी ये दे॑वा॒ः स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः ।
 
कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥५
 
अ॒मी इति॑ । ये । दे॒वाः॒ । स्थन॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ।
 
कत् । वः॒ । ऋ॒तम् । कत् । अनृ॑तम् । क्व॑ । प्र॒त्ना । वः॒ । आऽहु॑तिः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥५
 
अमी इति । ये । देवाः । स्थन । त्रिषु । आ । रोचने । दिवः ।।
Line १०९ ⟶ १२९:
कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् ।
 
कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥६
 
कत् । वः॒ । ऋ॒तस्य॑ । ध॒र्ण॒सि । कत् । वरु॑णस्य । चक्ष॑णम् ।
 
कत् । अ॒र्य॒म्णः । म॒हः । प॒था । अति॑ । क्रा॒मे॒म॒ । दुः॒ऽध्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥६
 
कत् । वः । ऋतस्य । धर्णसि । कत् । वरुणस्य । चक्षणम् ।
Line १२० ⟶ १४४:
अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् ।
 
तं मा॑ व्यन्त्या॒ध्यो॒३॒॑ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥७
 
अ॒हम् । सः । अ॒स्मि॒ । यः । पु॒रा । सु॒ते । वदा॑मि । कानि॑ । चि॒त् ।
 
तम् । मा॒ । व्य॒न्ति॒ । आ॒ऽध्यः॑ । वृकः॑ । न । तृ॒ष्णऽज॑म् । मृ॒गम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥७
 
अहम् । सः । अस्मि । यः । पुरा । सुते । वदामि । कानि । चित् ।
Line १३१ ⟶ १५९:
सं मा॑ तपन्त्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।
 
मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥८
 
सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः ।
 
मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥८
 
सम् । मा । तपन्ति । अभितः । सपत्नीःऽइव । पर्शवः ।
Line १३८ ⟶ १७०:
 
ऐन्द्र्येषा । हे इन्द्र "पर्शवः पार्श्वास्थीनि अत्र सामर्थ्यात् पर्शुस्थानीयाः कूपभित्तयः "मा माम् "अभितः सर्वतः "सं "तपन्ति सम्यक् पीडयन्ति। तत्र दृष्टान्तः । "सपत्नीरिव । समानः एकः पतिर्यासां ताः सपत्न्यो यथैकं पतिमभितः पीडयन्ति । परस्परं वा पीड्यन्ते। हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा इन्द्र "ते तव "स्तोतारं माम् "आध्यः असंपद्यमानैर्यागदानादिभिरुत्पादिताः मानस्यः पीडाः “व्यदन्ति विविधं भक्षयन्ति । तत्र दृष्टान्तः । "मूषो "न यथा मूषिकाः "शिश्ना शिश्नानि कुविन्देन वायितानि अन्नरसेन आलिप्तानि सूत्राणि भक्षयन्ति । यद्वा । शिश्नशब्देन प्रजननमेवोच्यते । तच्चोपचारात् पुच्छे वर्तते । यथा स्वकीयानि पुच्छानि घृततैलादिभाण्डे प्रक्षिप्य ऊर्ध्वमुत्कृत्य व्यदन्ति लिहन्तीत्यर्थः । एवं माम् आधयो भक्षयन्ति । न चैतत् हे इन्द्र तव स्तोतुर्न्याय्यम् । तस्मात् कूपात् मामुत्तारय । अन्यत् समानम् । अत्र निरुक्तं- संतपन्ति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदन्ति । स्वाङ्गाभिधानं वा स्यात् । शिश्नानि व्यदन्तीति' (निरु. ४. ६ ) इति ॥ सपत्नीः । ‘ नित्यं सपत्न्यादिषु' ( पा. सू. ४. १. ३५ ) इति पतिशब्दस्य नकारान्तादेशः । ङीप् ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । मूषः । ‘ मुष स्तेये '। क्विपि छान्दसो दीर्घः । तथा च यास्कः-'मूषो मूषिका इत्यर्थः । मूषिकाः पुनर्मुष्णातेर्मूषोऽप्येतस्मादेव' (निरु. ४, ५ ) इति । शिश्ना । ष्णा शौचे '।' घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्' इति कः । वर्णव्यापत्त्या सकारस्य शकारः । ‘ कृञादीनां के द्वे भवत इति वक्तव्यम्' ( का. ६. १. १२. १) इति द्विवचनम् ।' बहुलं छन्दसि ' इत्यभ्यासस्य इत्वम् ॥
अमी ये सप्त रश्मयस्तत्रा में नाभिरार्तता । त्रितस्तद्वेदाभ्यः स जामित्वार्य रेभति वित्तं में अस्य रोदसी ॥ ९ ॥
 
 
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता ।
 
त्रि॒तस्तद्वे॑दा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥९
 
अ॒मी इति॑ । ये । स॒प्त । र॒श्मयः॑ । तत्र॑ । मे॒ । नाभिः॑ । आऽत॑ता ।
 
त्रि॒तः । तत् । वे॒द॒ । आ॒प्त्यः । सः । जा॒मि॒ऽत्वाय॑ । रे॒भ॒ति॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥९
 
अमी इति । ये। सप्त । रश्मयः । तत्र । मे । नाभिः । आऽतता ।
Line १५४ ⟶ १८८:
अ॒मी ये पञ्चो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः ।
 
दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१०
 
अ॒मी इति॑ । ये । पञ्च॑ । उ॒क्षणः॑ । मध्ये॑ । त॒स्थुः । म॒हः । दि॒वः ।
 
दे॒व॒ऽत्रा । नु । प्र॒ऽवाच्य॑म् । स॒ध्री॒ची॒नाः । नि । व॒वृ॒तुः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१०
 
अमी इति । ये । पञ्च । उक्षणः । मध्ये । तस्थुः । महः । दिवः ।
Line १६५ ⟶ २०३:
सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः ।
 
ते से॑धन्ति प॒थो वृकं॒ तर॑न्तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥११
 
सु॒ऽप॒र्णाः । ए॒ते । आ॒स॒ते॒ । मध्ये॑ । आ॒ऽरोध॑ने । दि॒वः ।
 
ते । से॒ध॒न्ति॒ । प॒थः । वृक॑म् । तर॑न्तम् । य॒ह्वतीः॑ । अ॒पः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥११
 
सुऽपर्णाः । एते । आसते । मध्ये । आऽरोधने । दिवः ।
Line १७६ ⟶ २१८:
नव्यं॒ तदु॒क्थ्यं॑ हि॒तं देवा॑सः सुप्रवाच॒नम् ।
 
ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१२
 
नव्य॑म् । तत् । उ॒क्थ्य॑म् । हि॒तम् । देवा॑सः । सु॒ऽप्र॒वा॒च॒नम् ।
 
ऋ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । स॒त्यम् । त॒ता॒न॒ । सूर्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१२
 
नव्यम् । तत् । उक्थ्यम् । हितम् । देवासः । सुऽप्रवाचनम् ।
Line १८८ ⟶ २३४:
अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्य॑म् ।
 
स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१३
 
अग्ने॑ । तव॑ । त्यत् । उ॒क्थ्य॑म् । दे॒वेषु॑ । अ॒स्ति॒ । आप्य॑म् ।
 
सः । नः॒ । स॒त्तः । म॒नु॒ष्वत् । आ । दे॒वान् । य॒क्षि॒ । वि॒दुःऽत॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१३
 
अग्ने । तव । त्यत् । उक्थ्यम् । देवेषु । अस्ति । आप्यम् ।
Line १९९ ⟶ २४९:
स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः ।
 
अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१४
 
स॒त्तः । होता॑ । म॒नु॒ष्वत् । आ । दे॒वान् । अच्छ॑ । वि॒दुःऽत॑रः ।
 
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१४
 
सत्तः । होता । मनुष्वत् । आ । देवान् । अच्छ । विदुःऽतरः ।
Line २१० ⟶ २६४:
ब्रह्मा॑ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी॑महे ।
 
व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१५
 
ब्रह्मा॑ । कृ॒णो॒ति॒ । वरु॑णः । गा॒तु॒ऽविद॑म् । तम् । ई॒म॒हे॒ ।
 
वि । ऊ॒र्णो॒ति॒ । हृ॒दा । म॒तिम् । नव्यः॑ । जा॒य॒ता॒म् । ऋ॒तम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१५
 
ब्रह्म । कृणोति । वरुणः । गातुऽविदम् । तम् । ईमहे ।
Line २२२ ⟶ २८०:
अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः ।
 
न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१६
 
अ॒सौ । यः । पन्थाः॑ । आ॒दि॒त्यः । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तः ।
 
न । सः । दे॒वाः॒ । अ॒ति॒ऽक्रमे॑ । तम् । म॒र्ता॒सः॒ । न । प॒श्य॒थ॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१६
 
असौ । यः । पन्थाः । आदित्यः । दिवि । प्रऽवाच्यम् । कृतः ।।
Line २३३ ⟶ २९५:
त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ ।
 
तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१७
 
त्रि॒तः । कूपे॑ । अव॑ऽहितः । दे॒वान् । ह॒व॒ते॒ । ऊ॒तये॑ ।
 
तत् । शु॒श्रा॒व॒ । बृह॒स्पतिः॑ । कृ॒ण्वन् । अं॒हू॒र॒णात् । उ॒रु । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१७
 
त्रितः । कूपे । अवऽहितः । देवान् । हवते । ऊतये ।
Line २४४ ⟶ ३१०:
अ॒रु॒णो मा॑ स॒कृद्वृकः॑ प॒था यन्तं॑ द॒दर्श॒ हि ।
 
उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥१८
 
अ॒रु॒णः । मा॒ । स॒कृत् । वृकः॑ । प॒था । यन्त॑म् । द॒दर्श॑ । हि ।
 
उत् । जि॒ही॒ते॒ । नि॒ऽचाय्य॑ । तष्टा॑ऽइव । पृ॒ष्टि॒ऽआ॒म॒यी । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥१८
 
अरुणः । मा । सकृत् । वृकः । पृथा । यन्तम् । ददर्श । हि ।
Line २५५ ⟶ ३२५:
ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ऽभि ष्या॑म वृ॒जने॒ सर्व॑वीराः ।
 
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥१९
 
ए॒ना । आ॒ङ्गू॒षेण॑ । व॒यम् । इन्द्र॑ऽवन्तः । अ॒भि । स्या॒म॒ । वृ॒जने॑ । सर्व॑ऽवीराः ।
 
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥१९
 
एना । आङ्गूषेण । वयम् । इन्द्रऽवन्तः । अभि । स्याम । वृजने । सर्वऽवीराः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्