"ऋग्वेदः सूक्तं १.१२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६२:
यः । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒रः । दे॒वः । दे॒वाच्या॑ । कृ॒पा ।
 
घृ॒तस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒ऽजुह्वा॑नस्य । स॒र्पिषः॑ ॥१
 
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहसः । जातऽवेदसम् । विप्रम् । न । जातऽवेदसम् ।
पङ्क्तिः ६८:
यः । ऊर्ध्वया । सुऽअध्वरः । देवः । देवाच्या । कृपा ।
 
घृतस्य । विऽभ्राष्टिम् । अनु । वष्टि । शोचिषा । आऽजुह्वानस्य । सर्पिषः ॥१
 
“अग्निं सर्वासां देवसेनानामग्रण्यं यज्ञेष्वग्रं नीयमानं वा “होतारम् अस्मद्यागं प्रति देवानामाह्वातारम् यद्वा । होमनिष्पादकं होतारम् । ‘ जुहोतेर्होतेत्यौर्णवाभः ' ( निरु. ७. १५) इति यास्कः । ‘ अग्निमद्य होतारमवृणीत ' ( तै. ब्रा. २. ६. १५. १ ) इति श्रुतेः । अग्निमग्न आवह ' ( तै. ब्रा ३. ५. ३. २) इति च अनेराह्वातृत्वं प्रसिद्धम् । अग्निं होतारं मन्ये । एवं प्रति विशेषणं मन्ये इति संबन्धः । यद्वा । यागनिष्पत्तेरेवापेक्षितत्वात् एतदेव विधेयविशेषणम् । इतराणि वक्ष्यमाणविशेषणानि स्तुतिपराणि । “दास्वन्तम् अतिशयेन दानवन्तं "वसुं सर्वेषां निवासहेतुं “सहसः “सूनुं बलस्य पुत्रम् । अग्निर्मन्थनकाले बलेन मथ्यमानः उत्पद्यते इति पुत्रत्वमुपचर्यते “जातवेदसं जातानां वेदितारं जातप्रज्ञं जातबलं वा । जातवेदःशब्दो यास्केन बहुधा निरुक्तः ( निरु. ७. १९ ) । अग्नेर्जातवेदस्त्वे दृष्टान्तः । “विप्रं “न “जातवेदसं जातविद्यं मेधाविनं ब्राह्मणमिव । तं यथा बहु मन्यन्ते तथा त्वामपि मन्ये स्तौमीत्यर्थः । उक्तगुणविशिष्टः “यः “देवः “स्वध्वरः शोभनयज्ञवान् यज्ञं सम्यक् निर्वहन “ऊर्ध्वया उन्नतया उत्कृष्टया “देवाच्या देवान् पूजयन्त्या देवान् प्रत्यक्तया वा “कृपा कृपया सामर्थ्यलक्षणया । ‘ देवान्प्रत्यक्तया कृपा ' ( निरु. ६. ८ ) इति यास्कः । तेभ्यो हविर्वहनबुद्यातव युक्तः सन् आजुह्वानस्य आ समन्तात् हूयमानस्य “सर्पिषः सरणशीलस्य “घृतस्य विलापनेन दीप्तत्याज्यस्य “विभ्राष्टिं विशेषेण भ्राजमानम् “अनु स्वयमपि तदाज्यं “शोचिषा ज्वालया “वष्टि कामयते स्वीकरोतीत्यर्थः ।।
पङ्क्तिः ८४:
परि॑ज्मानम्ऽइव । द्याम् । होता॑रम् । च॒र्ष॒णी॒नाम् ।
 
शो॒चिःऽके॑शम् । वृष॑णम् । यम् । इ॒माः । विशः॑ । प्र । अ॒व॒न्तु॒ । जू॒तये॑ । विशः॑ ॥२
 
यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । मन्मऽभिः । विप्रेभिः । शुक्र । मन्मऽभिः ।
पङ्क्तिः ९०:
परिज्मानम्ऽइव । द्याम् । होतारम् । चर्षणीनाम् ।
 
शोचिःऽकेशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः ॥२
 
हे “विप्र मेधाविन् “शुक्र दीप्तज्वालाग्ने “यजिष्ठम् अतिशयेन यष्टृतमं “त्वा त्वां “यजमानाः वयं यष्टारः "हुवेम आह्वयामः । यतो वयं यजमाना यतश्च त्वं यजिष्ठः अतो हुवेमेत्यभिप्रायः । कीदृशं त्वाम् । “अङ्गिरसाम् अङ्गिरोगोत्रोत्पन्नानां मध्ये “ज्येष्ठम् । यद्वा । अङ्गारणां मध्ये ज्येष्ठं ज्वालायुक्तत्वात् । अङ्गिरा अङ्गाराः ' (निरु. ३. १७) इति यास्कः। ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्' ( ऐ. ब्रा, ३. ३४ ) इति श्रुतेः । केन साधनेनेति तदुच्यते । “मन्मभिः मननसाधनैः “विप्रेभिः विशेषेण प्रीणयितृभिः “मन्मभिः मन्त्रैः । यद्वा । विप्रेभिर्मेधाविभिर्ऋत्विग्भिः मन्मभिर्मन्त्रैश्च सहिता वयमिति संबन्धः । त्वदाह्वानानन्तरं “परिज्मानं परितो गच्छन्तं “द्याम् इव सूर्यमिव “होतारं देवानामाह्वातारम् । केषामर्थे । “चर्षणीनाम् । मनुष्यनामैतत् । मनुष्याणां यजमानानामर्थे । यद्वा । चर्षणीनां पूर्वं मनुष्याणामेव सतां पश्चात् यागादिसाधनेन देवत्वमापन्नानां देवानाम् आह्वातारम् । तथा “शोचिष्केशं केशवत् अत्यन्तायतज्वालोपेतं “वृषणं वर्षितारम् एवं रूपं “यं त्वां “विशः त्वामेव निविशमानाः “इमा: “विशः यजमानरूपाः प्रजाः “जूतये स्वर्गाद्यभिमतफलप्राप्तये “प्रावन्तु प्रकर्षेण प्रीणयन्तु । तादृशं त्वां हुवेमेति संबन्धः ।।
पङ्क्तिः १०५:
वी॒ळु । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । श्रुव॑त् । वना॑ऽइव । यत् । स्थि॒रम् ।
 
निः॒ऽसह॑मानः । य॒म॒ते॒ । न । अ॒य॒ते॒ । ध॒न्व॒ऽसहा॑ । न । अ॒य॒ते॒ ॥३
 
सः । हि । पुरु । चित् । ओजसा । विरुक्मता । दीद्यानः । भवति । द्रुहम्ऽतरः । परशुः । न । द्रुहम्ऽतरः ।
पङ्क्तिः १११:
वीळु । चित् । यस्य । सम्ऽऋतौ । श्रुवत् । वनाऽइव । यत् । स्थिरम् ।
 
निःऽसहमानः । यमते । न । अयते । धन्वऽसहा । न । अयते ॥३
 
“स “हि स एव पूर्वं स्तुतः एवाग्निः “विरुक्मता विशेषेण रोचनवता “ओजसा ज्वालारूपेण बलेन “पुरु “चित् अत्यधिकमेव "दीद्यानः दीप्यमानः “द्रुहंतरः द्रोग्धॄणां तरिता निवारयिता “भवति अस्मासु द्रोहं कुर्वतां शत्रूणां हिंसको भवतीत्यर्थः । तत्र दृष्टान्तः । “द्रुहंतरः द्रोग्धॄणां छेदनाय प्रयुक्तः “परशुर्न परशुरिव । स यथा अमोघं हिनस्ति तथायमपि। किंच “यस्य अग्नेः “समृतौ संगतौ संयोगे “वीळु “चित् दृढमपि पाषाणादिकं “श्रुवत् गच्छेत् शीर्येत । तथा “यत्स्थिरं यच्च पर्वतादि स्थिरमचलितं तदपि श्रुवत् । वीड्विति दृढनाम, ‘वीळु च्यौत्नम् ( नि. २. ९. १४ ) इति तन्नामसु पाठात् । तत्र दृष्टान्तः । “वनेव उदकमिव । उदकं यथाग्निसंयोगे शुष्यति तथेत्यर्थः । अत्यन्तदृढं स्थिरमपि हिनस्ति अस्मद्द्रोग्धारं शत्रुं हिनस्तीति किमु वक्तव्यमित्यभिप्रायः । किंच अयमग्निः “निष्षहमाणः शत्रून् निःशेषणाभिभवन् “यमते उपरमते शत्रुषु मध्ये क्रीडति तानेव नाशयति । तथा कुर्वन् “नायते न गच्छति शत्रोः सकाशान्न पलायते । तत्र दृष्टान्तः । “धन्वसहा “न । धनुषा शत्रूनभिभवति इति धन्वसहा धानुष्कः ॥ सहतेरसुन् छन्दसोऽन्त्यलोपः ॥ स यथा शत्रोरभिमुखं विध्यति न पलायते तद्वदित्यर्थः । यद्वा । दृढधनुर्वहनक्षमः धन्वसहः ॥ अस्मिन् पक्षे पचाद्यच् । ‘ सुपां सुलुक्' इत्याकारः ॥ दृढधन्वा सन् न “अयते न चलति ।।
पङ्क्तिः १२६:
प्र । यः । पु॒रूणि॑ । गाह॑ते । तक्ष॑त् । वना॑ऽइव । शो॒चिषा॑ ।
 
स्थि॒रा । चि॒त् । अन्ना॑ । नि । रि॒णा॒ति॒ । ओज॑सा । नि । स्थि॒राणि॑ । चि॒त् । ओज॑सा ॥४
 
दृळ्हा । चित् । अस्मै । अनु । दुः । यथा । विदे । तेजिष्ठाभिः । अरणिऽभिः । दाष्टि । अवसे । अग्नये । दाष्टि । अवसे ।
पङ्क्तिः १३२:
प्र । यः । पुरूणि । गाहते । तक्षत् । वनाऽइव । शोचिषा ।
 
स्थिरा । चित् । अन्ना । नि । रिणाति । ओजसा । नि । स्थिराणि । चित् । ओजसा ॥४
 
“अस्मै अग्नये “दृळ्हा “चित् दृळ्हान्येव सारवन्ति हवींषि अनुक्रमेण प्रतिमन्त्रं “दुः ददति ॥ ददातेर्लुङि “ गातिस्था' इति सिचो लुक् । आतः' इति झेर्जुस् ।। यजमाना ददति । दाने दृष्टान्तः ॥ “यथा “विदे विदुषे परमार्थदर्शिने उत्कृष्टानि धनानि वितरन्ति दानशीलाः । यद्वा । अयमग्निर्यथा विदे विन्दते स्वातिरिक्तं हविः देवेभ्यो दातुं लभते स्वीकरोति तथा दुः इति ।। विन्दतेश्छान्दसः शपो लुक् ।। ‘ लोपस्त आत्मनेपदेषु' इति तलोपः ।। किंच सोऽग्निः “तेजिष्टाभिः “अरणिभिः अत्यन्ततेजोयुक्तैर्मार्गैर्यज्ञादिरूपैः “दाष्टि पूजितः सन् स्वर्गादिकं ददाति ।। ' दाशृ दाने '। शपो लुक् । किमर्थम् । “अवसे तद्रक्षणाय । यद्वा । तेजिष्ठाभिः अतिशयेन तेजोवद्भिः अरणिभिर्गमनैः इतरदेवानुद्दिश्य यजमानेन दत्तं हविः अवसे तेषां स्वीकाराय दाष्टि। अयमग्निर्ददाति नयति । किंच “अग्नये इतरदेवताप्रदानसमयेऽपि यजमानः अग्नये अग्निप्रीतये “दाष्टि प्रथमं ददाति । किमर्थम् । “अवसे रक्षणार्थम् । यदि अयमतृप्तः स्यात् इतरेभ्यो दत्तमपि स्वयं स्वीकुर्यात् तस्मादग्नये प्रयाजादिरूपेण ददातीत्यर्थः । किंच “यः अग्निः “पुरूणि बहूनि सामर्थ्यात् यजमानधनादीनि “प्र “गाहते प्रविशति प्रविश्य च वाश्यादिरूपया ज्वालया “तक्षत् तनूकरोति नाशयतीत्यर्थः । तत्र दृष्टान्तः। “वनेव । वृक्षादिसमूहानि वनानि यथा प्रविश्य तक्षति दहति तथेत्यर्थः । किंच अयमग्निः “स्थिरा स्थिराणि कठिनानि “अन्ना अन्नानि व्रीह्यादीनि “ओजसा तेजोरूपया ज्वालया “नि नितरां “रिणाति गच्छति पचतीत्यर्थः ॥ ‘ री गतिरेषणयोः' । क्रैयादिकः । ‘प्वादीनां ह्रस्वः' इति हस्वः । तथा “ओजसा स्वकीयेन तेजसा “स्थिराणि अपरिहरणीयानि पापानि अमित्राणि वा “नि रिणाति निःशेषेण गच्छति नाशयतीत्यर्थः ।।
पङ्क्तिः १४७:
आत् । अ॒स्य॒ । आयुः॑ । ग्रभ॑णऽवत् । वी॒ळु । शर्म॑ । न । सू॒नवे॑ ।
 
भ॒क्तम् । अभ॑क्तम् । अवः॑ । व्यन्तः॑ । अ॒जराः॑ । अ॒ग्नयः॑ । व्यन्तः॑ । अ॒जराः॑ ॥५
 
तम् । अस्य । पृक्षम् । उपरासु । धीमहि । नक्तम् । यः । सुदर्शऽतरः । दिवाऽतरात् । अप्रऽआयुषे । दिवाऽतरात् ।
पङ्क्तिः १५३:
आत् । अस्य । आयुः । ग्रभणऽवत् । वीळु । शर्म । न । सूनवे ।
 
भक्तम् । अभक्तम् । अवः । व्यन्तः । अजराः । अग्नयः । व्यन्तः । अजराः ॥५
 
“अस्य अस्मै “पृक्षं हविर्लक्षणमन्नम् “उपरासु उपरमन्ते अस्मिन् हवींषीत्युपराः वेदिसमीपभूमयः । तासु “धीमहि धारयामः । अस्येत्युक्तं कस्येत्याह । “यः अग्निः “नक्तं रात्रौ “दिवातरात् अह्रोऽपि “सुदर्शतरः अत्यर्थं सर्वैर्दर्शनीयो भवति । यतोऽयं रात्रौ सर्वेषु भावेषु तमसावृतत्वात् अदृश्यमानेष्वपि स्वयमत्यर्थं प्रकाशते अतोऽस्मै धीमहि । पुनः कीदृशाय । “दिवातरात् अह्नः सकाशादेव “अप्रायुषे । प्रगतमायुर्यस्यासौ प्रायुः । न प्रायुरप्रायुः । तस्मै । ' असौ योऽस्तमेति स सर्वेषां भूतानां प्राणानादायस्तमेति' (तै. आ. १. १४) इति श्रुतेः रात्रौ सर्वे भावा निद्रया आवृतत्वात् प्रायुष इव भवन्ति । अयमग्निस्तु सर्वप्राणिप्राणापहर्तुः सूर्यस्य रात्रौ स्वस्मिन्नेव प्रवेशात् प्रकृष्टायुर्भवति । अतोऽपि धीमहि । किंच “आत् अत एव कारणात् यतोऽयं सुदर्शतरो यतश्चायमप्रायुः अतः कारणात् “अस्य अस्मै तदर्थम् “आयुः हविर्लक्षणमन्नम् "ग्रभणवत् ग्रहणयुक्तम् अभूत् । ग्रहणे दृष्टान्तः । “सूनवे पुत्राय पित्रोः “वीळु “शर्म दृढं सुखसाधनं गृहं यथा ग्रहणवद्भवति तथेत्यर्थः । शर्मेति गृहनाम ‘ शर्म वर्म' (नि. ३. ४. २१ ) इति तन्नामसु पाठात् ।
पङ्क्तिः १६९:
आद॑त् । ह॒व्यानि॑ । आ॒ऽद॒दिः । य॒ज्ञस्य॑ । के॒तुः । अ॒र्हणा॑ ।
 
अध॑ । स्म॒ । अ॒स्य॒ । हर्ष॑तः । हृषी॑वतः । विश्वे॑ । जु॒ष॒न्त॒ । पन्था॑म् । नरः॑ । शु॒भे । न । पन्था॑म् ॥६
 
सः । हि । शर्धः । न । मारुतम् । तुविऽस्वनिः । अप्नस्वतीषु । उर्वरासु । इष्टनिः । आर्तनासु । इष्टनिः ।
पङ्क्तिः १७५:
आदत् । हव्यानि । आऽददिः । यज्ञस्य । केतुः । अर्हणा ।
 
अध । स्म । अस्य । हर्षतः । हृषीवतः । विश्वे । जुषन्त । पन्थाम् । नरः । शुभे । न । पन्थाम् ॥६
 
“स “हि स एव स्तुत्यतया प्रसिद्ध एवाग्निः “तुविष्वणिः । तुवि इति बहुनाम ‘ उरु तुवि । ( नि. ३. १. २ ) इति तन्नामसु पाठात् । बहुस्वनिः प्रभूतध्वनियुक्तो वर्तते । अत्यन्तज्वलितेऽग्नौ वायुसंपर्कात् भुगिभुगिति ध्वनिरुत्पद्यते ज्वलतीत्यर्थः । ध्वनने दृष्टान्तः । “मारुतं “शर्धो “न मरुत्संबन्धि बलमिव । मरुतां समूहो यथा ध्वनयति तथेत्यर्थः । कुत्रेति तदुच्यते । “अप्नस्वतीषु खननप्रोक्षणादिकर्मोपेतासु । अप्न इति कर्मनाम, ‘ अप्नः दंसः' ( नि, २. १. २) इति तन्नामसु पाठात् । “उर्वरासु उरुवरणयुक्तासु श्रेष्ठासु वेदिभूमिषु । कीदृशोऽयम् । “इष्टनिः यष्टव्यः ॥ औणादिकोऽनिक् तुडागमश्च ॥ किंच आर्तनासु । आर्तान् करोत्यार्तयति । आर्तयन्तीत्यार्तनाः पृतनाः । तासु ॥ ‘ ण्यासश्रन्थो युच् ' ( पा. सू. ३. ३. १०७ ) । वृषादित्वादाद्युदात्तत्वम् ॥ तासां जयाय “इष्टनिः एष्टव्यो यष्टव्यो वा । किंच एवं स्वनयन्नग्निः “हव्यानि आज्यपुरोडाशादीनि “आदत् अत्ति भक्षयति ।। छान्दसो लुङ् । यद्वा । आङ्पूर्वाद्ददातेः ‘ आङो यमहनः ' ( पा. सू. १. ३. २८ ) इति व्यत्ययेनात्मनेपदाभावः । गातिस्था' इति सिचो लुक् । छान्दसो ह्रस्वः । केवलादेव वा ‘ छन्दस्यपि दृश्यते ' इति अनजादेरपि आडागमः । अत एवानवग्रहः स एव शिष्यते ॥ “आददिः सर्वत्र हविरादानशीलः तथा “यज्ञस्य “केतुः प्रज्ञापकः केतुस्थानीयो वा "अर्हणा पूजनीयः ॥ ‘ सुपां सुलुक्' ' इति सोः आकारः । प्रत्ययाद्युदात्तत्वं छान्दसम् । किंच “हर्षतः हविर्भक्षणादत्यन्तहर्षयुक्तस्य । यद्वा । अभिमतफलदानेन यजमानान् हर्षयतः “हृषीवतः आज्यस्वीकारेण हर्षयुक्तस्याग्नेः “पन्थां पन्थानं मार्गं “विश्वे सर्वे मनुष्याः “जुषन्त अप्रीणयन् असेवन्त वा । किमर्थम् । “शुभे शुभाय शोभनाय सुखप्राप्तये । पन्थानं सर्वैर्गन्तव्यम् ऐहिकामुष्मिकफलस्य अग्नेरेव मार्गं सर्वेऽनुगच्छन्ति । अग्निमेव प्रीणयित्वा साधयन्ति । मार्गश्रयणे दृष्टान्तः । यथा लोके “नरः मनुष्या: शुभे शोभनाय सुखप्राप्तये पन्थानं सर्वैर्गन्तव्यं निर्भयं प्रौढमार्गमिव ।।
पङ्क्तिः १९०:
अ॒ग्निः । ई॒शे॒ । वसू॑नाम् । शुचिः॑ । यः । ध॒र्णिः । ए॒षा॒म् ।
 
प्रि॒यान् । अ॒पि॒ऽधीन् । व॒नि॒षी॒ष्ट॒ । मेधि॑रः । आ । व॒नि॒षी॒ष्ट॒ । मेधि॑रः ॥७
 
द्विता । यत् । ईम् । कीस्तासः । अभिऽद्यवः । नमस्यन्तः । उपऽवोचन्त । भृगवः । मथ्नन्तः । दाशा । भृगवः ।
पङ्क्तिः १९६:
अग्निः । ईशे । वसूनाम् । शुचिः । यः । धर्णिः । एषाम् ।
 
प्रियान् । अपिऽधीन् । वनिषीष्ट । मेधिरः । आ । वनिषीष्ट । मेधिरः ॥७
 
“यत् यं “द्विता द्वित्वमापन्नं द्विप्रकारं श्रौतस्मार्तभेदेन द्वित्वमापन्नम् । यद्वा । उपलक्षणमेतत्। आहवनीयादिरूपेण नानाविधम् । यद्वा । द्विता द्विविधाय ऐहिकामुष्मिकफलाय उभयाय । विभक्तेः आजादेशः । “ईम् इममग्निं “कीस्तासः कीर्तनं कुर्वन्तः स्तोतारः ।। पचाद्यचि छान्दसं सत्वम्। “अभिद्यवः अभितो द्योतमानाः “नमस्यन्तः नमस्कारोपलक्षितमुपस्थानं कुर्वन्तः “भृगवः भृगुगोत्रोत्पन्ना महर्षयः “उपवोचन्त उपेत्य ब्रुवन्ति । किं कुर्वन्तः । “दाशा दानेन निमित्तभूतेन हविर्दानार्थं “मथ्नन्तः अरण्याम् अग्निमन्थनं कुर्वन्तः तथा “भृगवः भ्रष्टारो हविषां पापानां वा । किं च “यः “अग्निः “शुचिः दीप्तः “धर्णिः धारणकुशलः अयमग्निः “एषां दीयमानानां “वसूनां हविर्लक्षणानाम् “ईशे ईष्टे समर्थों भवति ।। ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः ॥ यद्वा । एषां दृश्यमानानां मणिमुक्तादीनां वसूनाम् ईशे ईष्टे समर्थो भवति प्रदातुमिति शेषः। किंच अयमग्निः “मेधिरः । मेधो यज्ञः । तद्वान् स्वयं यष्टव्यत्वेन प्रधानभूतः सन् “प्रियान् स्वप्रीतिहेतून् आज्यादीन् “अपिधीन् पर्याप्तिपर्यन्तं दत्तान् । “वनिषीष्ट संभक्तवान् संभजतां वा । तथा “मेधिरः मेधावानसौ “आ “वनिषीष्ट । अन्यदेवताकेष्वपि यज्ञेषु स्वयम् आज्यभागप्रयाजादिरूपं हविः संभजते ।।।
पङ्क्तिः २११:
अति॑थिम् । मानु॑षाणाम् । पि॒तुः । न । यस्य॑ । आ॒स॒या ।
 
अ॒मी इति॑ । च॒ । विश्वे॑ । अ॒मृता॑सः । आ । वयः॑ । ह॒व्या । दे॒वेषु॑ । आ । वयः॑ ॥८
 
विश्वासाम् । त्वा । विशाम् । पतिम् । हवामहे । सर्वासाम् । समानम् । दम्ऽपतिम् । भुजे । सत्यऽगिर्वाहसम् । भुजे ।
पङ्क्तिः २१७:
अतिथिम् । मानुषाणाम् । पितुः । न । यस्य । आसया ।
 
अमी इति । च । विश्वे । अमृतासः । आ । वयः । हव्या । देवेषु । आ । वयः ॥८
 
“विश्वासां सर्वासां “विशां प्रजानां यजमानानां “पतिम् अभिमतफलदानेन पालकं “हवामहे आह्वयामः । न केवलं यजमानानां किंतु “सर्वासां प्रजानां “समानम् एकरूपं दहनपचनाद्युपकारस्य सर्वेषां समत्वात् । तथा “दम्पतिं गार्हपत्यादिरूपेण गृहस्य पालकम् । दम इति गृहनाम, ‘दमे कृत्तिः । (नि. ३. ४. १२) इति तन्नामसु पाठात् ॥ अकारलोपश्छान्दसः ।। किमर्थम् । “भुजे भोगाय हवामहे आह्वयामः । पुनः स एव विशेष्यते । “सत्यगिर्वाहसं यथार्थभूतानाम् अविसंवादिफलानां स्तुतिरूपाणां गिरां वोढारम् । यद्वा । गिरो मन्त्ररूपा वहन्तीति गिर्वाहसः ऋत्विजः । सत्याः अविसंवादिफला गिर्वाहसो यस्य तं तादृशं हवामहे इति शेषः ।। ‘ वहिहाधाञ्भ्यः' इति असुन् । ‘ णित् ' इत्यनुवृत्तेः उपधावृद्धिः ।। पुनः कीदृशम् । “मानुषाणां मनुष्याणाम् “अतिथिम् अतिथिवत्पूज्यं दर्शादितिथिमपेक्ष्य आगन्तारं वा । किंच “यस्य अग्नेः “आसया समीपे । आसेत्यन्तिकनाम, ‘ आसा अम्बरम् ' ( नि. २. १६. २ ) इति तन्नामसु पाठात् । तत्समीपे “अमी “विश्वे “अमृतासः हविर्भोक्तृत्वेन प्रसिद्धा: सर्वे देवा अपि “आ आगच्छन्ति ॥ उपसर्गवशात् योग्यक्रियाध्याहारः ।। किमर्थम् । “वयः हविर्लक्षणान्नमुद्दिश्य अग्निमुखात् एव इतरेभ्यो दीयमानत्वात् । तत्र दृष्टान्तः । “पितुर्न पितुरन्तिके पुत्रादयो यथा अन्नाद्यर्थं सेवन्ते तद्वत् । किंच “वयः नेतारः ऋत्विजोऽपि “देवेषु इतरेषु इज्यमानेषु मध्ये “हव्या हवींषि “आ ददति अग्नये । वेतेरौणादिको डिः । विचि वा गुणः ।।
पङ्क्तिः २३२:
शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।
 
अध॑ । स्म॒ । ते॒ । परि॑ । च॒र॒न्ति॒ । अ॒ज॒र॒ । श्रु॒ष्टी॒वानः॑ । न । अ॒ज॒र॒ ॥९
 
त्वम् । अग्ने । सहसा । सहन्ऽतमः । शुष्मिन्ऽतमः । जायसे । देवऽतातये । रयिः । न । देवऽतातये ।
पङ्क्तिः २३८:
शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।
 
अध । स्म । ते । परि । चरन्ति । अजर । श्रुष्टीवानः । न । अजर ॥९
 
हे “अग्ने “त्वं “सहसा बलेन “सहन्तमः अतिशयेन शत्रूणामभिभविता तथा “शुष्मिन्तमः अतिशयेन तेजस्वी “जायसे ।। सहेरौणादिकः कनिन् । ‘नाद्धस्य' इति नुट् । किमर्थम् । “देवतातये देवानां विस्तारयुक्ताय यागाय तदर्थम् । यज्ञनामैतत् । यद्वा । उक्तगुणविशिष्टः स जायसे । अरण्योरुत्पद्यसे । यज्ञार्थत्वे दृष्टान्तः । रयिर्न “देवतातये । धनं यथा यज्ञार्थमुत्पद्यते । तथा चोक्तं-- ‘ यज्ञार्थं द्रव्यमुत्पन्नम्' इति । किंच “ते तव “मदः आज्यस्वीकारजनितो हर्षः ! “शुष्मिन्तमः अतिशयेन बलवान् । हिशब्दः प्रसिद्धौ । आज्येन अग्नेर्मदो भवतीति प्रसिद्धम् । अपि च ते “क्रतुः कर्मविशेषोऽपि “द्युम्निन्तमः यशोयुक्तोऽन्नयुक्तो वा खलु । ' द्युम्नं द्योततेर्यशो वान्नं वा ' ( निरु. ५. ५) इति यास्कः । “अध अतः कारणात् “अजर हे जरारहिताग्ने “ते त्वां “परि “चरन्ति यजमानाः । तत्र दृष्टान्तः । “श्रुष्टीवानो “न दूता इव । ते यथा वार्ताविशेषप्रदानेन राजानं सेवन्ते तद्वत् ॥'छन्दसीवनिपौ' इति वनिप् । छान्दसं प्रत्ययाद्युदात्तत्वम् ॥ “अजर भक्तानामजरयितः ॥ अन्तर्भावितण्यर्थात् पचाद्यच् । यद्वा । अजर अस्तोतः । जरा स्तुतिः । असौ न कस्यापि स्तोता भवति किंतु सर्वैः स्वयं स्तूयते । तादृशं त्वां परिचरन्तीत्यर्थः ॥
पङ्क्तिः २५३:
प्रति॑ । यत् । ई॒म् । ह॒विष्मा॑न् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ।
 
अग्रे॑ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः॑ । होता॑ । ऋ॒षू॒णाम् ॥१०
 
प्र । वः । महे । सहसा । सहस्वते । उषःऽबुधे । पशुऽसे । न । अग्नये । स्तोमः । बभूतु । अग्नये ।
पङ्क्तिः २५९:
प्रति । यत् । ईम् । हविष्मान् । विश्वासु । क्षासु । जोगुवे ।
 
अग्रे । रेभः । न । जरते । ऋषूणाम् । जूर्णिः । होता । ऋषूणाम् ॥१०
 
हे उद्गात्रादयः स्तोतारः “वः युष्माकं संबन्धि “स्तोमः स्तोत्रम् “अग्नये “प्र “बभूतु प्रीणयितुं समर्थं भवतु ॥ छान्दसः शपः श्लुः । अत्वं चाभ्यासस्य । ‘ भूसुवोस्तिङि' इति गुणाभावः ॥ कीदृशायाग्नये । “महे महते पूज्याय “सहसा पराभिभवसामर्थ्येन तद्वते “उषर्बुधे उषःकाले प्रबुध्यमानाय ॥ ‘ अहरादीनां पत्यादिषूपसंख्यानम् ' इति रत्वम् । “पशुषे पशुफलप्रदाय । नशब्दोऽत्र अपिशब्दार्थः । यद्वा । पशुषे पशुप्रदात्रे प्रभवे यथा स्तुतिः क्रियते तद्वत् । किमर्थमिति तदुच्यते । “ईम् एनमग्निं “प्रति लक्षीकृत्य “हविष्मान् घृतादिहविर्युक्तः यजमानः “विश्वासु “क्षासु सर्वासु निवासभूतासु वेदिभूमिषु “जोगुवे अत्यर्थं गच्छति ॥ गुवतेर्यङलुगन्तात् छान्दसो लिट् । व्यत्ययेनात्मनेपदम् । ‘ °अमन्त्रे ' इति पर्युदासात् आमभावः ॥ क्षेति भूनाम, ‘क्षा क्षामा ' ( नि. १. १. ५) इति तन्नामसु पाठात् । “ऋषूणाम् आगन्तॄणां देवानां मध्ये श्रेष्ठमग्निं जूर्णिः स्तुतिकुशलः “होता अग्रे इतरदेवेभ्यः पूर्वं “जरते स्तौति । तत्र दृष्टान्तः । “ऋषूणां महतां धनवताम् “अग्रे "रेभो “न वन्दीव ।। ‘ ऋषी गतौ ' । औणादिकः कुप्रत्ययः । ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम् यद्वा । ऋषूणाम् इत्येतत् होतृविशेषणम् । ऋषूणां ज्ञानवतां मध्ये श्रेष्ठोऽयं होता इत्यर्थः ।।
पङ्क्तिः २७४:
महि॑ । श॒वि॒ष्ठ॒ । नः॒ । कृ॒धि॒ । स॒म्ऽचक्षे॑ । भु॒जे । अ॒स्यै ।
 
महि॑ । स्तो॒तृऽभ्यः॑ । म॒घ॒ऽव॒न् । सु॒ऽवीर्य॑म् । मथीः॑ । उ॒ग्रः । न । शव॑सा ॥११
 
सः । नः । नेदिष्ठम् । ददृशानः । आ । भर । अग्ने । देवेभिः । सऽचनाः । सुऽचेतुना । महः । रायः । सुऽचेतुना ।
पङ्क्तिः २८०:
महि । शविष्ठ । नः । कृधि । सम्ऽचक्षे । भुजे । अस्यै ।
 
महि । स्तोतृऽभ्यः । मघऽवन् । सुऽवीर्यम् । मथीः । उग्रः । न । शवसा ॥११
 
हे “अग्ने “सः त्वं “नः “नेदिष्ठम् अत्यन्तसमीपे “ददृशानः वेद्यां ददृशानः दीप्तत्वेन दृश्यमानः “देवेभिः “सचना: इतरैर्देवैः समानान्नः । अग्निमुखेनैव इतरेषां हविःस्वीकारात् समानान्नत्वम् । “सुचेतुना शोभनेन चेतनेन चेतसा वा । पुनस्तदेव विशेष्यते । “सुचेतुना शोभनचेतोवता मया ।। औणादिक उः । बहुव्रीहौ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥ युक्तेन । त्वदायत्ते मयि अनुग्रहयुक्तेनेत्यर्थः । तादृशस्त्वं “महः पूजनीयानि “रायः धनानि “आ “भर अस्माकमाहर । हे अग्ने “शविष्ठ बलवन्नग्ने “नः अस्मभ्यं “महि महदन्नं महतीं कीर्तिं वा “कृधि कुरु संपादय । शविष्ठेति संबोधितत्वात् तदेव प्रार्थ्यते इति गम्यते । किमर्थम् । “संचक्षे सम्यग्दर्शनीयत्वाय “अस्यै अस्याः पृथिव्याः संबन्धिने “भुजे भोगाय । यद्वा । संचक्षे भुजे इति सामानाधिकरण्यम् । सम्यग्दर्शनीयाय भोगायेत्यर्थः । न केवलं यजमानेभ्योऽस्मभ्यमेव अपि तु “स्तोतृभ्यः स्तोत्रकर्तृभ्योऽपि हे मघवन् अन्नवन्नग्ने सुवीर्यं शोभनपुत्रभृत्याद्युपेतं धनं शोभनसामर्थ्यं वा कृधि कुरु । किंच शवसा बलेन युक्तः सन् “मथीः अस्मद्विरोधनो नाशय । लुङि ‘ ह्वयन्तक्षण° ' इति वृद्धिप्रतिषेधः । कारकपक्षे औणादिक ईकारः । आद्युदात्तश्छान्दसः ।। यद्वा । मथीः मथनवांस्त्वम् अस्मदर्थं शवसा बलेन युक्तो भवेति शेषः । तत्र दृष्टान्त । “उग्रो “न “शवसा । यथा कश्चित् क्रूरः शवसा बलेन मथीर्भवति तद्वत् ॥ ॥ १३ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२७" इत्यस्माद् प्रतिप्राप्तम्