"ऋग्वेदः सूक्तं १.१२९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६०:
स॒द्यः । चि॒त् । तम् । अ॒भिष्ट॑ये । करः॑ । वशः॑ । च॒ । वा॒जिन॑म् ।
 
सः । अ॒स्माक॑म् । अ॒न॒व॒द्य॒ । तू॒तु॒जा॒न॒ । वे॒धसा॑म् । इ॒माम् । वाच॑म् । न । वे॒धसा॑म् ॥१
 
यम् । त्वम् । रथम् । इन्द्र । मेधऽसातये । अपाका । सन्तम् । इषिर । प्रऽनयसि । प्र । अनवद्य । नयसि ।
पङ्क्तिः ६६:
सद्यः । चित् । तम् । अभिष्टये । करः । वशः । च । वाजिनम् ।
 
सः । अस्माकम् । अनवद्य । तूतुजान । वेधसाम् । इमाम् । वाचम् । न । वेधसाम् ॥१
 
हे “इन्द्र “इषिर यज्ञगमनशील “त्वं “मेधसातये यज्ञस्य दानाय लाभाय वा “यं यजमानं प्रति रथं “प्रणयसि प्रापयसि ॥ द्विकर्मकोऽयम् ॥ कीदृशं यजमानम् । “अपाका अपाकम् अनल्पप्रज्ञयाधिकारवन्तम्। 'पाकः पक्तव्यो भवति' (निरु. ३. १२) इति यास्कः । अत एव “सन्तं पण्डितं सन्तम् । किंच हे “अनवद्य अनिन्दित यं यजमानं धनविद्यादिना “प्र “नयसि प्रकृष्टं नयसि । “तं यजमानं सद्यश्चित् तदानीमेव तदनुग्रहकाले एव “अभिष्टये आभिमुख्येन यागाय अभिमतप्राप्तये वा ।। अभिपूर्वात् इषेः क्तिन् । शकन्ध्वादित्वात् पररूपत्वम् । गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ।। “करः समर्थं करोषि ।। लेटि व्यत्ययेन शप् ।। एवं कृत्वा च “वाजिनं हविर्लक्षणमन्नं तद्वन्तं वा “वशः कामयसे “च ।। वष्टेर्लेटि अडागमः । तिङः परत्वादनिघातः ॥ यजमानेनाहूतः सन् शीघ्रमेवागत्य हविः स्वीकृत्य यागं साधु निर्वर्त्य तं चाभिमतफलेन संयोज्य पुनर्हविः स्वीकरोषीत्यर्थः । हे इन्द्र “अनवद्य अनिन्दित सर्वैः स्तूयमान “तूतुजान अस्माननुग्रहीतुं त्वरमाण ॥ तुजेः प्रेरणार्थात् लिटः कानच् । ' तुजादीनां दीर्घोऽभ्यासस्य ' इत्यभ्यासस्य दीर्घत्वम् । “सः त्वम् ।। ' सोऽचि लोपे चेत् ' इति संहितायां सोर्लोपः ॥ “वेधसां विविधफलकर्तॄणां मध्ये श्रेष्टतया “वेधसां मेधाविनाम् “अस्माकं संबन्धि हविः स्वीकुर्वित्यर्थः । तत्र दृष्टान्तः । “इमां “वाचं “न अस्मदीयां स्तुतिरूपां वाचमिव । स्तुतिं यथा स्वीकरोषि तथा हविरपीत्यर्थः ।।
पङ्क्तिः ८१:
यः । शूरैः॑ । स्व१॒॑रिति॑ स्वः॑ । सनि॑ता । यः । विप्रैः॑ । वाज॑म् । तरु॑ता ।
 
तम् । ई॒शा॒नासः॑ । इ॒र॒ध॒न्त॒ । वा॒जिन॑म् । पृ॒क्षम् । अत्य॑म् । न । वा॒जिन॑म् ॥२
 
सः । श्रुधि । यः । स्म । पृतनासु । कासु । चित् । दक्षाय्यः । इन्द्र । भरऽहूतये । नृऽभिः । असि । प्रऽतूर्तये । नृऽभिः ।
पङ्क्तिः ८७:
यः । शूरैः । स्वरिति स्वः । सनिता । यः । विप्रैः । वाजम् । तरुता ।
 
तम् । ईशानासः । इरधन्त । वाजिनम् । पृक्षम् । अत्यम् । न । वाजिनम् ॥२
 
हे “इन्द्र “सः वक्ष्यमाणगुणविशिष्टस्त्वं “श्रुधि अस्मदाह्वानं स्तोत्रं वा शृणु ॥ हेर्धिभावः ।। “यः “स्म यः खलु त्वं “नृभिः मनुष्यैरेव सद्धिः पश्चाद्देवत्वमापन्नैर्मरुद्भिः । पुनस्त एव विशेष्यन्ते । नृभिः संग्रामनयनशीलैः । इन्द्रस्य मरुतां सहाय्यम् ‘इन्द्रो मरुद्भिः' (तै. सं. ६. ५. ५. १ ), ‘ मरुतो हैनं नाजहुः ' ( ऐ. ब्रा. ३. २० ) इत्यादिषु प्रसिद्धम् । तैः सहितः सन् “कासु “चित् "पृतनासु सर्वासु प्रौढेष्वपि संग्रामेषु “भरहूतये भरणविशिष्टाह्वानयुक्ताय “प्रतूर्तये प्रकृष्टहिंसनाय । यद्वा । भरहूतये ‘शूरो भव प्रहर' इत्येवमादिभरणयुक्ताह्वानाय प्रतूर्तये च शूराणां प्रकृष्टवधाय च । “दक्षाय्यः “असि प्रवर्धनशीलोऽसि । यद्वा । नृभिः नेतृभिर्यजमानैः प्रार्थितः सन् प्रतूर्तये शत्रूणां पापानां वा प्रकृष्टहिंसनाय दक्षाय्यः असि समर्थोऽसि । किंच “यः त्वं “शूरैः शौर्योपेतैर्मरुद्भिः अन्यैर्भटैर्वा सहितः सन् 'स्वः स्वयमेव “सनिता संग्राममयस्य अन्यस्य वा मनीषितस्य सनिता संभक्तासि । सत्यपि तेषां साहित्ये अन्यनैरपेक्ष्येणैव “तरुता असि इत्यर्थः ।। तरतेस्तृनि ‘ग्रसितस्कभित' इत्यादौ निपात्यते ।। “यः च त्वं “विप्रैः मेधाविभिर्ऋत्विग्भिः स्तुतः सन् “वाजं तरुता तेभ्योऽन्नस्य दातासि । विप्रैर्मरुद्भिः सहितः इति संबन्धः । “तं तादृशं “वाजिनं गमनवन्तं “पृक्षं हविर्लक्षणान्न वन्तमिन्द्रम् “ईशानासः सम्यगभ्यर्थयितुं समर्था ऋत्विजः “इरधन्त संराधन्ति सेवन्ते । तत्र दृष्टान्तः । 'वाजिनं वेजनवन्तं गमनवन्तं पृक्षं घासाद्यन्नवन्तम् “अत्यं “न अश्वमिव । तं यथा समर्थाः स्वादुघासत्रदानादिना पोषयन्ति तद्वत् । अत्य इत्यश्वनाम ‘ अत्यः हयः ' ( नि. १. १४. १ ) इति तन्नामसु पठितत्वात् ॥
पङ्क्तिः १०२:
इन्द्र॑ । उ॒त । तुभ्य॑म् । तत् । दि॒वे । तत् । रु॒द्राय॑ । स्वऽय॑शसे ।
 
मि॒त्राय॑ । वो॒च॒म् । वरु॑णाय । स॒ऽप्रथः॑ । सु॒ऽमृ॒ळी॒काय॑ । स॒ऽप्रथः॑ ॥३
 
दस्मः । हि । स्म । वृषणम् । पिन्वसि । त्वचम् । कम् । चित् । यावीः । अररुम् । शूर । मर्त्यम् । परिऽवृणक्षि । मर्त्यम् ।
पङ्क्तिः १०८:
इन्द्र । उत । तुभ्यम् । तत् । दिवे । तत् । रुद्राय । स्वऽयशसे ।
 
मित्राय । वोचम् । वरुणाय । सऽप्रथः । सुऽमृळीकाय । सऽप्रथः ॥३
 
हे इन्द्र त्वं “दस्मो “हि शत्रूणाम् उपक्षपणकर्ता खलु। अत एव कारणात् “वृषणं स्वतो वर्षणशालं “त्वचं संवरणवन्तं पुटबन्धनवदुदकवेष्टनवन्तं "कं “चित् जलधारिणं मेघं “पिन्वसि निर्भिद्य सेचयसि । किंच “मर्त्यं मर्त्यवत् “अररुम् अरणशीलं गमनस्वभावं कंचिन्मेघं हे “शूर विक्रान्त “यावीः मिश्रयसि ।। यौतेश्छान्दसे लुङि छान्दसः अडभावः ।। अवर्षणेन गच्छन्तं बलान्निगृह्य वर्षयसीत्यर्थः । यथा शूरः कश्चित् बलवन्तं गच्छन्तं वैरिणं निगृह्य स्वीकरोति तद्वदित्यर्थः । तथा “मर्त्यं मरणशीलं शीर्यमाणस्वभावं निरुदकं कंचिन्मेघं “परिवृणक्षि सर्वतो वर्जयसि औदासीन्यं करोषीत्यर्थः । हे “इन्द्र “तत् तादृशं कर्म वर्षणरूपं “सप्रथः सर्वतः पृथु यथा भवति तथा “तुभ्यं “वोचं ब्रवीमि । इन्द्र एव विशेष्यते । “स्वयशसे स्वकीययशोयुक्ताय । तथा 'दिवे “उत त्वदाश्रयभूतायै द्युलोकदेवतायै अपि “तत् तादृशं कर्म वोचं ब्रवीमि । उतशब्दोऽपिशब्दार्थः । वर्षणकर्मणो द्युदेवताया आनुकूल्यात् तस्या अपि वचनं युक्तम् । तथा “रुद्राय जगतां दुःखद्रावयित्रे रोदनशीलाय वा अग्नये तत् वोचम् । ‘ रुद्रो वै क्रूरो यदयमग्निः ' ( तै. सं. ६. २. ३. २ ) इति श्रुतेः रुद्रत्वम् । सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' (तै. सं. १. ५. १. १ ) इति श्रुतेः रोदनस्वभावत्वं प्रसिद्धम् । तस्य च आहुतिद्वारा वृष्ट्यनुकूलत्वात्तस्यापि कथनं युक्तम् । स्वयशसे इत्यस्य रुद्रायेत्यनेन वा संबन्धः संनिहितत्वाद्योग्यत्वाच्च । स्वकीययशोयुक्तायाग्नये इत्यर्थः । तथा “मित्राय अहरभिमानिदेवतायै तत् वोचम् । “वरुणाय रात्र्यभिमानिदेवतायै तद्वोचम् ।' अहोरात्रे वै मित्रावरुणौ ' ( तां. ब्रा. २५. १०, १० ), ' अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति' ( तै. सं. २. १. ७.३) इति। तथा ' मैत्रं वा अहर्वारूणी रात्रिः ' ( तै. सं. २. १. ७.३ ) इत्यादिश्रुतिभ्यो मित्रावरुणयोरहोरात्राभिमानिदेवत्वम् । अत एव श्रुतेर्वृष्टिप्रदातृत्वात् ताभ्यामपि प्रथनं युक्तम् । “सुमृळीकाय शोभनसुखयित्रे प्रजानाम् । एतत्सर्वत्र संबध्यते । उक्तेभ्यो देवेभ्यः “सप्रथः सर्वतः पृथु अतिविस्तीर्णं यथा भवति तथा तद्वर्षणकर्म ब्रवीमि ।।
पङ्क्तिः १२३:
अ॒स्माक॑म् । ब्रह्म॑ । ऊ॒तये॑ । अव॑ । पृ॒त्सुषु॑ । कासु॑ । चि॒त् ।
 
न॒हि । त्वा॒ । शत्रुः॑ । स्तर॑ते । स्तृ॒णोषि॑ । यम् । विश्व॑म् । शत्रु॑म् । स्तृ॒णोषि॑ । यम् ॥४
 
अस्माकम् । वः । इन्द्रम् । उश्मसि । इष्टये । सखायम् । विश्वऽआयुम् । प्रऽसहम् । युजम् । वाजेषु । प्रऽसहम् । युजम् ।
पङ्क्तिः १२९:
अस्माकम् । ब्रह्म । ऊतये । अव । पृत्सुषु । कासु । चित् ।
 
नहि । त्वा । शत्रुः । स्तरते । स्तृणोषि । यम् । विश्वम् । शत्रुम् । स्तृणोषि । यम् ॥४
 
हे ऋत्विजः “अस्माकम् अस्मदर्थं “वः युष्मदर्थं च “इष्टये यागाय अभिमतैषणाय वा “इन्द्रम् "उश्मसि अभिमतं कामयामहे ।। ‘वश कान्तौ' । आदादिकः । इदन्तो मसिः । ‘ग्रहिज्या ' इत्यादिना संप्रसारणम्॥ यद्वा । अस्माकं सखायम्' इति संबन्धः । कीदृशमिन्द्रम् । “सखायं सखिवदत्यन्तहितकारिणं समानख्यानं वा “विश्वायुं विश्वेषां यागानां गन्तारं “प्रासहं प्रकर्षेण शत्रूणां मर्षयितारम् ।। सहेः क्विप्'। ‘ नहिवृति' इत्यादिना उपसर्गस्य दीर्घः ।। "युजं सर्वदा युक्तं सहायभूतमित्यर्थः। पुनः स एव विशेष्यते । “वाजेषु हवीरूपान्नेषु तद्वत्सु यज्ञेषु वा निमित्तभूतेषु “प्रासहं यज्ञविघातिनः सहमानं “युजम् अभिमतफलैर्युक्तं मरुद्भिर्वा । किंच हे इन्द्र “अस्माकम् “ऊतये रक्षणाय “ब्रह्म परिवृढं कर्म "अव रक्ष। कस्तत्र विशेष इति तत्राह। “कासु “चित् पृत्सु संग्रामेषु । ' पृत्सु समत्सु (नि. २. १७. २१) इति संग्रामनामसु पाठात् तन्नामत्वम् । तेषु “त्वा त्वां “नहि “स्तरते न हिनस्ति । विरोधमाचरति “यं “स्तृणोषि । “यं “विश्वं “शत्रुं "स्तृणोषि वारयसि स कश्चिदपि “शत्रुः न हिनस्ति । तव महत्त्वेन सर्वे भीताः विधेया भवन्ति शत्रुभावं न कोऽप्याचरति अजातशत्रुत्वादित्यर्थः ।।
पङ्क्तिः १४४:
नेषि॑ । नः॒ । यथा॑ । पु॒रा । अ॒ने॒नाः । शू॒र॒ । मन्य॑से ।
 
विश्वा॑नि । पू॒रोः । अप॑ । प॒र्षि॒ । वह्निः॑ । आ॒सा । वह्निः॑ । नः॒ । अच्छ॑ ॥५
 
नि । सु । नम । अतिऽमतिम् । कयस्य । चित् । तेजिष्ठाभिः । अरणिऽभिः । न । ऊतिऽभिः । उग्राभिः । उग्र । ऊतिऽभिः ।
पङ्क्तिः १५०:
नेषि । नः । यथा । पुरा । अनेनाः । शूर । मन्यसे ।
 
विश्वानि । पूरोः । अप । पर्षि । वह्निः । आसा । वह्निः । नः । अच्छ ॥५
 
हे इन्द्र “कयस्य कस्य “चित् त्वद्भक्तस्य यजमानस्य “अतिमतिम् अतिक्रान्तमननं विरूद्धमनस्कं शत्रुं “नि “षू “नम नितरां सुष्ठु नामय अस्मत्प्रणतं कुरु ।। अन्तर्भावितण्यर्थोऽयम् ॥ हे “उग्र उद्गूर्णबल "ऊतिभिः रक्षणैः प्रीतिभिर्वा युक्तः सन् "तेजिष्ठाभिः "अरणिभिर्न अतिशयेन तेजस्विभिः युद्धादिरूपैः मार्गैः इव ।। तेजस्वच्छब्दात् अतिशायनिकः इष्ठन्। विन्मतोर्लुक् ।' टेः' इति टिलोपः। अतिमतिं वृत्रादिं यथा नामितवान् तथा अस्मद्विरोधिनमपीत्यर्थः । यद्वा । उत्तरत्रान्वयः । तेजिष्ठाभिः अरणिभिर्न तेजोयुक्तैः गमनसाधनैर्यज्ञादिमार्गैः यथा अस्मान् योजितवानसि तथा “उग्राभिः प्रकाशिकाभिः “ऊतिभिः रक्षणैः योगफलभूतैः “नः अस्मान् "नेषि नयसि अभिमतस्वर्गादिफलं प्रापयसीत्यर्थः ॥ नयतेश्छान्दसः शपो लुक् ।। तत्र दृष्टान्तः । “पुरा पूर्वस्मिन् काले अस्मत्पित्रादीन् “यथा ऊतिभिः नीतवानसि तथा नेषि इत्यर्थः । हे “शूर विक्रान्त त्वम् “अनेनाः “मन्यसे सर्वैरपापत्वेन अवबुध्यसे स्वर्गाद्यभिमतसाधकत्वादिति भावः । यद्वा । अनेनाः त्वमस्मानपि अनेनसः मन्यसे । किंच हे इन्द्र “वह्निः वृष्ट्यादिप्रदानेन जगतां निर्वाहकः सन् "पूरोः मनुष्यस्य यजमानस्य । पूरुरिति मनुष्यनाम, ‘पूरवः जगतः (नि. २. ३. २०) इति तन्नामसु पाठात्। तस्य “विश्वानि सर्वाणि एनांसि “अप “पर्षि अपकृत्य पालयसि ।। पृणातेश्छान्दसः शपो लुक् ॥ अतः “नः अस्माकमपि “आसा अन्तिके देवयजनदेशे “अच्छ आभिमुख्येन आगत्य “वह्निः अभिमतानां वोढा सन् अप अनभिमतम् अपकृत्य पर्षि अभिमतफलं पूरयसि ॥ ॥ १६ ॥
पङ्क्तिः १६५:
स्व॒यम् । सः । अ॒स्मत् । आ । नि॒दः । व॒धैः । अ॒जे॒त॒ । दुः॒ऽम॒तिम् ।
 
अव॑ । स्र॒वे॒त् । अ॒घऽशं॑सः । अ॒व॒ऽत॒रम् । अव॑ । क्षु॒द्रम्ऽइ॑व । स्र॒वे॒त् ॥६
 
प्र । तत् । वोचेयम् । भव्याय । इन्दवे । हव्यः । न । यः । इषऽवान् । मन्म । रेजति । रक्षःऽहा । मन्म । रेजति ।
पङ्क्तिः १७१:
स्वयम् । सः । अस्मत् । आ । निदः । वधैः । अजेत । दुःऽमतिम् ।
 
अव । स्रवेत् । अघऽशंसः । अवऽतरम् । अव । क्षुद्रम्ऽइव । स्रवेत् ॥६
 
“भव्याय भवनशीलाय प्रतिदिनं कलाभिवृद्ध्या वर्धनशीलाय “इन्दवे अमृतेन सर्वस्य क्लेदयित्रे तदर्थं “तत् वक्ष्यमाणं कर्म स्तोत्रं वा “प्र "वोचेयं प्रकर्षेण वक्तुं शक्तो भूयासम् । स्तुतेरतिमहत्त्वादिति भावः । वचेः 'लिङ्याशिष्यङ्'।‘वच उम्' ॥ कस्य तदिति । “यः इन्दुः “इषवान् एषणवान् “मन्म मननीयं स्तोत्रं कर्म वा उद्दिश्य “रेजति गच्छति । रेजतिर्गत्यर्थः, ‘रेजति दध्यति' (नि. २.१४. ६०.) इति तन्नामसु पाठात् । आगमने दृष्टान्तः। “हव्यो “न होतव्यः आह्वातव्यो वा हव्यः इन्द्र इव । प्रायेण ‘इन्द्र आगच्छ' इत्यादिना इन्द्र एवाहूयते । स इव । स एव विशेष्यते । “रक्षोहा यज्ञविघातकानां रक्षसां हन्ता “मन्म तेषामेव कर्म हननादिरूपं “रेजति गच्छति चालयति नाशयतीत्यर्थः । “सः एव इन्दुः “स्वयं "निदः ॥ ‘ णिदि कुत्सायाम्' । क्विप् । “ सावेकाचः' इति विभक्तेरुदात्तता ॥ अस्मन्निन्दितुर्वैरिणः “वधैः हननोपायैः।। ‘हनश्च वधः' इति भावे अप् ; तत्संनियोगेन वधादेशः । स च अदन्तोऽन्तोदात्तः ॥ "दुर्मतिं दुर्बुद्धिम् “अस्मत् अस्मत्तः “आ “अजेत आक्षिपेत् अवनयेत् । किंच “अघशंसः अघानां पापानां हिंसादीनां शंसिता स्तेनः “अवतरम् अत्यन्तनिकृष्टम् “अव स्वस्थानादवाङ्मुखो भूत्वा “स्रवेत् गच्छतु अधः पतत्वित्यर्थः । अघशंसः स्तेनः, ‘अघशंसः वृकः' (नि. ३. २४. १३) इति तन्नामसु पाठात् । अवस्रवणमेव प्रार्थ्यते । “क्षुद्रमिव क्षेप्तुं शक्यमुदकादिकमिव । उदकं यथा तिष्ठति स्रवन्नश्यति तथा असावपीत्यर्थः ॥
पङ्क्तिः १८६:
दुः॒ऽमन्मा॑नम् । सु॒मन्तु॑ऽभिः । आ । ई॒म् । इ॒षा । पृ॒ची॒म॒हि॒ ।
 
आ । स॒त्याभिः॑ । इन्द्र॑म् । द्यु॒म्नहू॑तिऽभिः । यज॑त्रम् । द्यु॒म्नहू॑तिऽभिः ॥७
 
वनेम । तत् । होत्रया । चितन्त्या । वनेम । रयिम् । रयिऽवः । सुऽवीर्यम् । रण्वम् । सन्तम् । सुऽवीर्यम् ।
पङ्क्तिः १९२:
दुःऽमन्मानम् । सुमन्तुऽभिः । आ । ईम् । इषा । पृचीमहि ।
 
आ । सत्याभिः । इन्द्रम् । द्युम्नहूतिऽभिः । यजत्रम् । द्युम्नहूतिऽभिः ॥७
 
हे इन्द्र वयं यजमानाः “तत् तादृशं स्तुत्यं तव रूपं यद्वा तत् ते वयं “चितन्त्या तव गुणान् ज्ञापयन्त्या ॥ ‘ चिती संज्ञाने '। अस्मात् ण्यन्तात् शतरि व्यत्ययेन शः ॥ “होत्रया होमसाधनभूतया स्तुतिरूपया वाचा “वनेम संभजेम यद्वा शब्दयेम स्तुतिं करवामेत्यर्थः । होत्रेति वाङ्नाम, ‘होत्रा गी: (नि. १.११.३५) इति तन्नामसु पाठात् । किंचैवं स्तोतारो वयमपि हे "रयिवः विशिष्टधनवन्निन्द्र “रयिं धनं “वनेम संभजेम । कीदृशं रयिम् । “सुवीर्यं शोभनसामर्योन्पेतं “रण्वं रमणीयं गन्तव्यं वा अर्थिभिः “सन्तं सर्वदा वर्तमानं यज्ञादिद्वारा बहुशः दीयमानमपि प्रवर्धमानम् । पुनस्तदेव विशेष्यते । "सुवीर्यं शोभनपुत्रभृत्याद्युपेतं धनेन तेषां संपादयितुं शक्यत्वात् ॥ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् ॥ किंच हे इन्द्र "दुर्मन्मानं दुःखेन मन्तुं शक्यं त्वां तव महिम्नोऽतिमहत्त्वात् "सुमन्तुभिः शोभनैर्मननैः तत्साधनैः स्तोत्रैर्वा “इषा हवीरूपेणान्नेन च “आ “पृचीमहि सर्वतः संपृक्ता भूयास्म । यद्वा । इषा अन्नेन निमित्तेन । पूर्वं धनस्य प्रार्थितत्वात् इदानीमन्नं प्रार्थ्यते ॥ ‘पृची संपर्के । लिङि छान्दसो विकरणस्य लुक् ॥ किंच “यजत्रं यागनिष्पादकम् “इन्द्रं “सत्याभिः अविसंवादिनीभिः यथाभिलाषमुपजायमानफलाभिः “द्युम्नहूतिभिः ‘हरिव आगच्छ मेधातिथेर्मेषे इत्याह्वानैरित्यर्थः । पुनस्ता एव विशेष्यन्ते । "द्युम्नहूतिभिः हविर्लक्षणान्ननिमित्तैराह्वानैः आ पृचीमहि इति शेषः । ‘ द्युम्नं द्योततेर्यशो वान्नं वा' (निरु. ५. ५) इति यास्कः ॥
पङ्क्तिः २०६:
स्व॒यम् । सा । रि॒ष॒यध्यै॑ । या । नः॒ । उ॒प॒ऽई॒षे । अ॒त्रैः ।
 
ह॒ता । ई॒म् । अ॒स॒त् । न । व॒क्ष॒ति॒ । क्षि॒प्ता । जू॒र्णिः । न । व॒क्ष॒ति॒ ॥८
 
प्रऽप्र । वः । अस्मे इति । स्वयशःऽभिः । ऊती । परिऽवर्गे । इन्द्रः । दुःऽमतीनाम् । दरीमन् । दुःऽमतीनाम् ।
पङ्क्तिः २१२:
स्वयम् । सा । रिषयध्यै । या । नः । उपऽईषे । अत्रैः ।
 
हता । ईम् । असत् । न । वक्षति । क्षिप्ता । जूर्णिः । न । वक्षति ॥८
 
हे ऋत्विजः “वः युष्मदर्थम् “अस्मे अस्मदर्थं च अयम् “इन्द्रः “स्वयशोभिः स्वकीययशोयुक्तैः “ऊती ऊतिभिः रक्षणैः “दुर्मतीनां दुर्मननयुक्तानां विरोधिनां “परिवर्गे परितो वर्जने निमित्तभूते सति “प्रप्र प्रकृष्टो भवति समर्थो भवतीत्यर्थः। द्विर्भावः पादपूरणः । यद्वा । हे ऋत्विजः वः युष्मदर्थम् अस्मे अस्माकं संबन्धिभिः स्वयशोभिः स्वयमेव अन्यनैरपेक्ष्येण स्तोतुं समर्थैः स्तोत्रैः तुष्टः सन् ऊती ऊतौ रक्षणे प्रप्र प्रकृष्टो भवति ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ कुत्रेति तदुच्यते । दुर्मतीनां दुष्टानां परिवर्गे परितो वर्जनवति संग्रामे यागे वा । पुनः स एव विशेष्यते। “दुर्मतीनां दुष्टबहुमानवतां हननबुद्धीनां “दरीमन् दरीमणि अतिशयेन दारयितरि । एवमिन्द्रे सम्यक् पालयति सति “अत्रैः भक्षकैः अस्मद्विरोधिभिः "या "जूर्णिः जववती सेना। जूर्णिर्जवतेर्वा द्रवतेर्वा दूनोतेर्वा (निरु. ६. ४) इति यास्कः। “नः अस्मान् प्रति “रिषयध्यै हिंसितुम् ॥ रिषेर्ण्य॑न्तात् तुमर्थे शध्यैप्रत्ययः ॥ “उपेषे उपगन्तुमस्मान् प्राप्तुम् ॥ ‘ ईङ गतौ । तुमर्थे क्सेप्रत्ययः ॥ “क्षिप्ता प्रेरिता “सा सेना “स्वयं “हतेमसत् हिंसितैवासीत् । “न “वक्षति अस्मान्न वहेत् न प्राप्नोति । तथा अस्मद्धिंसकान् शत्रूनपि पुनः “न “वक्षति न वहति ॥ वहेर्लेटि अडागमः । ‘सिब्बहुलम्' इति सिप् ॥ इन्द्रसामर्थ्येन तत्रैव नष्टाभूदित्यर्थः ॥
पङ्क्तिः २२७:
सच॑स्व । नः॒ । प॒रा॒के । आ । सच॑स्व । अ॒स्त॒म्ऽई॒के । आ ।
 
पा॒हि । नः॒ । दू॒रात् । आ॒रात् । अ॒भिष्टि॑ऽभिः । सदा॑ । पा॒हि॒ । अ॒भिष्टि॑ऽभिः ॥९
 
त्वम् । नः । इन्द्र । राया । परीणसा । याहि । पथा । अनेहसा । पुरः । याहि । अरक्षसा ।
पङ्क्तिः २३३:
सचस्व । नः । पराके । आ । सचस्व । अस्तम्ऽईके । आ ।
 
पाहि । नः । दूरात् । आरात् । अभिष्टिऽभिः । सदा । पाहि । अभिष्टिऽभिः ॥९
 
हे “इन्द्र “त्वं “नः “पथा अस्मत्संबन्धिना मार्गेण “पुरो “याहि आगच्छ ॥ भस्य टेर्लोपः । उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् ॥ कीदृशेन मार्गेण । “अरक्षसा रक्षोवर्जितेन “अनेहसा अपापेन। यज्ञगमनमार्गस्य स्तुतिचोदितत्वात अनेहस्त्वम्। यद्वा। नः अस्मानुद्दिश्य याहि। किंविशिष्टः इति । “परीणसा परितो नद्धेन “राया अस्मभ्यं दातव्येन बहुविधधनेन युक्तः सन् । हे इन्द्र “नः अस्मान् “पराके अत्यन्तदूरदेशात् स्वर्गलक्षणात् “आ “सचस्व समवेतो भव । पराके इति दूरनाम, ‘पराके पराचैः (नि. ३. २६.२) इति तन्नामसु पाठात्। तथा “अस्तमीके अत्यन्तान्तिके देवयजनदेशे “सचस्व अस्मत्प्रत्तं हविः सेवस्व संगच्छस्व वा । किंच “नः अस्मान् “दूरात् दूरदेशात् स्वर्गादेः सकाशात् "पाहि रक्ष । "आरात् संनिहितात् इह लोकात् "पाहि पालय । यद्वा । दूरात् अयागकाले स्वर्गे एव उषित्वा अस्मान् पाहि पालय। आरात् यागकाले संनिहिते देवयजनदेशे पाहि । केनेति तदुच्यते । “अभिष्टिभिः अभिमुखैर्यागैः तन्निर्वाहैः । यद्वा। अभ्यागमनैः। किं बहुना । “सदा सर्वकालं यागकाले अयागकाले दूरेऽन्तिके' चे “अभिष्टिभिः अभित एषणैः “पाहि सम्यक् परिपालय ॥
पङ्क्तिः २४८:
ओजि॑ष्ठ । त्रातः॑ । अवि॑त॒रिति॑ । रथ॑म् । कम् । चि॒त् । अ॒म॒र्त्य॒ ।
 
अ॒न्यम् । अ॒स्मत् । रि॒रि॒षेः॒ । कम् । चि॒त् । अ॒द्रि॒ऽवः॒ । रिरि॑क्षन्तम् । चि॒त् । अ॒द्रि॒ऽवः॒ ॥१०
 
त्वम् । नः । इन्द्र । राया । तरुषसा । उग्रम् । चित् । त्वा । महिमा । सक्षत् । अवसे । महे । मित्रम् । न । अवसे ।
पङ्क्तिः २५४:
ओजिष्ठ । त्रातः । अवितरिति । रथम् । कम् । चित् । अमर्त्य ।
 
अन्यम् । अस्मत् । रिरिषेः । कम् । चित् । अद्रिऽवः । रिरिक्षन्तम् । चित् । अद्रिऽवः ॥१०
 
हे “इन्द्र “त्वं “नः अस्मान् “तरूषसा तरणकुशलेन अस्मानापद्यःात उत्तरीतुं शक्तेन "राया धनेन उद्धर्ता भवेति शेषः । हे इन्द्र “त्वा त्वाम् “उग्रं “चित् उद्गूर्णबलं सन्तं त्वामेव “महिमा महत्त्वम् अस्मत्स्तोत्रजनितः कश्चिदतिशयः “सक्षत् सेवते संभजते उत्कर्षयतीत्यर्थः। किमर्थम् । “अवसे त्वत्प्रीतये । तत्र दृष्टान्तः । “महे महते “अवसे रक्षणाय प्रकाशारोग्यादिरूपाय “मित्रं “न सर्वजनमित्रं सूर्यमिव । तं यथा महत्त्वेन संयोजयन्ति तथेत्यर्थः । यद्वा । मित्रं न प्रियहितरूपं सखायमिव । तं यथा महत्यै प्रीतये संभजन्ते तद्वत् । किंच हे "ओजिष्ठ ओजस्वितम अतिशयेन बलवन् “त्रातः रक्षितः अस्मान् पालयितर्वा "अमर्त्य अमरणधर्मन् इन्द्र “अवितः अस्मान् धनेन तर्पयितः त्वं “कं “चित् “रथं वेगवन्तमारुह्य अस्मद्देवयजनं शीघ्रमागच्छेति शेषः । तथा हे “अद्रिवः शत्रूणामतिशयेन भक्षकेन्द्र “अस्मत् "अन्यं “रिरिक्षन्तं “चित् अल्पं महान्तं वा। शत्रुमिति शेषः । “रिरिषः बाधस्व । तथा हे "अद्रिवः अद्रेरादर्तर्भक्षक वा शत्रूणाम् ।' अद्रिवन्नद्रिरादृणात्यनेनापि वात्तेः स्यात् ' (निरु. ४. ४ ) इति निरुक्तम् । रिरिक्षन्तं चित अत्यन्तं कुत्सितं हिंसन्तमपि शत्रुं रिरिषेः बाधस्व॥ ‘रिष हिंसायाम् । छान्दसः शपः श्लुः । पुनर्व्यत्ययेन शः । रिरिक्षन्तम् । अस्मादेव सनि हलन्ताच्च इति सनः कित्त्वात् गुणाभावः । चिदित्यवकुत्सितः। ‘ कुल्माषांश्चिदाहरेत्यवकुत्सिते ' (निरु. १. ४ ) इति यास्केनोक्तत्वात् । यद्वा । समुच्चयार्थः । कंचित् इत्यनेन सह समुच्चीयते ।।
पङ्क्तिः २६९:
ह॒न्ता । पा॒पस्य॑ । र॒क्षसः॑ । त्रा॒ता । विप्र॑स्य । माऽव॑तः ।
 
अध॑ । हि । त्वा॒ । ज॒नि॒ता । जीज॑नत् । व॒सो॒ इति॑ । र॒क्षः॒ऽहन॑म् । त्वा॒ । जीज॑नत् । व॒सो॒ इति॑ ॥११
 
पाहि । नः । इन्द्र । सुऽस्तुत । स्रिधः । अवऽयाता । सदम् । इत् । दुःऽमतीनाम् । देवः । सन् । दुःऽमतीनाम् ।
पङ्क्तिः २७५:
हन्ता । पापस्य । रक्षसः । त्राता । विप्रस्य । माऽवतः ।
 
अध । हि । त्वा । जनिता । जीजनत् । वसो इति । रक्षःऽहनम् । त्वा । जीजनत् । वसो इति ॥११
 
हे “इन्द्र “सुष्टुत शोभनस्तुत त्वं “स्त्रिधः दुःखात् तदुत्पादकात् पापाद्वा “नः अस्मान् “पाहि रक्ष । यतः त्वं “दुर्मतीनां दुर्मनस्कानां रक्षःप्रभृतीनाम् ॥ ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥ “सदमित् सर्वदैव “अवयाता अधोयापयिता प्रापयितासि । अतः पाहि । अत एव हे इन्द्र “देवः अस्मत्स्तुत्या हृष्टः “सन् "दुर्मतीनां दुष्टमननवतां यागविघातकानाम् अवयाता असि । तथा “रक्षसः रक्षणनिमित्तभूतस्य । ‘ रक्षो रक्षितव्यमस्मात् ' (निरु. ४. १८) इति यास्कः । तादृशस्य "पापस्य फलप्रतिबन्धरूपस्य “हन्ता घातकोऽसि । यद्वा । पापस्य पापिनः रक्षसः राक्षसादेः हन्तासि । तथा “मावतः मत्सदृशस्य “विप्रस्य मेधाविनः यजमानस्य “त्राता रक्षितासि । “अध अतो हेतोः हे इन्द्र “वसो सर्वेषां निवासभूत “त्वा त्वां “जनिता सर्वस्य जनयितादिकर्ता परमेश्वरः “जीजनत् अजनयत् उत्पादितवान् । तथा हे “वसो वासयितः “त्वा त्वां “रक्षोहणं "जीजनत् रक्षोहननाय उत्पादितवान् ॥ जनयतेर्लुङि चङि रूपम् ॥ यज्ञादिविघातिनां रक्षःप्रभृतीनां विघाताय हीन्द्रस्यावतारः। ‘ तमिन्द्रो देवतान्वसृज्यत' (तै. सं. ७. १. १. ४) इत्यादिप्रसिद्धद्योतनार्थो हि शब्दः ॥ ॥ १७ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२९" इत्यस्माद् प्रतिप्राप्तम्