"ऋग्वेदः सूक्तं १०.१३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०२:
यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । धियः । हिन्वानः । धियः । इत् । नः । अव्याः ॥५
 
“विश्वावसुः “गन्धर्वः “नः अस्माकं “तत् "अभि “गृणातु अभिमुखं ब्रवीतु ।। ' गॄ शब्दे । क्रैयादिकः । प्वादित्वात् ह्रस्वः । कीदृशः । “दिव्यः दिवि भवः तथा “रजसः उदकस्य “विमानः निर्माता । किं पुनस्तत् । “यद्वा “घ यच्च खलु "सत्यम् अवितथं यथार्थफलं कर्मजातम् । उतशब्दश्चार्थे । “यत् च “न “विद्म न जानीमः तदुभयं ब्रवीत्वित्यर्थः ॥ ‘ ऋचि तुनुघ° । इत्यादिना घशब्दस्य सांहितिको दीर्घः ॥ शिष्टः पादः प्रत्यक्षकृतः । हैहे विश्वावसो “धियः कर्माणि “हिन्वानः सोमेन प्रवर्धयन् ॥ ‘ हि गतौ वृद्धौ च ' । यद्वा । धियः स्तुतीर्हिन्वानः प्राप्नुवन् “नः अस्माकं “धिय “इत् कर्माण्येव बुद्धीरेव वा “अव्याः रक्ष ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३९" इत्यस्माद् प्रतिप्राप्तम्