"ऋग्वेदः सूक्तं १०.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २९:
एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे ।
 
सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥१
 
एकः॑ । स॒मु॒द्रः । ध॒रुणः॑ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि॑ऽजन्मा । वि । च॒ष्टे॒ ।
 
सिस॑क्ति । ऊधः॑ । नि॒ण्योः । उ॒पऽस्थे॑ । उत्स॑स्य । मध्ये॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ॥१
 
एकः । समुद्रः । धरुणः । रयीणाम् । अस्मत् । हृदः । भूरिऽजन्मा । वि । चष्टे ।
 
सिसक्ति । ऊधः । निण्योः । उपऽस्थे । उत्सस्य । मध्ये । निऽहितम् । पदम् । वेरिति वेः ॥१
 
“समुद्रः यस्माद्धनान्युदकानि वा समुद्द्रवन्तीति तादृशः “रयीणां धनानां “धरुणः धारयिता “एकः असहायः “भूरिजन्मा बहुविधजननो नानायज्ञेष्वाहवनीयादिभावेन बहुजननः सोऽग्निः “अस्मत् ॥ ‘सुपां सुलुक्' इति षष्ठ्या लुक् । अस्माकं “हृदः हृदयान्यभिलषितानि “वि “चष्टे विपश्यति जानाति । उक्तं च- ‘ मनो वै देवा मनुष्यस्य जानन्ति इति । किंच “निण्योः । अन्तर्हितनामैतत् । अन्तर्हितयोर्ज्योतिस्तमोभ्यामाच्छादितयोः प्रातःसायंकालयोः “उपस्थे उपस्थाने समीपे वर्तमानम् “ऊधः रात्रिं “सिषक्ति सेवते उपजीवति । यद्वा । निण्योरन्तर्हितस्यान्तरिक्षस्य समीपे वर्तमानमूधो मेघं सेवते । अथ प्रत्यक्षः । हे अग्ने “उत्सस्य उदकधारकस्य लोकस्य “मध्ये “पदम् अपां स्थानं “निहितम् । तत् माध्यमिकां वाचं “वेः गच्छ । यद्वा । उत्सस्य मेघस्य मध्ये निहितं पदं विद्युदाख्यं तत् स्वात्मतया गच्छ ॥ वेः। वी गत्यादिषु । लङि सिपि रूपम् । वाक्यभेदादनिघातः ॥
 
 
स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑ना॒ः सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः ।
 
ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥२
 
स॒मा॒नम् । नी॒ळम् । वृष॑णः । वसा॑नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व॑तीभिः ।
 
ऋ॒तस्य॑ । प॒दम् । क॒वयः॑ । नि । पा॒न्ति॒ । गुहा॑ । नामा॑नि । द॒धि॒रे॒ । परा॑णि ॥२
 
समानम् । नीळम् । वृषणः । वसानाः । सम् । जग्मिरे । महिषाः । अर्वतीभिः ।
 
ऋतस्य । पदम् । कवयः । नि । पान्ति । गुहा । नामानि । दधिरे । पराणि ॥२
 
“वृषणः आहुतीनां सेक्तारः “समानम् एकं “नीळं स्थानमग्निं “वसानाः मन्त्रत आच्छादयन्तः “महिषाः महान्तो यजमानाः “अर्वतीभिः वडवाभिः “सं “जग्मिरे समगच्छन्त । अश्ववन्तोऽभूवन् । यद्वा । अग्निमेवात्मीययज्ञं प्रत्यागन्तुं रोहिदाख्याभिर्वडवाभिः संयोजितवन्तः । तथा “कवयः मेधाविनः “ऋतस्य उदकस्य “पदम् आवासस्थानमग्निं “नि “पान्ति नितरां रक्षन्ति । हविर्भिः स्तुतिभिश्च आराधयन्तीत्यर्थः। ततः “गुहा गुहायामन्तरिक्षे स्थितानि दिव्यानि “नामानि उदकानि “दधिरे धारयन्ति । यद्वा । गुहा गूढे संवृते हृदये “पराणि प्रधानान्यग्निर्जातवेदा वैश्वानर इत्यादीनि नामानि दधिरे कुर्वन्ति । स्तुवन्तीत्यर्थः ॥
 
 
ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती ।
 
विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्तः॑ ॥३
 
ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ ।
 
विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥३
 
ऋतयिनी इत्यृतऽयिनी । मायिनी इति । सम् । दधाते इति । मित्वा । शिशुम् । जज्ञतुः । वर्धयन्ती इति ।
 
विश्वस्य । नाभिम् । चरतः । ध्रुवस्य । कवेः । चित् । तन्तुम् । मनसा । विऽयन्तः ॥३
 
“ऋतायिनी ऋतवत्यौ सत्यवत्यौ अत एव “मायिनी प्रज्ञावत्यौ कर्मंयुक्ते वा द्यावापृथिव्यौ यज्ञसाधनभूते अरणी वा इममग्निं “सं “दधाते सम्यक् धारयतः । अग्निसूर्यात्मना केवलाग्न्यात्मना वा संदधाते। “मित्वा कालपरिमाणं कृत्वा यद्वा संपरिच्छिद्य “शिशुं शंसनीयं बालमग्निं “जज्ञतुः जनयतः। “वर्धयन्ती वर्धयन्त्यौ द्यावापृथिव्यौ लोके यथा परिच्छेदाय पुत्रं पितरौ जनयतस्तद्वत् । ततः “विश्वस्य सर्वस्य “चरतः जङ्गमस्य “ध्रुवस्य स्थावरस्य च जगतः “नाभिं नाभिभूतं मध्यं प्रधानभूतं वा “कवेः मेधाविनोऽग्नेः “तन्तुं तनितारं वैश्वानरराख्यमंशमेव “मनसा “वियन्तः विविधं गच्छन्तो मनुष्याः सुखेन युज्यन्त इति शेषः । तं वयं यजाम इति ॥
 
 
ऋ॒तस्य॒ हि व॑र्त॒नय॒ः सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिव॒ः सच॑न्ते ।
 
अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नाम् ॥४
 
ऋ॒तस्य॑ । हि । व॒र्त॒नयः॑ । सुऽजा॑तम् । इषः॑ । वाजा॑य । प्र॒ऽदिवः॑ । सच॑न्ते ।
 
अ॒धी॒वा॒सम् । रोद॑सी॒ इति॑ । व॒व॒सा॒ने इति॑ । घृ॒तैः । अन्नैः॑ । व॒वृ॒धा॒ते॒ इति॑ । मधू॑नाम् ॥४
 
ऋतस्य । हि । वर्तनयः । सुऽजातम् । इषः । वाजाय । प्रऽदिवः । सचन्ते ।
 
अधीवासम् । रोदसी इति । ववसाने इति । घृतैः । अन्नैः । ववृधाते इति । मधूनाम् ॥४
 
“ऋतस्य यज्ञस्य “वर्तनयः प्रवर्तकाः “इषः अभिलषितानीच्छन्तः “प्रदिवः पुरातना ऋविग्यजमानाः “सुजातम् आधानकाले सुष्ठूत्पन्नमग्निं “वाजाय बलार्थमन्नार्थं वा “सचन्ते “हि सेवन्ते खलु । अपि च “वावसाने सर्वस्य जगत आच्छादयित्र्यौ “रोदसी द्यावापृथिव्यौ “अधीवासम् ओषधिनक्षत्राद्यात्मना निवसन्तम् । यद्वा । अधिरुपर्यर्थे । त्रयाणां लोकानामुपर्यग्निविद्युदादित्यात्मना निवसन्तम् । अग्निं “मधूनाम् उदकानां जन्यत्वेन संबन्धिभिः “घृतैरन्नैः पुरोडाशादिभिश्च “वावृधाते वर्धयां चक्रतुः । वर्धयतः । तस्माद्वयमपि तमग्निमभिष्टुम इत्यभिप्रायः ॥
 
 
स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कम् ।
 
अ॒न्तर्ये॑मे अ॒न्तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥५
 
स॒प्त । स्वसॄः॑ । अरु॑षीः । वा॒व॒शा॒नः । वि॒द्वान् । मध्वः॑ । उत् । ज॒भा॒र॒ । दृ॒शे । कम् ।
 
अ॒न्तः । ये॒मे॒ । अ॒न्तरि॑क्षे । पु॒रा॒ऽजाः । इ॒च्छन् । व॒व्रिम् । अ॒वि॒द॒त् । पू॒ष॒णस्य॑ ॥५
 
सप्त । स्वसॄः । अरुषीः । वावशानः । विद्वान् । मध्वः । उत् । जभार । दृशे । कम् ।
 
अन्तः । येमे । अन्तरिक्षे । पुराऽजाः । इच्छन् । वव्रिम् । अविदत् । पूषणस्य ॥५
 
“वावशानः कामयमानो वाश्यमानः स्तोतृभिः स्तूयमानो वा “विद्वान् सर्वं जानानः सोऽग्निः “अरुषीः अरोचमानाः “सप्त सप्तसंख्याकाः “स्वसॄः स्वयंसारिणीः ‘ काली कराली च' ( मु. उ. १. २. ४ ) इत्यादिकाः सप्त जिह्वाः “मध्वः मदकरात् यज्ञात् “उज्जभार उज्जहार । ऊर्ध्वं हृतवान् । यज्ञे स्वतेजसा प्रादुर्भूत इत्यर्थः । किमर्थम् । “कं सुखेन “दृशे सर्वेषामेव पदार्थानां दर्शनार्थम् । किंच “पुराजाः पुराजातः सोऽग्निर्द्यावापृथिव्योः “अन्तः मध्ये “अन्तरिक्षे स्थितः ता जिह्वाः “येमे नियमितवान् । सर्वत्र तेजोयुक्तो वर्तत इत्यर्थः । अपि च “इच्छन् यजमानान् कामयमानोऽग्निः “पूषणस्य । पूषेति पृथिवीनाम। पार्थिवस्य लोकस्य “वव्रिं रूपं पृश्निवर्णम् “अविदत् प्रायच्छत् । यद्वा । ‘मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन्' (ऋ. सं. १०.८८.६ ) इति मन्त्रान्तरे दर्शनादादित्यात्मनाग्निः स्तूयते । कामयमानः सूर्यात्माग्निः सप्तसंख्याकान् स्वसॄ रश्मीन् मध्वः समुद्रोदकादुद्धृतवान् । ततोऽन्तरिक्षे विद्युदात्मना स्थित्वा वृष्टिलक्षणं रूपं पृथिव्याः प्रायच्छदिति ॥
 
 
स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् ।
 
आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥६
 
स॒प्त । म॒र्यादाः॑ । क॒वयः॑ । त॒त॒क्षुः॒ । तासा॑म् । एका॑म् । इत् । अ॒भि । अं॒हु॒रः । गा॒त् ।
 
आ॒योः । ह॒ । स्क॒म्भः । उ॒प॒ऽमस्य॑ । नी॒ळे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥६
 
सप्त । मर्यादाः । कवयः । ततक्षुः । तासाम् । एकाम् । इत् । अभि । अंहुरः । गात् ।
 
आयोः । ह । स्कम्भः । उपऽमस्य । नीळे । पथाम् । विऽसर्गे । धरुणेषु । तस्थौ ॥६
 
“कवयः मेधाविन ऋषयः “सप्त “मर्यादाः । कामजेभ्यः क्रोधजेभ्यश्चोद्धृताः पानमक्षाः स्त्रियो मृगया दण्डः पारुष्यमन्यदूषणमिति सप्त मर्यादाः । यद्वा । स्तेयं गुरुतल्पारोहणं ब्रह्महत्यां सुरापानं दुरुकृतकर्मणः पुनःपुनः सेवां पातकेऽनृतोद्यम्' (निरु. ६. २७) इति निरुक्ते निर्दिष्टाः सप्त मर्यादाः । अवस्थिताः “ततक्षुः । तक्षतिः करोतिकर्मा । सुष्ठु लङ्घनीयाश्चक्रुः । त्यक्तवन्त इत्यर्थः । “तासां मर्यादानाम् “एकामित् एकामेव अंहुरः पापवान् पुरुषः “अभि “गात् अभिगच्छति । यस्त्वेवं करोति स पापवान् भवतीत्यर्थः । किंच “आयोः तस्य मनुष्यस्य “स्कम्भः स्कम्भयिता निरोधकोऽग्निः “उपमस्य समीपभूतस्यायोः “नीळे स्थाने “पथाम् आदित्यरूपस्य स्वस्य रश्मीनां “विसर्गे विसर्जनस्थानेऽन्तरिक्षमध्ये वर्तमानेषु “धरुणेषु उदकेषु “तस्थौ विद्युदात्मना तिष्ठति । अनेन लोकत्रयवर्तित्वमिति ।।
 
 
अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ ।
 
अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥७
 
अस॑त् । च॒ । सत् । च॒ । प॒र॒मे । विऽओ॑मन् । दक्ष॑स्य । जन्म॑न् । अदि॑तेः । उ॒पऽस्थे॑ ।
 
अ॒ग्निः । ह॒ । नः॒ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । पूर्वे॑ । आयु॑नि । वृ॒ष॒भः । च॒ । धे॒नुः ॥७
 
असत् । च । सत् । च । परमे । विऽओमन् । दक्षस्य । जन्मन् । अदितेः । उपऽस्थे ।
 
अग्निः । ह । नः । प्रथमऽजाः । ऋतस्य । पूर्वे । आयुनि । वृषभः । च । धेनुः ॥७
 
“असत् अव्याकृतं "सच्च व्याकृतम् । असदेवेदमग्र आसीत् तत्सदासीत् तत्समभवत् ' ( छा. उ. ३. १९. १ ) इति श्रुतेः । सदसदात्मकं जगत् सर्वं “परमे उत्तमे ज्ञानसहिते “व्योमन् व्योमनि कारणात्मनि जातमभूत् सदा । "अदितेः पृथिव्याः “उपस्थे उपस्थाने समीपे “दक्षस्य प्रजापतेः । यद्वा दक्षस्य । ‘स त्रेधात्मानं व्यभजतादित्यं तृतीयं वायुं तृतीयम्' (श. ब्रा. १०. ६. ५. ३ ) इति श्रुतेः तृतीयस्य द्युलोकस्याधिष्ठातृत्वादादिस्यस्य । “जन्मन् जन्मनि । तत एवं सति मनुष्यस्य सृष्टिक्रमात् पूर्वम् “अग्निर्ह अग्निरेव “ऋतस्य कर्मफलस्य भोक्तॄणां “नः अस्माकं “प्रथमजाः प्रथममेव जातः समुत्पन्नः । ‘ तेजो रसो निरवर्तताग्निः' (श, ब्रा. १०. ६. ५, २; बृ. उ. १. १. १. ) इति श्रवणात् । पश्चात् तत्प्रकरणे ‘ ततो मनुष्या अजायन्त' इति प्रथमत एव मनुष्यसृष्टेरभिहितत्वात् अनन्तरं “पूर्वे उत्तर सृष्टिमपेक्ष्य पूर्वस्मिन् “आयुनि कालेऽयमग्निरेव “वृषभश्च आसीत् । “धेनुः च अभवत् । स्त्रीपुंसवत् स्त्रीपुंसात्मकोऽभवदित्यर्थः ॥ ॥ ३३ ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये सप्तमाष्टके पञ्चमोऽध्यायः ॥ :
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५" इत्यस्माद् प्रतिप्राप्तम्