"ऋग्वेदः सूक्तं १०.६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २४:
</span></poem>
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
सप्तमस्याष्टकस्येत्थं व्याकार्षीत् पञ्चमं सुधीः ।।
 
सायणाह्णस्ततः षष्ठमध्यायं व्याचिकीर्षति ॥
 
दशमे मण्डले प्रथमेऽनुवाके षोडश सूक्तानि । तत्र ‘ अयं स यस्य' इति सप्तर्चं षष्ठं सूक्तमाप्त्यस्य त्रितस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ अयम्' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।
 
 
अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ ।
 
Line ३५ ⟶ ४८:
 
ज्येष्ठेभिः । यः । भानुऽभिः । ऋषूणाम् । परिऽएति । परिऽवीतः । विभाऽवा ॥१
 
“जरिता स्तोता “अभिष्टौ यागे कृते “यस्य “अग्नेः “अवोभिः पालनैः “शर्मन् शर्मणि स्वगृहे “एधते वर्धते “सः “अयम् अग्निर्यागार्थमस्माभिराहूत इति शेषः । “विभावा दीप्तिमान् “यः अग्निः “ऋषूणां सूर्यरश्मीनां “ज्येष्ठेभिः प्रशस्तैः “भानुभिः तेजोभिः “परिवीतः परिवृतः “पर्येति सर्वतो गच्छति । यत्र यत्र गन्तव्यं तत्र तत्राप्रतिहतगतिर्गच्छतीत्यर्थः ।।
 
 
Line ४८ ⟶ ६३:
 
आ । यः । विवाय । सख्या । सखिऽभ्यः । अपरिऽह्वृतः । अत्यः । न । सप्तिः ॥२
 
“ऋतवा सत्यवानुदकवान् यज्ञवान् वा “अजस्रः अनुपक्षीणोऽहिंसितो वा । केनचिदनभिभूत इत्यर्थः । “विभावा दीप्तिमान् “यः अग्निर्देवेभिः देवैर्द्योतमानैः “भानुभिः तेजोभिः “विभाति विविधं दीप्यते किंच “यः अग्निः “सख्या सख्यानि सखिभिः कर्तव्यानि कर्माणि हविरादीनि । कर्तुमिति शेषः । “सखिभ्यः सखिभूतानां यजमानानामर्थाय “अपरिह्वृतः अपरिहिंसितः । अपरिरश्रान्त इत्यर्थः । “आ “विवाय आभिमुख्येन गच्छति । तत्र दृष्टान्तः । “सप्तिः । सदासर्पण इत्यर्थः । “अत्यो “न यथा सततगमनसमर्थोऽश्वोऽपरिश्रान्तो गच्छति तद्वत् । सोऽयमग्निरस्माभिर्यागार्थमाहूत इति पूर्ववद्योज्यम् ॥
 
 
Line ६१ ⟶ ७८:
 
आ । यस्मिन् । मना । हवींषि । अग्नौ । अरिष्टऽरथः । स्कभ्नाति । शूषैः ॥३
 
"यः अग्निः “विश्वस्याः "देववीतेः सर्वस्य यज्ञस्य “ईशे ईष्टे । अपि च “विश्वायुः सर्वत्राप्रतिहतगमनः “उषसो “व्युष्टौ विवासन उदयकाले होमार्थं यजमानानाम् “ईशे ईष्टे । “शूषैः शत्रुबलैः “अरिष्टरथः अहिंसितयज्ञरथः सर्व एव यजमानः “यस्मिन् “अग्नौ “मना मननीयानि “हवींषि “आ “स्कभ्नाति आदरेण प्रतिबध्नाति प्रक्षिपति । सोऽयमग्निरस्माभिर्यागार्थमाहूत इत्यर्थः ॥
 
 
Line ७४ ⟶ ९३:
 
मन्द्रः । होता । सः । जुह्वा । यजिष्ठः । सम्ऽमिश्लः । अग्निः । आ । जिघर्ति । देवान् ॥४
 
“वृधः वर्धितोऽग्निः “शूषेभिः हविर्लक्षणैर्बलै:। बलनिमित्तैर्हविर्भिरित्यर्थः । अर्केः स्तोत्रैश्च “जुषाणः सेव्यमानः सन् “देवान् इन्द्रादीन् “अच्छ आप्तुं “रघुपत्वा लघुपतनः शीघ्रगामी “जिगाति गच्छति। गत्वा च “मन्द्रः स्तुत्यः “होता देवानामाह्वाता होमनिष्पादको वा “यजिष्ठः यष्टृतमः “संमिश्लः स्वगुणैर्देवैर्वा संप्रयुक्तः “सः “अग्निः “देवान् प्रति हविः “आ “जिघर्ति आहारयति । देवेभ्यो हविर्ददातीत्यर्थः ॥
 
 
Line ८७ ⟶ १०८:
 
आ । यम् । विप्रासः । मतिऽभिः । गृणन्ति । जातऽवेदसम् । जुह्वम् । सहानाम् ॥५
 
हे ऋत्विजो यूयम् “उस्रां भोगानामुत्स्राविणं दातारं “रेजमानं ज्वालात्मना कम्पमानं “तम् “अग्निम् “इन्द्रं “न इन्द्रमिव “गीर्भिः स्तुतिभिः “नमोभिः हविर्भिश्च “आ “कृणुध्वम् । अस्मदभिमुखं कुरुतः। “विप्रासः मेधाविनः स्तोतारः “सहानां शत्रुबलाद्यभिभवितॄणां देवानां जुह्वम् आह्वातारं “जातवेदसं जातधनं जातप्रज्ञं वा “यम् अग्निम् “आ “गृणन्ति आदरेण स्तुवन्ति । तमा कृणुध्वमिति पूर्वेण संबन्धः ॥
 
 
Line १०० ⟶ १२३:
 
अस्मे इति । ऊतीः । इन्द्रवातऽतमाः । अर्वाचीनाः । अग्ने । आ । कृणुष्व ॥६
 
हे अग्ने “यस्मिन् स्वयि विश्वानि “वसूनि धनानि “सं “जग्मुः स्वत्वेन संगतानि भवन्ति । तत्र दृष्टान्तः । “एवैः गमनैः “सप्तीवन्तः सर्पणवन्तः शीघ्रगमनसमर्थाः “अश्वाः “वाजे "न यथा संग्रामे संगतास्तद्वत् । हे “अग्ने स त्वम् “इन्द्रवाततमाः इन्द्रेणाभिगताः “ऊतीः रक्षाः “अस्मे अस्मासु “अर्वाचीनाः अभिमुखीः “आ “कृणुष्व आदरेण कुरु ।
 
 
Line ११३ ⟶ १३८:
 
तम् । ते । देवासः । अनु । केतम् । आयन् । अध । अवर्धन्त । प्रथमासः । ऊमाः ॥७
 
“अध अनन्तरं “हि यस्माद्धे “अग्ने त्वं “मह्ना महत्त्वेन “जज्ञानः जायमानो ज्वलन् “निषद्य उपविश्य “सद्यः तस्मिन् प्रजननकाल एव “हव्यः हवनार्ह आहुतिप्रक्षेपार्हः “बभूथ भवसि तस्मात् कारणात् "देवासः हविषां दातारः ऋत्विग्यजमानाः “ते तव स्वभूतं तं तादृशं “केतं प्रज्ञानलक्षणम् “अनु "आयन् अनुगच्छन्ति । दीप्ते त्वयि हवींषि जुह्वतीत्यर्थः । “अध अनन्तरमृत्विगादयः “प्रथमासः क्रियाभिजनविद्यागुणैरुत्कृष्टाः “ऊमाः त्वया रक्षिताः सन्तः “अवर्धन्त वर्धन्ते ॥ ॥ १ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६" इत्यस्माद् प्रतिप्राप्तम्