"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९६:
भूम्याः वृतत्वं केन प्रकारेण भवेत्। महाभारते [[महाभारतम्-03-आरण्यकपर्व-136|वनपर्वे १३४]] अध्याये अष्टावक्र - वन्दि संवादः विद्यते यत्र अष्टावक्रः दशसंख्यायाः वैशिष्ट्यं कथ्यते। एकः वैशिष्ट्यं अस्ति - दश दिशः। यदि साधकः दशदिशानामुपरि आधिपत्यं प्राप्नोति, तदा भूम्याः वृतत्वं संभवति। दशदिशासु अष्टदिशानां गुणानां विवेचनं [http://puranastudy.angelfire.com/pur_index2/ashta_sakhi1.htm अष्टसखी शब्दस्य टिप्पण्यां] विद्यते।
 
अत्यतिष्ठद् - ऋग्वेद [[ऋग्वेदः सूक्तं १.१६३|१.१६३.२]] मध्ये कथनमस्ति - इन्द्र एणं (अर्वोपरि) प्रथमो अध्यतिष्ठत्। अतएव, अत्यतिष्ठत् - यमनाय, नियन्त्रणाय। दशाङ्गुलम् - विष्णुधर्मोत्तरपुराणे [[विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०३६-०४०|३.३६]] कथनमस्ति यत् ग्रीवायाः मानं दश अङ्गुलं भवति। अङ्गुलमानस्य रहस्यं किमस्ति, अन्वेषणीयः। महाभारते द्रोणपर्व [[महाभारतम्-07-द्रोणपर्व-191|१९०.५५]] मध्ये कथनमस्ति यत् युधिष्ठिरस्य रथः, यः पृथिवीतः चतुरङ्गुलमानेन उच्छ्रितः आसीत्, अनृतवचनेन भूमिस्पर्शी अभवत्। लक्ष्मीनारायणसंहिता [[लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५८१|१.५८१.३१]] अनुसारेण यत्र नारायणेन भूम्या उपरि स्वकण्ठमण्याः स्थापना कृता आसीत्, तत् पुरुषोत्तमक्षेत्रः अस्ति। पुरुषसूक्तस्य पुरुषोत्तमक्षेत्रेण सह तादात्म्यं अस्ति वा न वा, अन्वेषणीयः अस्ति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्