"ऋग्वेदः सूक्तं १०.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
आ । अ॒ग्निम् । न । स्ववृ॑क्तिऽभिः । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।
 
य॒ज्ञाय॑ । स्ती॒र्णऽब॑र्हिषे । वि । वः॒ । मदे॑ । शी॒रम् । पा॒व॒कऽशो॑चिषम् । विव॑क्षसे ॥१
 
आ । अग्निम् । न । स्ववृक्तिऽभिः । होतारम् । त्वा । वृणीमहे ।
 
यज्ञाय । स्तीर्णऽबर्हिषे । वि । वः । मदे । शीरम् । पावकऽशोचिषम् । विवक्षसे ॥१
 
हे अग्ने “वः तव स्वभूते “विमदे एतदाख्य ऋषौ मयीयं स्तुतिः प्रवृत्तास्ति । “न इति संप्रत्यर्थे । अतो वयमिदानीं “स्ववृक्तिभिः स्वयंकृताभिर्दोषवर्जिताभिः स्तुतिभिः “होतारं देवानामाह्वातारं होमनिष्पादकं वा “अग्निं “त्वा त्वाम् “आ “वृणीमहे आभिमुख्येन संभजामहे । किमर्थम् । “स्तीर्णबर्हिषे यज्ञाय। तादर्थ्ये चतुर्थी । यज्ञार्थम् । कीदृशम् । “शीरम् ओषध्यादिषु सर्वत्रानुशायिनं “पावकशोचिषं शोधकदीप्तिम् । “विवक्षसे । महन्नामैतत् । हे अग्ने त्वमपि महान् भवसि । यद्वा । विमदे यज्ञस्य संबन्धिनः सोमस्य पानजन्यविविधमदार्थं त्वामावृणीमह इति योज्यम् ॥
पङ्क्तिः ५३:
त्वाम् । ऊं॒ इति॑ । ते । सु॒ऽआ॒भुवः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।
 
वेति॑ । त्वाम् । उ॒प॒ऽसेच॑नी । वि । वः॒ । मदे॑ । ऋजी॑तिः । अ॒ग्ने॒ । आऽहु॑तिः । विव॑क्षसे ॥२
 
त्वाम् । ऊं इति । ते । सुऽआभुवः । शुम्भन्ति । अश्वऽराधसः ।
 
वेति । त्वाम् । उपऽसेचनी । वि । वः । मदे । ऋजीतिः । अग्ने । आऽहुतिः । विवक्षसे ॥२
 
“स्वाभुवः स्वप्रकाशेन दीप्यमानाः “अश्वराधसः व्याप्तधनाः “ते यजमानाः हे अग्ने “त्वामु त्वामेव “शुम्भन्ति शोभयन्ति । यज्ञे हविर्भिर्दीपयन्तीत्यर्थः । किंच “उपसेचनी तवोपरि क्षरणशीला “ऋजीतिः ऋजुगामिनी हूयमाना “आहुतिः हे “अग्ने “त्वां “वेति गच्छति । किमर्थम् । “वः तव “मदे मदनिमित्ते । तृप्त्यर्थमित्यर्थः । किंच त्वमपि “विवक्षसे महान् भवसि ॥
पङ्क्तिः ६८:
त्वे इति॑ । ध॒र्माणः॑ । आ॒स॒ते॒ । जु॒हूभिः॑ । सि॒ञ्च॒तीःऽइ॑व ।
 
कृ॒ष्णा । रू॒पाणि॑ । अर्जु॑ना । वि । वः॒ । मदे॑ । विश्वाः॑ । अधि॑ । श्रियः॑ । धि॒षे॒ । विव॑क्षसे ॥३
 
त्वे इति । धर्माणः । आसते । जुहूभिः । सिञ्चतीःऽइव ।
 
कृष्णा । रूपाणि । अर्जुना । वि । वः । मदे । विश्वाः । अधि । श्रियः । धिषे । विवक्षसे ॥३
 
“धर्माणः यज्ञस्य धारयितार ऋत्विजः “जुहूभिः संपूर्णाहुतिभिर्होमपात्रैः “त्वे त्वामेव “आसते उपासते सेवन्ते । तत्र दृष्टान्तः । “सिञ्चतीरिव । वृष्टिलक्षणाः पृथिवीं सिञ्चन्त्य आपोऽग्निं यथा स्वपितृत्वेन सेवन्ते तद्वत् । अग्नेरापः' (तै. आ. ८.१ ) इति श्रुतेस्तस्यापां पितृत्वम् । यद्वा । जुहूभिः सिञ्चतीरिव सिच्यमाना आहुतय इव धर्माणस्त्वया धार्यमाणा रश्मयस्त्वे त्वय्यासते निवसन्ति । हे अग्ने त्वं “कृष्णा कृष्णवर्णानि “अर्जुना अर्जुनानि श्वेतवर्णानि ज्वालान्तर्गतरूपाणि च “विश्वाः सर्वाः “श्रियः शोभाः “अधि “धिषे अधिकं यथा भवति तथा धारयसि । किमर्थम् । “वः युष्माकं सर्वेषां देवानां “विमदे विविधसोमपानजन्यमदार्थम् । यत एवमतः “विवक्षसे त्वं महान् भवसि ॥
पङ्क्तिः ८३:
यम् । अ॒ग्ने॒ । मन्य॑से । र॒यिम् । सह॑साऽवन् । अ॒म॒र्त्य॒ ।
 
तम् । आ । नः॒ । वाज॑ऽसातये । वि । वः॒ । मदे॑ । य॒ज्ञेषु॑ । चि॒त्रम् । आ । भ॒र॒ । विव॑क्षसे ॥४
 
यम् । अग्ने । मन्यसे । रयिम् । सहसाऽवन् । अमर्त्य ।
 
तम् । आ । नः । वाजऽसातये । वि । वः । मदे । यज्ञेषु । चित्रम् । आ । भर । विवक्षसे ॥४
 
हे “अमर्त्य अमरणधर्मन् “सहसावन् बलवन् एवंभूत हे “अग्ने त्वं “यं “रयिं “मन्यसे सर्वेषु धनेषु यद्धनं वरिष्ठमिति जानासि “चित्रं चायनीयं “तं रयिं “नः अस्माकं “वाजसातये अन्नलाभाय “आ “भर आहर प्रयच्छ । किमर्थम् । “वः युष्माकं सर्वेषां देवानां “यज्ञेषु “विमदे विविधसोमादिहविर्जन्यमदनिमित्ते । यागेषु नानाप्रकारैर्हविर्भिर्युष्माकं तर्पणायेत्यर्थः । त्वमपि “विवक्षसे महान् भवसि ।।
पङ्क्तिः ९८:
अ॒ग्निः । जा॒तः । अथ॑र्वणा । वि॒दत् । विश्वा॑नि । काव्या॑ ।
 
भुव॑त् । दू॒तः । वि॒वस्व॑तः । वि । वः॒ । मदे॑ । प्रि॒यः । य॒मस्य॑ । काम्यः॑ । विव॑क्षसे ॥५
 
अग्निः । जातः । अथर्वणा । विदत् । विश्वानि । काव्या ।
 
भुवत् । दूतः । विवस्वतः । वि । वः । मदे । प्रियः । यमस्य । काम्यः । विवक्षसे ॥५
 
“अथर्वणा एतन्नाम्नर्षिणा "जातः जनितः “अग्निः । कथमवगम्यते । ' त्वामग्ने पुष्करादध्यथर्वा निरमन्थत' (ऋ. सं. ६. १६. १३) इति मन्त्रान्तरात् । “विश्वानि समस्तानि "काव्या काव्यानि स्तोतृकर्माणि “विदत् वेत्ति । “विवस्वतः यजमानस्य “दूतः देवानामाह्वानार्थं “भुवत् भवति । किंच “यमस्य संयन्तुर्यजमानस्य “प्रियः इष्टः सन् “काम्यः कमनीयः प्रार्थनीयो भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ ॥ ४ ॥
पङ्क्तिः ११३:
त्वाम् । य॒ज्ञेषु॑ । ई॒ळ॒ते॒ । अग्ने॑ । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
 
त्वम् । वसू॑नि । काम्या॑ । वि । वः॒ । मदे॑ । विश्वा॑ । द॒धा॒सि॒ । दा॒शुषे॑ । विव॑क्षसे ॥६
 
त्वाम् । यज्ञेषु । ईळते । अग्ने । प्रऽयति । अध्वरे ।
 
त्वम् । वसूनि । काम्या । वि । वः । मदे । विश्वा । दधासि । दाशुषे । विवक्षसे ॥६
 
हे “अग्ने “त्वां “प्रयति प्रकर्षेण गच्छति प्रवर्तमाने “अध्वरे यागे “यज्ञेषु यजनीयेषु हविःष्वासन्नेषु सत्सु “ईळते ऋत्विग्यजमानाः स्तुवन्ति । अपि च हे अग्ने “त्वं “विश्वा विश्वानि “काम्या काम्यानि कमनीयानि “वसूनि धनानि “दाशुषे हविर्दत्तवते यजमानाय “विमदे सोमादिहविर्जन्यतृप्तौ सत्यां “दधासि प्रयच्छसि । अतः कारणात् "विवक्षसे त्वं महान् भवसि ॥
पङ्क्तिः १२८:
त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । चारु॑म् । अ॒ग्ने॒ । नि । से॒दि॒रे॒ ।
 
घृ॒तऽप्र॑तीकम् । मनु॑षः । वि । वः॒ । मदे॑ । शु॒क्रम् । चेति॑ष्ठम् । अ॒क्षऽभिः॑ । विव॑क्षसे ॥७
 
त्वाम् । यज्ञेषु । ऋत्विजम् । चारुम् । अग्ने । नि । सेदिरे ।
 
घृतऽप्रतीकम् । मनुषः । वि । वः । मदे । शुक्रम् । चेतिष्ठम् । अक्षऽभिः । विवक्षसे ॥७
 
हे “अग्ने “त्वां मनुष्या यजमानाः “यज्ञेषु यागेषु “नि “षेदिरे नियमेन स्थापयन्ति । कीदृशम् । “ऋत्विजं होतृनामकं “चारु रमणीयं “घृतप्रतीकम् आज्याहुतिपूर्णमुखं “शुक्रं ज्वलन्तम् “अक्षभिः व्याप्तैस्तेजोभिः “चेतिष्ठम् अतिशयेन ज्ञातारम् । किमर्थम् । “वि “वो “मदे तव सोमादिहविर्जन्यविविधतृप्त्यर्थम् । यस्मादेवं तस्मात् “विवक्षसे महान् भवसि ॥
पङ्क्तिः १४३:
अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । उ॒रु । प्र॒थ॒य॒से॒ । बृ॒हत् ।
 
अ॒भि॒ऽक्रन्द॑न् । वृ॒ष॒ऽय॒से॒ । वि । वः॒ । मदे॑ । गर्भ॑म् । द॒धा॒सि॒ । जा॒मिषु॑ । विव॑क्षसे ॥८
 
अग्ने । शुक्रेण । शोचिषा । उरु । प्रथयसे । बृहत् ।
 
अभिऽक्रन्दन् । वृषऽयसे । वि । वः । मदे । गर्भम् । दधासि । जामिषु । विवक्षसे ॥८
 
हे “अग्ने “बृहत् महांस्त्वं “शुक्रेण दीप्तेन “शोचिषा तेजसा “उरु “प्रथयसे विस्तीर्णं यथा भवति तथा प्रख्यातो भवसि । किंच “अभिक्रन्दन् आभिमुख्येन युद्धार्थं शत्रूनाह्वयन् “वृषायसे वृष इवाचरसि । युद्धकाले दर्पितवृष इव रोरुवद्भवसीत्यर्थः । त्वं माध्यमिकः सन् “जामिषु भगिनीभूतास्वोषधीषु “गर्भं बीजलक्षणं “दधासि वृष्टिद्वारेण धारयसि । एकस्मात् प्रजापतेः सकाशादुद्भूतत्वादन्योषध्योर्जामित्वमुपचर्यते । कस्मिन् सति । “वि “वो “मदे तव विविधसोमादिहविर्जन्यमदे संजाते सति । यस्मादेवं कृतवानसि तस्मात्त्वं “विवक्षसे महान् भवसि । विवक्षस इति महन्नाम वक्तेर्वा वहतेर्वा सनन्तस्य रूपमिति ॥ ॥ ५॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२१" इत्यस्माद् प्रतिप्राप्तम्