"ऋग्वेदः सूक्तं १०.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५३:
कुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ ।
 
ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥१
 
कुह । श्रुतः । इन्द्रः । कस्मिन् । अद्य । जने । मित्रः । न । श्रूयते ।
 
ऋषीणाम् । वा । यः । क्षये । गुहा । वा । चर्कृषे । गिरा ॥१
 
“अद्य अस्मिन् दिने “इन्द्रः “कुह कुत्र स्थाने “श्रुतः विश्रुतः प्रख्यातः । “कस्मिन् “जने यजमान इज्यत्वेन स्तुत्यत्वेनावस्थितः “श्रूयते प्रख्यायते । तत्र दृष्टान्तः । “मित्रो “न सूर्य इव सखेव वा तद्वत् । “यः इन्द्रः “ऋषीणां भृग्वादीनां “क्षये निवास आश्रमे “गुहा “वा गुहायामरण्ये वा “गिरा स्तुतिलक्षणया वाचा चर्कृषे अत्यर्थमाकृष्यते । अत्यर्थं स्तूयत इत्यर्थः । स इन्द्रः कुह श्रुत इति पूर्वेण संबन्धः ॥
पङ्क्तिः ६८:
इ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः ।
 
मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥२
 
इह । श्रुतः । इन्द्रः । अस्मे इति । अद्य । स्तवे । वज्री । ऋचीषमः ।
 
मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥२
 
“इह अस्मिन् यज्ञे “इन्द्रः श्रुतः प्रख्यातः। अद्य अस्मिन्दिवसे “अस्मे अस्माभिः स्तवे स्तूयते । कीदृशः । वज्री वज्रवान् ऋचीषमः । यद्याव इन्द्र ते शतं शतं भूमीरुत स्युः न स्वा वज्रिन्' ( ऋ. सं. ८. ७०. ५) इत्यादिकया स्तुत्या समानगुण इत्यर्थः । यः इन्द्रः “मित्रो “न सूर्य इव स्निग्ध इव वा “जनेषु स्तोतृजनेषु “यशः अन्नं कीर्तिं वा “चक्रे करोति । कीदृशम् । “असामि असाधारणम् । स इन्द्रोऽस्माभिः स्तूयत इति पूर्वेण संबन्धः ॥
पङ्क्तिः ८३:
म॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः ।
 
भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥३
 
महः । यः । पतिः । शवसः । असामि । आ । महः । नृम्णस्य । तूतुजिः ।
 
भर्ता । वज्रस्य । धृष्णोः । पिता । पुत्रम्ऽइव । प्रियम् ॥३
 
"यः इन्द्रः “महः महतः “शवसः बलस्य “पतिः ईश्वरः “असाम्या । आङ् मर्यादायाम् । आ समाप्तेः । अनन्तगुण इत्यर्थः। “महः महतः “नृम्णस्य धनस्य च “तूतजिः स्तोतृभ्यः प्रेरकः । किंच “धृष्णोः शत्रूणां धर्षकस्य “वज्रस्य स्वकीयस्यायुधस्य “भर्ता य इन्द्रो धारयिता । स इन्द्रोऽस्मान् पात्विति शेषः। तत्र दृष्टान्तः । “पिता “पुत्रमिव “प्रियम् । यथा पितेप्सितं सुतं पाति तद्वत् ॥
पङ्क्तिः ९८:
यु॒जा॒नः । अश्वा॑ । वात॑स्य । धुनी॒ इति॑ । दे॒वः । दे॒वस्य॑ । व॒ज्रि॒ऽवः॒ ।
 
स्यन्ता॑ । प॒था । वि॒रुक्म॑ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व॑नः ॥४
 
युजानः । अश्वा । वातस्य । धुनी इति । देवः । देवस्य । वज्रिऽवः ।
 
स्यन्ता । पथा । विरुक्मता । सृजानः । स्तोषि । अध्वनः ॥४
 
हे "वज्रिवः वज्रवन्निन्द्र । एको मत्वर्थीयोऽनुवादकः । “देवः द्योतमानस्त्वं “देवस्य द्योतमानस्य “वातस्य वायोः “धुनी प्रेरकौ । वायोरपि शीघ्रगामिनावित्यर्थः। “अश्वा अश्वौ त्वदीयौ हरिनामकौ “युजानः स्वरथे संयोजयन् । कीदृशौ । “विरुक्मता विरोचनवता “पथा मार्गेण “स्यन्ता स्यन्तौ गच्छन्तौ । “अध्वनः युद्धे गमनमार्गान् “सृजानः उत्पादयन् “स्तोषि सततं स्तूयसे ॥
पङ्क्तिः ११३:
त्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै ।
 
ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥५
 
त्वम् । त्या । चित् । वातस्य । अश्वा । आ । अगाः । ऋज्रा । त्मना । वहध्यै ।
 
ययोः । देवः । न । मर्त्यः । यन्ता । नकिः । विदाय्यः ॥५
 
यच्छब्दसंबन्धादुत्तरोऽर्धर्चः पूर्वं व्याख्यायते । "ययोः त्वदीययोः "यन्ता नियन्ता निवारयिता “देवो “न देवानां मध्ये कश्चिदपि देवो नास्ति "मर्त्यः मनुष्याणां मध्ये कश्चिदपि नास्ति “नकिः न कश्चिदपि “विदाय्यः वेत्ता । जवस्य बलस्येति वा शेषः । हे इन्द्र “त्वं “वातस्य वायोर्बलेन जवेन च युक्तौ “ऋज्रा ऋजुगामिनौ “त्या “चित् तावपि “अश्वा त्वदीयावश्वौ “त्मना आत्मनैव । सारथिनिरपेक्षेणेत्यर्थः । वहध्यै वहनार्थम् । अभिप्रेतदेशप्रापणायेत्यर्थः । “आगाः अभिमुख्येन गच्छसि ॥ ॥ ६ ॥
पङ्क्तिः १२८:
अध॑ । ग्मन्ता॑ । उ॒शना॑ । पृ॒च्छ॒ते॒ । वा॒म् । कत्ऽअ॑र्था । नः॒ । आ । गृ॒हम् ।
 
आ । ज॒ग्म॒थुः॒ । प॒रा॒कात् । दि॒वः । च॒ । ग्मः । च॒ । मर्त्य॑म् ॥६
 
अध । ग्मन्ता । उशना । पृच्छते । वाम् । कत्ऽअर्था । नः । आ । गृहम् ।
 
आ । जग्मथुः । पराकात् । दिवः । च । ग्मः । च । मर्त्यम् ॥६
 
“अध अथ यज्ञसमाप्त्यनन्तरम् "उशना भार्गव ऋषिः हे इन्द्राग्नी “ग्मन्ता स्वस्थानं प्रति गच्छन्तौ “वां युवां “पृच्छते पृच्छति स्म । यद्वा । उशनेति विभक्तिव्यत्ययः। उशनसमिन्द्रस्य सखिभूतं भार्गवमिन्द्रं च युवां सर्वो यजमानः पृच्छति । किं पृष्टवानिति उच्यते । युवां “कदर्था कदर्थौ किंप्रयोजनवन्तौ सन्तौ नः अस्मदीयम् । आकारः प्रतीत्यस्यार्थे । “गृहं प्रति “पराकात् । दूरनामैतत् । दूरात् “आ “जग्मथुः आगतवन्तौ स्थः । तदेवोक्तम् । “दिवश्च द्युलोकाच्च “ग्मश्च भूलोकाच्च “मर्त्यं मनुष्यं मां प्रत्यागतवन्तौ । युवयोः कृतार्थत्वादत्रागमनमस्मदनुग्रहार्थमेव न स्वार्थमिति ब्रुवन्ननुव्रजतीत्यर्थः ॥
पङ्क्तिः १४३:
आ । नः॒ । इ॒न्द्र॒ । पृ॒क्ष॒से॒ । अ॒स्माक॑म् । ब्रह्म॑ । उत्ऽय॑तम् ।
 
तत् । त्वा॒ । या॒चा॒म॒हे॒ । अवः॑ । शुष्ण॑म् । यत् । हन् । अमा॑नुषम् ॥७
 
आ । नः । इन्द्र । पृक्षसे । अस्माकम् । ब्रह्म । उत्ऽयतम् ।
 
तत् । त्वा । याचामहे । अवः । शुष्णम् । यत् । हन् । अमानुषम् ॥७
 
हे “इन्द्र त्वम् । न इति तृतीयार्थे षष्ठी । “नः अस्माभिः “उद्यतम् उत्क्षिप्तम् । दत्तमित्यर्थः । “अस्माकम् अस्मदीयं “ब्रह्म हविर्लक्षणमन्नम् । आङ् मर्यादायाम् । आ तृप्तेरित्यर्थः । “पृक्षसे आत्मना संपर्चय । ‘पृची संपर्के' इति धातो रूपम् । आभक्षयेत्यर्थः । किंच वयमपि “त्वा एवंभूतं त्वां “तत्। यदुत्कृष्टमस्तीति शेषः । तत्तादृशमन्नम् “अवः तद्रक्षणं च “याचामहे प्रार्थयामहे । तथा “यत् “शुष्णं बलम् “अमानुषं मनुष्यादन्यं राक्षसादिकं “हन् हन्ति तदुत्कृष्टं बलं च याचामहे । यद्वा । हे इन्द्र त्वं शुष्णमेतन्नामानममानुषं मनुष्यव्यतिरिक्तमसुरं हन् हतवानसि । हत्वा च यद्येन रक्षणेन त्रैलोक्यं पालितवानसि तदवः पालनमस्माकमपि भवेदिति त्वां याचामह इति वाक्यार्थः ॥
पङ्क्तिः १५८:
अ॒क॒र्मा । दस्युः॑ । अ॒भि । नः॒ । अ॒म॒न्तुः । अ॒न्यऽव्र॑तः । अमा॑नुषः ।
 
त्वम् । तस्य॑ । अ॒मि॒त्र॒ऽह॒न् । वधः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ॥८
 
अकर्मा । दस्युः । अभि । नः । अमन्तुः । अन्यऽव्रतः । अमानुषः ।
 
त्वम् । तस्य । अमित्रऽहन् । वधः । दासस्य । दम्भय ॥८
 
“अकर्मा अविद्यमानयागादिकर्मा “दस्युः उपक्षपयिता “अभि आभिमुख्येन स्वरूपतः “नः अस्मान् “अमन्तुः अज्ञाता । यद्वा । अत्र अवेत्युपसर्गस्य वकारलोपो द्रष्टव्यः । अवमन्तुरवमन्ताभिभविता । “अन्यव्रतः श्रुतिस्मृतिव्यतिरिक्तकर्मा “अमानुषः मनुष्यसंव्यवहाराद्बाह्यः । असुरप्रकृतिरित्यर्थः । य एवंभूतोऽस्ति हे "अमित्रहन् शत्रूणां हन्तरिन्द्र “त्वं “दासस्य उपक्षपयितव्यस्य “वधः हन्ता सन् “दम्भय तं शत्रुं हिन्धि ॥
पङ्क्तिः १७३:
त्वम् । नः॒ । इ॒न्द्र॒ । शू॒र॒ । शूरैः॑ । उ॒त । त्वाऽऊ॑तासः । ब॒र्हणा॑ ।
 
पु॒रु॒ऽत्रा । ते॒ । वि । पू॒र्तयः॑ । नव॑न्त । क्षो॒णयः॑ । य॒था॒ ॥९
 
त्वम् । नः । इन्द्र । शूर । शूरैः । उत । त्वाऽऊतासः । बर्हणा ।
 
पुरुऽत्रा । ते । वि । पूर्तयः । नवन्त । क्षोणयः । यथा ॥९
 
हे “शूर विक्रान्त “इन्द्र “त्वं “शूरैः भटैः मरुद्भिः सहितः सन् “नः अस्मान् पाहीति शेषः । “उत अपि च “त्वोतासः त्वया रक्षिता वयं “बर्हणा परिबर्हणायां शत्रूणां हिंसायां समर्था भवेम।। किंच “ते त्वदीयाः पूर्तयः कामानां पूरणानीप्सितार्थप्रदानानि “पुरुत्रा बहून् स्तोतॄन् "वि “नवन्त विविधं व्याप्नुवन्ति । “क्षोणयः । मनुष्यनामैतत् । मनुष्याः स्वकीयं स्वामिनं सेवार्थं यथा व्याप्नुवन्ति तद्वत् ॥
पङ्क्तिः १८८:
त्वम् । तान् । वृ॒त्र॒ऽहत्ये॑ । चो॒द॒यः॒ । नॄन् । का॒र्पा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।
 
गुहा॑ । यदि॑ । क॒वी॒नाम् । वि॒शाम् । नक्ष॑त्रऽशवसाम् ॥१०
 
त्वम् । तान् । वृत्रऽहत्ये । चोदयः । नॄन् । कार्पाणे । शूर । वज्रिऽवः ।
 
गुहा । यदि । कवीनाम् । विशाम् । नक्षत्रऽशवसाम् ॥१०
 
हे “वज्रिवः वज्रधर “शूर इन्द्र “त्वं कार्पाणे । असिः कृपाणः । तेन साध्यं युद्धं कार्पाणम् । तस्मिन् “वृत्रहत्ये शत्रुहननार्थं "नॄन् नरान् “तान् प्रसिद्धान् मरुद्गणान् “चोदयः चोदयसि प्रेरयसि । "यदि यदा त्वं “कवीनां मेधाविनां “नक्षत्रशवसां देवान् प्रतिगच्छत्स्तोतृबलानां “विशां स्तोतृजनानां संबन्धीनि “गुहा गूढानि गुणैः संवृतानि स्तोत्राणि शृणोषीति शेषः । तदा प्रेरयसीति पूर्वेणान्वयः॥ ॥७॥
पङ्क्तिः २०३:
म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । दा॒नऽअ॑प्नसः । आ॒क्षा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।
 
यत् । ह॒ । शुष्ण॑स्य । द॒म्भयः॑ । जा॒तम् । विश्व॑म् । स॒याव॑ऽभिः ॥११
 
मक्षु । ता । ते । इन्द्र । दानऽअप्नसः । आक्षाणे । शूर । वज्रिऽवः ।
 
यत् । ह । शुष्णस्य । दम्भयः । जातम् । विश्वम् । सयावऽभिः ॥११
 
हे “शूर विक्रान्त “वज्रिवः वज्रोपेत “इन्द्र “दानाप्नसः दानकर्मणः । स्तोतृभ्यः सततमभीष्टफलप्रदस्येत्यर्थः। “ते तव स्वभूतानि "मक्षु क्षिप्राणि अविलम्बितानि । क्षिप्रकरणयुक्तानीत्यर्थः । “आक्षाणे योद्धृभिर्व्याप्यमाने त्वय्यवस्थितानि “ता तानि कर्माणि स्तोतारः स्तुवन्तीति शेषः । “सयावभिः सहयातृभिर्मरुद्भिः सहितस्त्वं “शुष्णस्य असुरस्य “विश्वं “जातं सर्वमपत्यजातं “दम्भयः अदम्भयः । हिंसितवानसि । यद्वा । एवमादीनि यानि खलु कर्माणि सन्ति तानि स्तुवन्तीति पूर्वेण संबन्धः ॥
पङ्क्तिः २१८:
मा । अ॒कु॒ध्र्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः॑ । अ॒स्मे इति॑ । भू॒व॒न् । अ॒भिष्ट॑यः ।
 
व॒यम्ऽव॑यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒ऽवः॒ ॥१२
 
मा । अकुध्र्यक् । इन्द्र । शूर । वस्वीः । अस्मे इति । भूवन् । अभिष्टयः ।
 
वयम्ऽवयम् । ते । आसाम् । सुम्ने । स्याम । वज्रिऽवः ॥१२
 
हे “शूर विक्रान्त “इन्द्र “अस्मे अस्माकं स्वभूताः “वस्वीः महत्यः अभिष्टयः आभिमुख्येष्टय इज्याः । यद्वा । आभिमुख्येच्छा अभीप्सितप्रार्थनाः । “कुध्र्यक् कुत्सिताः । विफला इत्यर्थः । “मा “भूवन्। किं तर्हि हे “वज्रिवः वज्रिन्निन्द्र “ते तव प्रसादात् “वयंवयम् ऋत्विग्यजमानाः। द्विर्वचनमतित्वराप्रदर्शनार्थम् । “आसाम् इज्यानामिच्छानां वा संबन्धिनि “सुम्ने सुखे अवस्थिताः “स्याम भवेम । वयमभिष्टिजन्येन दृष्टादृष्टसुखेन युक्ताः शीघ्रं भवेमेत्याशास्मह इत्यर्थः ॥
पङ्क्तिः २३३:
अ॒स्मे इति॑ । ता । ते॒ । इ॒न्द्र॒ । स॒न्तु॒ । स॒त्या । अहिं॑सन्तीः । उ॒प॒ऽस्पृशः॑ ।
 
वि॒द्याम॑ । यासा॑म् । भुजः॑ । धे॒नू॒नाम् । न । व॒ज्रि॒ऽवः॒ ॥१३
 
अस्मे इति । ता । ते । इन्द्र । सन्तु । सत्या । अहिंसन्तीः । उपऽस्पृशः ।
 
विद्याम । यासाम् । भुजः । धेनूनाम् । न । वज्रिऽवः ॥१३
 
हे “इन्द्र “अस्मे अस्माकं स्वभूताः । ता सत्या इत्युभयत्र प्रथमाबहुवचनस्य छान्दस आकारः सन्त्विति निर्देशविशेषणत्वात् । “ता तास्तादृश्यः “उपस्पृशः। त्वामुपगम्य स्पृशन्तीत्युपस्पृशः स्तुतयः। “ते तव प्रसादात् "सत्या सत्याः सन्तु यथार्था भवन्तु । तव सद्गुणग्राहिण्य इत्यर्थः। अपि च “अहिंसन्तीः त्वामहिंसत्यश्च भवन्तु । सत्स्तुतित्वादनुद्वेजयन्त्यश्च भवन्त्वित्यर्थः। हे “वज्रिवः इन्द्र “यासां स्तुतीनां संबन्धिनः भुजः दृष्टादृष्टान् भोगान् “विद्याम वयं लभेमहि । तत्र दृष्टान्तः । “धेनूनां “न । गवां क्षीरादिभोगान् यथा गोस्वामी लभते तद्वत् । ताः सत्या भवन्त्विति पूर्वेणान्वयः॥
पङ्क्तिः २४८:
अ॒ह॒स्ता । यत् । अ॒पदी॑ । वर्ध॑त । क्षाः । शची॑भिः । वे॒द्याना॑म् ।
 
शुष्ण॑म् । परि॑ । प्र॒ऽद॒क्षि॒णित् । वि॒श्वऽआ॑यवे । नि । शि॒श्न॒थः॒ ॥१४
 
अहस्ता । यत् । अपदी । वर्धत । क्षाः । शचीभिः । वेद्यानाम् ।
 
शुष्णम् । परि । प्रऽदक्षिणित् । विश्वऽआयवे । नि । शिश्नथः ॥१४
 
हे इन्द्र “यत् यदा “क्षाः भूमिः "अहस्ता पाणिरहिता “अपदी चरणवर्जिता च । अमनुष्यकर्मकेत्यर्थः। “वेद्यानां स्तोत्रयोग्यानां त्वत्प्रभृतीनां देवानां संबन्धिभिः “शचीभिः कर्मभिः “वर्धत अवर्धत । धनधान्यादिभिः समृद्धेत्यर्थः। तदा त्वं “परि “प्रदक्षिणित् एवंभूतां पृथिवीं परिवेष्ट्य प्रदक्षिणं यथा भवति तथा स्थितं “शुष्णम् असुरं “विश्वायवे । तादर्थ्ये चतुर्थी । सर्वत्राप्रतिहतगामिन एतदाख्यस्यौर्वशेयराज्ञोऽर्थाय “नि “शिश्नथः नितरां ताडितवानसि । यद्वा । यदा शुष्णस्याच्छादनार्थं हस्तपादवर्जिता काचित्पृथिवी वेदितव्यानामसुराणां मायारूपैः कर्मभिः शुष्णमसुरं परिवेष्ट्य प्रदक्षिणं यथा भवति तथावस्थितावर्धत तदानीं तां मायोत्पादितां पृथिवीं विश्वायवे सर्वव्यापकस्य मरुद्गणस्य प्रवेशनार्थं नि शिश्नथः ॥
पङ्क्तिः २६३:
पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मा । रि॒ष॒ण्यः॒ । व॒स॒वा॒न॒ । वसुः॑ । सन् ।
 
उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । म॒घोनः॑ । म॒हः । च॒ । रा॒यः । रे॒वतः॑ । कृ॒धि॒ । नः॒ ॥१५
 
पिबऽपिब । इत् । इन्द्र । शूर । सोमम् । मा । रिषण्यः । वसवान । वसुः । सन् ।
 
उत । त्रायस्व । गृणतः । मघोनः । महः । च । रायः । रेवतः । कृधि । नः ॥१५
 
“पिबपिब इति वीप्सातित्वराप्रदर्शनार्थम् । हे “शूर वीर “इन्द्र त्वमभिषुतं “सोमं शीघ्रं पिब । यागकालातिपातो यावन्न भवति तावच्छीघ्रं सोमं पिबेत्यर्थः। “इत् इति पूरणः । हे “वसवान वसूनां धनानामानेतः त्वं “वसुः प्रशस्तः “सन् “मा “रिषण्यः यागकालातिक्रमजातेन दोषेणास्मान्मा हिंसीः । प्रशस्तस्य तव कर्मवैगुण्यकरणेन हिंसितुमयुक्तमित्यर्थः । “उत अपि च हे इन्द्र त्वं “गृणतः त्वां स्तुवतः स्तोतॄन् “मघोनः हविर्लक्षणधनवतो यजमानांश्च “त्रायस्व प्रमादजनितकर्मवैगुण्यदोषात् पालयस्व । किंच महश्च राय इत्युभयत्र तृतीयार्थे षष्ठी । “महः महता “रायः धनेन च’ “नः अस्मान् “रेवतः “कृधि धनवतः कुरु ॥ ॥ ८ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२२" इत्यस्माद् प्रतिप्राप्तम्