"ऋग्वेदः सूक्तं १०.४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५०:
रथ॑म् । यान्त॑म् । कुह॑ । कः । ह॒ । वा॒म् । न॒रा॒ । प्रति॑ । द्यु॒ऽमन्त॑म् । सु॒वि॒ताय॑ । भू॒ष॒ति॒ ।
 
प्रा॒तः॒ऽयावा॑नम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे । वस्तोः॑ऽवस्तोः । वह॑मानम् । धि॒या । शमि॑ ॥१
 
रथम् । यान्तम् । कुह । कः । ह । वाम् । नरा । प्रति । द्युऽमन्तम् । सुविताय । भूषति ।
 
प्रातःऽयावानम् । विऽभ्वम् । विशेऽविशे । वस्तोःऽवस्तोः । वहमानम् । धिया । शमि ॥१
 
हे “नरा कर्मणां नेतारावश्विनौ “वां युवयोः संबन्धिनं “द्युमन्तं दीप्तिमन्तं “प्रातर्यावाणं यज्ञं प्रति प्रातःकाले गन्तारं “विभ्वं विभुं व्यापिनं “विशेविशे सर्वेषु मनुष्येषु “वस्तोर्वस्तोः अन्वहं “वहमानं धनं प्रापयन्तं “यान्तं गच्छन्तं “रथं “कुह कस्मिन् देशे “को “ह कः खलु यजमानः “शमि यज्ञरूपे कर्मणि “धिया स्तुतिरूपेण कर्मणा “सुविताय अभ्युदयार्थं “प्रति “भूषति अलंकरोति । कस्मिन् देशे यज्ञे कोऽन्यो यजमानो युवां स्तुतिभिर्हविर्भिश्च पूजितवान् येनास्मद्यज्ञे प्रति विलम्बेनागतवन्तौ स्थ इत्यभिप्रायः ॥ ।
पङ्क्तिः ६५:
कुह॑ । स्वि॒त् । दो॒षा । कुह॑ । वस्तोः॑ । अ॒श्विना॑ । कुह॑ । अ॒भि॒ऽपि॒त्वम् । क॒र॒तः॒ । कुह॑ । ऊ॒ष॒तुः॒ ।
 
कः । वा॒म् । श॒यु॒ऽत्रा । वि॒धवा॑ऽइव । दे॒वर॑म् । मर्य॑म् । न । योषा॑ । कृ॒णु॒ते॒ । स॒धऽस्थे॑ । आ ॥२
 
कुह । स्वित् । दोषा । कुह । वस्तोः । अश्विना । कुह । अभिऽपित्वम् । करतः । कुह । ऊषतुः ।
 
कः । वाम् । शयुऽत्रा । विधवाऽइव । देवरम् । मर्यम् । न । योषा । कृणुते । सधऽस्थे । आ ॥२
 
हे “अश्विना अश्विनौ “कुह “स्वित् क्व चित् “दोषा रात्रौ भवथ इति शेषः। “कुह “वस्तोः क्व वा दिवा भवथः । “कुह क्व वा अभिपित्वम् अभिप्राप्तिं “करतः कुरुथः। “कुह क्व वा “ऊषथुः वसथः । किंच “वां युवां “कः यजमानः “सधस्थे सहस्थाने वेद्याख्ये “आ “कृणुते आकुरुते । परिचरणार्थमात्माभिमुखीकरोति । तत्र दृष्टान्तौ दर्शयति । “शयुत्रा शयने “विधवेव यथा मृतभर्तका नारी "देवरं भर्तृभ्रातरमभिमुखीकरोति । “मर्यं “न यथा च सर्वं मनुष्यं “योषा सर्वा नारी संभोगकालेऽभिमुखीकरोति तद्वदित्यर्थः । तथा च यास्कः----’क्व स्विद्रात्रौ भवथः क्व दिवा क्वाभिप्राप्तिं कुरुथः क्व वसथः को वां शयने विधवेव' देवरम् । देवरः कस्माद्द्वितीयो वर उच्यते । विधवा विधातृका भवति विधवनाद्वा विधावनाद्वेति चर्म शिरा अपि वा धव इति मनुष्यनाम तद्वियोगाद्विधवा । देवरो दीव्यतिकर्मा । मर्यो मनुष्यो मरणधर्मा । योषा यौतेराकुरुते सधस्थाने ' ( निरु. ३. १५) इति ॥
पङ्क्तिः ८०:
प्रा॒तः । ज॒रे॒थे॒ इति॑ । ज॒र॒णाऽइ॑व । काप॑या । वस्तोः॑ऽवस्तोः । य॒ज॒ता । ग॒च्छ॒थः॒ । गृ॒हम् ।
 
कस्य॑ । ध्व॒स्रा । भ॒व॒थः॒ । कस्य॑ । वा॒ । न॒रा॒ । रा॒ज॒पु॒त्राऽइ॑व । सव॑ना । अव॑ । ग॒च्छ॒थः॒ ॥३
 
प्रातः । जरेथे इति । जरणाऽइव । कापया । वस्तोःऽवस्तोः । यजता । गच्छथः । गृहम् ।
 
कस्य । ध्वस्रा । भवथः । कस्य । वा । नरा । राजपुत्राऽइव । सवना । अव । गच्छथः ॥३
 
हे “नरा नेतारावश्विनौ युवां “प्रातः प्रातःकाले “जरेथे स्तोतृभिः स्तूयेथे । तत्र दृष्टान्तः । “जरणेव । यथा जरणौ ऐश्वर्येण वृद्धौ राजानौ “कापया। प्रातःप्रबोधकस्य बन्दिनो वाणी कापा । तया स्तूयेते । तद्वदित्यर्थः । किंच "वस्तोर्वस्तोः अन्वहं “यजता यष्टव्यौ युवां “गृहं यजमानस्य मन्दिरं “गच्छथः प्राप्नुथः । तौ युवाँ "कस्य यजमानसंबन्धिनो दोषस्य “ध्वस्रा ध्वंसकौ विनाशयितारौ “भवथः । “कस्य यजमानस्य “सवना सवनानि "राजपुत्रेव राजकुमाराविव युवाम् “अव “गच्छथः प्राप्नुथः ॥
पङ्क्तिः ९५:
यु॒वाम् । मृ॒गाऽइ॑व । वा॒र॒णा । मृ॒ग॒ण्यवः॑ । दो॒षा । वस्तोः॑ । ह॒विषा॑ । नि । ह्व॒या॒म॒हे॒ ।
 
यु॒वम् । होत्रा॑म् । ऋ॒तु॒ऽथा । जुह्व॑ते । न॒रा॒ । इष॑म् । जना॑य । व॒ह॒थः॒ । शु॒भः॒ । प॒ती॒ इति॑ ॥४
 
युवाम् । मृगाऽइव । वारणा । मृगण्यवः । दोषा । वस्तोः । हविषा । नि । ह्वयामहे ।
 
युवम् । होत्राम् । ऋतुऽथा । जुह्वते । नरा । इषम् । जनाय । वहथः । शुभः । पती इति ॥४
 
हे अश्विनौ “युवां “वारणा वारणौ "मृगेव यथा शार्दूलौ “मृगण्यवः मृगयवः तद्वद्वयं “दोषा रात्रौ "वस्तोः अहनि च “हविषा “नि ह्वयामहे नियमेन हृयामः । किंच हे "नरा नेतारावश्विनौ "युवं युवाम् “ऋतुथा काले काले “होत्रम् आहुतिं “जुह्वते जुह्वति । यजमाना इति शेषः । किंच युवां “शुभः शुभस्य वृष्टयुदकस्य "पती स्वामिनौ सन्तौ “जनाय जनार्थम् “इषम् अन्नं "वहथः प्रापयथः॥
पङ्क्तिः ११०:
यु॒वाम् । ह॒ । घोषा॑ । परि॑ । अ॒श्वि॒ना॒ । य॒ती । राज्ञः॑ । ऊ॒चे॒ । दु॒हि॒ता । पृ॒च्छे । वा॒म् । न॒रा॒ ।
 
भू॒तम् । मे॒ । अह्ने॑ । उ॒त । भू॒त॒म् । अ॒क्तवे॑ । अश्व॑ऽवते । र॒थिने॑ । श॒क्त॒म् । अर्व॑ते ॥५
 
युवाम् । ह । घोषा । परि । अश्विना । यती । राज्ञः । ऊचे । दुहिता । पृच्छे । वाम् । नरा ।
 
भूतम् । मे । अह्ने । उत । भूतम् । अक्तवे । अश्वऽवते । रथिने । शक्तम् । अर्वते ॥५
 
हे “नरा नेतारावश्विनौ “युवां खलु “परि परितो “यती गच्छन्ती “राज्ञः दीप्तस्य कक्षीवतः “दुहिता पुत्री “घोषा घोषाख्या अहम् "ऊचे संनिहितेभ्यो वृद्धेभ्य उक्तवत्यस्मि । किंच “वां युवां “पृच्छे वृद्धान् संनिहितान् कीदृशावश्विनाविति पृच्छामि । तथा सति “मे मम अह्ने दिवसाय दिवसनिर्वर्त्यकर्मणे “भूतं भवतम् । "उत अपि च "अक्तवे रात्र्यै रात्रिनिर्वर्त्यकर्मणे “भूतं भवतम् । तथा “अश्ववते अश्वयुक्ताय “रथिने रथवते च “अर्वते भ्रातृव्याय “शक्तं निरसने शक्तौ भवतम्॥ ॥१८॥
पङ्क्तिः १२५:
यु॒वम् । क॒वी इति॑ । स्थः॒ । परि॑ । अ॒श्वि॒ना॒ । रथ॑म् । विशः॑ । न । कुत्सः॑ । ज॒रि॒तुः । न॒शा॒य॒थः॒ ।
 
यु॒वोः । ह॒ । मक्षा॑ । परि॑ । अ॒श्वि॒ना॒ । मधु॑ । आ॒सा । भ॒र॒त॒ । निः॒ऽकृ॒तम् । न । योष॑णा ॥६
 
युवम् । कवी इति । स्थः । परि । अश्विना । रथम् । विशः । न । कुत्सः । जरितुः । नशायथः ।
 
युवोः । ह । मक्षा । परि । अश्विना । मधु । आसा । भरत । निःऽकृतम् । न । योषणा ॥६
 
हे “अश्विना अश्विनौ “कवी मेधाविनौ "युवं युवां “रथं परि “ष्ठः परितो भवथः । अथ “जरितुः स्तोतुर्यज्ञं प्रति गमनाय “नशायथः रथं प्राप्नुथः । तत्र दृष्टान्तः । “कुत्सः “न । यथा कुत्सश्चेन्द्रश्च सरथमधितिष्ठतः । तथा च मन्त्रान्तरं -- यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः ' (ऋ. सं. ४. १६. ११ ) इति । किंच हे “अश्विना अश्विनौ "युवोर्ह युवयोः खलु स्वभूतं “मधु “मक्षा मक्षिका “आसा आस्येन “परि “भरत बिभर्ति । तत्र दृष्टान्तः । “निष्कृतं “न यथा निष्कृतं संस्कृतं मधु “योषणा नारी तद्वदित्यर्थः। तथा च मन्त्रान्तरम् -- उत स्था वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ' ( ऋ. सं. १. ११९. ९) इति ॥
पङ्क्तिः १४०:
यु॒वम् । ह॒ । भु॒ज्युम् । यु॒वम् । अ॒श्वि॒ना॒ । वश॑म् । यु॒वम् । शि॒ञ्जार॑म् । उ॒शना॑म् । उप॑ । आ॒र॒थुः॒ ।
 
यु॒वोः । ररा॑वा । परि॑ । स॒ख्यम् । आ॒स॒ते॒ । यु॒वोः । अ॒हम् । अव॑सा । सु॒म्नम् । आ । च॒के॒ ॥७
 
युवम् । ह । भुज्युम् । युवम् । अश्विना । वशम् । युवम् । शिञ्जारम् । उशनाम् । उप । आरथुः ।
 
युवोः । ररावा । परि । सख्यम् । आसते । युवोः । अहम् । अवसा । सुम्नम् । आ । चके ॥७
 
हे “अश्विना अश्विनौ “युवं “ह युवां खलु “भुज्युं समुद्रमध्ये विपन्न`नावं तुग्रपुत्रं भुज्युम् “उपारथुः उत्तारयितुमुपगतवन्तौ भवथः । किंच “युवं युवां “वशं हस्तिबलेन शत्रुभिः पराजीयमानं वशनामधेयं राजानं रक्षणाय उपारथुः । किंच “युवं युवां “शिञ्जारम् अत्रिमग्निकूटादुत्तारयितुम् “उशनां कमनीयां स्तुतिं च श्रोतुमुपारथुः । तथा च मन्त्रान्तरम्---’अत्रिं शिञ्जारमश्विना ' (ऋ . सं. ८..५. २५) इति । किंच “युवोः युवयोः “सख्यं मित्रत्वं “ररावा हविषां प्रदाता यजमानः “परि आसते पर्यास्ते । वचनव्यत्ययः । किं च “युवोः युवयोः “अवसा रक्षणेन “अहं घोषा “सुम्नं सुखम् “आ “चके कामये ॥
पङ्क्तिः १५५:
यु॒वम् । ह॒ । कृ॒शम् । यु॒वम् । अ॒श्वि॒ना॒ । श॒युम् । यु॒वम् । वि॒धन्त॑म् । वि॒धवा॑म् । उ॒रु॒ष्य॒थः॒ ।
 
यु॒वम् । स॒निऽभ्यः॑ । स्त॒नय॑न्तम् । अ॒श्वि॒ना॒ । अप॑ । व्र॒जम् । ऊ॒र्णु॒थः॒ । स॒प्तऽआ॑स्यम् ॥८
 
युवम् । ह । कृशम् । युवम् । अश्विना । शयुम् । युवम् । विधन्तम् । विधवाम् । उरुष्यथः ।
 
युवम् । सनिऽभ्यः । स्तनयन्तम् । अश्विना । अप । व्रजम् । ऊर्णुथः । सप्तऽआस्यम् ॥८
 
हे “अश्विना अश्विनौ “युवं “ह युवां खलु “कृशं दुर्बलं कृशनामधेयं वा "उरुष्यथः रक्षथः । किंच "युवं युवां “शयुं शयुनामानमृषिमुरुष्यथः। किंच “युवं युवां “विधन्तं परिचरन्तं मनुष्यं “विधवां च अपतिकां वध्रिमतीं योद्ध्रीं स्त्रियं च उरुष्यथः । किंच हे “अश्विना अश्विनौ “युवं युवां “स्तनयन्तं शब्दं कुर्वन्तं “सप्तास्यं सर्पणशीलद्वारं व्रजं मेघम् । व्रजश्चरुः' इति मेघनामसु पाठात् । “सनिभ्यः हविषां दातृभ्यः “अप “ऊर्णुथः विवृतद्वारं कृतवन्तौ स्थ इत्यर्थः ॥
पङ्क्तिः १७०:
जनि॑ष्ट । योषा॑ । प॒तय॑त् । क॒नी॒न॒कः । वि । च॒ । अरु॑हन् । वी॒रुधः॑ । दं॒सनाः॑ । अनु॑ ।
 
आ । अ॒स्मै॒ । री॒य॒न्ते॒ । नि॒व॒नाऽइ॑व । सिन्ध॑वः । अ॒स्मै । अह्ने॑ । भ॒व॒ति॒ । तत् । प॒ति॒ऽत्व॒नम् ॥९
 
जनिष्ट । योषा । पतयत् । कनीनकः । वि । च । अरुहन् । वीरुधः । दंसनाः । अनु ।
 
आ । अस्मै । रीयन्ते । निवनाऽइव । सिन्धवः । अस्मै । अह्ने । भवति । तत् । पतिऽत्वनम् ॥९
 
हे अश्विनौ युवयोः प्रसादादियं घोषा “योषा स्त्रीगुणोपेता सुभगा “जनिष्ट जाता । अस्याः समीपं “कनीनकः कन्याकामः पतिः “पतयत् पततु । अस्मै कनीनकाय युवयोः “दंसनाः “अनु वृष्टिलक्षणानि कर्माणि लक्षीकृस्य “वीरुधः ओषधयः “वि “चारुहन विरोहन्तु प्रादुर्भवन्तु । “अस्मै कनीनकाय “निवनेव प्रवणेनेव “सिन्धवः उदकानि “आ “रीयन्ते । ता वीरुधोऽभिगच्छन्तु । किंच “अह्रे केनाप्यहन्तव्याय “अस्मै कनीनकाय “तत् संभोगसमर्थं “पतित्वनं यौवनं “भवति भवतु ॥
पङ्क्तिः १८५:
जी॒वम् । रु॒द॒न्ति॒ । वि । म॒य॒न्ते॒ । अ॒ध्व॒रे । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒धि॒युः॒ । नरः॑ ।
 
वा॒मम् । पि॒तृऽभ्यः॑ । ये । इ॒दम् । स॒म्ऽए॒रि॒रे । मयः॑ । पति॑ऽभ्यः । जन॑यः । प॒रि॒ऽस्वजे॑ ॥१०
 
जीवम् । रुदन्ति । वि । मयन्ते । अध्वरे । दीर्घाम् । अनु । प्रऽसितिम् । दीधियुः । नरः ।
 
वामम् । पितृऽभ्यः । ये । इदम् । सम्ऽएरिरे । मयः । पतिऽभ्यः । जनयः । परिऽस्वजे ॥१०
 
हे अश्विनौ युवथोरनुग्रहात “ये “नरः पतयो जायानां “जीवं जीवनमुद्दिश्य "रुदन्ति । रोदनेनापि जायानां जीवनमेवाशासत इत्यर्थः । ता जायाः अध्वरे यज्ञे “वि “मयन्ते निवेशयन्ति च किंच तासु “दीर्घां महतीं “प्रसितिं भुजयोः प्रबन्धनम् “अनु “दीधियुः अनुदधति । “इदं “वामं वननीयमपत्यं “पितृभ्यः “समीरिरे संप्रेरयन्ति च। तेभ्यः पतिभ्यः “जनयः जायाः “परिष्वजे परिष्वङ्गार्थं “मयः सुखं कुर्वन्तीति शेषः ॥ ॥ १९ ॥
पङ्क्तिः २००:
न । तस्य॑ । वि॒द्म॒ । तत् । ऊं॒ इति॑ । सु । प्र । वो॒च॒त॒ । युवा॑ । ह॒ । यत् । यु॒व॒त्याः । क्षेति॑ । योनि॑षु ।
 
प्रि॒यऽउ॑स्रियस्य । वृ॒ष॒भस्य॑ । रे॒तिनः॑ । गृ॒हम् । ग॒मे॒म॒ । अ॒श्वि॒ना॒ । तत् । उ॒श्म॒सि॒ ॥११
 
न । तस्य । विद्म । तत् । ऊं इति । सु । प्र । वोचत । युवा । ह । यत् । युवत्याः । क्षेति । योनिषु ।
 
प्रियऽउस्रियस्य । वृषभस्य । रेतिनः । गृहम् । गमेम । अश्विना । तत् । उश्मसि ॥११
 
हे “अश्विना अश्विनौ तस्य “तत् सुखं वयं “न “विद्म न जानीमः। तत्सुखं यूयं “सु सुष्ठु “प्र “वोचत । बहुवचनं पूजार्थम् । “युवा “ह तरुणः खलु मत्पतिः "युवत्याः यौवनान्विताया मम “योनिषु गृहेषु “यत् “क्षेति निवसतीति । किंच “प्रियोस्रियस्य प्रिययुवतेः “वृषभस्य सेक्तुः “रेतिनः रेतस्विनो मत्पतेः “गृहं “गमेम गच्छेम । वयं “तत् गृहम् “उश्मसि कामयामहे ॥
पङ्क्तिः २१५:
आ । वा॒म् । अ॒ग॒न् । सु॒ऽम॒तिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । नि । अ॒श्वि॒ना॒ । हृ॒त्ऽसु । कामाः॑ । अ॒यं॒स॒त॒ ।
 
अभू॑तम् । गो॒पा । मि॒थु॒ना । शु॒भः॒ । प॒ती॒ इति॑ । प्रि॒याः । अ॒र्य॒म्णः । दुर्या॑न् । अ॒शी॒म॒हि॒ ॥१२
 
आ । वाम् । अगन् । सुऽमतिः । वाजिनीवसू इति वाजिनीऽवसू । नि । अश्विना । हृत्ऽसु । कामाः । अयंसत ।
 
अभूतम् । गोपा । मिथुना । शुभः । पती इति । प्रियाः । अर्यम्णः । दुर्यान् । अशीमहि ॥१२
 
हे वाजिनीवसू अन्नधनौ “शुभस्पती उदकस्य स्वामिनौ हे “अश्विना अश्विनौ “मिथुना मिथुनौ परस्परं सहितौ “वां युवां “सुमतिः “आ “अगन् आगच्छतु । “हृत्सु अस्मदीयेषु हृदयेषु “कामाः अभिलाषा: “नि अयंसत नियम्यन्ताम् । किंच युवां “गोपा मम गोपयितारौ “अभूतं भवतम् । अपि च "प्रियाः सत्यो वयम् “अर्यम्णः पत्युः "दुर्यान गृहान् "अशीमहि प्राप्नुयाम ॥
पङ्क्तिः २३०:
ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । ध॒त्तम् । र॒यिम् । स॒हऽवी॑रम् । व॒च॒स्यवे॑ ।
 
कृ॒तम् । ती॒र्थम् । सु॒ऽप्र॒पा॒नम् । शु॒भः॒ । प॒ती॒ इति॑ । स्था॒णुम् । प॒थे॒ऽस्थाम् । अप॑ । दुः॒ऽम॒तिम् । ह॒त॒म् ॥१३
 
ता । मन्दसाना । मनुषः । दुरोणे । आ । धत्तम् । रयिम् । सहऽवीरम् । वचस्यवे ।
 
कृतम् । तीर्थम् । सुऽप्रपानम् । शुभः । पती इति । स्थाणुम् । पथेऽस्थाम् । अप । दुःऽमतिम् । हतम् ॥१३
 
हे अश्विनौ “मन्दसाना मन्दसानौ “ता तौ युवां “मनुषः मनुष्यस्य मत्पतेः "दुरोणे गृहे “वचस्यवे युष्मत्स्तुतिकामायै मह्यं “सहवीरं पुत्रादिसहितं “रयिं धनम् “आ “धत्तं स्थापयतम् । किंच हे अश्विनौ "शुभस्पती उदकस्य स्वामिनौ युवां पतिगृहं गच्छन्त्या मम “तीर्थं पानाय "सुप्रपाणं “कृतं कुरुतम् । किंच युवां “पथेष्ठां मार्गस्थं “स्थाणुं वृक्षं “दुर्मतिं दुर्बुद्धिं परिपन्थिनं च “अप “हतम् अपगमयतम् ॥
पङ्क्तिः २४५:
क्व॑ । स्वि॒त् । अ॒द्य । क॒त॒मासु॑ । अ॒श्विना॑ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति॑ । शु॒भः । पती॒ इति॑ ।
 
कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य॑ । ज॒ग्म॒तुः॒ । विप्र॑स्य । वा॒ । यज॑मानस्य । वा॒ । गृ॒हम् ॥१४
 
क्व । स्वित् । अद्य । कतमासु । अश्विना । विक्षु । दस्रा । मादयेते इति । शुभः । पती इति ।
 
कः । ईम् । नि । येमे । कतमस्य । जग्मतुः । विप्रस्य । वा । यजमानस्य । वा । गृहम् ॥१४
 
हे “अश्विना अश्विनौ “दस्रा दर्शनीयौ “शुभस्पती उदकस्य पती स्वामिनौ भवन्तौ "क्व “स्वित् क्व स्थितौ जनपदे “अद्य अस्मिन्नहनि “कतमासु कासु “विक्षु प्रजासु “मादयेते आत्मानं तर्पयतः । किंच कः यजमानः “ईम् एतौ “नि “येमे नियच्छति । किंच भवन्तौ “कतमस्य “विप्रस्य मेधाविनः स्तोतुः यजमानस्य "गृहं “वा “जग्मतुः गतवन्तौ ॥ ॥ २०॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४०" इत्यस्माद् प्रतिप्राप्तम्