"काठकसंहिता (विस्वरः)/स्थानकम् १७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
राज्ञ्यसि प्राची दिग्वसवस्ते देवा अधिपतयोऽग्निर्हेतीनां प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्याँ श्रयत्वाज्यमुक्थमव्यथाय स्तभ्नातु रथन्तरँ साम प्रतिष्ठित्या अन्तरिक्षमृषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु विराडसि दक्षिणा दिग्रुद्रास्ते देवा अधिपतय इन्द्रो हेतानां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्याँ श्रयतु प्रउगमुक्थमव्यथाय स्तभ्नातु बृहत् साम प्रतिष्ठित्या अन्तरिक्षमषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु सम्राडसि प्रतीची दिगादित्यास्ते देवा अधिपतयस्सोमो हेतीनां प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्याँ श्रयतु मरुत्वतीयमुक्थमव्यथाय स्तभ्नातु वैरूपँ साम प्रतिष्ठित्या अन्तरिक्षमृषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु स्वराडस्युदीची दिङ् मरुतस्ते देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तैकविँशस्त्वा स्तोमः पृथिव्याँ श्रयतु निष्केवल्यमुक्थमव्यथाय स्तभ्नातु वैराजँ साम प्रतिष्ठित्या अन्तरिक्षमृषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्वधिपत्न्यसि बृहती दिग्विश्वे ते देवा अधिपतयो बृहस्पतिर्हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिँशौ त्वा स्तोमौ पृथिव्याँ श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथाय स्तभ्नीताँ शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षमृषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च साद्यन्तु ॥८॥
 
अयं पुरो हरिकेशस्सूर्यरश्मिस्तस्य रथकृत्सश्च रथौजाश्च सेनानीग्रामण्यौ पुञ्जिगस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षाँसि प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्ययं दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्ययं पश्चाद्विदद्वसुस्तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्यौ प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिस्सर्पाः प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्ययमुत्तरात् संयद्वसुस्तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्यौ विश्वाची च घृताची चाप्सरसा आपो हेतिर्वातः प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधाम्ययमुपर्यर्वाग्वसुस्तस्य सेनाजिच्च सुषेणश्च सेनानीग्रामण्या उर्वशी च पूर्वचित्तिश्चाप्सरसा अवस्फूर्जद्धेतिर्विद्युत् प्रहेतिस्ते नः पान्तु ते नोऽवन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ।।९।।
अयं पुरो हरिकेशस्सूर्यरश्मिस्तस्य रथकृत्सश्च रथौजाश्च सेनानीग्रामण्यौ पुञ्जिगस्थला च कृतस्थला
 
आयोस्त्वा सदने सादयाम्यवतश्छायायां नमस्समुद्राय नमस्समुद्रस्य चक्षसे ॥ प्रोथदश्वो न यवसेऽविष्यन् यदा महस्संवरणे व्यस्थात् ।
आदस्य वातो अनुवाति शोचिरध स्म ते व्रजनमस्तु कृष्णम् ।।
प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणाय व्यानायापानाय विश्वं ज्योतिर्यच्छाग्निष्टेऽधिपतिर्विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणाय व्यानायापानाय विश्वं ज्योतिर्यच्छ वायुष्टेऽधिपतिः परमेष्ठी त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणाय व्यानायापानाय विश्वं ज्योतिर्यच्छ सूर्यस्तेऽधिपतिर्मधुश्च माधवश्च वासन्तिका ऋतू अग्नेरन्तश्श्लेषोऽसि ।।
कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधयः ।
कल्पन्तामग्नयः पृथङ् मम ज्येष्ठ्याय सव्रताः ।।
येऽग्नयस्समनसोऽन्तरा द्यावापृथिवी ।
इमे वासन्तिका ऋतू अभिकल्पमाना इन्द्रामव देवा अभिसंविशन्तु ॥
शुक्रश्च शुचिश्च ग्रैष्मा ऋतू नभश्च नभस्यश्च वार्षिका ऋतू इषश्चोर्जश्च शारदा ऋतू सहश्च सहस्यश्च हैमन्तिका ऋतू तपश्च तपस्यश्च शैशिरा ऋतू अग्नेरन्तश्श्लेषोऽसि ।।
कल्पेता द्यावापृथिवी कल्पन्तामाप ओषधयः ।
कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ।।
येऽग्नयस्समनसोऽन्तरा द्यावापृथिवी ।
इमे शैशिरा ऋतू अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु ॥
सहस्रस्य प्रमासि सहस्रस्य प्रतिमासि सहस्रस्योन्मासि साहस्रोऽसि सहस्राय त्वेमा मे अग्न इष्टका धेनवस्सन्त्वेका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च प्रयुतं च प्रयुतं च नियुतं च नियुतं चार्बुदं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं चान्तश्च परार्धश्च ता मे अग्न इष्टका धेनवस्सन्त्वृतवस्स्थर्तावृध ऋतुष्ठास्स्थर्तुस्पृशो घृतश्चुतो मधुश्चुत ऊर्जस्वतीस्स्वधायिनीर्विराजो नाम कामदुघास्ता मे अग्न इष्टका धेनवस्सन्तु ॥१०॥
 
तत् पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ।।
नमस्ते रुद्र मन्यवे बाहुभ्यामुत ते नमः । उतो त इषवे नमः ॥
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तन्वा शंतमया गिरिशन्ताभिचाकशीहि ।।
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नस्सर्वमिज्जगदयक्ष्मँ सुमना असत् ॥
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीँश्च सर्वाञ्जम्भय सर्वाश्च यातुधान्योऽधराचीः परासुव ।
असौ यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः ।।
ये चेमे रुद्रा अभितो दिक्षु श्रितासहस्रशोऽवैषाँ हेड ईमहे ।।
असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृश्रन्नुतैनमुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ।। विज्यं धनुः कपर्दिनो विशल्यो बांणवानुत । अनेशन्नस्येषव आभूरस्य निषङ्गथिः ॥ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान् विश्वतस्त्वमयक्ष्मेण परिभुज ।।
परि ते धन्वनो हेतिस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥
नमाँसि त आयुधायानातताय धृष्णवे ।।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥
अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखं शिवो नस्सुमना भव ।। या त इषुश्शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो मृड जीवसे ॥११॥
 
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमश्शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतस्पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमस्सूतायाहन्त्वाय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम आक्रन्दयत उच्चैर्घोषाय सत्त्वानां पतये नमो नमः कृत्संवीताय धावते पत्तीनां पतये नमो नमस्सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचराय परिचरयारण्यानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमस्सृकायिभ्यो जिघाँसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तं चरद्यःं प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमः॥१२॥
 
नम इषुकृद्भ्यो धन्वकृद्य् श्च वो नमो नम इषुमद्भ्यो धन्वायिभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो नमस्स्वपद्यो्भ जाग्रद्भ्यश्च वो नमो नमश्शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्य््श्च वो नमो नमस्समभाभ्यस्सभापतिभ्यश्च वो नमो नमोऽश्वभ्योऽश्वपतिभ्यश्च वो नमो नम अव्याधिनीभ्यो विविध्यद्भ्यश्च वो नमो नम उगणाभ्यस्तृँहतीभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमः कृच्छ्रेभ्यः कृच्छ्रपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमस्सेनाभ्यस्सेनानीभ्यश्च वो नमो नमो रथिभ्यो वरूथिभ्यश्च वो नमो नमो महद्भ्योऽर्भकेभ्यश्च वो नमो नमो युवभ्य आशिनेभ्यश्च वो नमो नमः क्षत्तृभ्यस्संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमश्श्वनिभ्यो मृगयुभ्यश्च वो नमो नमःश्वभ्यश्श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमश्शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमो व्युप्तकेशाय च कपर्दिने च नमस्सहस्राक्षाय च शतधन्वने च ॥१३॥
 
नमो गिरिशाय च शिपिविष्ठाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृध्वने च नमोऽग्र्याय च प्रथमाय च नम आशवे चाजिराय च नमश्शीभाय च शीघ्राय च नम ऊर्म्याय चावस्वन्याय च नमो नद्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो बुध्न्याय च जघन्याय च नमस्सोभ्याय च प्रतिसर्याय च नम आशुषेणाय चाशुरथाय च नमो बिल्मिने च कवचिने च नमो वार्मिणे च वरूथिने च नमश्शूराय चावभेदिने च नमश्श्रुताय च श्रुतसेनाय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय खल्याय च नमश्श्लोक्याय चावसान्याय च नमश्श्रवाय च प्रतिश्रवाय च नमो वन्याय च कक्ष्याय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमस्स्वायुधाय च सुधन्वने च ।।१४।।
 
नमस्सृत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमो नाद्याय च वैशन्ताय च नमः कुल्याय च सरस्याय च नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेध्याय च विद्युत्याय च नमो वीध्र्याय चातप्याय च नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमस्सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमश्शंगवे च पशुपतये च नम उग्राय च भीमाय च नमो हन्त्रे च हनीयसे च नमोऽग्रेवधाय च दूरेवधाय च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमशिवाय च शिवतराय च नमः किँशिलाय च क्षयणाय च नम इरिण्याय च प्रपथ्याय च नमः पुलस्तिने च कपर्दिने च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमः फेन्याय च शष्प्याय च नमस्सिकत्याय च प्रवाह्याय च नमो ह्रदव्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च नमश्शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः पाँसव्याय च रजस्याय च नमस्सूर्म्याय चौर्म्याय च नमः पर्ण्याय च पर्णशादाय च नम आखिदते च प्रखिदते च नमोऽभिघ्नते चापगुरमाणाय च नम आखिदाय च विखिदाय च ।।१५।।
 
नमो वः किरिकेभ्यो देवानाँ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षीणकेभ्यो नम आनिर्हतेभ्यः ॥
द्रापे अन्धसस्पते दरिद्र नीललोहित । आसां प्रजानामेषां पुरुषाणामेषां पशूनाम् ।
मा भैमी रौङ् मा नः किंञ्चनाममत् ।।
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।
यथा नश्शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ।।
या ते रुद्र शिवा तनूश्शिवा विश्वाह भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ।।
परि णो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड ।।
मीढुष्टम शिवतम शिवो नस्सुमना भव ।
परमे वृक्ष आयुधं निधय कृत्तिं वसान उच्चर पिनाकं बिभ्रदुच्चर ॥
विकिरिड विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्रं हेतयोऽन्येऽस्मन्निवपन्तु ताः।।
सहस्रधा सहस्राणि हेत्यस्तव बाह्वोः । तासामीशानो भगवः पराचीना मुखा कुरु ।।
असंख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
येऽस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये नीलग्रीवाश्शितिकण्ठा दिवं रुद्रा उपश्रिताः ।
तेषाँ सहस्रयोजनेऽव घन्वानि तन्मसि ।।
ये नीलग्रीवाश्शितिकण्ठाश्शर्वा अधः क्षमाचराः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
ये वनेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
ये भूतानामधिपतयो विशिखासः कपर्दिनः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
ये पथीनां पथिरक्षय ऐडमृदा यव्युधः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
य एतावन्तो वा भूयाँसो वा दिशो रुद्रा वितस्थिरे ।
तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ।।
नमो अस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमो अस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि । नमो अस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमो अस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि । नमो अस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशो र्ध्वस्तेभ्यो नमो अस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ॥१६॥
 
अश्मन्नूर्जं पर्वते शिश्रियाणामद्भ्य औषधीभ्यो वनस्पतिभ्योऽधि संभृताम् ।
तां न ऊर्जं धत्त मरुतस्संरराणा अश्मन्ते क्षुद्यं द्विष्मस्तं ते शुगृच्छतु ।।
समुद्रस्य त्वावकयाग्ने परिव्ययामसि ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ।।