"काठकसंहिता (विस्वरः)/स्थानकम् १७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७४:
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ।।
विज्यं धनुः कपर्दिनो विशल्यो बांणवानुत । अनेशन्नस्येषव आभूरस्य निषङ्गथिः ॥
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान् विश्वतस्त्वमयक्ष्मेण परिभुज ।।
परि ते धन्वनो हेतिस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥
नमाँसि त आयुधायानातताय धृष्णवे ।।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥
अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखं शिवो नस्सुमना भव ।।
या त इषुश्शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो मृड जीवसे ॥११॥
 
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमश्शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतस्पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमस्सूतायाहन्त्वाय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम आक्रन्दयत उच्चैर्घोषाय सत्त्वानां पतये नमो नमः कृत्संवीताय धावते पत्तीनां पतये नमो नमस्सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचराय परिचरयारण्यानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमस्सृकायिभ्यो जिघाँसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तं चरद्यःं प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमः॥१२॥
 
नम इषुकृद्भ्यो धन्वकृद्य् श्चधन्वकृद्भ्यश्च वो नमो नम इषुमद्भ्यो धन्वायिभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो नमस्स्वपद्यो्भ जाग्रद्भ्यश्च वो नमो नमश्शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्य््श्च वो नमो नमस्समभाभ्यस्सभापतिभ्यश्च वो नमो नमोऽश्वभ्योऽश्वपतिभ्यश्च वो नमो नम अव्याधिनीभ्यो विविध्यद्भ्यश्च वो नमो नम उगणाभ्यस्तृँहतीभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमः कृच्छ्रेभ्यः कृच्छ्रपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमस्सेनाभ्यस्सेनानीभ्यश्च वो नमो नमो रथिभ्यो वरूथिभ्यश्च वो नमो नमो महद्भ्योऽर्भकेभ्यश्च वो नमो नमो युवभ्य आशिनेभ्यश्च वो नमो नमः क्षत्तृभ्यस्संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमश्श्वनिभ्यो मृगयुभ्यश्च वो नमो नमःश्वभ्यश्श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमश्शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमो व्युप्तकेशाय च कपर्दिने च नमस्सहस्राक्षाय च शतधन्वने च ॥१३॥
 
नमो गिरिशाय च शिपिविष्ठाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृध्वने च नमोऽग्र्याय च प्रथमाय च नम आशवे चाजिराय च नमश्शीभाय च शीघ्राय च नम ऊर्म्याय चावस्वन्याय च नमो नद्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो बुध्न्याय च जघन्याय च नमस्सोभ्याय च प्रतिसर्याय च नम आशुषेणाय चाशुरथाय च नमो बिल्मिने च कवचिने च नमो वार्मिणे च वरूथिने च नमश्शूराय चावभेदिने च नमश्श्रुताय च श्रुतसेनाय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय खल्याय च नमश्श्लोक्याय चावसान्याय च नमश्श्रवाय च प्रतिश्रवाय च नमो वन्याय च कक्ष्याय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमस्स्वायुधाय च सुधन्वने च ।।१४।।
Line १३० ⟶ १३४:
समुद्रस्य त्वावकयाग्ने परिव्ययामसि ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ।।
हिमस्य त्वा जरायुणाग्ने परिव्ययामसि ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यँ शिवो भव ॥
उप ज्मन्नुप वेतसेऽवतर नदीष्वा । अग्ने पित्तमपामसि मण्डूकि ताभिरागहि ।
सेमं नो यज्ञं पावकवर्णँ शिवं कृधि ।।
अपामिदं न्ययनँ समुद्रस्य विमोचनम् ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यँ शिवो भव ।।
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ।।
पावकया यश्चितयन्त्या कृपा क्षामा रुरुच उषसो न केतुना ।
तुरो न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ।।
नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे ।।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ।।
नृषदे वेड्वनृषदे वेडप्सुषदे वेड् बर्हिषदे वेट् स्वर्विदे वेट् ॥
ये देवा देवानां यज्ञिया याज्ञियानाँ संवत्सरीणमुप भागमासते ।
अहुतादो हविषो यज्ञे अस्मिन् स्वयं पिबन्तु मधुनो घृतस्य ।
ये देवा देवेभ्यो अधि देवत्वमायन् ये ब्रह्मणः पुरएतारो अस्य ।
येभ्यो नर्ते पवते धाम किंचन न ते दिवो न पृथिव्या अधि स्नुषु ।।
प्राणदा व्यानदा अपानदा वर्चोदा वरिवोदाः ।
अन्याँस्ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यँ शिवो भव ॥१७॥
 
स आ नो योनिँ सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति ।
कामो रायस्सुवीर्यस्य तं दात् पर्षन्नो अति सश्चतो अरिष्टान् ॥
तँ शग्मासो अरुषासो अश्वा बृहस्पतिँ सहवाहो वहन्ति ।
सहश्चिद्यस्य नीलवत् सधस्थं नभो न रूपमरुषं वसानाः ।।
बृहस्पतिः प्रथमं जायमानः ।।
तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः ।
शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणँ हुवेम ।।
स हि शुचिश्शतपत्रस्स शुन्ध्युर्हिरण्यवाशीरिषिरस्स्वर्षाः ।
बृहस्पतिस्स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
बृहस्पते सुप्रजा वीरवन्तो वयँ स्याम पतयो रयीणाम् ।।
प्र वां दँसाँस्यश्विना अवोचमस्य पतिस्स्याँ सुगवस्सुवीरः ।
उत पश्यन्नश्नुवन् दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥
अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः ।
पुरुदँसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ।।
यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
तेन नश्शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥
त्रिबन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।।
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ।
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥
सरस्वत्यभि नो नेषि वस्यो मापस्फरीः पयसा मा न आधक् ।
जुषस्व नस्सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ।।
इमा जुह्वाना ।।
पावीरवी कन्या चित्रायुस्सरस्वती वीरपत्नी धियं धात् ।
माभिरच्छिद्रँ शरणँ सजोषा दुराधर्षं गृणते शर्म यँसत् ।।
इन्द्रस्सुत्रामा । तस्य वयम् ॥
त्रातारमिन्द्रमवितारमिन्द्रँ हवे हवे सुहवँ शूरमिन्द्रम् ।
ह्वयामि शक्रं पुरुहूतमिन्द्रँ स्वस्ति नो मघवा धात्विन्द्रः ॥
उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत् करिष्यन् ।।
जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ।।
अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता ।
अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ।।
स्वस्तये वाजिभिश्च प्रणेतः ॥१८॥
 
युवँ सुराममश्विना नमुचा आसुरे सचा । विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥
होता यक्षदश्विना सरस्वतीमिन्द्रँ सुत्रामाणँ सोमानाँ सुराम्णां जुषन्तां व्यन्तु पिबन्तु सोमान् सुराम्णो होतर्यज ।।
पुत्रमिव पितरा अश्विनोभेन्द्रावतं काव्यैर्दँसनाभिः ।
यत् सुरामं व्यपिबश्शचीभिस्सरस्वती त्वा मघवन्नभिष्णक् ।
आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः ।
हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ।।
अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आगात् ।
शं यत् स्तोतृभ्य आपये भवात्युरुशँसाय सवितर्जरित्रे ।।
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
स नश्शर्म त्रिवरूथं वियँसत् पातं नो द्यावापृथिवी उपस्थे ।।
तत्त्वा यामि ॥
यदत्र शिष्टं रसिनस्सुतस्य यस्येन्द्रो अपिबच्छचीभिः ।
तेनाहमद्य मनसा सुतस्य सोमं राजानामिह भक्षयामि ॥
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
अहानीव सूर्यो वासराणि प्रा ण आयुर्जीवसे सोम तारीः ।।
नाना हि देवैश्चकृपे सदो वां मा सँसृक्षाथां परमे व्योमन् ।
सुरा त्वमसि शुष्मिणी सोम एष मा माँ हिँसिष्टं यत् स्वं योनिमाविशाथः ॥
त्वँ सोम सुरया संविदानः प्रजामन्यः क्षत्रमन्यः पिपर्तु ।
युवं नो अत्र वरिवः कृणुतं वयँ स्याम पतयो रयीणाम् ।।
इन्द्राग्नी मैतं निर्ह्वेथां यँ सोमं पपिमा वयम् ।
इहैषो अस्तु भक्षितश्शिवश्शिवाभिरूतिभिः ॥
द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वं भुवनँ समेति यदन्तरा पितरं मातरं च ।।
यस्ते राजन् वरुण द्रुहः पाशो गायत्रच्छन्दाः पृथिवीमन्वाविवेश ब्रह्मणि प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशस्त्रिष्टुप् छन्दा अन्तरिक्षमन्वाविवेश क्षत्रे प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशो जगच्छन्दा दिवमन्वाविवेश विशि प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा यस्ते राजन् वरुण द्रुहः पाशोऽनुष्टुप् छन्दा दिशोऽन्वाविवेश पशुषु प्रतिष्ठितस्तं त एतदवयजे तस्मै स्वाहा ॥१९॥[१४०४] ॥
 
 
इति श्रीयजुषि काठके चरकशाखायामिठिमिकायां ध्रुवक्षितिर्नाम सप्तदशं स्थानकं संपूर्णम् ॥१७॥