"ऋग्वेदः सूक्तं १०.१०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
प्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया ।
 
अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥१
 
प्र । ते । रथम् । मिथुऽकृतम् । इन्द्रः । अवतु । धृष्णुऽया ।
 
अस्मिन् । आजौ । पुरुऽहूत । श्रवाय्ये । धनऽभक्षेषु । नः । अव ॥१
 
हे मुद्गल “ते “रथं “मिथूकृतं मिथःकृतमसहायं कृतम् । अथवा मिथुरिति मिथ्यानाम । अश्वादिभिः शून्यं कृतं “धृष्णुया धर्षणशीलः “इन्द्रोऽवतु रक्षतु । यद्वा । धृष्णुया धर्षणशीलेन वज्रेण । उभयत्र ‘सुपां सुलुक्' इति सुपो याजादेशः । अथ प्रत्यक्षकृतः । हे “पुरुहूत बहुभिराहूतेन्द्र “अस्मिन्नाजौ संग्रामेऽपहृतगोभिश्चौरैः कृते संग्रामे । कीदृशे । “श्रवाय्ये श्रोतव्ये । विश्रुत इत्यर्थः । ‘ श्रुदक्षि° (उ, सू. ३.९६ ) इत्यादिना आय्यप्रत्ययः । “धनभक्षेषु अस्मासु गोरूपधनभजनकामेषु सत्सु । यद्वा । गोरूपधनस्य भक्षकेषु चौरेषु जेतव्येषु सत्सु । “न: अस्मान् “अव रक्ष ॥
पङ्क्तिः ६३:
उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् ।
 
र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गोऽइ॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥२
 
उत् । स्म । वातः । वहति । वासः । अस्याः । अधिऽरथम् । यत् । अजयत् । सहस्रम् ।
 
रथीः । अभूत् । मुद्गलानी । गोऽइष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्रऽसेना ॥२
 
“अस्याः ‘ रथीरभून्मुद्गलानी ' इति वक्ष्यमाणत्वादस्य मुद्गलस्य पत्न्याः सारथिभूतायाः “वासः अंशुकं “वातः वायुः “उत् “वहति ऊर्ध्वं प्रापयति । श्रमजनितस्वेदापनयाय । अथवा शीघ्ररथधावनजनितो वायुरंशुकं चालयतीत्यर्थः । कदेति उच्यते । “यत् यदा “अधिरथम् अधिकं रथमारुह्य “सहस्रं सहस्रसंख्याकं गोसंघम् “अजयत् तदा । यद्या गोसहस्रमजयदस्या इति वा योज्यम् । यद्योगाज्जयतेर्न निघातः । “गविष्टौ गवामपहृतानामेषणे “मुद्गलानी मुद्गलस्य स्त्री "रथीरभूत् सारथिरभवत् । छान्दस आनुक् । “इन्द्रसेना स्तुत्या परितुष्टस्येन्द्रस्य सेना । यद्वा । इन्द्रस्य शत्रूणां दारयितुर्मुद्गलस्य सेनानीरूपा मुद्गलानी । “भरे संग्रामे “कृतं संपादितं गोसंघं “व्यचेत् व्यचिनोत् । शत्रुभ्यः पृथक्कृतवती । चयतेर्लङि • बहुलं छन्दसि' इति विकरणस्य लुक् ॥
पङ्क्तिः ७८:
अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः ।
 
दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥३
 
अन्तः । यच्छ । जिघांसतः । वज्रम् । इन्द्र । अभिऽदासतः ।
 
दासस्य । वा । मघऽवन् । आर्यस्य । वा । सनुतः । यवय । वधम् ॥३
 
हे "इन्द्र “जिघांसतः हन्तुमिच्छतः “अभिदासतः अभिद्रुह्यतः शत्रोः “वज्रम् अन्तर्यच्छ अन्तर्गमय । तदेवाह । हे “मघवन् धनवन्निन्द्र “दासस्य “वा उपक्षीणस्याल्पस्य “आर्यस्य अभिगन्तव्यस्य महतो “वा शत्रोः “वधम् । वज्रनामैतत् । हननसाधनं वज्रं “सनुतः । अन्तर्हितनामैतत् । अन्तर्हितं गूढं प्रयुज्यमानं "यवय पृथक्कुरु ॥
पङ्क्तिः ९३:
उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ ।
 
प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥४
 
उद्नः । ह्रदम् । अपिबत् । जर्हृषाणः । कूटम् । स्म । तृंहत् । अभिऽमातिम् । एति ।
 
प्र । मुष्कऽभारः । श्रवः । इच्छमानः । अजिरम् । बाहू इति । अभरत् । सिसासन् ॥४
 
अत्र वृषभः स्तूयते । वृषभः "उद्नः उदकस्य “ह्रदम् अगाधजलाशयम् “अपिबत् “जर्हषाणः अत्यन्त हर्षितः सन् । तथा “कूटं पर्वतशृङ्गं चौरैर्गोपिधानार्थं निहितं "तृंहत् "स्म शृङ्गेण विहिंसितवान्। व्यदारयदित्यर्थः। तथा कृत्वा “अभिमातिमेति शत्रुं गच्छति हन्तुम् । पश्चात् “मुष्कभारः प्रवृद्धमुष्कः। प्रवृद्धस्य वृषभस्य हि मुष्कवृद्धिर्भवति । तथा प्रवृद्धो वृषभः “श्रवः । श्रूयत इति श्रवो यशः । “इच्छमानः इच्छन् “अजिरं गमनशीलं शत्रुं “बाहू बाहुभ्यां बाह्वोर्वा “प्र “अभरत् प्रहृतवान् । यद्वा अजिरमिति क्षिप्रनाम । क्षिप्रं “सिषासन् संभक्तुमिच्छन् बाहू प्राभरत् । प्रसारितवानित्यर्थः ॥
पङ्क्तिः १०८:
नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः ।
 
तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥५
 
नि । अक्रन्दयन् । उपऽयन्तः । एनम् । अमेहयन् । वृषभम् । मध्ये । आजेः ।
 
तेन । सूभर्वम् । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । प्रऽधने । जिगाय ॥५
 
मुद्गल आह । तेनेति तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यम् “एनं वृषभं “न्यक्रन्दयन् नितरां क्रन्दनमकुर्वन् । के। “उपयन्तः समीपे गच्छन्तो नरः । यथा प्रचण्डेन क्रन्दनेन शत्रवो भीताः पलायन्ते तथाकुर्वन् । किम् । “वृषभं वर्षकं सेक्तारम् “आजेः संग्रामस्य “मध्ये “अमेहयन् मूत्रपुरीषोत्सर्गं विश्रामार्थं कारितवन्तः । “सूभर्वम् । भर्वतिरत्तिकर्मा । शोभनचणकादिभक्षकम् । तादृशो यथा भवति तथा कृत्वेत्यर्थः । यद्वा एतद्गोसहस्रविशेषणम् । “तेन उक्तरूपेण वृषभेण सूभर्वं सुष्ठु यवसास्वादि “शतवत् शतोपेतं “गवां “सहस्रं “मुद्गलः एतन्नामाहं “प्रधने संग्रामे “जिगाय अजैषम् ॥
पङ्क्तिः १२३:
क॒कर्द॑वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी ।
 
दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥६
 
ककर्दवे । वृषभः । युक्तः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी ।
 
दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निःऽपदः । मुद्गलानीम् ॥६
 
"ककर्दवे हिंसनाय शत्रूणां “वृषभः वर्षिता गौः "युक्त “आसीत् रथे संबद्धोऽभूत् । "केशी केशवान् प्रग्रहवान् “अस्य राज्ञः रथस्य वा “सारथिः । मुद्गलानीत्यर्थः । सारथ्यभिप्रायेण केशीति पुँलिङ्गता। “अवावचीत् वृषभभयजनकं शत्रुभयजनकं वाक्रोशमकरोत् । अथवा । केशी केशिनी सारथिरस्य । अमुमित्यर्थः । अमुं वृषभं शब्दमकारयत् । ‘वच परिभाषणे' इत्यस्य केवलस्यान्तर्णीतण्यर्थस्य यङ्लुगन्तस्य लुङि रूपम् । अथवा । अस्य सारथिः सहायभूतः केशी प्रकृष्टकेशो वृषभोऽवावचीत् भृशमशब्दयत् । एवंभूतस्य “दुधेः दुर्धरस्य “अनसा “सह “द्रवतः शीघ्रं शत्रुमध्ये रथेन सह धावतो वृषभस्य भयंकरशब्देन “निष्पदः निर्गच्छन्तो योद्धारः “मुद्गलानीं मुद्गलस्य योषितं सारथिभूतां प्रति “ऋच्छन्ति “ष्म अगच्छन्नित्यर्थः । ‘ पाघ्रा इत्यादिना ऋच्छादेशः ॥ ॥ २० ॥
पङ्क्तिः १३८:
उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् ।
 
इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥७
 
उत । प्रऽधिम् । उत् । अहन् । अस्य । विद्वान् । उप । अयुनक् । वंसगम् । अत्र । शिक्षन् ।
 
इन्द्रः । उत् । आवत् । पतिम् । अघ्न्यानाम् । अरंहत । पद्याभिः । ककुत्ऽमान् ॥७
 
“उत अपि च “विद्वान् स मुद्गलः “अस्य रथस्य “प्रधिम् । प्रधिरक्षच्छिद्रकाष्ठः प्रान्तकाष्ठः। स च रथावयवानामुपलक्षकः । रथावयवम् “उदहन् उदगमयत् । रथं संननाहेत्यर्थः । तदनन्तरम् “अत्र रथे “वंसगं वननीयगमनं वृषभं “शिक्षन् शिक्षयन् रज्जुषु स्थापयन् “उपायुनक् रथसमीपे युगेऽयोजयत् । युजेर्लङि तिपो हल्ङ्यादिलोपः । एवं सति “इन्द्रः देवः “अघ्न्यानाम् अहन्तव्यानां गवां “पतिम् “उत् उत्कृष्टम् “आवत् रक्षामकरोत् । पश्चात् “ककुद्मान् वृषभः “पद्याभिः सरणिभिः “अरंहत वेगेनागमत् । रहिर्गत्यर्थः ॥ .
पङ्क्तिः १५३:
शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्राया॑म् । दारु॑ । आ॒ऽनह्य॑मानः ।
 
नृ॒म्णानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥८
 
शुनम् । अष्ट्राऽवी । अचरत् । कपर्दी । वरत्रायाम् । दारु । आऽनह्यमानः ।
 
नृम्णानि । कृण्वन् । बहवे । जनाय । गाः । पस्पशानः । तविषीः । अधत्त ॥८
 
“शुनम् इति सुखनाम। सुखं यथा भवति तथा । “अष्ट्रावी । अष्ट्रा प्रतोदः तद्वान् । छान्दसो विनिः । “कपर्दी कपर्दवान् “अचरत् संचरति । किं कुर्वन् । “वरत्रायां वध्रौ “दारु काष्ठं रथाङ्गभूतम् “आनह्यमानः सर्वतो बध्नन् । पुनः किं कुर्वन् । “बहवे “जनाय स्वपुत्रभृत्यादिलक्षणाय “नृम्णानि धनानि शत्रुसंबन्धीनि सुखानि वा “कृण्वन् । “गाः “पस्पशानः स्पृशन् । ' स्पश बाधनस्पर्शनयोः । छान्दसो लिटि कानच् । एवं कुर्वन् “तविषीः बलानि “अधत्त धते । जयं प्राप्नोतीत्यर्थः ॥
पङ्क्तिः १६८:
इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्रु॒ऽघ॒नम् । शया॑नम् ।
 
येन॑ । जि॒गाय॑ । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥९
 
इमम् । तम् । पश्य । वृषभस्य । युञ्जम् । काष्ठायाः । मध्ये । द्रुऽघनम् । शयानम् ।
 
येन । जिगाय । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । पृतनाज्येषु ॥९
 
कंचन सखायं सेनादिसहायाभावेन जयविषय उपहासं कुर्वाणं प्रति ब्रवीति । राजा द्रुघणेन वृषभेण चाजिं जिगायेत्युक्तवान् । पूर्वं वृषभो वर्णितः । अत्र द्रुघणो वर्ण्यते । हे सखे “तम् “इमं “द्रुघणं “पश्य । कीदृशमिममिति उच्यते । ‘ युजेरसमासे' ( पा. सू. ७. १. ७१ ) इति नुम् । “युञ्जम् । युज्यत इति युक् सखा । “वृषभस्य सखिभूतम् । वृषभो यावन्तमर्थं साधयति तावन्तमेव साधयन्तमित्यर्थः । पुनः कीदृशम् । “काष्ठाया “मध्ये । ‘ आज्यन्तोऽपि काष्ठोच्यते' (निरु. २.१५) इति निरुक्तम् । आज्यन्तस्य मध्ये। संग्राम इत्यर्थः । तत्र “शयानं हन्तव्यान् सर्वान् हत्वा सुखेन स्वपन्तं निर्व्यापारत्वेन वर्तमानम् । ईदृशं द्रुमसयं घनं पश्येत्यर्थः । “येन द्रुघणेन “शतवत् शतोपेतं “गवां “सहस्रं “पृतनाज्येषु संग्रामेषु “जिगाय अहमजैषं तमिमं पश्येति समन्वयः। जयतेर्लिट् । ‘ सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कुत्वम् । मिपो णल् ॥
पङ्क्तिः १८३:
आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊं॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ ।
 
न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥१०
 
आरे । अघा । कः । नु । इत्था । ददर्श । यम् । युञ्जन्ति । तम् । ऊं इति । आ । स्थापयन्ति ।
 
न । अस्मै । तृणम् । न । उदकम् । आ । भरन्ति । उत्ऽतरः । धुरः । वहति । प्रऽदेदिशत् ॥१०
 
यः "आरे समीप एव “अघा अघानि दुःखानि शत्रुरूपाणि करोति तं “कः नरः “नु इदानीम् “इत्था इत्थं “ददर्श पश्यति । किंच “यं द्रुघणं “युञ्जन्ति रथे “तमु तमेव “आ “स्थापयन्ति आरोहयन्तीत्यर्थः। अथवा । यं रथे युञ्जन्ति तमेव प्रहरणार्थमा स्थापयन्ति । उभयविधकार्यमेकः करोतीत्यर्थः । किंच “अस्मै “तृणं न “आ “भरन्ति नाहरन्ति । तथा “उदकं “न आहरन्ति । हृग्रहोर्भः इति भत्वम् । ईदृशो द्रुघणः “उत्तरः दक्षिणस्य वृषभस्य स्वयमुत्तरः सन् “धुरः रथभारस्य रथधुरं “वहति “प्रदेदिशित् प्रकर्षेण जयं स्वामिने प्रदिशन् शत्रूणां वा भयं प्रदिशन् वहति । ‘दिश अतिसर्जने' इत्यस्माद्यङ्लुगन्ताच्छतरि रूपम् ॥
पङ्क्तिः १९८:
प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् ।
 
ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥११
 
परिवृक्ताऽइव । पतिऽविद्यम् । आनट् । पीप्याना । कूचक्रेणऽइव । सिञ्चन् ।
 
एषऽएष्या । चित् । रथ्या । जयेम । सुऽमङ्गलम् । सिनऽवत् । अस्तु । सातम् ॥११
 
अत्र मुद्गलानी सारथिः स्तूयते । एषा मुद्गलानी “परिवृक्तेव। ' वृजी वर्जने'। परित्यक्ता पत्या पत्या' वियुक्ता योषिदिव । सा यथा “पतिविद्यम् । विद्यो वेद्यो लम्भनीयः। पतिश्चासौ विद्यश्च । पतिविद्यमानशे तद्वत्पतिविद्यम् “आनट् । आनड् व्याप्तिकर्मा । नशेर्लुङि' मन्त्रे घस' इति च्लेर्लुक् । ‘ छन्दस्यपि दृश्यते ' ( पा. सू. ६. ४. ७३) इत्यनजादीनामप्याडागमः । अश्नोतेर्वा लिटि तलोपश्छान्दसः । तथा पतिसमीपं सारथित्वेनागत्य “पीप्याना वर्धमाना भवति । किमिव । “कूचक्रेणेव “सिञ्चन् । कुः पृथिवी । तस्याश्चक्रो वलयः कूचक्रः । तेन वर्षणीयत्वेन निमित्तेन सिञ्चन् जलं वर्षन्मेघ इव । स यथान्तरिक्षे स्वल्पमात्रोऽपि वर्षणसमये महान्भवति तद्वदियमपि शत्रुमध्ये शरधारा वर्षन्ती वर्धत इत्यर्थः । तथा “एषैष्या। एषितव्यो गोसंघ एषः। तमिच्छतीस्येषैषी । ईदृश्या तया “रथ्या सारथिभूतया “जयेम शत्रुभिरपहृतं गोसंघम् । तस्याः “सातं दत्तं संभजनं वा "सुमङ्गलं शोभनमङ्गलवत् 'सिनवत् । सिनमन्नम् । तद्वच्च “अस्तु गोरूपान्नवच्च भवतु ॥
पङ्क्तिः २१३:
त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः ।
 
वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥१२
 
त्वम् । विश्वस्य । जगतः । चक्षुः । इन्द्र । असि । चक्षुषः ।
 
वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा ॥१२
 
सूक्तस्य विकल्पेनैन्द्रत्वादादाविन्द्रस्य स्तुतत्वादन्तेऽपीन्द्रः स्तूयते । हे “इन्द्र “त्वं “विश्वस्य सर्वस्य “जगतः “चक्षुषः चक्षुष्मतः पश्यतो वा जगतः “चक्षुः “असि । प्रत्येकमुत्पत्तिविशिष्टचक्षुःसद्भावेऽपि सर्वस्य साधारणं चक्षुरसि । त्वया दृष्टया द्रष्टव्यानैहिकामुष्मिकपदार्थान् पश्यन्तीत्यर्थः । त्वामेव हि यज्ञादिना लब्ध्वा पुरुषार्थान् साधयन्ति । यद्वा । विश्वस्य जगतो यन्निजं चक्षुरस्ति तस्यापि चक्षुषस्त्वं चक्षुरसि । “यत् यस्मात् “वृषा अभिमतवर्षकस्त्वम् “आजिं मुद्गलस्य मम संग्रामं “वध्रिणा पाशेन "युजा युजौ युक्तौ “वृषणा वृषणौ वर्षकावश्वौ रथे योजयित्वा “चोदयन् शत्रुषु प्रेरयन् “सिषाससि आजिं संभक्तुमिच्छसि तस्माच्चक्षुरसि ॥ ॥ २१ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०२" इत्यस्माद् प्रतिप्राप्तम्