"ऋग्वेदः सूक्तं १०.१०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०:
आ॒शुः । शिशा॑नः । वृ॒ष॒भः । न । भी॒मः । घ॒ना॒घ॒नः । क्षोभ॑णः । च॒र्ष॒णी॒नाम् ।
 
स॒म्ऽक्रन्द॑नः । अ॒नि॒ऽमि॒षः । ए॒क॒ऽवी॒रः । श॒तम् । सेनाः॑ । अ॒ज॒य॒त् । सा॒कम् । इन्द्रः॑ ॥१
 
आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् ।
 
सम्ऽक्रन्दनः । अनिऽमिषः । एकऽवीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥१
 
अयमिन्द्रः “आशुः शीघ्रकारी व्यापको वा “शिशानः निशितः । शत्रूणां भयजनक इत्यर्थः । क इव । “वृषभो “न “भीमः । बिभेत्यस्मादिति भीमः । तादृशो वृषभ इव । स यथा तीक्ष्णाभ्यां ऋङ्गाभ्यां भीमो भवति तद्वत् । अथवा शिशानस्तीक्ष्णमतिः । व्यत्ययेनात्मनेपदम् । वृषभो न भीमः वृषभो यथा शृङ्गाभ्यां भयजनकः तद्वच्छत्रूणाँ भयजनकश्च । “घनाघनः घातकः शत्रूणाम् । हन्तेः पचाद्यचि • हन्तेर्घश्च ' (पा.सू. ६.१.१२.७) इति द्विर्वचनमभ्यासस्याडागमो घत्वं च धात्वभ्यासयोः । “चर्षणीनाम् । चर्षणयो मनुष्याः । मनुष्याणां द्वेष्याणां “क्षोभणः क्षोभयिता । “संक्रन्दनः सम्यक्क्रन्दयिता प्राणिनामाकर्षणेन प्रहारेण वा । “अनिमिषः चक्षुर्निमेषरहितः । सर्वदा स्वयज्ञगमनयुद्धादिकार्येष्वनलस इत्यर्थः । “एकवीरः । वीरयत्यमित्रानति वीरः । एकश्चासौ वीरश्च । अथवा एक एव विक्रान्तः । असाहाय्येन कार्यक्षम इत्यर्थः । ईदृशोऽयम् “इन्द्रः “शतं “सेनाः “साकं सह एकोद्योगेनैव “अजयत् जयति ॥
पङ्क्तिः ६५:
स॒म्ऽक्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्ऽका॒रेण॑ । दुः॒ऽच्य॒व॒नेन॑ । धृ॒ष्णुना॑ ।
 
तत् । इन्द्रे॑ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः॑ । न॒रः॒ । इषु॑ऽहस्तेन । वृष्णा॑ ॥२
 
सम्ऽक्रन्दनेन । अनिऽमिषेण । जिष्णुना । युत्ऽकारेण । दुःऽच्यवनेन । धृष्णुना ।
 
तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥२
 
अस्तु नामेन्द्र उक्तविधः तथाप्यस्माकं किमिति चेत् तत्राह । “संक्रन्दनेनानिमिषेण चोक्तलक्षणेन “जिष्णुना जयशीलेन “युत्कारेण । योधनं युत् । युद्धकारिणा। कर्मण्यण् । “दुश्च्यवनेन अन्यैरविचाल्येन । ' च्युङ् प्रुङ् गतौ । छन्दसि गत्यर्थेभ्यः' (पा. सू. ३. ३. १२९ ) इति युच् । “धृष्णुना धर्षकेण ईदृशेन “इन्द्रेण “तत् युद्धं "जयत । “तत् शत्रुबलं “सहध्वम् अभिभवत । हे “युधः योद्धारो हे “नरः नेतारः । ‘ विभाषितं विशेषवचने बहुवचनम् ' (पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वनिषेधादुत्तरं निहन्यते । पुनः कीदृशेनेन्द्रेणेति । “इषुहस्तेन “वृष्णा वर्षित्रा च ॥
पङ्क्तिः ८०:
सः । इषु॑ऽहस्तैः । सः । नि॒ष॒ङ्गिऽभिः॑ । व॒शी । सम्ऽस्र॑ष्टा । सः । युधः॑ । इन्द्रः॑ । ग॒णेन॑ ।
 
सं॒सृ॒ष्ट॒ऽजित् । सो॒म॒ऽपाः । बा॒हु॒ऽश॒र्धी । उ॒ग्रऽध॑न्वा । प्रति॑ऽहिताभिः । अस्ता॑ ॥३
 
सः । इषुऽहस्तैः । सः । निषङ्गिऽभिः । वशी । सम्ऽस्रष्टा । सः । युधः । इन्द्रः । गणेन ।
 
संसृष्टऽजित् । सोमऽपाः । बाहुऽशर्धी । उग्रऽधन्वा । प्रतिऽहिताभिः । अस्ता ॥३
 
पूर्वमन्त्र इन्द्रेण जयत इत्युक्तम् । अत्र इन्द्रस्य जयसाधनसमर्थत्वं दर्शयति । “सः इन्द्रः “इषुहस्तैः भटैः मरुदादिभिः “वशी वश्यैस्तद्वान् । तथा “निषङ्गिभिः युक्तः। निषङ्गः खड्गः। तद्वद्भिः “वशी । “सः च “इन्द्रः “युधः युध्यमानः सन् । इगुपधलक्षणः कः । अथवा युधो युद्धहेतोः “गणेन शत्रुसंघेन सह “संस्रष्टा एकीभवनशीलः । यत एवंविधोऽतः “संसृष्टजित् । ये परस्परैकमत्येन युद्धाय संसृष्टा भवन्ति तेषां जेता । तथा “सोमपाः सोमस्य पाता। “बाहुशर्धी । शर्धो बलम् । बाह्वोर्बलं बाहुबलम् । तद्वान् । मत्वर्थीय इनिः । यद्वा । ‘ शृधु प्रसहने ' । बाहुभ्यां शर्धयत्यभिभवतीति बाहुशर्धी। ‘ सुप्यजातौ णिनिस्ताच्छील्ये' (पा. सू. ३. २. ७८ ) इति णिनिः। “उग्रधन्वा उद्यतधन्वा “प्रतिहिताभिः शत्रुषु प्रेरिताभिरिषुभिः “अस्ता मारयिता । यत्रेषून्मुञ्चति तत्र वृथा न भवन्तीत्यर्थः । ईदृशेनेन्द्रेण जयतेति संबन्धः ॥
पङ्क्तिः ९५:
बृह॑स्पते । परि॑ । दी॒य॒ । रथे॑न । र॒क्षः॒ऽहा । अ॒मित्रा॑न् । अ॒प॒ऽबाध॑मानः ।
 
प्र॒ऽभ॒ञ्जन् । सेनाः॑ । प्र॒ऽमृ॒णः । यु॒धा । जय॑न् । अ॒स्माक॑म् । ए॒धि॒ । अ॒वि॒ता । रथा॑नाम् ॥४
 
बृहस्पते । परि । दीय । रथेन । रक्षःऽहा । अमित्रान् । अपऽबाधमानः ।
 
प्रऽभञ्जन् । सेनाः । प्रऽमृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम् ॥४
 
हे “बृहस्पते बृहतां पात: पालयितर्देव “रथेन “परि “दीय परिगच्छ । दीयतिर्गतिकर्मा। आगत्य च “रक्षोहा रक्षसां हन्ता “अमित्रान् शत्रून् “अपबाधमानः सर्वतो नाशयन् तथा “सेनाः शत्रुसंबन्धिनीः “प्रभञ्जन प्रकर्षेण नाशयन् “प्रमृणः प्रकर्षेण हिंसन् । “ मृण हिंसायाम् । इगुपधलक्षणः कः । केन हिंसन् । “युधा युद्धेन । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम्। "जयन् एवं सर्वत्र जयं प्रतिपद्यमानः ईदृशस्त्वम् “अस्माकं “रथानाम् अविता “एधि भव ॥
पङ्क्तिः ११०:
ब॒ल॒ऽवि॒ज्ञा॒यः । स्थवि॑रः । प्रऽवी॑रः । सह॑स्वान् । वा॒जी । सह॑मानः । उ॒ग्रः ।
 
अ॒भिऽवी॑रः । अ॒भिऽस॑त्वा । स॒हः॒ऽजाः । जैत्र॑म् । इ॒न्द्र॒ । रथ॑म् । आ । ति॒ष्ठ॒ । गो॒ऽवित् ॥५
 
बलऽविज्ञायः । स्थविरः । प्रऽवीरः । सहस्वान् । वाजी । सहमानः । उग्रः ।
 
अभिऽवीरः । अभिऽसत्वा । सहःऽजाः । जैत्रम् । इन्द्र । रथम् । आ । तिष्ठ । गोऽवित् ॥५
 
सर्वस्य भूतस्य बलं विजानातीति “बलविज्ञायः । यद्वा । बलं ममायमिति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः । सर्वस्य बलभूत इत्यर्थः । “स्थविरः महान् “प्रवीरः प्रकर्षेण वीरः “सहस्वान् पराभिभवसामर्थ्यवान् “वाजी वेजनवानन्नवान्वा “सहमानः शत्रूणामभिभविता “उग्रः उद्गूर्णबलः "अभिवीरः । अभिगता वीरा वीर्यवन्तोऽनुचरा यस्य स तथोक्तः । “अभिसत्वा अभिगतसत्वा “सहोजाः सहसो बलाज्जातः एवंमहानुभावस्त्वं हे “इन्द्र “जैत्रं जयशीलं “रथम् “आ “तिष्ठ अस्मत्सहायार्थमारोढुमर्हसि । त्वं च "गोवित् उदकस्य स्तुतेर्वा लब्धा वेदिता वा ॥
पङ्क्तिः १२५:
गो॒त्र॒ऽभिद॑म् । गो॒ऽविद॑म् । वज्र॑ऽबाहुम् । जय॑न्तम् । अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा ।
 
इ॒मम् । स॒ऽजा॒ताः॒ । अनु॑ । वी॒र॒य॒ध्व॒म् । इन्द्र॑म् । स॒खा॒यः॒ । अनु॑ । सम् । र॒भ॒ध्व॒म् ॥६
 
गोत्रऽभिदम् । गोऽविदम् । वज्रऽबाहुम् । जयन्तम् । अज्म । प्रऽमृणन्तम् । ओजसा ।
 
इमम् । सऽजाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । अनु । सम् । रभध्वम् ॥६
 
“गोत्रभिदम् । गा उदकानि त्रायन्त इति गोत्रा मेघाः । यद्वा गौर्भूमिः । तां त्रायन्त इति गोत्राः पर्वताः। तेषां भेत्तारं “गोविदम् उदकस्य लब्धारं “वज्रबाहुं वज्रहस्तम्। 'प्रहरणार्थेभ्यः (पा. सू. २. २. ३६. ४) इति परनिपातः । “जयन्तं जयनशीलम् "अज्म गमनशीलं शत्रुबलम् “ओजसा बलेन जयन्तं यद्वा अज्म आजिं जयन्तमोजसा बलेन “प्रमृणन्तं शत्रूनभिभवन्तमीदृशं महानुभावम् “इमम् इन्द्रं हे “सजाताः सहोत्पन्ना योद्धारो यूयम् “अनु वीरयध्वम् । एनमग्रतः कृत्वानु पश्चाद्वीरयध्वं वीरकर्मं युद्धं कुरुध्वम् । ‘शूर वीर विक्रान्तौ । वीरशब्दात् ‘तत्करोति तदाचष्टे इति णिच् । हे “सखायः परस्परं सखिभूता यूयमिमम् "इन्द्रं संरभमाणम् “अनु “सं “रभध्वम्॥॥२२॥
पङ्क्तिः १४०:
अ॒भि । गो॒त्राणि॑ । सह॑सा । गाह॑मानः । अ॒द॒यः । वी॒रः । श॒तऽम॑न्युः । इन्द्रः॑ ।
 
दुः॒ऽच्य॒व॒नः । पृ॒त॒ना॒षाट् । अ॒यु॒ध्यः । अ॒स्माक॑म् । सेनाः॑ । अ॒व॒तु॒ । प्र । यु॒त्ऽसु ॥७
 
अभि । गोत्राणि । सहसा । गाहमानः । अदयः । वीरः । शतऽमन्युः । इन्द्रः ।
 
दुःऽच्यवनः । पृतनाषाट् । अयुध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्ऽसु ॥७
 
अयम् “इन्द्रः “गोत्राणि अभ्राणि मेघान “सहसा बलेन “अभि “गाहमानः प्रविशन् “अदयः निर्दयः "वीरः विक्रान्तः “शतमन्युः बहुयज्ञो बहुक्रोधो वा दुश्च्यवनः अन्यैरचाल्यः । स्वयं “पृतनाषाट् शत्रुसेनानामभिभविता । छन्दसि सहः' इति ण्विः । ‘ सहेः साडः सः' इति मूर्धन्यादेशः । “अयुध्यः संप्रहर्तुमशक्यः । ‘ युध संप्रहारे । छान्दसः क्यप् । ईदृगिन्द्रः “अस्माकं “सेनाः “युत्सु संग्रामेषु “प्र “अवतु प्रकर्षेण रक्षतु ॥
पङ्क्तिः १५५:
इन्द्रः॑ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः॑ । दक्षि॑णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः॑ ।
 
दे॒व॒ऽसे॒नाना॑म् । अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम् । जय॑न्तीनाम् । म॒रुतः॑ । य॒न्तु॒ । अग्र॑म् ॥८
 
इन्द्रः । आसाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः ।
 
देवऽसेनानाम् । अभिऽभञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम् ॥८
 
“आसाम् अस्मत्सहायार्थमागतानाम् अयम् “इन्द्रः “नेता नायकोऽस्तु । तथा तस्य “बृहस्पतिः “पुर “एतु । एवं “दक्षिणा ““यज्ञः सोमः च पुर एत्विति प्रत्येकं संबन्धः । तथा “देवसेनानामभिभञ्जतीनाम् अस्मदमित्रानाभिमुख्येन मर्दयन्तीनां “जयन्तीनाम् । 'छन्दसि' इति नाम उदात्तत्वं जयन्तीनामित्यत्र बहुलवचनान्न भवति ( पा. सू. ६. १. १७८)। तासाम् “अग्रं “मरुतो “यन्तु गच्छन्तु ॥
पङ्क्तिः १७०:
इन्द्र॑स्य । वृष्णः॑ । वरु॑णस्य । राज्ञः॑ । आ॒दि॒त्याना॑म् । म॒रुता॑म् । शर्धः॑ । उ॒ग्रम् ।
 
म॒हाऽम॑नसाम् । भु॒व॒न॒ऽच्य॒वाना॑म् । घोषः॑ । दे॒वाना॑म् । जय॑ताम् । उत् । अ॒स्था॒त् ॥९
 
इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् ।
 
महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥९
 
“वृष्णः वर्षकस्य “इन्द्रस्य “राज्ञः “वरुणस्य “आदित्यानां “मरुतां च "उग्रम् उद्गूर्णं “शर्धः बलमस्माकं भवत्विति शेषः। किंच “महामनसाम् उदारमनसां “भुवनच्यवानां भुवनानां च्यावयितॄणां देवानां “घोषः जयशब्दः “उदस्थात् उत्तिष्ठति । अनूर्ध्वकर्मत्वादात्मनेपदाभावः। ( पा. सू. १. ३. २४ ) ॥
पङ्क्तिः १८५:
उत् । ह॒र्ष॒य॒ । म॒घ॒ऽव॒न् । आयु॑धानि । उत् । सत्व॑नाम् । मा॒म॒काना॑म् । मनां॑सि ।
 
उत् । वृ॒त्र॒ऽह॒न् । वा॒जिना॑म् । वाजि॑नानि । उत् । रथा॑नाम् । जय॑ताम् । य॒न्तु॒ । घोषाः॑ ॥१०
 
उत् । हर्षय । मघऽवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनांसि ।
 
उत् । वृत्रऽहन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥१०
 
हे “मघवन् इन्द्र अस्मदीयानि “आयुधानि “उद्धर्षय उत्कृष्टं हर्षय । प्रहरणेषूद्युक्तानि भवन्वित्यर्थः। “मामकानां मदीयानां “सत्वनां प्राणिनां सैनिकानां “मनांसि च “उत् हर्षय । हे “वृत्रहन् इन्द्र “वाजिनाम् अश्वानां “वाजिनानि वेगाः “उत् “यन्तु । तथा “जयतां “रथानां “घोषाः “उत् यन्तु ॥
पङ्क्तिः २००:
अ॒स्माक॑म् । इन्द्रः॑ । सम्ऽऋ॑तेषु । ध्व॒जेषु॑ । अ॒स्माक॑म् । याः । इष॑वः । ताः । ज॒य॒न्तु॒ ।
 
अ॒स्माक॑म् । वी॒राः । उत्ऽत॑रे । भ॒व॒न्तु॒ । अ॒स्मान् । ऊं॒ इति॑ । दे॒वाः॒ । अ॒व॒त॒ । हवे॑षु ॥११
 
अस्माकम् । इन्द्रः । सम्ऽऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु ।
 
अस्माकम् । वीराः । उत्ऽतरे । भवन्तु । अस्मान् । ऊं इति । देवाः । अवत । हवेषु ॥११
 
“अस्माकं संबन्धिष्वेव “समृतेषु परसेनां संप्राप्तेषु “ध्वजेषु ध्वजवत्सु सैनिकेषु “इन्द्रः रक्षिता भवतु । तथा “अस्माकं “या “इषवः सन्ति “ताः एव “जयन्तु शत्रून् । तथा “अस्माकं “वीराः भटाः “उत्तरे उपरि “भवन्तु । हे “देवाः “अस्माँ “उ अस्मानेव “अवत रक्षत “हवेषु संग्रामेषु ॥
पङ्क्तिः २१५:
अ॒मीषा॑म् । चि॒त्तम् । प्र॒ति॒ऽलो॒भय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ ।
 
अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्ऽसु । शोकैः॑ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् ॥१२
 
अमीषाम् । चित्तम् । प्रतिऽलोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि ।
 
अभि । प्र । इहि । निः । दह । हृत्ऽसु । शोकैः । अन्धेन । अमित्राः । तमसा । सचन्ताम् ॥१२
 
हे “अप्वे पापाभिमानिनि देवते "अमीषां योद्धृणां शत्रूणां “चित्तं “प्रतिलोभयन्ती विमोहयन्ती सती “अङ्गानि तेषामवयवान् शिरआदिकान् गृहाण स्वीकुरु। “अभि “प्रेहि “अभिगच्छ। तेषां समीपं गत्वा च "हृत्सु हृदयेषु “शोकैः “निर्दह नितरां भस्मीकुरु । ते “अमित्राः अस्मच्छत्रवः “अन्धेन “तमसा “सचन्तां संगच्छन्ताम् ॥
पङ्क्तिः २३०:
प्र । इ॒त॒ । जय॑त । न॒रः॒ । इन्द्रः॑ । वः॒ । शर्म॑ । य॒च्छ॒तु॒ ।
 
उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः॑ । अ॒ना॒धृ॒ष्याः । यथा॑ । अस॑थ ॥१३
 
प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु ।
 
उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । यथा । असथ ॥१३
 
हे “नरः नेतारः संग्रामस्य निर्वोढारो योद्धारः “प्रेत प्रकर्षेण गच्छत ! गत्वा च "जयत तान्प्रतिभटान् । तिङः परत्वात् ' तिङ्ङतिङः' इति निघाताभावः। “वः युष्माकम् “इन्द्रः “शर्म सुखं “यच्छतु प्रयच्छतु । “वः “बाहवः “उग्रा: उद्गूर्णबलाः “सन्तु भवन्तु । “अनाधृष्याः अन्यैरनभिभाव्याः “यथा यूयम् "असथ भविष्यथ तथोग्राः सन्तु वो बाहवः ॥ ॥ २३ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०३" इत्यस्माद् प्रतिप्राप्तम्