"ऋग्वेदः सूक्तं १०.१८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
प्र । नू॒नम् । जा॒तऽवे॑दसम् । अश्व॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ।
 
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥१
 
प्र । नूनम् । जातऽवेदसम् । अश्वम् । हिनोत । वाजिनम् ।
 
इदम् । नः । बर्हिः । आऽसदे ॥१
 
"जातवेदसं जातानां वेदितारं जातधनादिकं वा “अश्वं कर्मभिर्व्याप्नुवन्तं “वाजिनम् अन्नवन्तं हे ऋत्विग्यजमानाः “नूनम् अवश्यं “प्र “हिनोत प्रवर्धयत । यद्वा । अश्वमिव स्तुतिभिः प्रेरयत । ‘ हि गतौ वृद्धौ च ' । अस्माल्लोटि तशब्दस्य ‘ तप्तनप्तनथनाश्च ' इति तबादेशः । किमर्थम् । “नः अस्माकम् “इदं “बर्हिः आस्तीर्णम् “आसदे आसत्तुं प्राप्तुम् । बर्हिरासीदत्वित्यर्थः ॥ सदेः ‘कृत्यार्थे तवैकेन्” इति केन्प्रत्ययः ॥
पङ्क्तिः ४६:
अ॒स्य । प्र । जा॒तऽवे॑दसः । विप्र॑ऽवीरस्य । मी॒ळ्हुषः॑ ।
 
म॒हीम् । इ॒य॒र्मि॒ । सु॒ऽस्तु॒तिम् ॥२
 
अस्य । प्र । जातऽवेदसः । विप्रऽवीरस्य । मीळ्हुषः ।
 
महीम् । इयर्मि । सुऽस्तुतिम् ॥२
 
“जातवेदसः जाताना वेदितुः “विप्रवीरस्य । विप्रा मेधाविनो यजमाना वीराः पुत्रा यस्य ।। तादृशस्य “मीळ्हुषः सेक्तुः “अस्य अग्नेः “महीं महतीं “सुष्टुतिं शोभनां स्तुतिं “प्र “इयर्मि प्रेरयामि ॥ ‘ऋ ‘ गतौ । जौहोत्यादिकः । ‘अर्तिपिपर्त्योश्च' इत्यभ्यासस्येत्वम् ॥
पङ्क्तिः ६१:
याः । रुचः॑ । जा॒तऽवे॑दसः । दे॒व॒ऽत्रा । ह॒व्य॒ऽवाह॑नीः ।
 
ताभिः॑ । नः॒ । य॒ज्ञम् । इ॒न्व॒तु॒ ॥३
 
याः । रुचः । जातऽवेदसः । देवऽत्रा । हव्यऽवाहनीः ।
 
ताभिः । नः । यज्ञम् । इन्वतु ॥३
 
“जातवेदसः अग्नेः “याः “रुचः रोचमानाः कालीकालीप्रभृतयः सप्त जिह्वाः “देवत्रा देवान् प्रति ॥ ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यः' ( पा.सू. ५.४.५६ ) इत्यादिना द्वितीयाथें त्राप्रत्ययः ॥ “हव्यवाहनीः हव्यानां हविषां वोढ्र्यः प्रापयित्र्यो भवन्ति ॥ ‘वा छन्दसि ' इति जसि पूर्वसवर्णदीर्घः ॥ “ताभिः जिह्वाभिः “नः अस्माकं “यज्ञं यागसाधनं हविः “इन्वतु देवान् प्रापयतु । ‘इवि व्याप्तौ'। इदित्त्वान्नुम् ॥ ॥ ४६ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८८" इत्यस्माद् प्रतिप्राप्तम्